#################################################### MUKTABODHA INDOLOGICAL RESEARCH INSTITUTE Use of this material (e-texts) is covered by Creative Commons license BY-NC 4.0 Catalog number: M00361 Uniform title: nāṭyaśāstram Vol. 2 Main title: nāṭyaśaāstram with the commentary of Abhinavagupta ch. 8 - 18 Commentator : abhinavagupta Editor : M. Ramakrishna Kavi Editor : K. S. Ramaswami Shastri Description: Gaekwads Oriental Series no. 68 edited by M. Ramakrishna Kavi second revised edition by K. S. Ramaswami Shastri Notes: Data entered by the staff of Muktabodha under the supervision of Mark S. G. Dyczkowski. Revision 0: Oct. 2, 2016 Publisher : Oriental Institute Publication year : 1934 Publication city : Baroda Publication country : India #################################################### श्री नाट्यशास्त्रम् अष्टमोऽध्यायः | ऋषय ऊचुः भावानां च रसानां च समुत्थानं यथाक्रमम् | त्वत्प्रसादाच्छ्रुतं सर्वमिच्छामो वेदितुं पुनः || १ || नाट्ये कतिविधः कार्यस्तज्ञैरभिनयक्रमः | कथं वाभिनयो ह्येष कतिभेदश्च कीर्तितः || २ || सर्वमेतद्यथातत्त्वं कथयस्व महामुने | यो यथाभिनयो यस्मिन्योक्तव्यः सिद्धिमिच्छता || ३ || तेषां तद्वचनं श्रुत्वा मुनीनां भरतो मुनिः | प्रत्युवाच पुनर्वाक्यं चतुरोऽभिनयान्प्रति || ४ || अहं वः कथयिष्यामि निखिलेन तपोधनाः | यस्मादभिनयो ह्येष विधिवत्समुदाहृतः || ५ || यदुक्तं चत्वारोऽभिनया इति तान्वर्तयिष्यामः अत्राह - अभिनय इति कस्मात् | अत्रोच्यते - अभित्युपसर्गः | प्. २) णीञित्ययं धातुः प्रापणार्थः | अस्याभिनीत्येवं व्यवस्थितस्य एरजित्यच्प्रत्ययान्तस्याभिनय इति रूपं सिद्धम् | एतच्च धात्वर्थवानेनावधार्यम् | अत्र श्लोकौ - || ६ || अभिपूर्वस्तु णी~धातुराभिमुख्यार्थनिर्णये | यस्मात्प्रयोगं नयति तस्मादभिनयः स्मृतः || ७ || विभावयति यस्माच्च नानार्थान्हि प्रयोगतः | शाखाङ्गोपाङ्ग संयुक्तस्तस्मादभिनयः स्मृतः || ८ || चतुर्विधश्चैष भवेन्नाट्यस्याभिनयो द्विजाः | अनेकभेदबहुलं नाट्यमस्मिन्प्रतिष्ठितम् || ९ || आङ्गिको वाचिकश्चैव ह्याहार्यः सात्विकस्तथा | ज्ञेयस्त्वभिनयो विप्राश्चतुर्धा परिकीर्तितः || १० || सात्त्विकः पूर्वौक्तस्तु भावैश्च सहितो मया | अङ्गाभिनयमेवादौ गदतो मे निबोधत || ११ || प्. ३) त्रिविधस्त्वाङ्गिको ज्ञेयः शारीरो मुखजस्तथा | तथा चेष्टाकृतश्चैव शाखाङ्गोपाङ्गसंयुतः || १२ || शिरोहस्तकटीवक्षःपार्श्वपादसमन्वितः | अङ्गप्रत्यङ्गसंयुक्तः षडङ्गो नाट्यसंग्रहः || १३ || तस्य शिरोहस्तोरः पार्श्वकटीपादतः षडङ्गानि | नेत्रभ्रूनासाधर कपोलचिबुकान्युपाङ्गानि || १४ || अस्य शाखा च नृत्तं च तथैवाङ्कुर एव च | वस्तून्यभिनयस्येह विज्ञेयानि प्रयोक्तृभिः || १५ || आङ्गिकस्तु भवेच्छाखा ह्यङ्कुरः सूचना भवेत् | अङ्गहारविनिष्पन्नं नृत्तं तु करणाश्रयम् || १६ || मुखजेऽभिनये विप्रा नानाभावरसाश्रये | शिरसः प्रथमं कर्म गदतो मे निबोधत || १७ || आकम्पितं कम्पितं च धुतं विधुतमेव च | परिवाहितमाधूतमवधूतं तथाञ्चितम् || १८ || निहञ्चितं परावृत्तमुत्क्षिप्तं चाप्यधोगतम् | लोलितं चेति विज्ञेयं त्रयोदशविधं शिरः || १९ || प्. ४) शनैराकम्पनादूर्ध्वमधश्चाकम्पितं भवेत् | द्रुतं तदेव बहुशः कम्पितं कम्पितं शिरः || २० || (ऋजुस्थितस्य चोर्ध्वाधःक्षेपादाकम्पितं भवेत् | बहुशश्चलितं यच्च तत्कम्पितमिहोच्यते ||) || २१ || संज्ञोपलम्भप्रश्नेषु स्वभावाभाषणे तथा | निर्देशावाहने चैव भवेदाकम्पितं शिरः || २२ || रोषे वितर्के विज्ञाने प्रतिज्ञानेऽथ तर्जने | प्रश्नातिशयवाक्येषु शिरः कम्पितमिष्यते || २३ || शिरसो रेचनं सम्यक्छनैस्तद्धुतमिष्यते | द्रुतमारेचनादेतद्विधुतं तु भवेच्छिरः || २४ || अनीप्सिते विषादे च विस्मये प्रत्यये तथा | पार्श्वावलोकने शून्ये प्रतिषेधे धुतं शिरः || २५ || शीतग्रस्ते भयार्ते च त्रासिते ज्वरिते तथा | पीतमात्रे तथा मद्ये विधुतं तु भवेच्छिरः || २६ || पर्यायशः पार्श्वंगत शिरः स्यात्परिवाहितम् | प्. ५) आधूतमुच्यते तिर्यक्सद्कृदुद्वाहितं तु यत् || २७ || साधने विस्मये हर्षे स्मृते चामर्षिते तथा | विचारे विहृते चैव लीलायां परिवाहितम् || २८ || गर्वेच्छादर्शने चैव पार्वस्थोर्ध्वनिरीक्षणे | आधूतं तु शिरो ज्ञेयमात्मसंभावनादिषु || २९ || यदधः सकृदाक्षिप्तमवधूतं तु तच्छिरः | संदेशावाहनालोपसंज्ञादिषु तदिष्यते || ३० || किञ्चित्पार्श्वनतग्रीवं शिरो विज्ञेयमञ्चितम् | व्याधिते मूर्छिते मत्ते चिन्तायां हनुधारणे || ३१ || उत्क्षिप्तांसावसक्तं यत्कुञ्चितभ्रूलतं मनाक् | निहञ्चितं तु विज्ञेयं स्त्रीणामेतत्प्रयोजयेत् || ३२ || गर्वे माने विलासे च बिब्बोके किलिकिञ्चिते | प्. ६) मोट्टायिते कुट्टमिते स्तम्भे माने निहञ्चितम् || ३३ || परावृत्तानुकरणात्परावृत्तमिहोच्यते | तत्स्यान्मुखापहरणे पृष्ठतः प्रेक्षणादिषु || ३४ || उत्क्षिप्तं चापि विज्ञेयमुन्मुखावस्थितं शिरः | प्रांशुदिव्यार्थयोगेषु स्यादुत्क्षिप्तं प्रयोगतः || ३५ || अवाङ्मुखस्थितञ्चापि बुधाः प्राहुरधोगतम् | लज्जायां च प्रणामे च दुःखे चाधोगतं शिरः || ३६ || सर्वतोभ्रमणाच्चैव शिरो लोलितमुच्यते | मूर्छाव्याधिमदावेशग्रहनिद्रादिषु स्मृतम् || ३७ || (ऋजुस्वभावसंस्थानं प्राकृतं तु स्वभावजम् | मङ्गल्याध्ययनध्यानस्वभावजयकर्मसु ||) || ३८ || एभ्योऽन्ये बहवो भेदा लोकाभिनयसंश्रयाः | ते च लोकस्वभावेन प्रयोक्तव्याः प्रयोक्तृभिः || ३९ || त्रयोदशविधं ह्येतच्छिरः कर्म मयोदितम् | अतः परं प्रवक्ष्यामि दृष्टीनामपि लक्षणम् || ४० || प्. ७) कान्ता भयानका हास्या करुणा चाद्भुता तथा | रौद्री वीरा च बीभत्सा विज्ञेया रसदृष्टयः || ४१ || स्निग्धा हृष्टा च दीना च क्रुद्धा दृप्ता भयान्विता | जुगुप्सिता विस्मिता च स्थायिभावेषु दृष्टयः || ४२ || शून्या च मलिना चैव श्रान्ता लज्जान्विता तथा | ग्लाना च शङ्किता चैव विषण्णा मुकुला तथा || ४३ || कुञ्चिता चाभितप्ता च जिह्मा सललिता तथा | वितर्कितार्धमुकुला विभ्रान्ता विप्लुता तथा || ४४ || आकेकरा विकोशा च त्रस्ता च मदिरा तथा | षट्त्रिंशद्दृष्टयो ह्येतास्तासु नाट्यं प्रतिष्ठितम् || ४५ || अस्य दृष्टिविधानस्य नानाभावरसाश्रयम् | लक्षणं संप्रवक्ष्यामि यथाकर्मप्रयोगतः || ४६ || हर्षप्रसादजनिता कान्तात्यर्थं समन्मथा | सभ्रूक्षेपकटाक्षा च शृङ्गारे दृष्टिरिष्यते || ४७ || पोद्वृत्तनिष्टब्धपुटा स्फुरदुद्वृत्ततारका | दृष्टिर्भयानकात्यर्थं भीता ज्ञेया भयानके || ४८ || क्रमादाकुञ्चितपुटा सविभ्रान्ताल्पतारका | प्. ८) हास्या दृष्टिस्तु कर्तव्या कुहकाभिन्यं प्रति || ४९ || पतितोर्ध्वपुटा सास्रा मन्युमन्थरतारका | नासाग्रानुगता दृष्टिः करुणा करुणे रसे || ५० || या त्वाकुञ्चितपक्ष्माग्रा साश्चर्योद्वृत्ततारका | सौम्या विकसितान्ता च साद्भुता दृष्टिरद्भुते || ५१ || क्रूरा रूक्षारुणोद्वृत्ता निष्टब्धपुटतारका | भ्रुकुटीकुटिला दृष्टि रौद्री रौद्ररसे स्मृता || ५२ || दीप्ता विकसिता क्षुब्धा गम्भीरा समतारका | उत्फुल्लमध्या दृष्टिस्तु वीरा वीररसाश्रया || ५३ || निकुञ्चितपुटापाङ्गा घूर्णोपप्लुततारका | संश्लिष्टस्थिरपक्ष्मा च बीभत्सा दृष्टिरिष्यते || ५४ || नासाग्रसक्तानिमिषा तथाधोभागचारिणी | आकेकरपुटा चैव शान्ता दृष्टिर्भवेदसौ ||) || ५५ || रसजा दृष्टयो ह्येता विज्ञेया लक्षणान्विताः | अतः परं लक्षयिष्ये स्थायिभावसमाश्रयाः || ५६ || व्याकोशमध्या मधुरा स्थिरताराभिलाषिणी | सानन्दभ्रूलता दृष्टिः स्निग्धेयं रतिभावजा || ५७ || प्. ९) चला हसितगर्भा च विशत्तारानिमेषिणी | किल्विदाकुञ्चिता हृष्टा दृष्टिर्हासे प्रकीर्तिता || ५५ || अन्*?त्स्रस्तोत्तरपुटा रुद्धतारा जलाविला | मन्वम्सिञ्चारिणी दीना सा शोके दृष्टिरुच्यते || ५६ || रू*? स्थिरोद्वुत्तपुटा निष्टधोद्वृत्ततारका | कु *? रभ्रुकुटी दृष्टिः क्रुद्धा क्रोधे विधीयते || ५७ || सं *?न्म तारके यस्याः स्थिरा विकसिता तथा | स *? त कदेरती दृप्ता दृष्टिरुत्साहसंभवा || ५८ || विधोमतोभयपुटा भयकम्पिततारका | निष्क्रान्सध्या दृष्टिस्तु भयभावे भयान्विता || ५९ || संकोचि * टाध्यासा दृष्टिर्मीलिततारका | लक्षोद्देशसमुद्विग्ना जुगुप्सायां जुगुप्सिता || ६० || भृशमुद्व्. *? रात्र नष्टोभयपुटञ्चिता | समा वि *? तादृष्टिर्विस्मिता विस्मये स्मृता || ६१ || स्थायिभा *? या ह्येता विज्ञेया दृष्टयो बुधैः | सञ्चारिणी *? दृष्टीनां संप्रवक्ष्यामि लक्षणम् || ६२ || प्. १०) समतारा समपुटा निष्कम्पा शून्यदर्शना | बाह्यार्थाग्राहिणी ध्यासा शून्यादृष्टिः प्रकीर्तिता || प्रस्पन्दमानपक्ष्मा या नात्यर्थमुकुलैः पुटैः | मलिनान्ता च मलिना दृष्टिर्विभ्रान्ततारका || ६४ || श्रमात्प्रम्लापितपुटा क्षामान्ताञ्चितलोचना | सन्ना पतिततारा च श्रान्ता दृष्टिः प्रकीर्तिता || ६५ || किञ्चिदञ्चितपक्ष्माग्रा पतितोर्ध्वपुटा ह्रिया | त्रपाधोगततारा च दृष्टिर्लज्जान्विता तु का || ६६ || म्लानभ्रूपुटपक्ष्मा या शिथिला मन्दचा * *? | क्रमप्रविष्टतारा च ग्लाना दृष्टिस्तु सा स्मृता || ६७ || किञ्चिच्चला स्थिरा किञ्चिदुद्गता तिर्यगामता | मूढाचकिततारा च शङ्किता दृष्टिरिष्यते || ६८ || विषादविस्तीर्णपुटा पर्यस्तान्ता निमेष्णी | किञ्चिन्निष्टब्धतारा च कार्या दृष्टिर्विषादिनी || ६९ || स्फुरदाश्लिष्टपक्ष्मार्धा मुकुलोर्ध्वपुटञ्चिता | सुखोन्मीलिततारा च मुकुला दृष्टिम्रियते || ७० || आनिकुञ्चितपक्ष्माग्रा पुटैराकुञ्चितैस्तथा | प्. ११) सन्ना कुञ्चिततारा च कुञ्चिता दृष्टिरिष्यते || ७१ || मन्दायमानतारा या पुटैः प्रचलितैस्तथा | सन्तापोपप्लुता द्र्ष्टिरभितप्ता तु सव्यथा || ७२ || लम्बिता कुञ्चितपुटा शनैस्तिर्यङ्निरीक्षणैः | निगूढा गूढतारा च जिह्मा दृष्टिरुदाहृता || ७३ || मधुरा कुञ्चितान्ता च सभ्रूक्षेपा च सस्मिता | समन्मथविकारा च दृष्टिः सा ललिता स्मृता || ७४ || वितर्कोद्वतितपुटा तथैवोत्फुल्लतारका | अधोमुखविकारा च दृष्टिरेषा वितर्किता || ७५ || अर्धव्याकोशपक्ष्मा च ह्लादार्धमुकुलैः पुटः | स्मृतार्धौकुला दृष्टिः किञ्चिल्लुलिततारका || ७६ || अनवस्थिततारा च विभ्रान्ताकुलदर्शना | विस्तीर्णोत्फुल्लनेत्रा च विभ्रान्ता दृष्टिरिष्यते || पुटौ प्रस्फुरितौ यस्य निष्टब्धौ पतितौ पुनः | विप्लुतोद्वृत्ततारा च दृष्टिरेषा तु विप्लुता || ७८ || आकुञ्चितपुटापाङ्गा सङ्गतार्धनिमेषिणी | प्. १२) मुहुर्व्यावृत्ततारा च दृष्टिराकेकरा स्मृता || ७९ || विकोशितोभयपुटा प्रोत्फुल्ला चानिमेषिणी | अनवस्थिततारा च विकोशा दृष्टिरिष्यते || ८० || त्रासोद्वृत्तपुटा या तु तथोत्कम्पिततारका | संत्रासोत्फुल्लमध्या च त्रस्ता दृष्टिरुदाहृता || ८१ || आघूर्णमानमध्या या क्षामान्ताञ्चितलोचना | दृष्टिर्विकसितापाङ्गा मदिरा तरुणे मदे || ८२ || किञ्चिदाकुञ्चितपुटा किञ्चिल्लुलिततारका | अनवस्थितसञ्चारा दृष्टिर्मध्यमदे भवेत् || ८३ || सनिमेषाऽनिमेषा च किञ्चिद्दर्शिततारका | अधोभागचरी दृष्टिरधमे तु मदे स्मृता || ८४ || इत्येवं लक्षिता ह्येषाः षट्त्रिशद्दृष्टयो मया | सहजा भावजाश्चासां विनियोगं निबोधत || ८५ || रसजास्तु रसेष्वेव स्थायिषु स्थायिदृष्टयः | शृणुत व्यभिचारिण्यः सञ्चारिषु यथास्थिताः || ८६ || प्. १३) शून्या दृष्टिस्तु चिन्तायामभितप्तापि कीर्तिता | निर्वेदे चापि मलिना वैवर्ण्ये च विधीयते || ८७ || श्रान्ता श्रमार्ते स्वेदे च लज्जायां ललिता तथा | अपस्मारे तथा व्याधौ ग्लान्यां ग्लाना विधीयते || शङ्कायां शङ्किता ज्ञेया विषादार्थे विषादिनी | निद्रास्वप्नसुखार्थेषु मुकुला दृष्टिरिष्यते || ८९ || कुञ्चितासूयितानिष्टदुष्प्रेक्षाक्षिव्यथासु च | अभितप्ता च निर्वेदे ह्यभिघाताभितापयोः || ९० || जिह्मा दृष्टिरसूयायां जडतालस्ययोस्तथा | धृतौ हर्षे सललिता स्मृतौ तर्के वितर्किता || ९१ || आह्लादिष्वर्धमुकुला गन्धस्पर्शसुखादिषु | विभ्रान्ता दृष्टिरावेगे संभ्रमे विभ्रमे तथा || ९२ || विप्लुता चपलोन्माददुःखार्तिमरणादिषु | आकेकरा दुरालोके विच्छेदप्रेक्षितेषु च || ९३ || विबोधगर्वामर्षौग्र्यमतिषु स्याद्विकोशिता | त्रस्ता त्रास भवेद्दृष्टिर्मदिरा च मदेष्विति || ९४ || प्. १४) षट्त्रिंशद्दृष्टयो ह्येता यथावत्समुदाहृताः | रसजानां तु दृष्टीनां भावजानां तथैव च || ९५ || तारापुटभ्रुवां कर्म गदतो मे निबोधत | भ्रमणं वलनं पातश्चलनं संप्रवेशनम् || ९६ || विवर्तनं समुद्वृत्त निष्क्रामः प्राकृतं तथा | (एतानि नवकर्माणि ताराकर्म द्विजोत्तमाः || ९७ || शृणुध्वं लक्षणं तावत्सांप्रतं प्रीतितः स्फुटम् |) पुटान्तर्मण्डलावृत्तिस्तारयोर्भ्रमणं स्मृतम् || ९८ || वलनं गमनं त्र्यश्रं पातनं स्रस्तता तथा | चलनं कम्पनं ज्ञेयः प्रएशोऽन्तः प्रवेशनम् || ९९ || विवर्तनं कटाक्षस्तु समुद्वृत्तं समुन्नतिः | निष्क्रामो निर्गमः प्रोक्तः प्राकृतं तु स्वभावजम् || अथैषां रसभावेषु विनियोगं निबोधत || १०१ || भ्रमणं वलनोद्वृत्ते निष्क्रामो वीररौद्रयोः | निष्क्रामणं सचलनं कर्तव्यं हि भयानके || १०२ || हास्यबीभत्सयोश्चापि प्रवेशनमिहेष्यते | पातनं करुणे कार्यं निष्क्रामणमथाद्भुते || १०३ || प्राकृतं शेषभावेषु शृङ्गारे च विवर्तितम् | प्. १५) स्वभावसिद्धमेवैतत्कर्म लोकक्रियाश्रयम् || १०४ || एवं रसेषु भावेषु ताराकर्माणि योजयेत् | अथात्रैव प्रवक्ष्यामि प्रकारान् दर्शनस्य तु || १०५ || समं साच्यनुवृत्ते च ह्यालोकितविलोकिते | प्रलोकितोल्लोकिते चाप्यवलोकितमेव च || १०६ || समतारञ्च सौम्यञ्च यद् दृष्टं तत्समं स्मृतम् | पक्ष्मान्तर्गततारं यत्त्र्यश्रं साचीकृतं तु तत् || रूपनिर्वर्णनायुक्तमनुवृत्तमिति स्मृतम् | सहसा दर्शनं यत्स्यात्तदालोकितमुच्यते || १०८ || विलोकितं पृष्टतस्तु पार्श्वाभ्यां तु प्रलोकितम् | ऊर्ध्वमुल्लोकितं ज्ञेयमवलोकितमप्यध || १०९ || इत्येष दर्शनविधिः सर्वभावरसाश्रयः | तारागतोऽस्यानुगतं पुटकर्म निबोधत || ११० || उन्मेषश्च निमेषश्च प्रसृतं कुञ्चितं समम् | विवर्तितं स स्फुरितं पिहितं सविताडितम् || १११ || विश्लेषः पुटयोर्यस्तु स उन्मेषः प्रकीर्तितः | समागमो निमेषः स्यादायामः प्रसृतं भवेत् || प्. १६) आकुञ्चितं कुञ्चितं स्यात्समं स्वाभाविकं स्मृतम् | विवर्तितं समुद्वृत्तं स्फुरितं स्पन्दितं तथा || ११३ || स्थगितं पिहितं प्रोक्तमाहतं तु वितालितम् | अथैषां रसभावेषु विनियोगम् निबोधत || ११४ || क्रोधे विवर्तितं कार्यं निमेषोन्मेषणैः सह | विस्मयार्थे च हर्षे च वीरे च प्रसृतं स्मृतम् || ११५ || अनिष्टदर्शने गन्धे रसे स्पर्शे च कुञ्चितम् | शृङ्गारे च समं कार्यमीर्ष्यासु स्फुरितं तथा || ११६ || सुप्तमूर्छितवातोष्णधूमवर्षाञ्जनार्तिषु | नेत्ररोगे च पिहितमभिघाते वितालितम् || ११७ || इत्येषु रसभावेषु तारकापुटयोविधिः | कार्यानुगतमस्यैव भ्रुवोः कर्म निबोधत || ११८ || उत्क्षेपः पातनं चैव भ्रुकुटी चतुरं तथा | कुञ्चितं रेचितं चैव सहजं चेति सप्तधा || ११९ || भ्रुवोरुन्नतिरुत्क्षेपः सममेकैकशोऽपि वा | अनेनैव क्रमेणैव पातनं स्यादधोमुखम् || १२० || प्. १७) भ्रुवोर्मूलसमुत्क्षेपाद्भ्रुकुटी परिकीर्तिता | चतुरं किञ्चिदुच्छ्वासान्मधुरायतता भ्रुवोः || १२१ || एकस्या हि द्वयोर्वापि मृदुभङ्गस्तु कुञ्चितम् | एकस्या एअ ललितादुत्क्षेपाद्रेचितं भ्रुवः || १२२ || सहजातं तु सहजं कर्म स्वाभाविकं स्मृतम् | अथैषां संप्रवक्ष्यामि रसभावप्रयोजनम् || १२३ || कोपे वितर्के हेलायां लीलादौ सहजे तथा | दर्शने श्रवणे चैव भ्रुवमेकां समुत्क्षिपेत् || १२४ || उत्क्षेपो विस्मये हर्षे रोषे चैव द्वयोरपि | असूयिते जुगुप्सायां हासे घ्राणे च पातनम् || १२५ || क्रोधस्थानेषु दीप्तेषु योजयेद्भ्रुकुटीं बुधः | शृङ्गारे ललिते सौम्ये सुखस्पर्शे प्रबोधने || १२६ || एवं विधेषु भावेषु चतुरं तु प्रयोजयेत् | स्त्रीपुरुषयोअश्च सल्लापे नानावस्थान्तरात्मके || १२७ || मोट्टायिते कुट्टमिते तथा च किलिकिञ्चिते | निकुञ्चितं च कर्तव्यं नृत्ते योज्यं तु रेचितम् || प्. १८) अनाविद्धेषु भावेषु कुर्यात्स्वाभाविकं तथा | इत्येवं तु भ्रुवोः प्रोक्तं नासाकर्म निबोधत || १२९ || नता मन्दा विकृष्टा च सोच्छ्वासाथ विकूणिता | स्वाभाविका चेति बुधैः षड्विधा नासिका स्मृता || नता मुहुःश्लिष्टपुटा मन्दा तु निशृता स्मृता | विकृष्टा फुल्लितपुटा सोच्च्छासाकृष्टमारुता || १३१ || विकूणिता संकुचिता समा स्वाभाविकी स्मृता | नासिकालक्षणं ह्येतद्विनियोगं निबोधत || १३२ || मदोत्कम्पसमायुक्ते नारीणामनुरोधने | निःश्वासे च नता कार्या नासिका नाट्ययोक्तृभिः || निर्वेदौत्सुक्यचिन्तासु मन्दा शोके च योजयेत् | तीव्रगन्धे विकृष्टां तां रौद्रे वीरे तथैव च || १३४ || इष्टघ्राणे तथोच्छ्वासे दीर्घोच्छ्वसां प्रयोजयेत् | विकूणिता च कर्तव्या जुगुप्सासूयितादिषु || १३५ || कार्या शेषे.उ भावेषु तज्ज्ञैः स्वाभाविका तथा | प्. १९) क्षामं फुल्लं च घूर्णं च कम्पितं कुञ्चितं समम् || षड्विधं गण्डमुद्दिष्टमस्य लक्षणमुच्यते | क्षामं चावनतं ज्ञेयं फुल्लं विकसितं भवेत् || १३७ || विततं घूर्णमात्रोक्तं कम्पितं स्फुरितं भवेत् | स्यात्कुञ्चितं संकुचितं समं प्राकृतमुच्यते || १३८ || गण्डयोर्लक्षणं प्रोक्तं विनियोगं निबोधत | क्षामं दुःखेषु कर्तव्यं प्रहर्षे फुल्लमेव च || १३९ || घूर्णमुत्साहगर्वेषु रोषहर्षेषु कम्पितम् | कुञ्चितं च सरोमाञ्चं स्पर्शे शीते भये ज्वरे || १४० || प्राकृतं शेषभावेषु गण्डकर्म भवेदिति | विवर्तनं कम्पनं च विसर्गो विनिगूहनम् || १४१ || संदष्टकं समुद्गं च षटर्माण्यधरस्य तु | प्. २०) विकूणनं विवर्तस्तु वेपनं कम्पनं स्मृतम् || १४२ || विनिष्क्रामो विसर्गस्तु प्रवेशो विनिगूहनम् | संदष्टकं द्विजैर्दष्टं समुद्गः सहजोन्नतिः || १४३ || इत्योष्ठलक्षणं प्रोक्तं विनियोगं निबोधत | असूयावेदनावज्ञाहास्यादिषु विवर्तनम् || १४४ || कम्पनं वेदनाशीतभयरोषजवादिषु | स्त्रीणां विलासे बिव्वोके विसर्गो रञ्जने तथा || विनिगूहनमायासे सन्दष्टं क्रोधकर्मसु | समुद्गस्त्वनुकम्पायां चुम्बने चाभिनन्दने || १४६ || इत्योष्ठकर्माण्युक्तानि चिबुकस्य निबोधत | कुट्टनं खण्डनं छिन्नं चुक्कितं लेहितं समम् || १४७ || दष्टञ्च दन्तक्रियया चिबुकं न्त्विह लक्ष्यते | कुट्टनं दन्तसंघर्षः संफोटः खण्डनं मुहुः || १४८ || छिन्नं तु गाढसंश्लेषश्चुक्कितं दूरविच्युतिः | लेहनं जिह्वया लेहः किञ्चिच्छ्लेष समं भवेत् || १४९ || दन्तैर्दष्टेऽधरे दष्टमित्येषां विनियोजनम् | प्. २१) भयशीतज्वरक्रोधग्रस्तानां कुट्टनं भवेत् || १५० || जपाध्ययनसल्लापभक्ष्ययोगे च खण्डनम् | छिन्नं व्याधौ भये शीते व्यायामे रुदिते मृते || १५१ || जृम्भणे चुक्कितं कार्यं तथा लौल्ये च लेहनम् | समं स्वभावभावेषु सन्दष्टं क्रोधकर्मसु || १५२ || इति दन्तोष्ठजिह्वानां करणे चिबुकक्रिया | विनिवृत्तं च विधुतं निर्भुग्नं भ्ग्नमेव च || १५३ || विवृतञ्च तथोद्वाहि कर्माण्यत्रास्यजानि तु | व्यावृत्तं विनिवृत्तं स्याद्विधुतं तिर्यगायतम् || १५४ || अवाङ्मुखत्वं निर्भुग्नं व्याभुग्नं किञ्चिदायतम् | विश्लिष्टोष्ठं च विवृतमुद्वाह्याक्षिप्तमेव च || १५५ || विनिवृत्तमसूयायामीर्ष्याकोपकृतेषु च | अवज्ञाविहृतादौ च स्त्रीणां कार्यं प्रयोक्तृभिः || १५६ || विधुतं वारणे चैव नैवमित्येवमादिषु | निर्भुग्नं चापि विज्ञेयं गम्भीरालोकनादिषु || १५७ || भुग्नं लज्जान्विते योज्यं यतीनां तु स्वभावतः | निर्वेदौत्सुक्यचिन्तासु तथा विनयमन्त्रणे || १५८ || प्. २२) विवृतं वापि विज्ञेयं हास्यशोकभयादिषु | स्त्रीणामुद्वाहि लीलायां गर्वे गच्छत्यनादरे || १५९ || एवं नामेति कार्यञ्च कोपवाक्ये विचक्षणैः | समसाचीकृताद्युर्क्त यच्च दृष्टिविकल्पनम् || १६० || तज्ज्ञैस्तदनुसारेण कार्यं तदनुगं मुखम् | अथातो मुखरागस्तु चतुर्धा संप्रकीर्तितः || १६१ || स्वाभाविकः प्रसन्नश्च रक्तः श्यामोऽर्थसंश्रयः | स्वाभाविकस्तु कर्तव्यः स्वभावाभिनयाश्रयः || १६२ || मध्यस्थादिषु भावेषु मुखरागः प्रकीर्तितः | प्रसन्नस्त्वद्भुते कार्यो हास्यशृङ्गारयोस्तथा || १६३ || वीररौद्रमदाद्येषु रक्तः स्यात्करुणे तथा | भयानके सबीभत्से श्यामं संजायते मुखम् || १६४ || एवं भावरसार्थेषु मुखरागं प्रयोजयेत् | शाखाङ्गोपाङ्गसंयुक्तः कृतोऽप्यभिनयः शुभः || १६५ || मुखरागविहीनस्तु नैव शोभान्वितो भवेत् | शारीराभिनयोऽल्पोऽपि मुखरागसमन्वितः || १६६ || द्विगुणां लभते शोभां रात्राविव निशाकरः | नयनाभिनयोऽपि स्यान्नानाभावरसस्फुटः || १६७ || प्. २३) मुखरागान्वितो यस्मान्नाट्यमत्र प्रतिष्ठितम् | यथा नेत्रं प्रसर्पेत मुखभ्रूदृष्टिसंयुतम् || १६८ || तथा भावरसोपेतं मुखरागं प्रयोजयेत् | इत्येष मुखरागस्तु प्रोक्तो भावरसाश्रयः || १६९ || अतः परं प्रवक्ष्यामि ग्रीवाकर्माणि वै द्विजाः | समा नतोन्नता त्र्यश्रा रेचिता कुञ्चिताञ्चिता || १७० || वलिता च विवृता च ग्रीवा नवविधार्थतः | समा स्वाभाविकी ध्यानस्वभावजपकर्मसु || १७१ || नता नतास्योऽलङ्कारे बद्धे कण्ठावलम्बने | उन्नताभ्युन्नतमुखी ग्रीवा चोर्ध्वादिदर्शने || १७२ || त्र्यश्रा पार्श्वगता ज्ञेया स्कन्धभारे च दुःखिते | रेचिता विधुता भ्रान्ता भावे मथननृत्तयोः || १७३ || कुञ्चिताऽकुञ्चिता मूर्ध्नि भारिते गलरक्षणे | अञ्चिताऽपसृतोद्बद्धकेशकर्षोर्ध्वदर्शने || १७४ || पार्श्वोन्मुखी स्याद्वलिता ग्रीवाभङ्गे च वीक्षिते | विवृत्ताबिमुखीभूता स्वस्थानाभिमुखादिषु || १७५ || प्. २४) इत्यादिलोकभावार्था ग्रीवा भेदैरनेकधा | ग्रीवाकर्माणि सर्वाणि शिरःकर्मानुगानि हि || शिरसः कर्मणा कर्म ग्रीवायाः संप्रवर्तते | इत्येतल्लक्षणं प्रोक्तं शीर्षोपाङ्गसमाश्रयम् || १७७ || अङ्गकर्माणि शेषाणि गदतो मे निबोधत | इति भारतीये नाट्यशास्त्रे उत्तमाङ्गाभिनयो नामाष्टमोऽध्यायः || श्रीः नाट्यशास्त्रम् नवमोऽध्यायः | एवमेतच्छिरोनेत्रभ्रूनासोष्ठकपोलजम् | कर्म लक्षणसंयुक्तमुपाङ्गानां मयोदितम् || १ || हस्तादीनां प्रवक्ष्यामि कर्म नाट्यप्रयोजकम् | यथा येनाभिनेयं च गदतो मे निबोधत || २ || हस्तोरःपार्श्वजठरकटीजङ्घोरुपादतः | लक्षणं सम्प्रवक्ष्यामि विनियोगं च तत्त्वतः || ३ || अलङ्क्रियन्ते गात्राणि यत्स्पर्शविवशस्थितेः | स्पर्शतन्मात्रवपुषं संस्तुमः परमेश्वरम् || शिष्याणामनुसन्धानवृद्धये प्राक्तनार्थोपसंहारपूर्वकं वक्त्रन्तरमासूत्रयन्नाह एवमेतादित्यादि | क्रियत इति कर्म अभिनेयमित्यर्थः | हस्तादीनामिति पादान्तानामनेनाध्यायेन लक्षणं वक्ष्यामि | विनियुज्यतेऽनेनेति (विनियोगः) तद्यथा - पयोद्रिन्द्रवर्पधारानिरूपण (९-२०) मित्यादि तत्र चेतिकर्तव्यता - तद्यथा - प्रविरलचलिताङ्गुलि (९-२१) रित्यादि | तत्त्वत इति | अभिनयस्य द्विविधा इतिकर्तव्यता लोकधर्मी नाट्यधर्मी च | आद्या द्विविधा - चित्तवृ- प्. २६) पताकस्त्रिपताकश्च तथा वै कर्तरीमुखः | अर्धचन्द्रो ह्यरालश्च शुकतुण्डस्तथैव च || ४ || मुष्टिश्च शिखराख्यश्च कपित्थः खटकामुखः | सूच्यास्यः पद्मकोशः सर्पशिरा मृगशीर्षकः || ५ || काङ्गुलकोऽलपद्मश्च चतुरो भ्रमरस्तथा | हंसास्यो हंसपक्षश्च सन्दंशो मुकुलस्तथा || ६ || त्त्यर्पकत्वेनानुभावस्य यथा - गर्वेऽप्यहमिति तज्ज्ञैर्ललाटदेशोच्छ्रित (९- १९) इति | केवलबाह्यावयवरूपा वा यथा - पद्मकोशस्य कमपि निरूपणे | नाट्यधर्म्यपि द्विधा - नाट्योपयोगमूलभूतकैशिकीसम्पादनोचितालौकिकशोभाहेतुः यथा - आवेष्टितादिचतुर्विधकरणरूपा | काचित्त्वंशेन लोकमुपजीवति यथा - वर्णातुरेण हस्तेन तत्र व्यवहितेन लोक उपजीव्यते | लोको ह्यनिर्देश्यताशेषं वस्तु निर्दिदिक्षुरीदृशं तादृशमित्थम्भूतमित्यवसरे प्रयुक्तमेव चतुरैः | एवं जनान्तिकादौ वाच्यम् | नटसमयमात्ररूपा नाट्यधर्मी समयस्याकिञ्चित्करस्य कल्पने प्रयोजनाभावात् | हस्तानुपदिशति पताक इत्यादिना | तथा चशब्देन त्रिपताकः प्रकारस्तस्यैव कर्तरीमुख इति दर्शनात्तन्निष्पत्तये संहिताकार्यदृष्टादध्ययनपरशब्दगतध्यानं शब्दवद्धस्तान्तरत्वेऽपि दृश्यमानेन तद्बुद्धिं विधेयेन दर्शयति | एवमन्येऽपि त्रिपताका(दयो) व्याख्येयाः | क्वचित्तु हस्तसदृशहरतान्तरस्वीकाराय हंसपक्षश्च सन्दंश इति सन्दंशशब्दान्तरं चकारेण अङ्गुष्ठमध्यमाग्रनिष्पीडिताग्रमर्मतर्जनीलक्षणोऽपि शून्यभास्वरविद्युदाद्यभिनयविषये नृत्ताचार्यप्रवाहसिद्धः कोहललिखितोऽपि हस्तः सङ्गतो भवतीति हस्तान्तराण्युत्प्रेक्ष्याणि | ते त्वसंयुता अपि भवन्ति | संयुतकरणं कार्य इति वक्ष्यते यतः प्. २७) ऊर्णनाभस्ताम्रचूडश्चतुर्विंशतिरीरिताः | असंयुताः संयुतांश्च गदतो मे निबोधत || ७ || अञ्जलिश्च कपोतश्च कर्कटः स्वस्तिकस्तथा | खटकावर्धमानश्च ह्यत्सङ्गो निषधस्तथा || ८ || दोलः पुष्पपुटश्चैव तथा मकर एव च | गजदन्तोऽवहित्थश्च वर्धमानस्तथैव च || ९ || एते तु संयुता हस्ता मया प्रोक्तास्त्रयोदश | नृत्तहस्तानतश्चोर्ध्वं गदतो मे निबोधत || १० || यत्नाप्येतन्नास्ति तत्रापि प्रयोगयुक्त्या हस्तद्वयप्रयोगो भवत्येव यथा परेण हारे नियमाने भयात्पताकाद्वयस्यासादिक्षेत्रे पराङ्मुखस्य प्रयोगः | एवं प्रतापनादावपि | एवमन्यत्नोत्प्रक्षणीयम् | किञ्च पताकादीनामपि द्विशौ युगपत् प्रयोगे युतत्वमभिनेयविशेषे | तद्यथा कपित्थस्याधस्तादधस्तलः पताकः छेदाभिनये कुणिच्छ अह अस्तमच्छरजहिसीसहिच्छजत्तंति (?) | चित्राभिनये चैतत् | एते तु संयुता एव | नत्वेत एव पताकादीनामपि प्रयोगे क्वचित्संयुतत्वात् | एते च त्रयोदश संयुतताव्यतिरेकेण न स्वार्थस्य गमकाः | एतेषां त्वभिनयहस्तानां छिद्रच्छादनेनैकवर्तनानुप्रवेशादलातचक्रप्रतिमतां दर्शयितुं मसृणोद्धतवर्तनात्मकतया चैकवाक्यार्थविश्रान्ततां र्पथयितुं नृत्तस्य च वस्तुभूतत्वेनोक्तस्य स्वरूपमभिधातुं नृत्यन्त्यौ चेट्याविति नृत्तादिविषये च सूचाङ्कुरादावुपयोगमपि तु दर्शयितुं नृत्तशब्देन विशेष्यं निर्दिशति नृत्तहस्ता नित्यादिना | संयुतासंयुतरूपोपजीविन एत इत्येकाकिनोऽपि प्रयुज्यन्ते (नाशंसन्त इति अन्येऽपि न न शंसन्ति दर्शयन्ति) नन्विदं प्. २८) चतरश्रौ ततोद्वृत्तौ तथा तलमुखौ स्मृतौ | स्वस्तिकौ विप्रकीर्णौ चाप्यरालखटकामुखौ || ११ || आविद्धवक्रौ सूच्याख्यौ रेइच्तावर्धरेचितौ | उत्तानवञ्चितौ चैव पल्लवौ च तथा करौ || १२ || नितम्बावपि विज्ञेयौ केशबन्धौ तथैव च | लताख्यौ च तथा प्रोक्तौ करिहस्तौ तथैव च || १३ || पक्षवञ्चितकौ चैव पक्षप्रद्योतकौ तथा | ज्ञेयौ गरुडपक्षौ च दण्डपक्षावतः परम् || १४ || ऊर्ध्वमण्डलिनौ चैव पार्श्वमण्डलिनौ तथा | उरोममण्डलिनौ चैव उरःपार्श्वार्धमण्डलौ || १५ || मुष्टिकस्वस्तिकौ चापि नलिनीपद्मकोशकौ | अलपल्लवोल्बणौ च ललितौ वलितौ तथा || १६ || चतुष्षष्टिकरा ह्येते नामतोऽभिहिता मया | यथालक्षणमेतेषां कर्माणि च निबोधत || १७ || यथा लक्षणं यथा च कर्मण्यभिधेयतेति तथा निबोधतेति सम्बन्धः | अथ यथोद्देशं पताकादीनां लक्षणमाह प्रसारिताः समा इति | समा इति प्रकृतिस्था इत्यर्थः | प्रसारिताग्रा वा इति पाठः | प्रसारिताः प्रधाना इत्यर्थः | सहिता अविरलाः | कुञ्चितत्वं पादस्य वक्ष्यते तल्लक्षणोपजीवनेनाङ्गुष्ठसन्निवेशः कार्य इत्यर्थः | पताकाकारत्वात्पताकः | अत एव पताका- प्. २९) प्रसारिताः समाः सर्वाः यस्याङ्गुल्यो भवन्ति हि | कुञ्चितश्च तथाङ्गुष्ठः स पताक इति स्मृतः || १८ || एष प्रहारपाते प्रतापने नोदने प्रहर्षे च | गर्वेऽप्यहमिति तज्ज्ञैर्ललाटदेशोत्थितः कार्यः || १९ || एषोऽग्निवर्षधारानिरूपणे पुष्पवृष्टिपतने च | संयुतकरणः कार्यः प्रविरलचलिताङ्गुलिर्हस्तः || २० || स्वस्तिकविच्युतिकरणात्पल्वलपुष्पोपहारशष्पाणि | प्यनेनैवाभिनेया | एवमन्येष्वपि हस्तेषु नामनिर्वचनानुसारेण विनियोगः प्रदर्शनीयः | प्रविरलचलिताङ्गुलित्वादियोगेऽपि एकदेशविकारे तत्त्वप्रत्यभिज्ञानात्पूर्वापरकोट्योश्च मूलसन्निवेशाश्रयणात्पताकात्वमेव | एतमन्यत्रापि | प्रहारस्य पातने कर्तव्ये परेण च क्रियमाणे | प्रतापने शीतशमनायाग्निस्पर्शग्रहणे राज्ञां च प्रतापे | शत्रुहृदयम्लान निमित्तभूतप्रसिद्धिविशेषात्मानि तथा प्रकृष्टे चोद्धतादपि तथोपहरणाय हस्तच्छत्रनिरुद्धचन्द्रमहस (विद्धसा-) इत्यादौ | तथा अन्यस्य प्रेरणे अन्येन वा प्रेरणे तद्वारणाय | एषु च यथालोकप्रसिद्धिः यथा नाट्याचार्यप्रवाहश्च ऊर्ध्वपार्श्वगाधोमुखसमुखपराङ्मुखोत्तानत्रयश्रचञ्चलाचञ्चलत् वादिविभाग उत्प्रेक्षणीयः | प्रहारे हृदयलग्नतल ईषत्कम्पमानः प्रहर्षे च रोमाञ्चसम्मुख उद्गतः | अपिशब्दार्थसहितो (अहं) यथा अस्मदर्थो भवति अहमपि ममापि मयापि मययपीत्यादौ गर्वगर्भे प्रयोगे पार्श्वान्तरात्स्वपार्श्वभागच्छंल्ललाटाभिमुख ऊर्ध्वः कर्तव्यः | एष इति एतस्मिन्नर्थेऽभिनेता स्या(दिति चे)द्विभक्तिरतन्त्रा एतदर्थनिरूपण इत्यर्थः | अग्नेः धारा जालाः पुष्पवृष्टिग्रहणमप्रसिद्धपांसुरक्तादिवृष्ट्यन्तरोपलक्षणम् | संयुतकरण इति हस्तद्वयमीदृशं कर्तव्यमित्यर्थः | संयुतासंयुतसम्बन्धा लोकोचिता प्. ३०) विरचितमुर्वीसंस्थं यद्द्रव्यं तच्च निर्देश्यम् || २१ || स्वस्तिकविच्युतिकरणात्पुनरेवाधोमुखेन कर्तव्यम् | संवृतविवृतं पाल्यं छन्नं निबिडं च गोप्यं च || २२ || अस्यैव चाङ्गुलीभिस्त्वधोमुख प्रस्थितोत्थितचलाभिः | वायूर्मिवेगवेलाक्षोभश्चौघश्च कर्तव्यः || २३ || चलनलक्षणा क्रिया यस्य तेनाग्निज्वालामूर्ध्वगमनं जलधारासु अधोगमनमङ्गुलीनामूर्ध्वमुखहस्तस्य पुष्पवृष्टौ शिरोदेशे अधोमुखस्य स्थितस्य क्रमाच्चलाङ्गुलेरधोगमनमिति सङ्गृहीतम् | तेनैकाकिनोऽपि यत्प्रयोगदर्शनं तदवरुद्धम् | अ(प्र?)विरलास्सत्यश्चलिताः अ(प्र?)विरलं कृत्वा चलिता अङ्गुल्यो यत्नेति समासः संयुतहस्तलक्षणात् स्वस्तिकमुपजीव्यं नृत्तहस्तलक्षणाद्वा | तेन सम्मुखौ पताकौ मणिबन्धभुवि न्यस्तौ कृत्वा बाहुपरिभ्रमणयुक्त्या स्वपार्श्वसमं विच्युतिः तत्क्रियायाः पल्वलं स्वल्पोदकं सरः पुष्पप्रकरण् हृद्यं च तृणं यच्च भूमौ पिच्छिलं वलितण्डुलवैचित्र्यन्यायेन स्थापितं तदभिनयेदिति लोकांशोपजीविनी नाट्यधर्मी | पुनरेवेति वचनात् स्वस्तिकस्तद्विच्युतिः चिव्युतिपूर्वकः स्वस्तिक इति क्रमः | तत्रा(धो)मुखेन स्वस्तिकेन तद्विच्युत्या च संवृतविवृतमर्धं संवृतमर्धं च विवृतम् | यथा - घट्योद्घाटकवाटघट्टितजवेन इति | पाल्यं पतमानाद्रक्षणीयं विच्युतिपूर्वकं शीघ्रं स्वस्तिककरणात् छन्नं निबिडं स्पष्टं तथैव गोप्यं अन्यो मा द्राक्षीदिति तज्जातं करणं स्वस्तिककरणात् | चकारेण अपाल्ये अप्रच्छन्ने अनतिनिबिडे अगोप्ये चाभिनयः | स च स्वस्तिकविच्युतिरूप इति दर्शयति | रेचयति स्वसन्निवेशाद्यापयति स्वक्षेत्राद्वा या क्रिया तद्रेचकक्रणम् | तथा यथायोगं तत्र परस्योत्साहनं प्रेरणं उत्साहजननं सत्पुरुषाभिनयनं च विरलाङ्गुलिक्षेपेणालपल्लवाकारवत् प्रधानं प्. ३१) उत्साहनं बहुतथा महाजनप्रांशुपुष्करप्रहतम् | पक्षोत्क्षेपाभिनयं रेचककरणेन कुर्वीत || २४ || परिघृष्टतलस्थेन तु धौतं मृदितं प्रमृष्टपिष्टे च | पुनरेव शैलधारणमुद्घाटनमेव चाभिनयेत् || २५ || (दशाख्याश्च शताख्याश्च सहस्राख्यास्तथैव च | पताकाभ्यां तु हस्ताभ्यामभिनेयः प्रयोक्तृभिः ||) || २६ || एवमेष प्रयोक्तव्यः स्त्रीपुंसाभिनये करः | वस्तु अक्रमकरणेन निजपार्श्वगमनेन पार्श्वान्तरात् | प्रांशून्नतमूर्ध्वगतात् पुष्करप्रहणने अधः पातनं पक्षं पतत्रिणां मुहुरूर्ध्वं कटिक्षेत्र उत्साहनवत् उत्क्षेपं कृतमथोर्ध्वगमनेन | अभिनयशब्दवत्पाल्यं च | (अभिनयशब्दस्य वैचि)त्र्यं पश्यन्तः उपाध्याया व्याचक्षते - अभिशब्देनाभिमुख्यं नशब्देन निषेधो यशब्देन यदर्थो लक्ष्यते तेन स्वपार्श्वोन्मुखदेशागमनेनाभिमुख्यमभिमुखत्वं पार्श्वक्षेत्रे तु रेचनपूर्वमधोमुखोत्तानपरिवर्तनेन च यच्छब्दार्थमभिनयेदिति | परिशब्दः शैघ्र्यात्पार्श्वतोऽर्थे उभयतो वाऽतो समन्तादर्थे च तेन परिघृष्टं यत्तलं तत् द्वितीयपताकहस्तेन पताकाकारेण क्षालनं मर्दनं मार्जनं पेषणं तद्विशिष्टमपि द्रव्यमभिनयेत् | यथाक्रमं च परिशब्दार्थे योज्यः पुनश्शब्दः | पर्वतोद्धारणशैलशिलादेश्चोद्घा(त्पा?)टनम् | चकाराद्वरदानमभयदानमित्येवमाद्याभिनयेत् | परिघृष्टेतीतिकर्तव्यतां प्रसक्तां वारयितुमेवकारः एनतुपुणापरि अञ्चि इतिं कोणें जिजि आलिह (?) इत्यादौ यथा पुनरेवशब्दार्थे द्योतकस्तथाङ्गिकेऽपि पताकादिस्तथा व्यवहारदर्शनात् | न चैतावानेवास्य विषय इति दर्शयितुमाह एवमनेन प्रकारेण स्वबुद्ध्या तां तामितिकर्तव्यतामुत्प्रेक्ष्य प्रयोक्तव्यः | स्त्रीपुंसयोरुभयोरपि अभिनेत्रोरभिनेययोर्वा | अन्ये तु नपुंसक- प्. ३२) अतःपरं प्रवक्ष्यामि त्रिपताकस्य लक्षणम् || २७ || पताके तु यदा वर्कानामिका त्वङ्गुलिर्भवेत् | त्रिपताकः स विज्ञेयः कर्म चास्य निबोधत || २८ || आवाहनमवतरणं विसर्जनं वारणं प्रवेशश्च | उन्नामनं प्रणामो निदर्शनं विविधवचनं च || २९ || मङ्गल्यद्रव्याणां स्पर्शः शिरसोऽथ सन्निवेशश्च | उष्णीष मकुटधारणनासाख्यश्रोत्रसंवरणम् || ३० || लिङ्गस्य स्त्रीपुंसाभ्यामेव स्वीकारात् समस्ते शब्दार्थेऽभिनेतव्ये विशिष्टेतिकर्तव्यतायुक्तस्यार्थस्य प्रयोग इत्याहुः | अथ त्रिपताकमाह पताकेत्वित्यादि | अनामिका वक्रा कनीयसी (तर्जनीमध्यमानां) तिसृणां पताकवदवयवस्थानात् त्रिपताकः त्रित्वस्याभिनेयाद्वा | कर्मेत्यभिनेयम् | (आवाहनं) पराङ्मुखीनतर्जनीमध्यमाकुञ्चनात् आर्ये इतस्तावदित्यादौ | अवतरणमुत्तरेण पार्श्वान्तरं गच्छता अवतरत्वायुष्मानित्यादौ रथादेः | विसर्जनमनादरकृतमधस्तलकृतेन बहिरङ्गुलिद्वयक्षेपात् | वारणं मा कार्पी रिति प्राङ्मुखेनाङ्गुलिद्वयचलनात् | प्रवेशनं पार्श्वतलेनाग्रगमनात् यावत्प्रविशामीति | यथोन्नामनं चिबुकादौ लालनेनोत्तानेनाङ्गुलिद्वयेन | प्रणमनं शिरोगतेन पार्श्वगतेन प्रणयनं समर्पणम् | प्र(नि?)दर्शनमुपमानोपमेयभावमीषद्विरलेनाङ्गुलिद्वयेन | विविधं विचित्रमिदं वा स्यादिदं वेत्यादि अङ्गुलियुगनामोन्नामात् | वचनं भाषणं मुखक्षेत्रे उत्तानस्याग्रगमनात् | मङ्गल्यद्रव्याणां पूर्णकुम्भादीनामधोमुखेनाङ्गुलिद्वयेन | स्पर्शः द्रव्यादीनां शिरसः स्पर्शः निवेशनं निवेशः सम्बन्धोऽनामिकया शिरसो वा सन्निवेशनं तत्क्षेत्रे सम्मुखमण्डलगतेनोष्णीपधारणं शिरस्यधोमुखेन भ्रमता मकुटधारणं तूर्ध्वक्षेत्रे | (संवरणं) अनिष्टे गन्धे वचने च शब्देऽपि नासादौ अङ्गुली- प्. ३३) अस्यैव चाङ्गुलीभ्यामधोमुखप्रस्थितोत्थितचलाभ्याम् | लघुखगपतनस्रोतोभुजगभ्रमरादिकान्कुर्यात् || ३१ || अश्रुप्रमार्जनं तिलकविरचनं रोचनालभनकं च | त्रिपताकानामिकयोः स्पर्शनमलकस्य कर्तव्यम् || स्वस्तिकौ त्रिपताकौ तु गुरूणां पादवन्दने | परस्पराग्रसंश्लिष्टौ कार्यावुद्वाहदर्शने || ३३ || विच्युतौ चलितावस्थौ कर्तव्यौ नृपदर्शने | तिर्यक्स्वस्तिकसंबद्धौ ख्यातां तौ ग्रहदर्शने || ३४ || द्वयेनाच्छादनम् | अस्यैव चेति | अतश्च मुकुटादिदर्शनेन तद्धेतोः राजादेरप्यभिनयः तेन येन हस्तेनाभिनेयं यत्नाव्यभिचारित्वेन बहुशो निर्दिष्टं तदनिर्दिष्टमपि तेनैवाभिनेयम् | यथा मुकुटधारणाभिनयेन राजांशः रेचित पताकयोगेन गर्वितः | अङ्गुल्यौ ये नित्यश्लिष्टे इत्येवकारः तेन च त्रिपताकन्यस्त इत्यस्य ग्रहणात् | चकारेणान्वाचयकृतमङ्गुल्यन्तरस्य अधोमुखादिरूपत्वमनुजानाति | अधोमुखे च द्वे प्रस्थानोत्थानयः चले चेति समासः | लघून्पक्षिणश्चटकादीन् कटीक्षेत्रे लघुचालं | लघु च स्रोतः क्रमेणोर्ध्वमधस्तिर्यग्गत्या लघुसर्पानग्रगत्याभिनयेत् | भ्रमरमक्षिकादीनां पुनरुपपादनं पक्षित्वेनाप्रसिद्धेः तेन कटीक्षेत्रत्यागेन यथेष्टमेषां क्षेतमित्युक्तं भवति | अश्रुणस्तत्प्रमार्जनस्य चानामिकया स्वक्षेत्रगतयाधो गच्छन्त्याभिनयः | तिलकस्याभिनयो रोचनाचन्दनादिना तद्विरचनस्य च | एतेन क्रियाफलयोस्तुल्याभिनयोऽन्यत्रापीति सूचयति | तेन पतनवत्पतितोऽपि कर्तरीमुख इत्याद्यूह्यम् | रोचनाचन्दनस्य मङ्गल्यतिलकादिना स्वीकारादिकं व्याचक्षते | रोचनया अरुणरुचिर्लक्ष्यते तत्रानामिकाद्वयसङ्घट्टेनाभिनयः | यथा - प्. ३४) तपस्विदर्शने कार्यावूर्ध्वौ चापि पराङ्मुखौ | परस्पराभिमुखौ च कर्तव्यौ द्वारदर्शने || ३५ || उत्तानाधोमुखौ कार्यावग्रे वक्त्रस्य संस्थितौ | बडबानलसङ्ग्रामे मकराणां च दर्शने || ३६ || अभिनेयास्त्वनेनैव वानरप्लवनोर्मयः | पवनश्च स्त्रियश्चैव नाट्ये नाट्यविचक्षणैः || ३७ || संमुखप्रसृताङ्गुष्ठः कार्यो बालेन्दुदर्शने | पराङ्मुखस्तु कर्तव्यो याने नृणां प्रयोक्तृभिः ||) || ३८ || त्रिपताके यदा हस्ते भवेत्पृष्ठावलोकिनी | तर्जनी मध्यमायाश्च तदासौ कर्तरीमुखः || ३९ || पथि चरणरचनरञ्जनरङ्गण करणान्यधोमुखेनैव | को-उद्दलणाहं तथा तथा च केन समाणिवश्शक्रः | सुकरं भर्जसुखं च दुःखं च || (?) आलम्भनं शरीरस्पर्शनं द्रोहिकाचमनम् तस्मात् संज्ञायामपि कन् | संज्ञैवेयमिति लभेरत्नासंभवात् नञ्समासः स्वल्पत्पंच अत्रानिगौरवातिस्नेहादिना तथानामिकयैव स्पर्शनात् गामी अवा उच्चं अमीह-उतोर-उ (?) इति | स्पर्शनमलकस्य रचनार्थं स्थानान्तरनयनं यथा रत्नावल्यागुदयनेन सुसङ्गताया | अलिकस्य ललाटस्य दर्शनमलकभञ्जनेनोत्तालालकभञ्जनानीत्यादावित्यन्ये | कर्तरीमुखं लक्षयति त्रिपताक इति चकारेण परो नीयते | अवोलिकिनीति असंश्लिष्ट इति यावत् | कर्तर्या ईदृशमेव रूपं साध्यते तथाभिनीयते | पथीति पृथक्पदं इत-इत इत्यादौ मार्गप्रदर्शने तेनात्राधोमुखेनेति संबध्यते | चरणस्य रचनं कस्तूरिकादिना पत्रभङ्गादिक्रिया रज्जनमलक्तकेन | रज्यत्यस्मिन् हृदयमिति रङ्गः कुङ्कुमादिकृतश्चतुष्कोष्ठे भऽऽगस्तिलकादिः तं करोति रङ्गयति | प्. ३५) ऊर्ध्वमुखेन तु कुर्याद्दष्टं शृङ्गंच लेखं च || ४० || पतनमरणव्यतिक्रमपरिवृत्तवितर्कितं तथा न्यस्तम् | भिन्नवलितेन कुर्यात्कर्तर्यास्याङ्गुलिमुखेन || ४१ || संयुतकरणो वा स्यादसंयुतो वा प्रयुज्यते तज्ज्ञैः | रुरुचमरमहिषसुरगजवृषगोपुरशैलशिखरेषु ||) || ४२ || यस्याङ्गुल्यस्तु विनताः सहाङ्गुष्ठेन चापवत् | सोऽर्धचन्द्र इति ख्यातः करः कर्माक्य वक्ष्यते || ४३ || एवकारेण तर्जनीमुखलक्षणमुखस्याधोगमनानन्तरमेव पृष्ठावलोकित्वं पुनरधोगमनं पुनः पृष्ठावलोकनमिति चलनमाह | दष्टमिति दंशनं तत्तुल्यं च कर्तनादि नासिकाक्षेत्रात् कर्णान्तं गच्छता शृङ्गं स्वङ्गक्षेत्रे हस्तद्वयेन लेखं पत्रकाविष्टस्य वाचनम् | व्यतिक्रमोऽपराधः | परिवृत्तं पराङ्ग्मुखीभूतं विपर्यस्तं च | वितर्कितमूहनम् | न्यस्तं निक्षेपणम् | भेदनं वैपरीत्यं मध्ययोस्तर्जनीपृष्ठगत्वं चलनं पुनः स्वरूपाप्तिस्तयोः समाहारे द्वन्द्वः | एतेन यथा योगं सङ्घातविगृहीतविपर्यस्तप्रयोगो द्विस्त्रिश्चेत्याद्यूह्यम् | कर्तर्यास्यस्य कर्तरीमुखस्य यदङ्गुलीरूपं मुखं प्रधानं तेन भेदनवलनसहितेनेति सङ्गतिः | अर्धचन्द्रमाह सहाङ्गुष्ठेनेति | अङ्गुष्ठोऽपि विनतः चापवदिति श्लिष्टाहस्वतं निषेधति | ख्यात इति नाम्नैव लब्धरूपः | वालतरवश्चोर्ध्व गच्छता उपर्युत्ता- प्. ३६) एतेन बालतरवः शशिलेखा कम्बुकलशवलयानि | निर्घाटनमायस्तं मध्यौपम्यं च पीनं च || ४४ || रशनाजधनकटीनामाननतलपत्रकुण्डलादीनाम् | कर्तव्यो नारीणामभिनययोगोऽर्धचन्द्रेण || ४५ || आद्या धनुर्नता कार्या कुञ्चितोऽङ्गुष्ठकस्तथा | शेषा भिन्नोर्ध्ववलिता ह्यरालेऽङ्गुलयः करे || ४६ || एतेन सत्त्वशौन्डीर्यवीर्यकान्ति धृतिदिव्य गाम्भीर्यम् | नेन अर्धेन्दुरित्यन्वर्थवलाल्लब्धम् | तेन शशिलेखेत्यनेन लेखामात्रमभिनेयं विश्लिष्टतर्जनीकेनेत्युक्तं भवति | कम्बुरिति श *? एवानेनाभिनेयः तद्ग्रहणं तु कर्कटे वक्ष्यते | प्रकोष्ठान्तरसंमुखेन वलयः | निर्घाटनं बलान्निष्कासन मिति | तस्यायस्समटवीघोपणमित्यसत् आयस्तं खेदं पराङ्मुखेन गण्डभ्रूविभ्रमात्तमभिनयेत् | मध्ये उदरादौ उपमीयत इत्युपमा ततः ष्यञ् तेनायमर्थो मध्यस्य तदुपादीयमानत्वं कार्श्यं तदभिनयेत् | पीनं च पीवरं अर्धान्मध्यमेव | चकारादर्धचन्द्रद्वयेनाभिनयेत् | अन्ये तु पानं चपकादि व्याचक्षते पानमिति पठन्तः | जघनो नितम्बस्याग्रभागः पार्श्वभागश्च कटी | आननतले च पत्राणि भङ्गाः | तलपत्रमाभरणविशेषः | पत्रं दन्तपत्रं नलिनीदलं वा | आदिशब्दान्मृणालादि | एतच्च तत्तत्क्षेत्रगेन यथायोगं पार्श्वद्वययोगं पार्श्वद्वयान्तावधोवर्तितलेनैकैकेनान्यसहितेन वाभिनयेत् | अरालमाह आद्या धन्रुनतेति | आद्यस्तर्जनी मध्यमादयः कनिष्ठान्ताः पूर्वस्याः पृष्ठेध्वदूरे तिष्ठन्तीति | अयं हस्तस्त्वरालः कुटिलत्वात् | अरालपक्ष्मण इत्यादौ वक्रार्थेऽरालशब्दः | सत्त्वं स्थैर्यम् शौण्डीर्यं गर्वः वीर्यमुत्साहः कान्तिश्शोभा दिव्यं गगनस्थं गाभीर्यं - प्. ३७) आशीर्वादाश्च तथा भावा हितसंज्ञकाः कार्याः || ४७ || एतेन पुनः स्त्रीणां केशानां सङ्ग्रहस्तथोत्कर्षः | सर्वाङ्गिकं तथैव च निर्वर्णनमात्मनः कार्यम् || ४८ || कौतुकविवाहयोगः प्रदक्षिणेनैव सम्प्रयोगं च | अङ्गुल्यग्रस्वस्तिकयोगान्परिमण्डलेनैव || ४९ || प्रादक्षिण्यं परिमण्डलं च कुर्यान्महाजनं चैव | यच्च महीलतरचितं द्रव्यं तच्चाभिनेयं स्यात् || ५० || यस्य प्रभावादाकाराः क्रोधहर्षभयादिषु | भावेषु नोपलक्ष्यन्ते गाम्भीर्यमिति तत्स्मृतम् (२२-३६) आशीर्वादाः स्वस्ति भद्रं पुण्याहमित्यादयः | हितसंज्ञकाः सुखभावाः | तत्र हृदि पार्श्वेऽग्रतः स्थैर्येण चलत्वेन भ्रमणागमनं यथायोगं प्रयोगः | एतावत्यंशेऽप्यभिनेयमरालेन | सऽऽग्रहो बन्धनं केशानाम | उत्कर्षो विकीर्णतापादनं | पुनर्ग्रहणाद्द्विस्त्रिरन्तरालस्य गमनभ्रमणादि लभ्यते | तथैव चेति यथा सर्वाङ्गनिर्वर्णनं भवति तथा कार्यमिति | तेन द्वितीयपार्श्वात्स्वपार्श्वगमनं लभ्यते | कौतुकं विवाहात्पूर्वभावी वधूवरयोराचारः अन्तर्विवाहः प्रसिद्धः | विवाहोऽग्नौ साक्षिणि | अङ्गुल्यग्राणां हस्तद्वयगतानां स्वस्तिकाकारेण यद्योजनं तेनोपलक्षितेन परिमण्डलं प्रदक्षिणदिक्कमेव भ्राम्यता कौतुकविवाहयोगोऽभिनेयः | च शब्दस्तुशब्दस्यार्थे | एवकारो भिन्नक्रमः | सम्प्रयोगः संश्लेषमात्रस्तु अङ्गुल्यग्रस्वस्तिकयोगादेव केवलात् | देवताविषयं प्रदक्षिण- प्. ३८) आह्वानं च निवारणनिर्माणे चाप्यनेकवचः | स्वेदस्य चापनयने गन्धाघ्राणे शुभः शुभे चैष || ५१ || त्रपताकहस्तजानि तु पूर्वं यान्यभिहितानि कर्माणि | तानि त्वरालयोगात्स्त्रीभिः सम्यक्प्रयोज्यानि || ५२ || अरालस्य यदा वक्रानामिका त्वङ्गुलिर्भवेत् | शुकतुण्डस्तु स करः कर्म चास्य निबोधत || ५३ || क्रमं परिमण्डलं वर्तुलं महाजनं जनसमूहं | विरचितं पुष्पप्रकरादि | एतेनैव परिमण्डलेन पार्श्वान्तरात्स्वपार्श्वं गच्छताभिनयेत् | आह्वाने पतदङ्गुलि निवारणे वहिःक्षिप्ताङ्गुलि | निर्माणं अपूर्व उदयह् उदितो भ-अवं मि अलंछक इत्यादौ निश्शेषेण वा मानं परिच्छेदो वर्तनं वा यथा जलणिहि-अलंवेमा (?) इति | निर्दानं तृणाद्युत्पाटनमित्यन्ये | अभूता सृष्टिर्वीप्सा निर्दानमित्यन्ये | अनेकं पृथग्भूतं संवन्धाभावरूपं यत्रोच्यते तत्र वहिः पुनः क्षिप्ताङ्गुलेः प्रयोगः | यथा कहिं ह कहिं ह इत्यादौ | गन्धस्य सुरभित्वादाघ्राणं | शुभः शुभे चैष इति पाठः | एष हस्त इत्यर्थः | चैवेत्यन्ये पठन्ति अध्याहारं कल्पयन्तः एवकारेण तत्क्षेत्रगत्वं हस्तस्येत्याहुः | त्रिपताकस्य यान्यावाहनमवतरणमित्यादीन्यभिनेयानि तान्यरालस्य यत्प्रयोगाङ्गयुक्त्या सम्पत्तिर्भवति तत्तेनापि प्रयोज्यानि स्त्रीभिः | न तु तासां त्रिपताको निषिध्यते पुंसस्त्रिपताकस्थानेऽरालो निषिध्यते | शुकतुण्डमाहारालस्येति | तुः पूर्वस्माद्विशेषमाह | द्वितीयोऽपिशब्दार्थे तर्जन्या अपि वक्रिमाणमनुजानाति तदाकारत्वात् | शुकतुण्ड इति शब्देन प्. ३९) एतेन त्वभिनेयं नाहं न त्वं न कृत्यमिति चार्थे | आवाहने विसर्गे धिगिति वचने च सावज्ञम् || ५४ || अङ्गुल्यो यस्य हस्तस्य तलमध्येऽग्रसंस्थिताः | तासामुपरि चाङ्गुष्ठः स मुष्टिरिति संज्ञितः || ५५ || एष प्रहारे व्यायामे निर्गमे पीडने तथा | संवाहनेऽसियष्टीनां दण्डकुन्तग्रहे तथा || ५६ || प्रत्येकमेक एव ह्ययं वाक्यार्थः | नाहं न त्वं न कृत्यमिति न च सर्वथा निषेधे अयमभिनयः अपि तु अर्थे अर्थनायां सत्यामीर्ष्याप्रणयकलहादाविति यावत् अर्थनमर्थः एरच् (पा ३-३-५६) | सावज्ञं यदाह्वानं विसर्गश्च पञ्चभिरङ्गुलिक्षेपात्स्पृश्य इतिकर्तव्यता सकृत् द्विस्त्रिर्वा प्रयोगयुक्त्या | धिगित्यनेन निन्दार्थेनानुपादेयं लक्ष्यते किन्तेन वालवधपातकदूषितेन इत्यादावयम् भिनय इत्यर्थः | मुष्टिमाह अङ्गुल्यो यस्येति | तलमध्य इति अङ्गुष्ठमूलाशङ्कां शमयति | अग्रे सम्यक्स्थिता इति अग्रगोपनविरलत्वं च परिहरति | उपरीति मध्यमाङ्गुलिदेशं सम्पीडयन्नित्यर्थः | संज्ञितः लोके ह्यत्रेव मुष्टिशब्दः प्रसिद्ध इत्यर्थः | व्यायाम इति युद्धे प्रतिमल्लप्रकोष्ठग्रहणे खड्गयुद्धे च | सकल (असि?) ग्रहणात् छुरिकायुद्धदण्डधारण इत्यादि योज्यम् | निर्गमस्यार्द्रकसुरसादेः | पीडने स्तनपीडने महिष्यादिदोहने | संवाहने मृत्पीडने | असियष्टीनाम् तथेति संवाहने वारणे मार्जने | प्. ४०) अस्यैव च यदा मुष्टेरूर्ध्वोऽङ्गुष्ठः प्रयुज्यते | हस्तः स शिखरो नाम तदा ज्ञेयः प्रयोक्तृभिः || ५७ || रश्मिकुशाङ्कुशधनुषां तोमरशक्तिप्रमोक्षणे चैव | अधरोष्ठपादरञ्जनमलकस्योत्क्षेपणे चैव || ५८ || अस्यैव शिखराख्यस्य द्व्यङ्गुष्ठकनिपीडिता | यदा प्रदेशिनी वक्रा स कपित्थस्तदा स्मृतः || ५९ || असिचापचक्रतोमरकुन्तगदाशक्तिवज्रवर्गाणि | शस्त्राण्यभिनेयानि तु कार्यं पथ्यं च सत्यं च || ६० || उत्क्षिप्तवक्रा तु यदानामिका सकनीयसी | शिखरमाह अस्यैव चेति | पुनर्मुष्टिग्रहणं मुष्टिकर्तृणामधिकारे शिखरेणाभिनेये द्वये तत्कर्मणाम् च दृढपीडनादौ मुष्टिमाह अत एवोक्तं प्रयोक्तृभिरिति | रश्मिः प्रग्रहः किरणो वा तेषां संवाहनं ग्रहणमिति संबन्धः अत्र च द्वयोरेकस्य वा प्रयोगः उत्तानाधोमुखपार्श्वगोर्ध्वादिभिश्च | प्रयोगानुसारेनालकस्योत्क्षेपणं गण्डतलादेरुत्पीडनं वा कुटिलीकरणार्थम् | कपित्थमाह अस्यैवेति नामोच्चारण पूर्ववत् प्रयोजनं कपित्थाकारेऽस्मिन् अङ्गुष्ठतर्जन्यावङ्गुली | शस्त्राणीति शराकर्षणानीत्यर्थः | कार्यं सुकृतम् अत्र छोटिकाप्रयोगः | अथ खटकामुखमाह उत्क्षिप्तवक्रेति | उत्क्षिप्ता सती वक्रा अनामिका कनीयसी | पुनर्नामोच्चारणात् शराकर्षणकार्यसत्यपथ्यादावस्य प्रयोगः | प्. ४१) अस्यैव तु कपित्थस्य तदासौ खटकामुखः || ६० || होत्रं हव्यं छत्रं प्रग्रहपरिकर्षणं व्यजनकं च | आदर्शधारणं खण्डनं तथा पेषणं चैव || ६१ || आयतदण्डग्रहणं मुक्ताप्रालम्बसङ्ग्रहं चैव | स्रग्दामपुष्पमालावस्त्रान्तालम्बनं चैव || ६२ || मन्थनशरावकर्षणपुष्पापचयप्रतोदकार्याणि | अङ्कुशरज्ज्वाकर्षस्त्रीदर्शनमेव कार्यं च || ६३ || खटकाख्ये यदा हस्ते तर्जनी संप्रसारिता | हस्तस्सूचीमुखो नाम तदा ज्ञेयः प्रयोक्तृभिः || ६४ || तुरेकः पूर्वस्माद्विशेषे तुर्द्वितीयोऽवधारणे | विरलत्वं मनाक् अनामिका कनिष्ठिकयोर्भवति सहशब्दात् विश्लेषाशङ्का न स्यात् | खटकाङ्क्षायामित्यस्य क्षुत्तृट्पिपासार्तयोरिति वुन् | खटको विटभोग्रदूः(?)तस्य आमुखे यतोऽयं वक्ष्यतेऽतः खटकामुखः | होत्रं स्रुगादि उत्तानेन | हव्यमाज्याद्यामुखेन | प्रग्नहस्य वल्गादेः परिकर्षणं गतिरोधनाय व्यजनं तालवृन्तादिकं चलता | आदर्शधारणं संमुखेन आदर्शो ज्ञातो येनैव गौरीवाहाकारिकामनेनाभिनयन्ति(?) | खण्डनं तालवृन्तादेव्यजनव्यापारो वा | पेषणं कुङ्कुमस्य मृगमदचन्द्रादेः हस्तद्वयेन भागद्वये दीर्घवृत्तचक्रक्रमणाक्षैः परिवृत्तपाद इत्यादौ | आयतदण्डकाष्टादीनां ग्रहणं मुक्ताप्रालम्बानामादौ बाहुद्वयमुभयान्तग्रहणसूचकम् | वस्त्रान्तालम्बनं प्. ४२) अस्य विविधान्प्रयोगान्वक्ष्यामि समासतः प्रदेशिन्याः | ऊर्ध्वनतलोल कम्पितविजृम्भितोद्वाहितचलायाः || चक्रं तटित्पताकामञ्जर्यः कर्णचूलिकाश्चैव | कुटिलगतयश्च सर्वे निर्देश्यास्साधुवादाश्च || ६६ || बालोरगबल्यवधूमदीपवल्लीलताशिखण्डाश्च | परिपतनवक्रमण्डलममिनेयान्यूर्ध्वलोलितया || ६७ || भूयश्चोर्ध्वविरचिता तारा घोणैकदण्डयष्टिषु च | विवाहे च बदूनां प्रणयकोपादौ च पथानुसरणे | आकर्षणस्य केलिवशेन केशादेरयमभिनयः | उत्तरीयालम्बन स्वभावायोगात् स्त्रीप्रदर्शनेऽयमभिनयः स्वक्षेत्रे चातुरश्र्यार्थं तत्कूर्परावधि द्वितीयस्य निवेशं कुर्वन्ति | सूचीमुखमाह खटकाख्य इति | सूच्याकारमेवास्य मुखम् | नताधोमुखा लोला पार्श्वान्तरं यान्ती कम्पिता तत्रैव स्पन्दमाना विजृम्भिता कुञ्चिता प्रसारिता ऊद्वाहिता ऊर्ध्व गच्छन्ती चला अभिनयत्वेन व्रजन्ती | (चक्रं) आयुधे कर्मोपकरणे रथाङ्गे च राष्ट्रजने च | चक्रे ऊर्ध्वमुखं पार्श्वगतं पार्श्वान्तरं भ्रमन्ती कार्या विद्युत्युर्ध्वमुखा गतागता | एवमन्यत्रोत्प्रेक्ष्यम् | मञ्जर्यो लताः कर्णचूलिका कर्णपूरः कुटिलगवयो मीनाद्याः साधुवादाः भद्रं शोभनमित्याद्याः बालसर्पाणां पृथगुपादानं गतिवैलक्षण्यान्मीनेभ्यः | वल्लीलतामञ्जरीणामवान्तरभेद उत्प्रेक्ष्यः तद्यथा - अलाबूप्रभृतयो वल्ल्यः द्राक्षाप्रभृतयो लताः चूतादीनां मञ्जर्यः | शिखण्डः कुमारकाणां काकपक्षः | परिपतनं पातः वक्रं वक्रत्व मण्डलं वर्तुलत्वं समाहारे द्वन्द्वः | भूयो बहुतरमित्यस्मिन्नर्थे चायमभिन्यः | ऊर्ध्वलोलिनत्वोक्तिः प्रयोगवृत्त्या वैचित्र्येण विभजनीया | तारा नक्षत्राणि | घोणा नासिका | (एकः)एकत्वसद्भ्या | दण्डः प्. ४३) विनता च तथा कार्या दंष्ट्रिषु च तथास्ययोगेन || पुनरपि मण्डलगतया सर्वग्रहणं तथैव लोकस्य | प्रणतोन्नते च कार्ये ह्याद्ये दीर्घे च दिवसे च || ६९ || वदनाभ्याशे कुञ्चितविजृम्भिता वाक्यरूपणे कार्या | (श्रवणाभ्याशे वक्रा विजृम्भणे वाक्यरूपणावसरे) मेति वदेति च योज्या प्रसारितोत्कम्पितोत्ताना | परं प्रति तर्जनम् | यष्टिः लगुडः पृथुर्वा नक्षत्रे तर्जन्यूर्ध्वा | दंष्ट्रिषु चकाराद्दंष्ट्रित्वेनाप्रसिद्धेष्वपि राक्षादिषु | आस्ये योगो भागः सृष्टिलक्षणस्तेन सम्बद्धा नता सती | तथेति तेन दंष्ट्राकारेण कार्या सम्मुखतला कार्येत्यर्थः | पुनरपीत्यूर्ध्वाधोमुखत्वप्रसृतमवधार्यते | ग्रहणमिति भावप्रधानः सर्वशब्दः कार्त्स्न्येन ग्रहणमित्यर्थः | लोकस्य प्रत्यक्षेणावलोक्यमानस्य वा स्मर्यमाणस्य वा | तथैवेति अयमिति पुरोनिर्देशेन स इति च कर्णक्षेत्रे परावृत्तिनिर्देशेन ग्रहणस्य लोकतः स्मरणात्मकमभिनयः | एकशब्देन प्रथमत्वात् आद्यो मुख्यो ह्रस्वश्च वीप्सापेक्षया तत्र तत्र प्रणता ऊर्ध्वा यान्ती दीर्घे तून्नता विपरीता दिवसे एकतोऽधस्तलप्रणता अन्यतः प्रोत्तानतलोन्नता परस्परश्लिष्टा संयुतकरणत्वेन पार्श्वात्पार्श्वसंबरणादुदयास्तमयसूचिका | पूर्वं कुञ्चिता ततो विजृम्भिता प्रसारिता वक्रान्तिके कार्यविचारे यदा(?)याप्युत्सारिताभिनीयते | श्रवणाभ्याशे वक्राधिका जृम्भणा रक्ता(वाक्य?)रूपणावसरे इति वा पाठः | मेति वारणार्थे प्रसारिता वदेति अत्रार्थे उत्कम्पितोत्ताना कुञ्चितप्रसारितत्यर्थः | रोषस्य दर्शने स्वेदमार्जने च प्रसारितैव ललाटपट्टादौ स्वेदं हरन्ती | कुन्तलाः केशाः गण्डाश्रयाः पत्रभङ्गादयः तद्विषयेऽभिनये प्. ४४) कार्या प्रकम्पिता रोषदर्शने स्वेदरूपणे चैव || ७१ || कुन्तलककुण्डलाङ्गदगण्डाश्रयसंश्रयेऽभिनये | गर्वेऽहमिति ललाटे रिपुनिर्देशे तथैव च क्रोधे || ७२ || कोऽसाविति निर्देशे च कर्णकण्डूयते चैव | संयुक्ता संयोगे कार्या विश्लेषिता वियोगे च || ७३ || कलहे स्वस्तिकयुक्ता परस्परोत्पीडिता बन्धे | द्वाभ्यां तु वामपार्श्वे दक्षिणतो दिननिशावसानानि || अभिमुखपराङ्मुखीभ्यां विश्लिष्टाभ्यां प्रयुञ्जीत | द्वाभ्यां प्रदर्शयेन्नित्यं सम्पूर्णं चन्द्रमण्डलम् || ७५ || श्लिष्टा ललाटे शक्रस्य कार्या ह्युत्तानसंश्रया) कर्तव्ये तत्क्षेतगा | गर्वे योऽहङ्कारः तत्राभिनये ललाटगता | रिपोः प्रत्यक्षस्य निर्देशे अग्रनता परोक्षस्य रणपूर्वसंरभस्तु विशेषः अनुसन्धाने त्रितयात्मिका स चायं दुष्टात्मा इति | क्रोध इति संरम्भपूर्वः कोपः पूर्वकृत इति | किमर्थात्मा प्रश्नः तत्रासाविति च दूरगतवस्तुनिर्देशे | कर्णकण्डुयनं प्रसिद्धम् कटुकवचनमपि च | संयुक्तेति अधस्तलयोः पार्श्वनैरन्तर्यादित्यर्थः | तद्विभागात्तु भुवि विश्लेषिताभ्यां द्वाभ्यामभिमुख (परिमुखे) पराङ्ग्मुखाभ्या वामपार्श्वं गच्छन्तीभ्यां दिनावसानमभिनयेत् | वामो हि सोमस्य दक्षिणस्तु सूर्यस्याग्रभागः दक्षिणपार्श्व गच्छन्तींभ्यां निशावसानं | विश्लिष्टाभ्यामिति तालमात्रान्तराभ्यामिति दीर्घह्रस्वतांशत्वादौपचारिकाभ्यां | द्वाभ्यां त्वित्यङ्गुष्ठ- प्. ४५) परिमण्डलं भ्रमितया मण्डलमादर्शयेच्च चन्द्रस्य || ७६ || हरनयने च ललाटे शक्रस्य च तिर्यगुत्ताना | (पुनरपि च भ्रमिताग्रा रूपशिलावर्तयन्त्रशैलेषु || परिवेषणे तथैव हि कार्या चाधोमुखी नित्यम् | श्लिष्टा ललाटपट्टेष्वधोमुखी शम्भुरूपणे कार्या || शक्रस्याप्युत्ताना तज्ज्ञैस्तिर्यक्स्थिता कार्या) यस्याङ्गुल्यस्तु विरलाः सहाङ्गुष्ठेन कुञ्चिताः || ७९ || ऊर्ध्वा ह्यसङ्गताग्राश्च स भवेत्पद्मकोशकः | बिल्वकपित्थफलानां ग्रहणं कुचदर्शनं च नारीणाम् || ग्रहणे ह्यामिषलाभे भवन्ति ताः कुञ्चिताग्रास्तु | बहुजातिबीजपूरकमामिषखण्डं च निर्देश्यम् |) || ८१ || प्रसारणे सति आकुञ्चनादित्यर्थः | परिमण्डलं भ्रमितया मण्डलामादर्शयेच्च चन्द्रस्येति | चशब्दो विकल्पार्थः | हरस्य भगवतस्तृतीयनयने प्रदर्शिते सति यदभिनयनं तत्र कर्तव्ये सति ललाटे ऊर्ध्वा वा कार्या | एवं शक्रस्याभिनयने ललाट एवोत्ताना तिरश्चीना च अङ्गुल्या एवात्र प्राधान्यात् | खटकामुखमध्यमया यल्लोके महेश्वरशक्राभिनयनं दृश्यते तत्रालाक्षणिकं मन्तव्यम् | अथ पद्मकोशं लक्षयति यस्याङ्गुल्यस्तु विरला इति | ऊर्ध्वा इति चतुर्वेदवचना(?)इति यावत् | पद्मस्येव कोशोऽभ्यन्तरं विनतं यस्येति तथा | ग्रहणमिति गृह्यतेऽनेनेति ग्रहणमभिनय इत्यर्थः | एवं कुचौ दृश्येते अनेनेति कुचदर्शनं पद्मकोश इति पूर्वेण संबन्धः | बिल्वादीनां तु ग्रहणे ता एवाङ्गुल्योऽग्र- प्. ४६) देवार्चनबलिहरणे समुद्गके साग्रपिण्डदाने च | कार्यः पुष्पप्रकरश्च पद्मकोशेन हस्तेन || ८२ || मणिबन्धनविश्लिष्टप्रविरलचलिताङ्गुलिकराभ्याम् | कार्यो विवर्तिताभ्यां विकसितकमलोत्पलाभिनयः || अङ्गुल्यः संहतास्सर्वाः सहाङ्गुष्ठेन यस्य च | तथा निम्नतलश्चैव स तु सर्पशिराः करः || ८४ || एष सलिलप्रदाने भुजगगतौ तोयसेचने चैव | आस्फोटने च योज्यः करिकुम्भास्फालनाद्येषु || ८५ || अधोमुखीनां सर्वासामङ्गुलीनां समागमः | कनिष्ठाङ्गुष्ठकावूर्ध्वौ स भवेन्मृगशीर्षकः || ८६ || पर्वण्यतिकुञ्चिताश्च भवन्ति | क्रव्यादानामामिषलाभं आमिषग्रहणे च | लभिरत्र ग्रहणे | आमिपलाभे सति यद्ग्रहणं तत्रेति केचित् | बलेर्हरणं दानं वैचित्र्यप्रापणं वा | अग्रपिण्डो गवादेः भोजनाय मृतस्य वा यत्र यत्रोत्सवादौ नान्दीमुखश्राद्धादावपसव्यता न कार्या पर्यग्रं पिण्डदानम् | पुष्पप्रकरश्चेति द्विस्त्रिर्विकीणाग्रेण | सर्पशिरसमाह अङ्गुल्यस्संहता इति | संहताः श्लिष्टाः सहाङ्गुष्ठेनेति कुञ्चितोऽङ्गुष्ठ इत्यर्थः | निम्नं तलं मध्यस्याभिमुखस्य सपशिरस्तुल्यत्वाद्वा तस्येदं नाम | सलिलप्रदाने देवेभ्यः सलिले च प्रतिग्रहार्थ प्रदीयमाने प्रति- प्. ४७) इह साम्प्रतमस्त्यद्य च शक्तेश्चोल्लासनेऽक्षपाते च | स्वेदापमार्जनेषु च कुट्टमिते प्रचलितस्तु भवेत् || ८७ || त्रेताग्निसंस्थिता मध्यातर्जन्यङ्गुष्ठका यदा | काङ्गुलेऽनामिका वक्रा तथा चोर्ध्वा कनीयसी || ८८ || एतेन तरुणफलरूपणानि नानाविधानि च लघूनि | गृहीतुरभिनयो येन | सर्पगतावधोमुखः | तोयोपरोचनं कुङ्कुमचन्दनादौ | आस्फोटनं मल्लयुद्ध ऊरुवाह्वादिषु | मृगशीर्षकमाह मृगस्येव शिरस्थे शृङ्गे यस्य | शीर्षशब्दः प्रकृत्यन्तरम् | इहेति प्रत्यक्षाधिकरणनिर्देशे | साम्प्रतमिति वर्तमानकालनिर्देशे | अस्तीत्यभ्युपगमाभिनये संभवाभिनये च | अद्येति वर्तमाननिर्देशेन गतार्थत्वेऽपि साभिनयेन सूचीमुखेन बाधा माभूदिति पुनरुपात्तम् | एतावत्यधोमुखोऽयं | शक्तेरुल्लासनेऽक्षपाते चोर्ध्वमुखः | गण्डादौ स्वेदमार्जने तदाभिमुखतल ऊर्ध्वमुखः | कुट्टमितं हर्षवशात्सह दुःखोपचारेण स्त्रीणां चेष्टालङ्कारः तत्राभिमुखतलो बाह्ये विकीर्णाङ्गुलिः | काङ्गुलमाह त्रेताग्निसंस्थिता इति | त्रेतारूपा अग्नयः आहवनीयादयः तद्वत्संस्थानमासामिति | विरलयोः श्लिष्ट एवाग्रगोऽङ्गुष्ठ इत्यर्थः | कङ्गुः प्रियङ्गुः तां लातीति तस्यायमर्थः | कङ्गूच्चयने कीदृशः करो भवति | काङ्गुलो वृश्चिक इति तु केचित् | एतेन तरुणानि फलानि तेषामुद्योते मुक्ताफलवदराणि गत्या लघूनीति परिमितानि मृत्पिण्डग्रासानीत्यर्थः | अङ्गुल्यः अङ्गुष्ठस्तर्जनीमध्ये च तासां बहिःक्षेपः | प्. ४८) कार्याणि रोषजानि स्त्रीवचनान्यङ्गुलिक्षेपैः || ८९ || (मरकतवैडुर्यादेः प्रदर्शनं सुमनसां च कर्तव्यम् | ग्राह्यं बिडालपदमिति तज्ज्ञैरेवं प्रयोगेषु ||) || ९० || आवर्तिताः करतले यस्याङ्गुल्यो भवन्ति हि | पार्शागतविकीर्णाश्च स भवेदलपल्लवः || ९१ || प्रतिषेधकृते योज्यः कस्यत्वंनास्तिशून्यवचनेषु | पुनरात्मोपन्यासः स्त्रीणामेतेन कर्तव्यः || ९२ || तिस्रः प्रसारिता यत्र तथा चोर्ध्वा कनीयसी | तासां मध्ये स्थितोऽङ्गुस्ठः स करश्चतुरः स्मृतः || ९३ || अलपल्लवमाह आवर्तिता इति | कनिष्ठादिक्रमेण वर्तना परिवर्तनं वा कुर्वन्त्यः | इयर्तीत्यरः चलः चलत्पल्लवाकारत्पादलपल्लवः | अलपद्मक इति (च) तन्नाम | प्रतिषेधस्य कृते अभिनयकरणाय | कस्य त्वगिति नास्तीति च मिथ्याधिक्षेपार्थे च * *? वचनानि तच्छास्त्रप्रसत्प्रयुक्तमित्यादीनि | पुनरर्ये अहमर्थे उपन्यासे च विरमये अभिनयः स्त्रीणामुपन्यस्यते पुनःपुनरभिनीयते विस्मयापादकत्वादित्युपन्यासः | चतुरमाह तिस्रः प्रसारिता यत्रेति | मध्य इति | मध्यमाया मध्य एव | चत्वारोऽङ्गुल्यङ्गुष्ठश्लिष्ठत्वेन सन्त्यस्मिन्निति अच्प्रत्ययाकारान्तश्चतुरशब्दः | चत्वार्यभिनयनाद्वा चतुरः | सत्त्वकैतवादिषु मुखरागभेदाद्भेदः | विवृतं प्रकारमेकेन अनावेशे आवेशे तु द्वाभ्यां नयनयोरभिनेययोः उपमानोपमेयभावे पद्मदला- प्. ४९) नयविनयनियमसुनिपुणबालातुरसत्त्वकैतवार्थेषु | वाक्ये युक्ते पथ्ये सत्ये प्रशमे च विनियोज्यः || ९४ || एकेन द्वाभ्यां वा किञ्चिन्मण्डलकृतेन हस्तेन | विवृतविचारितचरितं वितर्कितं लज्जितं चैव || ९५ || नयनौपम्यं पद्मदलरूपणं हरिणकर्णनिर्देशः | संयुतकरणेनैव तु चतुरेणैतानि कुर्वीत || ९६ || लीलारती रुचिं च स्मृतिबुद्धिविभावनाः क्षमं पुष्टिम् | संज्ञामात्रां प्रणयं विचारणं सङतं शौचम् || ९७ || चातुर्यं माधुर्यं दाक्षिण्यं मार्दवं सुखं शीलम् | प्रश्नं वार्तायुक्तिं वेषं मृदु शाद्वलं स्तोकम् || ९८ || दिके चैकाकितां निषेद्धुमेवकारः | परगतं लीलाद्यनेनाभिनीयत इति | रुचिं दीप्तिम् | विभावनां ऊहापोहरूपां प्रकर्षं वा | दृष्टिव्यापारे तु कर्तरीमुख एव | सङ्गतं मैत्रीमन्योन्यमग्रश्लेषात् माधुर्य हृद्यं शकारादिवचनादिषु दाक्षिण्यमानुकूल्यं मार्दवं मृदुत्वम् अङ्गुष्ठमध्यमादर्शनेन | शीलं स्वभावं वेषं नेपथ्यं वेशं वा गणिकास्थानं विभवं पार्श्वात्पार्श्वं गच्छता अभि(वि?)भवमभि- प्. ५०) विभवाविभवौ सुरतं गुणागुणौ यौवनं गृहं दारान् | नानावर्णांश्च तथा चतुरेणैवं प्रयुञ्जीत || ९९ || (सितमूर्ध्वेन तु कुर्याद्रक्तं पीतं च मण्डलकृतेन | परिमृदितेन तु नीलं वर्णांश्चतुरेण हस्तेन ||) || १०० || मध्यमाङ्गुष्ठसन्दंशो वक्रा चैव प्रदेशिनी | ऊर्ध्वमन्ये प्रकीर्णे च द्व्यङ्गुल्यौ भ्रमरे करे || १०१ || पद्मोत्पलकुमुदानामन्येषां चैव दीर्घवृन्तानाम् | पुष्पाणां ग्रहणविधिः कर्तव्यः कर्णपूरश्च || १०२ || (विच्युतश्च सशब्दश्च कार्यो निर्भर्त्सनादिषु | बलालापे च शीघ्रे च ताले विश्वासने तथा ||) १०३ || तर्जनीमध्यमाङ्गुष्ठास्त्रेताग्निस्था निरन्तराः | गच्छता चाभिनयेदित्येवमन्यदुत्प्रेक्ष्यम् | दारान् संयुताभ्यां संमुखस्वस्तिकेन दर्शयेदिति | एवं वक्षःप्रभृतिशिरोऽन्तं क्षेत्रविशेषः संयुतासंयुतत्वे चञ्चलत्वस्थिरत्वे संमुखपराङ्मुखोत्तानाधोमुखत्र्यश्रत्वादिकं च यथायोगमुत्प्रेक्ष्य अभिनयविशेषं कुर्यात् | भ्रमरं दर्शयति मध्यमाङ्गुष्ठेति | सन्दंशोऽग्रसंयोगः | तदाकृतित्वाद्भ्रमरो हस्तः | हंसवक्त्रमाह तर्जनीमध्यमाङ्गुष्ठा इति | निरन्तरा इति विरलत्वं निषेधति | श्लक्ष्णादयः श्लक्ष्णत्वादौ वर्तते | प्रस्पन्दनमर्दनमथनविधूननक्षेपणाभ्यावर्तापसारणादि रूपं यथायोगं युक्त्या योज्यम् | प्. ५१) भवेयुर्हंसवक्त्रस्य शेषे द्वे सम्प्रसारिते || १०४ || श्लक्ष्णाल्पशिथिललाघवनिस्सारार्थे मृदुत्वयोगे च | कार्योऽभिनयविशेषः किञ्चित्प्रस्पन्दिताग्रेण || १०५ || समाः प्रसारितास्तिस्रस्तथा चोर्ध्वा कनीयसी | अङ्गुष्ठः कुञ्चितश्चैव हंसपक्ष इति स्मृतः || १०६ || एष च निवापसलिले दातव्ये गण्डसंश्रये चैव | कार्यः प्रतिग्रहाचमन भोजनार्थेषु विप्राणाम् || १०७ || आलिङ्गने महस्तम्भदर्शने रोमहर्षणे चैव | स्पर्शेऽनुलेपनार्थे योज्यः संवाहने चैव || १०८ || पुनरेव च नारीणां स्तनान्तरस्थेन विभ्रमविशेषाः | कार्या यथारसं स्युर्दुःखे हनुधारणे चैव || १०९ || हंसपक्षमाह समाः प्रसारिता इति कनीयस्या ऊर्ध्वम् | तथेति परिश्लिष्टा मूलविनताः कार्या इति यावत् | निवापसलिले तस्योदके दातव्ये धर्मार्थ चोदकदाने | पराङ्मुखाङ्गुलिपृष्ठेन च चिन्तया गण्डसंश्रयणे केचित् | तदसत् हनुधारणं ह्येतत् कस्माद्गण्डसंश्रयं पत्रभङ्गादि | आलिङ्गने महास्तम्भे चाभिनेये संयुतकरणत्वं मन्तव्यं बाहुद्वयमण्डलीकरणेन रोमहर्षणाद्द्वितीयस्कन्धात् स्कन्धान्तरगमनं परोक्षे प्रियजनस्पर्शे द्वितीयहस्तस्वस्तिकेन | अनुलेपने अङ्गसमालम्भने | यथारसमिति शृङ्गारहास्याद्भुतादौ करुणादावपि व्यभिचारिविशेषयोगात् संभाव्यत एवायम् | दुःखे च सति प्. ५२) तर्जन्यऽऽगुष्ठसन्दंशस्त्वरालस्य यदा भवेत् | आभुग्नतलमध्यस्थः स दन्दंश इति स्मृतः || ११० || सन्दंशस्त्रिविधो ज्ञेयस्त्वग्रजो मुखजस्तथा | तथा पार्श्वगतश्चैव रसभावोपबृंहितः || १११ || पुष्पापचयग्रथने ग्रहणे तृणपर्णकेशसूत्राणाम् | शल्यावयवग्रहणे प्रकर्षणे चाग्रसन्दंशः || ११२ || वृन्तात्पुष्पोद्धरणं वर्तिशलाकादिपूरणं चैव | धिगिति च वचनं रोषे मुखसन्दंशस्य कर्माणि || यज्ञोपवीत धारणवेधन गुणसूक्ष्मबाणलक्ष्येषु | योगे ध्याने स्तोके संयुतकरणस्तु कर्तव्यः || ११४ || हनुधारणं यत्तदत्र रसेषु ये भावाः अनुभावा दृष्टिविशेषरोमाञ्चादयः तैरुपबृंहितः शुटीकृत(श्लो-१११) इति सर्वहस्तविशेषाय मन्तव्यं मध्ये परिभाषणात् | सन्दंशमाह तर्जन्यऽऽगुष्ठसन्दंश इति स्पष्टार्थः | पुष्पाणां सूक्ष्माणामपचये अग्रसन्दंशः शल्यानां कण्टकादीनां ग्रहणे | वृन्तगाकृष्य पुष्पस्योद्धरणं यदा कुङ्कुमपुष्पादिः | वर्तिशलाकया अञ्जननाडिकावर्तिकया न्यूनादीनां पूरणम् | वेधने मुक्तादीनां यो गुणो धनुराकृते(ष्टे?)स्तत्र संयुतकरणत्वं च न संश्लेषपणस्यैव अपि तु हस्तद्वयस्याधारनातमेव | तच्च पार्श्वद्वयगतत्वेन उप- प्. ५३) पेलवकुत्सासूयासदोषवचने च वामहस्तेन | किञ्चिद्विवर्तिताग्रः प्रयुज्यते पार्श्वसन्दंशः || ११५ || आलेख्यनेत्ररञ्जनवितर्कवृन्तप्रवालरचनं च | निष्पीडनं तथालक्तकस्य कार्यं च नारीभिः || ११६ || समागताग्रास्सहिता यस्याङ्गुल्यो भवन्ति हि | ऊर्ध्वा हंसमुखस्यैव स भवेन्मुकुलः करः || ११७ || देवार्चनबलिकरणे पद्मोत्पलमुकुलरूपणे चैव | विटचुम्बने च कार्यो विकुत्सिते विप्रकीर्णश्च || ११८ || र्युपरिभावेनोत्प्रेक्ष्यम् | पेलवमसारम् | प्रवालस्य रचनं गण्डतलबाहुशिखरादौ पत्र भङ्गकरणमित्यर्थः | यदि वा पल्लवस्यैव पत्रच्छेद्यालङ्कृतस्य ललाटादौ निवेशितस्य तत्रापसंश्लेषणार्थमस्य हस्तस्य प्रयोगः | नारीभिरिति परिमितालक्तकपीडनमनेनेति दर्शयति | मुकुलमाह समागताग्रा इति | मुकुलाकारत्वान्मुकुलः | देवार्चनादिप्रारम्भे मुकुलव्यापारावेशे तु पद्मकोशवदिति पठता पिटकस्य चुम्बन इति केचित् | शपिटेति (विटेति?) पाठः | स्वाभिप्रायमाविष्कर्तु *? प्रमदासन्निधौ स्वहस्तमेवमुकुलित विटाश्चुम्बन्तीति विटचुम्बनम् | यदि वा विटैर्नारीणां कुचचिबुकादिस्थानेषु अङ्गुलिपञ्चकेन समं सशब्दं नखस्पर्शने कामसूत्रेष्वा- प्. ५४) भोजनहिरण्यगणनामुखसङ्कोचप्रदानशीघ्रेषु | मुकुलितकुसुमेषु तथा तज्ज्ञैरेष प्रयोक्तव्यः || ११९ || पद्मकोशस्य हस्तस्य ह्यङ्गुल्यः कुञ्चिता यदा | ऊर्णनासः स विज्ञेयः केशचौर्यग्रहादिषु || १२० || शिरःकण्डूयने चैव मुष्ठव्याधिनिरूपणे | सिंहव्याघ्रेष्वभिनयः प्रस्तरग्रहणे तथा || १२१ || मध्यमाङ्गुष्ठसन्दंशो वक्रा चैव प्रदेशिनी | शेषे तलस्थे कर्तव्ये ताम्रचूलकरेऽङ्गुली || १२२ || विच्युतश्च सशब्दश्च कार्यो निर्भर्त्सनादिषु | ताले विश्वासने चैव शीघ्रार्थे संज्ञितेषु च || १२३ || च्छुरितकमिति तद्विटचुम्बनम् | हिरण्यं कङ्कणद्वारेणाभिनीयतेऽङ्गुलीयकादीनां तु मोचने | गणना पञ्चसङ्ख्या | तज्ज्ञैरित्युचितामितिकर्तव्यतामनुसन्धापयति | ऊर्णनाभमाह पद्मकोशस्येति | ऊर्णनाभिर्जालकारः क्रिमिः | तस्य यतो मक्षिकादिग्रहणे ईदृक्करणानां सन्निवेशो भवत्यतो मत्वर्थीयोऽत्राच्प्रत्ययः | केशानां ग्रहणे चौर्येण परदर्शनशङ्क्या लाघाअद्यद्ग्रहः | यत्र सिंहव्याघ्रादि स्वस्तिकेन चिबुकक्षेत्रगतेनाभिनयेत् | ते हि स्थिताः स्वस्तिकेन आसने कररुहवन्तश्च | प्रस्तरः पाषाणः निकपपाषाण इत्यन्ये | दर्भच्छटा इत्येके | ताम्रचूडमाह मध्यमाङ्गुष्ठसंन्दंश इति | चूडामुक्तकुक्कुटाकारत्वात्ताम्रचूडः | तालेष्विति ? (ताल इति?) कालमानो यथा क्वचित्तालभुवि सहिज्जु(?) इत्यादौ | प्. ५५) तथा कलासु काष्ठासु निमेषु तु क्षणे तथा | एष एव करः कार्यो बालालापनिमन्त्रणे ||) || १२४ || अथवा - अङ्गुल्यस्संयुता वक्रा उपर्यङ्गुष्ठपीडिताः | प्रसारिता कनिष्ठा च ताम्रचूडकरः स्मृतः || १२५ || शतं सहस्रं लक्षं च कनकं चापि दर्शयेत् | क्षिप्रमुक्ताङ्गुलीभिस्तु स्फुलिङ्गान्विप्रुषस्तथा || इति | असंयुताः करा ह्येते मया प्रोक्ता द्विजोत्तमाः | (अथ संयुतहस्ताः) अतश्च संयुतान्हस्तान् गदतो मे निबोधत || १२७ || संज्ञितं वालादेराह्वानम् | अन्ये तु लक्षणान्तरसस्य पठन्ति अङ्गुल्यः संयुता इत्यादि | मुष्टिरेव प्रसारितकनिष्ठ इत्यर्थः | क्षिप्रं कृत्वा मुक्ताभिरङ्गुलीभिरिति | असंयुता इति | असंयुतास्तावदेते भवन्ति | न त्वेतेऽसंयुता एव | नाप्येत एव कोहलादिभिरन्येषां दर्शनात् | अतश्चेति | एभ्य एवानुसंयुतेभ्यः अन्यश्लेषाद्ये संयुता उत्पद्यन्ते तान् स्वयं निबोधत मदीयं वचनमनादृत्योत्प्रेक्षध्वम् | तथा हि कूर्पराधितत्रिपताकेन पार्श्वे खटकामुखेन स्त्रीणामभिनयः खटकेन कर्णातमागच्छता वामेन च कपित्थमुष्ट्यन्यतरेण वाणमोक्षस्य | एतच्चित्राभिनये प्रतिजागरिष्याम इत्यास्तां तावत् | चकारादन्यानि च वक्ष्यमाणानि निबोधतेति सम्बन्धः | प्. ५६) पताकाभ्यां तु हस्ताभ्यां संश्लेषादञ्जलिः स्मृतः | देवतानां गुरूणां च मित्राणां चाभिवादने || १२८ || स्थानान्यस्य पुनस्त्रीणि वक्षो वक्त्रं शिरस्तथा |) देवतानां शिरस्स्थस्तु गुरूणामास्यसंस्थितः || १२९ || वक्षःस्थश्चैव मित्राणां स्त्रीणामनियतो भवेत् | उभाभ्यामपि हस्ताभ्यामन्योन्यं पार्श्वसङ्ग्रहात् || हस्तः कपोतको नाम कर्म चास्य निबोधत | तेषामञ्जलिं तावल्लक्षयति पताकाभ्यां त्विति | अन्यस्य श्लेषेऽपि न नामान्तरम् | यथा सूचीमुखयोः संबन्धान्यभिनयन्ते | अत्र तु नामान्तरमिति तुशब्दः | स्मृत इति लोकेऽपि प्राञ्जलिः पुस्पकेतु (कुमा २-६३) इत्यादौ प्रसिद्ध इत्यर्थः | सम्यग्ग्रहणेन संमुखं सर्वासामङ्गुलीनामयं श्लेषो लक्ष्यते | उक्तमेव विनियोगं विभजति देवतानामिति तिस्रोऽभिवन्दनापेक्षया कर्मणि षष्ठी स्त्रीणामिति कर्तरि षष्ठी | कपोतमाह उभाभ्यामिति सङ्ख्यापदोपादानं यथारुचि आधाराधेयभावप्रतिपत्त्यर्थम् | कम्पत इति कपोतो भीरुः पक्षी तत्प्रकृतिरन्योऽपि कपोतस्तस्य यतोऽयं भात्यतो नाम्नैव भीतविषयतास्य | तथा हि - रामाभ्युदये प्रथमेऽङ्के वटोः | कुचाभिनयेऽयमेव प्रधानः | वक्षस्स्थ इति सर्वत्र संबध्यते | भीताभिनये तु कम्पितेऽपि | स्त्रीभिरित्यधमोपलक्षणम् विनयग्रहणादौ कुट्टनादेरपि | अयमेव च कूर्माकारत्वात् कूर्मक इति लोके प्रसिद्धः | अङ्गुलिपरिघृष्यमाणावयवत्वात् अङ्गुलिघृष्यमाणस्समुखः | खेदश्चिन्ता | प्. ५७) एष विनयाभ्युपगमे प्रणामकरणे गुरोश्च संभाषे || शीते भये च कार्यो वक्षस्स्थः कम्पितः स्त्रीभिः | अयमेवाङ्गुलिपरिघृष्यमाणमुक्तस्तु खेदवाक्येषु || एतावदिति च कार्यो नेदानीं कृत्यमिति चार्थे | अङ्गुल्यो यस्य हस्तस्य ह्यन्योन्यान्तरनिस्सृताः || १३३ || स कर्कट इति ज्ञेयः करः कर्म च वक्ष्यते | एष मदनाङ्गमर्दे सुप्तोत्थितजृम्भणे बृहद्देहे || १३४ || हनुधारणे च योज्यः शङ्खग्रहणेऽर्थतत्त्वज्ञैः | कर्कटकमाह अङ्गुल्यो यस्येति | अन्योन्यस्य चान्तराणि मध्यानि तैर्निस्सृताः | अन्योन्यसंमुखकर्कटदंस्ट्राद्वयाकारेण अङ्गुलीनामत्रावस्थानात् कर्कटः | मदनेऽङ्गकृते अङ्गमोटने अग्रतः पार्श्वतः ऊर्ध्वं वा भुजयुगलात्पराङ्मुखाङ्गुलिः | सुप्तोत्थितपदमुपलक्षणम् | सर्वदा हि जृम्भणेऽस्य प्रयोगः | बृहद्देहाभिनये तूदरक्षेत्रे सम्मुखतलोऽयं हस्तः | हनुधारणेऽङ्गुलिपृष्ठप्रतिष्ठापितहनुदेशः | शङ्खग्रहणे किञ्चित्सङ्कुचितोऽन्योन्याभिमुखाङ्गुलिः | एतदेवाह अर्थेति - अभिनेयस्यार्थस्य यत्तत्त्वं परमार्थः तद्ये जानन्त्यभिनयेऽनुसन्धातुं शक्नुवन्ति तैः | प्. ५८) मणिबन्धनविन्यस्तावरालौ स्त्रीप्रयोजितौ || १३५ || उत्तानौ वामपार्श्वस्थौ स्वस्तिकः परिकीर्तितः || स्वस्तिकविच्युतिकरणाद्दिशो घनांः खं वनं समुद्राश्च ऋतवो मही तथौघं विस्तीर्णं वाभिनेयं स्यात् | खटकः खटके न्यस्तः खटकावर्धमानकः || १३७ || शृङ्गारार्थेषु योक्तव्यः प्रणामकरणे तथा || अथ स्वस्तिकमाह मणिबन्धनविन्यस्ताविति | यत्र शुद्धमेव स्वस्तिकपदमुपादीयते तत्रेदृश एव सन्निवेशः प्रदेशेषु मन्तव्यः यथा- चित्राभिनयादावर्थप्रकरणादिवशात्त्वन्यत्रापि प्रवर्त्येत | यथा - स्वस्तिकविच्युतिकरणादित्यादौ (९-२०) पताकयोगेऽपि तथापि मणिबन्धनविन्यस्तत्वं नामानुयाययेव रूपम् | अत एव केचिदेतावतास्य लक्षणं परिशिष्टं तूदाह्रणदिगर्थमिति प्रतिपन्नाः | स्त्रीप्रयोजिताविति | पताकस्वस्तिककर्माणि स्त्रीभिरमुनैव कार्याणीत्यर्थः | स्वस्तिकार्थलक्षणसमाकृतित्वात्स्वस्तिकः | खटकावर्धमानमाह खटक इति लभ्यते | अन्ये त्वन्योन्याभिमुखं खटकद्वयमस्य रूपमित्याहुः | खटकस्य आ समन्तात् बहिर्योगादिदं नाम | शृङ्गारार्थेषु शृङ्गारप्रयोजनेषु ताम्बूलग्रहणादिषु | तथा हि वक्ष्यते - खटकावर्धमानं तु कृत्वा विटगतिं व्रजेत् इति | (अ १२-११०) तथेति प्रयोजन एव प्रायेणेश्वरीप्रसादनादौ प्रणाम इत्यर्थः | कुमुदोत्पलकुन्देषु कर्तव्यः शङ्खधारणे इति वा पाठः | प्. ५९) (अन्ये- कुमुदोत्पलवृन्तेषु कर्तव्यश्छत्रधारणे || इति) अरालौ तु विपर्यस्तावुत्तानौ वर्धमानकौ | उत्सङ्ग इति विज्ञेयः स्पर्शस्य ग्रहणे करः || १३९ || सनिष्पेषकृते चैव रोषामर्षकृतेऽपि च | निष्पीडितः पुनश्चैव स्त्रीणामीर्ष्याकृते भवेत् || १४० || उत्सङ्गमाह अरालौ त्विति | विअर्यस्ताविति स्वस्तिकरूपौ | उत्तानाविति स्वसम्मुखौ वर्धमानकाविति विनतौ तेन दक्षिणो वामस्कन्धक्षेत्र इति यावत् | अत एव च प्रकोष्ठस्वस्तिकत्वं लक्ष्यते | स्वस्तिक एव दक्षिणपार्श्वस्थ इति विपर्यस्तत्वमिति केचित् | अधोनखत्वमित्यन्ये | स्वस्तिकाकारौ कूर्परौ कृत्वा कक्षक्षेत्रात् प्रवेशमुक्ताद्बाह्येऽङ्गुल्यो यदा भवन्ति पृष्ठं च हस्तयोर्बहिर्मुखं तदा विपर्यस्तत्वमिति तु युक्ततरम् | उत्सङ्गग्रहणयोग्यत्वकरणादुत्सङ्गः | स्पर्शस्य परोक्षस्य ग्रहणेऽभिनये | निष्पेषः पीडनम् तेन सह यद्यत्क्रियते अतिप्रयत्नेन साध्य इत्यर्थः | रोषकरणे यथा - एषोऽस्मि ते दृढनिपीडनवाहुयन्त्रेत्यादौ | अमर्षकरणे यथा - विदूषकादेरीर्ष्याकरणे प्रसादनानङ्गीकरणे पर्यायात्सकृत्प्रक्षेपात् | सिंहावलोकित इत्यन्ये पठन्ति | कर्तरि कर्मणि वा षष्ठीति व्याचक्षते | प्. ६०) मुकुलं तु यदा हस्तं कपित्थः परिवेष्टयेत् | स मन्तव्यस्तदा हस्तो निषधो नाम नामतः || १४१ || संग्रहपरिग्रहौ धारणं च समयश्च सत्यवचनं च | सङ्क्षेपः सङ्क्षिप्तं निपीडितेनाभिनेतव्यम् || १४२ || (शिखरस्तु यदा हस्तो मृगशीर्षेण पीडितः | निषधो नाम विज्ञेयः स भयार्ते विधीयते || १४३ || गृहीत्वा वामहस्तेन कूर्पराभ्यन्तरे भुजम् | दक्षिणं चापि वामस्य कूर्पराभ्यन्तरे न्यसेत् || १४४ || स चापि दक्षिणो हस्तः सम्यङ्मुष्टिकृतो भवेत् | इत्येष निषधो हस्तः कर्म चास्य निबोधत || १४५ || एतेन धैर्यमदगर्वसौष्ठवौत्सुक्यविक्रमाटोपाः | अभिमानावष्टम्भस्तम्भस्थैर्यादयः कार्याः || १४६ || अथवा - ज्ञेयौ वै निषधो नाम हंसपक्षौ पराङ्मुखौ | जालवातायनादीनां प्रयोक्तव्योऽभिघट्टने ||) १४७ || निषेधमाह मुकुलन्त्विति | कपित्थहस्तेन परिवेष्ट्यमानमुकुलं तदभ्यन्तरे निषण्णमास्त इत्यतोऽयं निषेधः | (सङ्ग्रहः) सम्यग्ग्रहणं शास्त्रार्थादेः परिग्रह्ः स्वीकारः धारणमत्यजनम् समयो नियमः सत्यवचनं तथ्यमिति सङ्क्षेपस्तात्पर्यम् समस्तमेनैव संक्षिप्यमाणमपि | स्वीकृताभिनयेन हि तद्वति द्रव्येऽभिनय इत्युक्तम् | संक्षिप्तं तु सम्यक् क्षिप्तं क्वचित्स्थापितमित्यर्थः | प्. ६१) अंसौ प्रशिथिलौ मुक्तौ पताकौ तु प्रलम्बितौ | यदा भवेतां करणे स दोल इति संज्ञितः || १४८ || सम्भ्रमविषादमूर्च्छितमदाभिघाते तथैव चावेगे | व्याधिप्लुते च शस्त्रक्षते च कार्योऽभिनययोगः || यस्तु सर्पशिराः प्रोक्तस्तस्याङ्गुलिनिरन्तरः | द्वितीयः पार्श्वसंश्लिष्टः स तु पुष्पपुटः स्मृतः || धान्यफलपुष्पसदृशान्यनेन नानाविधानि युक्तानि | ग्राह्याण्युपनेयानि च तोयानयनापनयने च || दोलं लक्षयति अंसाविति | हस्तयोः प्रकर्षेण लम्बमानत्वादेव स्कन्धयोः शैथिल्यमदृढत्वं भवति | पताकाऽऽगुलीनामवष्टम्भान्युद्धारणाय वा करणक्रियायामङ्गुलिशैथिल्यलक्षणायां सत्यामित्यर्थः | दोलाकारत्वेन दोला | अभिनयनव्यापारे योगो यस्य स तथाविधोऽयं हस्तः | कार्य इत्यनेन तत्र तत्राभिनेये पार्श्वात्पार्शान्तरगमनं निपतनं स्तब्धत्वमित्यादिकां तावदितिकर्तव्यतां सूचयति | अभितोऽग्न्यादिव्यसनजो दोषः (अभिघातः) | पुष्पपुटमाह यस्तु सर्पशिरा इति | अङ्गुलिस्थाने निरन्तरं वाढमपि | संमुखत्वं माभूदित्याह पार्श्वेति | द्वितीय इति सर्पशिराश्च हस्तः | हस्तपुटेनेदृशेन पुष्पग्रहणमिति | पुष्पपुट इतरः | प्. ६२) पताकौ तु यदा हस्तावूर्ध्वाङ्गुष्ठावधोमुखौ | उपर्युपरि विन्यस्तौ तदासौ मकरः स्मृतः || १५२ || सिंहव्यालद्वीपिप्रदर्शनं नक्रमकरमत्स्यानाम् | ये चान्ये क्रव्यादा अभिनेयास्तेऽर्थयोगेन || १५३ || कूर्परांसोचितौ हस्तौ यदास्तां सर्पशीर्षकौ | गजदन्तः स तु करः कर्म चास्य निबोधत || १५४ || एष च वधूवराणामुद्वाहे चातिभारयोगे च | स्तम्भग्रहणे च तथा शैलशिलोत्पाटने चैव || १५५ || मकरमाह पताकौ त्विति | अङ्गुष्ठयोर्मकरकर्णद्वयवदवस्थानान्मकरः | द्वीपिनश्चित्रकायाः | मत्स्यानामिति प्रदर्शनमिति संबन्धः | अर्थयोगेनेति अग्रपार्श्वादिषु स्थितचलनादिनार्थवशात्प्रयोज्य इत्यर्थः | गजदन्तमाह कूर्परांसोचिताविति | कूर्परांसशब्देनोभयसामीप्यं तयोरन्तरालं गृह्यते पूर्वदक्षिणे तु यथा तत्राकुञ्चितौ तत्स्थानसंवेष्टनपरौ | तद्यथा वामे वाहौ दक्षिणो दक्षिणे वामहस्तः स्तम्भाकारवेष्टितदन्ताकृतियोगाद्गजदन्तः | वधूनां वराणां च विवाहस्थाननयने शिलोत्पाटने गतागतत्वं मन्तव्यम् | प्. ६३) शुकतुण्डौ करौ कृत्वा वक्षस्यभिमुखाञ्चितौ | शनैरधोमुखाविद्धौ सोऽवहित्थ इति स्मृतः || १५६ || दौर्बल्ये निःश्वसिते गात्राणां दर्शने तनुत्वे च | उत्कण्ठिते च तज्ज्ञैरभिनययोगस्तु कर्तव्यः || १५७ || ज्ञेयो वै वर्धमानस्तु हंसपक्षौ पराङ्मुखौ | जालवातायनादीनां प्रयोक्तव्यो विघाटने || १५८ || सङ्ग्रहपरिग्रहोद्धारणं च समयं च सत्यवचनं च | सङ्क्षेपः संक्षिप्तं निपीडितेनाभिनेतव्म् ||) उक्ता ह्येते द्विविधास्त्वसंयुताः संयुताश्च सङ्क्षेपात् | अभिनयकरास्तु ये त्विह तेऽन्यत्राप्यर्थतः साध्याः || अवहित्थकमाह शुकतुण्डाविति | अभिमुखौ पूर्वाननावञ्चितौ वर्तनया अधोमुखौ सन्तावाविद्धावधोगमितौ | अवहित्थसूचकत्वादवहित्थः | एवं हि कुर्वन्नाशयमात्मीयं नो भिनत्ति | वर्धमानमाह - ज्ञेयो वै वर्धमानश्च हंसपक्षौ पराङ्मुखाविति | अन्योन्यं स्वस्तिकवदवस्थितौ लक्ष्ये तु अन्योन्यनिकटौ दृश्येते | स्वस्तिकताहीनावेव केवलं पराङ्मुखौ परस्परचलनेन विस्तारयोगाद्वर्धमानत्वम् | आदिशब्देन वक्षःकवाटादि | उपसंहरन् सूचयति उक्ता ह्येत इति | उक्ता ह्येते यस्मादेते उक्ताः सङ्क्षेपमाश्रित्याभिनेयविषये निरूपिताः | तुरिति तस्मादन्यत्राप्युक्तात् अभिनेयात् अर्थादभिनया अर्थान्तरेऽपि साधयितुं शक्याश्चार्हाश्च | तुर्हेतौ यस्मादाभिमुख्यतया नार्थमनेकरीति त्वदृष्टार्थमर्थेऽर्थतः | प्. ६४) अन्यैरप्युक्तम् - आकृत्या चेष्टया चिह्नैर्जात्या विज्ञाय वस्तुतः | स्वयं वितर्क्य कर्तव्यं हस्ताभिनयनं बुधैः || इति) नास्ति कश्चिदहस्तस्तु नाट्येऽर्थोऽभिनयं प्रति | यस्य यदृश्यते रूपं बहुशस्तन्मयोदितम् || १६२ || अन्ये चाप्यर्थसंयुक्ता लौकिका ये करास्त्विह | छन्दतस्ते प्रयोक्तव्या रसभावविचेष्टितैः || १६३ || देशं कालं प्रयोगं चाप्यर्थयुक्तिमवेक्ष्य च | हस्ता ह्येते प्रयोक्तव्या नॄणां स्त्रीणां विशेषतः || एवमभिनयमभिधायाभिनयान्तरमप्यस्तीति दर्शयति नास्ति कश्चिदिति | नाट्यमिह तदुपयोगिनो विभागादयः | अत्र हेतुः यस्य यद्दृश्यत इति | एवमुक्तानामेवाभिनयानां साङ्कर्येण प्रयोगमनुज्ञायानुक्तमपि सङ्ग्रहीतुमाह अन्ये चापीति | अर्थोऽभिनयसामर्थ्यं शोभातिशयः | छन्दत इति नाट्याचार्येच्छाप्रवाहानुसारिण्यामित्यर्थः | रसाः स्थायिनः | भावाः सञ्चारिणः तत्सूचकानि यानि विचित्राणि चेष्टितानि सात्त्विकोपाङ्गानि तैः सह | एवं लोकधर्मीप्रदर्शने प्रसिद्धोदाहरणमात्रमभिनेयानां परिगणनमित्याख्येयम् | देशः क्षेत्रविशेषः प्रयोगः सृकुमारोद्धतरूपकविशेषः | अर्थस्य युक्तिरुपपत्तिः मुख्यगौणलाक्षणिकव्यङ्ग्यादिभेदेन | अवेक्ष्येति विचार्येत्यर्थः | प्रयोक्तव्या इति प्. ६५) सर्वेषामेव हस्तानां यानि कर्माणि सन्ति वै | तान्यहं संप्रवक्ष्यामि रसभावकृतानि तु || १६५ || उत्कर्षणं विकर्षणं तथा व्याकर्षणं पुनः | परिग्रहो निग्रहश्चाह्वानं तोदनमेव च || १६६ || संश्लेषश्च वियोगश्च रक्षणं मोक्षणं तथा | विक्षेपधूनने चैव विसर्गस्तर्जनं तथा || १६७ || छेदनं भेदनं चैव स्फोटनं मोटनं तथा | ताडनं चेति विज्ञेयं तज्ज्ञैः कर्म करान्प्रति || १६८ || उत्तानः पार्श्वगश्चैव तथाधोमुख एव च | हस्तप्रचारस्त्रिविधो नाट्यतत्त्वसमाश्रयः ||) १६९ || शक्यार्थे कृत्यः | विशेषत इति | पुरुषाणां तदपेक्षया सामान्यानामाचारा भवन्ति | अत एवोत्तमानामतिस्वल्पप्रचारो हस्ताभिनयः | रसभावकृतानीति | स्थायिसञ्चारिभेदेन तत्तद्विभावभेदवशादित्यर्थः | तथा हि केशानां विदूषकं प्रत्याकर्षणं खटकामुखेन प्रिया प्रत्यरालेन क्रीडाया कलहे मुष्टिनेत्याद्युत्प्रेक्ष्यम् | ऊर्ध्वाधोदूरगमनादन्यथाकरणमुत्कर्षणादि | परिग्रहो मण्डलेन ग्रहणम् | निग्रहो विनाशनं तोदनं ताडनं विक्षेपस्त्यागः सावज्ञं धूननं कम्पनम् | विसर्गः सादरं त्यागः स्फोटनं विकासनं मोटनं सङ्कोचनं इति प्रकारे | एवं प्रकारा अन्येऽपि | रसभावकृतानीति यदुक्तं तत्स्पष्टयितुमाह सर्वे नेत्रभ्रूमुखरागाद्यैर्व्यञ्जिताः कार्या इति | प्रचार ऊर्ध्वोद्वर्तनपाश्वाधोमुखादिः | परोक्षाभिनयने दृष्ट्यादयो हस्तानामनुगताः प्रत्यक्षे तु विपर्ययः | प्. ६६) सर्वे हस्तप्रचाराश्च प्रयोगेषु यथाविधि | नेत्रभ्रूमुखरागाद्यैः कर्तव्या व्यञ्जिता बुधैः || १७० || करणं कर्म स्थानं प्रचारयुक्तिं क्रियां च समवेक्ष्य | हस्ताभिनयः कार्यस्तज्ज्ञैर्लोकोपचारेण || १७१ || उत्तमानां कराः कार्या ललाटक्षेत्रचारिणः | वक्षस्स्थाश्चैव सध्यानामधमानामधोगताः || १७२ || एतत्सर्वमुपसंहरति करणमिति | करणमावेष्टितादि कर्म विधेयं स्थानं ललाटादिक्षेत्रं उत्तानादिसन्निवेशस्थितिश्च प्रचारः स्वल्पादिः | युक्तिर्मुख्यगौणाद्युपपत्तिः न हि गौरयं ब्राह्मण इत्यत्र मृगार्थो हरिणाभिनयेन कर्तरीमुखमृगशीर्षक प्रायेणाभिनीयते | अपि तु मौर्ख्याभिनये चतुरशुकतुण्डशिखरनिषधप्रायेण | युक्तिश्च विशेषणविशेष्यभावादिविचारः | तद्यथा तद्गुणसंविज्ञाने वहुव्रीहौ वृत्तिपदार्थान्यपदार्थाः अभिनेयाः सपुलकस्वेदोद्गमोत्कम्पयेति(रत्ना १- १)उपलक्षणविमुक्ते त्वन्यपदार्थमात्रं तत्राप्युपलक्षणताप्रति पत्त्यै वृत्तिपदार्थोऽप्यभिनेयः | स त्वनावेश इति तूपाध्यायाः | क्रिया त्रिधा विधिनिषेधानुभयरूपा | गच्छ मागच्छेत्यादौ विधौ हि प्रत्ययार्थस्यैव निषेधे चार्थस्यैव अनुभयरूपे प्रकृत्यर्थस्यैव अवतरत्वार्य इत्यादौ तु न विधिः अपि तु प्रकृत्यर्थमात्रं प्रदर्शयितव्यम् | लोटा तु स्वाभिप्रायमात्रं प्रकाश्यमानमप्रधानमिति प्रकृत्यर्थ एवाभिनेयः | अत्र व्यापकं हेतुमाह लोकोपचारेणेति | करणं कृत्वे (कर्मे?) त्यत्र स्थानमुक्तम् | तद्विभजत्युत्तमानामिति | उत्तमे सुवर्णादिद्रव्ये सन्निकृष्टाः मध्यमे मध्यमाः अधमे विप्रकृष्टाः | ललाटादिशब्दानामुपलक्षणार्थत्वादिति केचित् | एतेषु क्षेत्रेषु वर्तनानिवेशपूर्वकमुत्तमा- प्. ६७) ज्येष्ठे स्वल्पप्रचाराः स्युर्मध्ये कुर्वीत मध्यमैः | अधमेषु प्रकीर्णाश्च हस्ताः कार्याः प्रयोक्तृभिः || दयो राजामात्यविदूषकादयोऽभिनयान् यथोचित एवाभिनयस्थाने कुर्युरित्यनेनोत्तमा देवतागुरुनृपादयो यदा निर्दिश्यन्ते तदा ललाटक्षेत्रचारिभिः अञ्जल्यादिहस्तैः मध्यमास्तु चतुरादिभिर्वक्षःक्षेत्रचरैः अधमाः शुकतुण्डाद्यैरधः क्षेत्रचरैः | तेन चन्द्रतारादिदर्शनेऽधमस्यापि ललाटक्षेत्रचरा हस्ता इत्यादि न विरुद्धमिति | इदं च युक्ततरमित्युपाध्यायः - ये चतुरारालाद्यैः सत्यानृतगाम्भीर्यशौण्डीर्यादिविरुद्धविषया उक्तास्तेषां विभागार्थमिदं वचनम् | ये धान्यादय उत्तमा अर्थास्तेषामभिनये ललाटक्षेत्रगत्वमित्यादिक्रमेण | अभिनयगतं विशेषान्तरमप्याह ज्येष्ठे स्वल्पप्रचाराः स्युरित्यादि | प्रयोगे ज्येष्ठे नाटकादौ चतुर्वर्गोपायोपदेशिनि प्रत्यक्षताप्राधान्यादल्पो हस्ताभिनयो मध्यमे तु रञ्जनाफले भाणकादौ मध्यमः प्रत्यक्षे हि तत्राकाशभाषितप्राधान्यात् अधमे तु नृत्तकाव्ये पिद्गकादौ च काल - इति केचित् | एतत्त्वव्यवस्थितत्वादयुक्तम् | नाटकेऽपि भूयस्त्वमस्य | परस्थस्याभिनेयत्वे उत्तमपात्रेण तु प्रधान एवाभिनयः कार्यो न विशेषणात् अस्मिन्नाट्ये गृहीतविशेषणा विशेषधीरिति मन्यमाना एतदमृष्यन्तोऽन्ये त्वाहुः - यत्र पदार्थसमुदायो ह्येकेनाभिनयेन शक्यप्रतिपत्तिरनेकेन वा चलत्वात् | तद्यथा - या स्रष्टुः सृष्टिराद्या (शाकु १-१) इत्यत्र | तत्रैक एव जलहुताशनाभिनय उत्तमेन प्रयोज्यः | अधमेन त्वनेकश्च चलस्वभावत्वात् | मध्यमेन मध्यम इति प्रचारो वर्तना योत्तमेऽल्पेति वा | एतत्तु शोभाविच्युतिकारित्वात् अथ नयनसमुत्थं (रघु २-७५) इत्यादौ प्रयत्नोपहृतस्य (उपमानद्वयस्य) पदार्थे वाक्यवचनमित्यस्य प्रौढत्वस्याभिनये नानुसरणप्रसङ्गान्नाद्रियते | ये परिमितमभिनेयं गमयन्ति ते स्फुटमेवार्थस्य गमकाः अर्थप्रकरणादेस्तत्र सुखेन सहायत्वात् | अनन्तार्थजातव्यवच्छेदकत्वं हि क्लेशः | तादृशा उत्तमप्रकृतिषु हस्ताः | अधमास्तु यथावचनं श्लिष्टमाहुस्त(था प्रकीर्ण)भूयस्त्वमभिनेये सन्दिह्यमानस्याभिनयायत्तमुत्कर्षणं विकर्षण- प्. ६८) लक्षणव्यञ्जिता हस्ताः कार्यास्तूत्तममध्यमैः | लोकक्रियास्वभावेन नीचैरप्यर्थसंश्रयाः || १७४ || अथवान्यादृशं प्राप्य प्रयोगं कालमेव च | विपरीताश्रया हस्ताः प्रयोक्तव्या बुधैर्न वा || १७५ || विषण्णे मूर्छिते ह्रीते जुगुप्साशोकपीडिते | ग्लाने स्वप्ने विहस्ते च निश्चेष्टे तन्द्रिते जडे || १७६ || मित्यादि - एवं केचित् | अपरे त्वाहुः - प्रचारस्त्रिधा पञ्चधा च वक्ष्यते | तत्रोत्तमस्य च फलत्वादेकरस एवोत्तानादिकः प्रचारः अधमस्य त्वतिसङ्कीर्ण इति | इदन्त्वत्र युक्ततमम् - ज्येष्ठेऽभिनये प्रत्यक्षवर्तमानात्मज्ञस्थविषये हस्तव्यापारोऽल्पः | हि -अ-अ समस्सस (शाकु अ ७) इत्यादौ | तथा तन्वी मेघजलाद्रवल्कलतया (विक्र ४-३८) इत्यादौ | अत्र हि सात्त्विकभूयस्त्वात् ज्येष्ठत्वम् | अप्रत्यक्षभाविभूतपरस्थरूपे तु सात्त्विकावकाशाभावोऽनाएशादिति तत्राधमोऽभिनयः सत्त्वहीनोऽधमः (२२-२) स्मृतः इति वचनात् | तत्र विप्रकीर्णा विक्षिप्ता बहुलतमा हस्ताः | यथा कुञ्जरक सुन्दरकादीनां परस्थवृत्तयुद्धवर्णने | एतद्व्यतिरिक्ते तु मध्यमो हस्तप्रयोगः | यथा विदूषकेण प्रत्यक्षं दृश्यमानेनावस्थावेशकारिणि उद्यानादिवर्णने | लक्षणं सौष्ठवं लक्ष्यते | सौष्ठवं लक्षणं प्रोक्तं वर्तनाक्रमयोजितम् (१०-७७) || इति | तद्धीना अधमानाम् | (अथवेत्यादि) | अन्ये त्वाहुः - यादृग्येषां लक्षणमुक्तं तेन्यथा परिपूर्णाश्लिष्टाकृतयोऽभिनयाद्धिनानां श्लिष्टवर्णोच्चारणवदिति | (विपरीनेति) भयजुगुप्सादिप्रयोगे शीतकालादियोगे च सौष्ठवमस्फुटाकृतित्वं अवहित्थादौ चासौष्ठवयोगेऽपि सौष्ठवमित्यादि वैपरीत्यम् | विहस्तो हस्तवैकल्याधानं मत्तो मद्येन प्रमत्तः प्रमादात् उन्मत्तोऽपस्मारी | किं सर्व एवात्र हस्ताभिनय इत्याशङ्क्य प्रतिप्रसवार्थमाह प्. ६९) व्याधिग्रस्ते जरार्ते च भयार्ते शीतविप्लुते | मत्ते प्रमत्ते चोन्मत्ते चिन्तायां तपसि स्थिते || १७७ || हिमवर्षहते बद्धे वारिणाप्लवसंश्रिते | स्वप्नायिते च सम्भ्रान्ते नतसंस्फोटने तथा || १७८ || न हस्ताभिनयः कार्यः कार्यः सत्त्वसमाश्रयः | तथा काकुबिशेषश्च नानार्थरसभावकः ||) १७९ || यत्र व्यग्रावुभौ हस्तौ तत्तदृष्टिविलोकनैः | वाचिकाभिनयं कुर्याद्विरामैरर्थदर्शकैः || १८० || उत्तानः पार्श्वगश्चैव तथाधोमुख एव च | प्रचारस्त्रिविधोऽङ्गानां नाट्यनृत्तसमाश्रयः || १८१ || कार्य इति | ये हस्ता आन्तरी चित्तवृत्तिं सूचयन्ति कपोतक इव भयं कर्कटक इव मदनविजृम्भां ढोल इव शोकं शुकतुण्ड इवेर्ष्यां ते कार्या एव सात्त्विकवदनुभावस्य भावत्वात्तेषां सात्त्विकश्च कार्य एवेत्यावृत्त्या ये तु वाह्यद्रव्यगुणादिगमकास्ते न कर्तव्या इति | यत्र तु सर्व एव न कर्तव्यास्तं विषयमाह यत्र व्यग्राविति यथा सारथेः प्रतोदरश्मिव्यग्रहस्ततायां | विलोकनैरिति) विलोक्यते चित्तवृत्तिरनेनेति मुखरागादि कुर्यादिति स्फुटयेदित्यर्थः | अर्थदर्शकैरिति | अनुवृत्तिलक्षणोपरोधकृतैरित्यर्थः | प्. ७०) अन्ये तु - उत्तानो वर्तुलस्त्र्यश्रः स्थितोऽधोमुख एव च | पञ्च प्रचारा हस्तस्य नाट्यनृत्तसमाश्रयाः || इति | एवं ज्ञेयाः करा ह्येते नानाभिनयसंश्रयाः | अत ऊर्ध्वं प्रवक्ष्यामि करान्नृत्तसमाश्रयान् || १८३ || हस्तानां दिग्भेदावस्थानकृतं प्रचारमाह उत्तान इत्यादि | उत्तानो यथा- विरचितमुर्वीसंस्थमित्यभिनये (९-२२) पताकः यथा वा जिह्वाभिनये आस्यक्षेत्रगोऽग्रगस्त्रिपताकः | पार्श्वगो यथा धनुरभिनये मुष्टिः | अधोमुखो यथा समुद्राभिनये ललाटक्षेत्रगः | स्वस्तिकपताको यथा संवृतविवृत्तं पाल्यमित्यत्र त्रिपताकः उत्तानोऽधस्तलस्त्र्यश्रोऽग्रगोऽधोमुख एव च | पञ्च प्रचारा हस्तस्येति भट्टोद्भटः पठति | तत्राधस्तलेऽधोमुखोऽन्तर्भूतः उत्तानेऽग्रगः त्र्यश्रः त्रिपार्श्वग एव | अत्रापि तु समविषमत्र्यश्रिताद्यवान्तरभेद उत्तानादेर्भवति | इत्थं त्रैविध्यमेव युक्तम् | तत्र रसनिष्पादनमभिनयस्य वस्त्वित्युक्तं तच्च करणानुभावात्मकं तत्राङ्गहाराः करणसञ्चयाः करणस्य च लक्षणमुक्तम् | यानि स्थानानि याश्चार्यो नृत्तहस्ताः (४-५९) इत्यादि | तत्र स्थानकचार्यः स्वक्षेत्रे (१-१३) लक्षयिष्यन्ते | हस्तप्रसङ्गान्नृत्तहस्ता वक्तव्याः | किञ्चाभिनयकृताप्येषां क्वचिद्व्याकर्तुं यथा लताहस्तौ प्रतिपद्येते नृत्ताभिनयनं प्रति (९-२००) यथा आ करिहस्तस्य हस्त्यभिनयनम् | एवं चतुरश्रादीनामपि प्रयोगवशात् द्रष्टव्यमित्याशयेनाह अत ऊर्ध्वमिति | नृत्तस्य करणात्मकस्याश्रयाद्धेतुता | एभ्योऽभिनयहस्तेभ्य ऊर्ध्वमित्येतद्गणना पृष्ठेऽभिनयनहस्तत्वेनापि गणनायोग्यादित्यर्थः | तत्र प्. ७१) वक्षसोऽष्टाङ्गुलस्थौ तु प्राङ्मुखौ खटकामुखौ | समानकूर्परांसौ तु चतुरश्रौ प्रकीर्तितौ || १८४ || हंसपक्षकृतौ हस्तौ व्यावृत्तौ तालवृन्तवत् | उद्वृत्ताविति विज्ञेयावथवा तालवृन्तकौ || १८५ || चतुरश्रस्थितौ हस्तौ हंसपक्षकृतौ तथा | तिर्यक्स्थितौ चाभिमुखौ ज्ञेयौ तलमुखाविति || चातुरश्र्यमूलं नृत्तेऽङ्गस्य जीवितमिति तन्निमित्तभुवौ चतुरश्रौ तावदाह वक्षस इति | वक्षोऽतिक्रम्य योऽष्ठाङ्गुलो देशः तत्रस्थौ | परस्परं त्वष्ठाङ्गुलान्तरत्वात् प्रत्युत चातुरश्र्यं भवतीत्युत्प्रेक्ष्यमेव | प्राङ्मुखाविति यत्संमुखः प्रयोक्ता तत्संमुखावेव न तु प्रयोक्तृसंमुखौ | कूर्परयोरंसयोश्च तुलाधारणवत्समत्वमवैषम्यम् | अङ्गचातुरश्र्यदानाच्चतुरश्रौ | आकर्षणविशेष एवायमभिनयोऽपि द्विवचनादपवादविहीनत्वे द्वयोरेव प्रयोग उपपादनीयो हेतुर्हस्तान्तरस्य द्वितीयप्रकारयोगेऽपि केवलस्यैव चतुरश्रतापदेश एव तुल्यरूपत्वाच्च न चतुष्षष्टिताव्याहतिरिति | एवं सर्वत्र | अथोद्वृत्तौ - हंसपक्षकृताविति | आदौ चतुरश्रौ तत उद्वेष्ठितवर्तनया हंसपक्ष (कृत) इति कृतशब्देनाह विधिम् | एको विवर्तते उत्तानः स तु परस्त्वधोमुखः सन्नावर्तते वक्षस्स्थानमित्यर्थः | एतदेवाह तालवृन्तवदिति | आवर्तनकाले ऊर्ध्वं वर्तमानत्वादुद्धृतौ | नामान्तरेण तालवृन्तविषयत्वमभिनेयत्वं व्रूते | अथ तलमुखौ - चतुरश्रस्थिताविति | तथेति व्यावृत्तोद्वृत्तपूर्वकत्वमस्याह | तेन परिसमाप्तिकाले स्वस्वपार्श्वस्थाङ्गौ त्र्यश्रस्थितौ हंसपक्षावेव | अन्योन्यसंमुखतलत्वात्तलमुखौ | मंडलमहुरिजिम वज्ज-इ (मर्दलं मधुरं वादयति) इत्यादिविषये चायमभिनयोऽपि | प्. ७२) तावेव मणिबन्धान्ते स्वस्तिकाकृतिसंस्थितौ | स्वस्तिकाविति विख्यातौ विच्युतौ विप्रकीर्णकौ || अलपल्लवसंस्थानावूर्ध्वाख्यौ पद्मकोशकौ | अरालखटकाख्यौ चाप्यरालखटकामुखौ || १८८ || अन्ये तु - तथैव मणिबन्धान्ते ह्यरालौ विच्युतावुभौ | ज्ञेयौ प्रयोक्तृभिर्नित्यमरालखटकाविति || इति | भुजांसकूर्पराग्रैस्तु कुटिलाअर्तितौ करौ | पराङ्मुखतलाविद्धौ ज्ञेयावाविद्धवक्रकौ || १९० || अथ स्वस्तिकौ विप्रकीर्णौ च - तावेवेति | तलमुखावेवेत्यर्थः | अन्तस्समीपः | स्वस्तिको नाम लक्षणविशेषः | (विच्युताविति) विशेषेण सहसा च्युतावित्यर्थः | एवं पूर्ववृत्तनृत्तकरचतुष्टयस्वरूपोपजीवित्वं (स्वस्तिक)विप्रकीर्णयोः | अरालखटकामुखौ - अरालखटकामुखावाह अलपल्लवसंस्थानाविति | स्वस्तिकवत्पताकौ कृत्वा अलपल्लवोपलक्षितया व्यावर्तितकरणवर्तनया परिवर्तनान्तया तावेवोर्ध्वमुखौ पद्मकोशौ विधाय समनन्तरमेव भाविनलिनीपद्मकोशाभ्यामरालार्तनया एकमरालं द्वितीयं खटकामुखं चातुरश्र्यसंस्थानेन कुर्यात् | स्वस्तिकेनेति त्वपरे | अरालौ ततः खटकावित्येके | प्. ७३) हस्तौ तु सर्पशिरसौ मध्यमाङ्गुष्टकौ यदा | तिर्यक्प्रसारिताख्यौ च तदा सूचीमुखौ स्मृतौ || १९१ || अन्ये - सर्पशीर्षौ यदा हस्तौ भवेतां स्वस्तिकस्थितौ | मध्यप्रसारिताङ्गुष्ठौ ज्ञेयौ सूचीमुखौ तदा || १९२ || रेचितौ चापि विज्ञेयौ हंसपक्षौ द्रुतभ्रमौ | प्रसारितोत्तानतलौ रेचिताविति संज्ञितौ || १९३ || अथाविद्धवक्रौ - भुजांसकूर्पराग्रैरिति | वृत्तानुरोधादेवं पठितम् | अयं त्वर्थ अंसाभ्यां कूर्पराग्राभ्यां भुजाग्राभ्यां च क्रमेणोपलक्षितं यत्कुटिलं सविलासं (पताकौ) कृत्वा आवर्तनं व्यावर्तितकरणं कनिष्ठादि तद्युक्तावाविद्धौ हलधारिणौ सन्तावधोमुखतलौ यदा भवतस्तथेदं नाम | अथ सूचीमुखौ - हस्तौ तु सर्पशिरसाविति | चतुरश्रस्थानगौ सर्पशिरसौ मध्यमाङ्गुलिनिविष्टाङ्गुष्ठौ कृतौ यदा तिर्यक्प्रसारितं पार्श्वगमनेन सह विकाशितं मुखं तर्जन्यग्ररूपं द्वयोस्तादृशौ बाहु (बहिः ?) प्रसारणेन पर्यायशः क्रियते तदा सूचीमुखौ सूचीवद्बाहु (द्बहिः?) प्रसारणात् | तत्र तुशब्दः पर्यायं द्योतयति | सूचीमुखौ - मध्यप्रसारिताङ्गुष्ठौ स्वस्तिकौ सर्पशीर्षकौ | इत्येकेषां पाठः | अथ रेचितौ - अर्धरेचितौ चापीति | केचित् रेचितावित्यस्य पौनरुक्त्यपरिजिहिर्षवो द्वे लक्षणे इत्याहुः | तेन द्रुतौ भ्रान्तावविकृतावेव हंसपक्षौ रेचितौ प्. ७४) चतुरश्रो भवेद्वामः सव्यहस्तश्च रेचितः | विज्ञेयौ नृत्ततत्त्वज्ञैरर्धरेचितसंज्ञितौ || १९४ || अञ्चितौ कूपरांसौ तु त्रिपताकौ करौ कृतौ | किञ्चित्तिर्यग्गतावेतौ स्मृतावुत्तनवञ्चितौ || १९५ || मणिबन्धनमुक्तौ तु पताकौ पल्लवौ स्मृतौ | बाहुशीर्षाद्विनिष्क्रान्तौ नितम्बाविति कीर्तितौ || तथा प्रसारितोत्तानतलत्वेन कृतावपि रेचिताविति | अन्ये त्वेकमेव वाक्यमित्याहुः | रेचितौ सन्तौ यौ द्रुतभ्रमो तौ रेचितसंज्ञाविति | न पौनरुक्त्यम् | संज्ञयैवार्धरेचिते लब्धे पुनर्वचनमविशेषेण चातुरश्र्यस्य स्थितिं सूचयन् नृत्तहस्तान्तरेष्वपि अङ्गपर्यायेण प्रयोगं सूचयति | अथोत्तानावञ्चितौ - अञ्चिताविति | त्रपताकौ हस्तावंसकपोलललाटानामन्यतमक्षेत्रे कृतौ अञ्चनक्रियया युक्तौ अन्योन्याभिमुखावर्धतिरश्चीनौ तथांसयोः कूर्परयोश्चाञ्चनं किञ्चिच्चलनं भवति | अञ्चनसमये उत्तनत्वप्राप्तेः पुनरप्यञ्चनेनोद्गमनक्रियायोगान्मृदूत्तानावञ्चितौ | अथ पल्लवौ - मणिबन्धनमुक्तौ त्विति | ऊर्ध्वव्यावर्तितकरणेन बाहू प्रसार्य परिवर्तितक्रियया स्वस्तिकाकृती पताकौ | पल्लवाकारत्वात् तथोक्तौ | शिथिलौ पल्लवावित्यन्ये पठन्तः त्रिपताकावित्यनुवर्तयन्ति | अथ नितम्बौ - बाहूशीर्षादिति | पताकाविति वर्तते | स्कन्धक्षेत्राद्विचित्रत्वेनोत्तानत्वाधोमुखत्वपर्यायत्वेन निष्क्रान्तौ पताकौ नाम्ना क्षेत्रस्याक्षेपात् नितम्बक्षेत्रे तथैव पर्यायेण वर्तमानौ नितम्बौ | प्. ७५) केशदेशाद्विनिष्क्रान्तौ परिपार्श्वोत्थितौ तथा | विज्ञेयौ केशबन्धौ तु करावाचार्यसंमतौ || १९७ || तिर्यक्प्रसारितौ चैव पार्श्वसंस्थौ तथैव च | लताख्यौ च करौ ज्ञेयौ नृत्तभिनयनं प्रति || १९८ || समुन्नतो लताहस्तः पार्श्वात्पार्श्वं विलोलितः | त्रिपताकोऽपरः कर्णे करिहस्तः प्रकीर्तितः || १९९ || अथ केशबन्धौ - केशदेशादिति | आदौ पार्श्वक्षेत्रात् तत्पार्श्वपरिवर्तनपूर्वकमुत्थितौ शिरःक्षेत्रं प्राप्तौ अत एव केशदेशान्नितम्बहस्तोक्तवदेव विचित्रहस्तत्वेन निष्क्रान्तौ तथा तेनैव प्रकारेण पुनः केशदेश एव पर्यायशो गतागतत्वेन प्रत्यावर्तमानौ | केशसंबन्धात्केशबन्धौ | आचार्यसंमतौ च शोभातिशयकरणात् | अथ लताहस्तौ - तिर्यक्प्रसारितौ चेति | पताकाविति वर्तते | अन्ये तु नितम्बादिषु त्रिपताकावित्यनुवर्तयन्ति लताहस्तान्तेषु | अथ करिहस्तः - समुन्नत इत्यादि | संश्लेषक्रमेण य उन्नतः | विलोलित इति ढोलावन्नीतः | अपरग्रहणात्त्रिपताक एव ललाटाख्य इति केचित् | खटकाख्योऽपर इत्यन्ये पठन्ति | सजातीयतयानारम्भोऽस्य चतुरश्रवत् विजातीयारम्भोऽपि नृत्ताभ्यासस्य व्यपदेशादरालखटकामुखवत् | अतो न प्. ७६) कटिशीर्षनिविष्ठौ द्वौ त्रिपताकौ यदा करौ | पक्षवञ्चितकौ हस्तौ तदा ज्ञेयौ प्रयोक्तृभिः || २०० || तावेव तु परावृत्तौ पक्षप्रद्योतकौ स्मृतौ | अधोमुखतलाविद्धौ ज्ञेयौ गरुणपक्षकौ || २०१ || हंसपक्षकृतौ हस्तौ व्यावृत्तपरिवर्तितौ | तथा प्रसारितभुजौ दण्डपक्षाविति स्मृतौ || २०२ || द्विवचनम् | एकैकस्य पृथक्प्रयोगे करिहस्तत्वाभावादित्येकवचनमेव | तदाकारत्वाच्चेदं नाम | अथ पक्षवञ्चितौ पक्षप्रद्योतौ च - कटिशीर्षेति पाठः | वृत्तौ पक्षावञ्चितौ गतौ तत्सम्मुखौ तु तं द्योतयतीति तथोक्तौ | एवकारेणानयोः व्यामिश्रतया प्रयोगशोभा भवतीत्याह | अथ गरुडपक्षौ - अधोमुखेति | अधोमुखै नितम्बक्षेत्रे भूत्वा तलेनाविद्धौ ऊर्ध्वगमनं झटिति कुर्वाणौ | तार्क्ष्यभुजाकाराक्षेपात् लिङ्गवाक्यप्रामाणत्वात्सुकरणं प्राप्तं त्रिपताकवाधेन पताकावुपलभ्येते | अथ दण्डपक्षौ - हंसपक्षकृताविति | एकस्य हंसपक्षस्य व्यावर्तने विलासेन पार्श्वाद्वक्षः क्षेत्रस्य निकटस्य वर्तनं तत्समकालमेव द्वितीयस्य स्वदेहपरिवर्तनेन वर्तनं भुजप्रसारणपर्यन्तं पुनरपरेणाङ्गेनेति द्वावपि प्रसारितभुजौ व्यावर्तितपरिवर्तितौ च भवत इति पक्षे पार्श्वतो दण्डवद्भुज इति दण्डपक्षौ | युगपदेव द्वयोरपि प्रसारणं व्यावर्तनपरिवर्तने तु क्रमेणेत्यन्ये | प्. ७७) ऊर्ध्वमण्डलिनौ हस्तावूर्ध्वदेशविवर्तनात् | तावेव पार्श्वविन्यस्तौ पार्श्वमण्डलिनौ स्मृतौ || २०३ || उद्वेष्टितो भवेदेको द्वितीयश्चापवेष्टितः | भ्रमितावुरसः स्थाने ह्युरोमण्डलिनौ स्मृतौ || २०४ || अलपल्लवकारालावुरोऽर्धभ्रमणक्रमात् | अथोर्ध्वमण्डलौ - ऊर्धमण्डलिनाविति | वक्षोदेशाद्व्यावर्तितकरणेन ललाटक्षेत्रेण पार्श्वगमनं विधाय ततोऽपि मण्डलवद्भ्रमणेन प्रसारितावूर्ध्वमण्डलिनौ | प्रसारितभुजाविति वर्तते | ललाटप्राप्तिपर्यन्तेनैवानयोर्लक्षणं शिष्टं तु पार्श्वमण्डलिनोरिति केचित् | तावेव पार्श्वविन्यस्ताविति वचनान्नृत्तप्रसिद्ध (चक्र) वर्तनात्मकावूर्ध्वमण्डलावित्यन्ये | अथ पार्श्वमण्डलौ - तावेवेति | ऊर्ध्वमण्डलावेव पार्श्वगतौ पताकाकृती परस्परसम्मुखौ | अन्ये तु निर्वचनसमर्थनाशयेन स्वपार्श्व एवाविद्धभुजभ्रमणवर्तनात्मकमनयो रूपमाहुः | अथोरोमण्डलिनौ - उद्वेष्टित इति | चकारसंनियोगेन यौगपद्यमाह | उरस इति पञ्चमी | तत आरभ्य पार्श्वक्षेत्रे भ्रमितावेकस्यागमनस्य परस्य गमनमिति वर्तनया | षष्ठीत्यन्ये वदन्तः तत्रैव स्थानमित्याहुः | ऊर्ध्वपार्श्वोरोमण्डलिषु हंसपक्षावित्यपरे वर्तयन्ति | अथोरःपार्श्वार्धमण्डलौ - अलपल्लवकारालाविति | वक्षोदेशत उत्तानो हस्तः संस्तम्भोऽलपल्लवसंस्थानदायिना व्यावर्तितकरणेन निष्कृष्यते | प्. ७८) पार्श्वावर्तश्च विज्ञेयावुरःपार्श्वार्धमण्डलौ || २०५ || हस्तौ तु मणिबन्धान्ते कुञ्चितावञ्चितौ यदा | खटकाख्यौ कृतौ ख्यातां मुष्टिकस्वस्तिकौ तदा || पद्मकोशौ यदा हस्तौ व्यावृत्तपरिवर्तितौ | नलिनीपद्मकोशौ तु तदा ज्ञेयौ प्रयोक्तृभिः || २०७ || तत्समकालं च पार्श्वप्रसारितभुजो द्वितीयो हस्तस्तर्जन्याद्युद्वेष्टितसन्निवेशेनारालरूपदायिना वक्षोदेशमानीयते | पुनरेवमिति | उरसि अर्धमेको हस्तः पार्श्वे च द्वितीयो मण्डलवद्गतागतक्रमणे कुरुत इति तथोक्तौ | अथ मुष्टिकस्वस्तिकौ - हस्तौ तु मणिबन्धान्त इति | एकः कुञ्चितोऽरालवर्तनया अपरोऽञ्चितोऽलपल्लववर्तनया पुनरङ्गपर्याय इत्येवं वर्तनानन्तरं खटकामुखाभ्यां स्वस्तिक इति पारम्पर्येण मुष्टिप्रभवत्वात्खटकस्य मुष्टिकस्वस्तिकव्यपदेशो मुष्टिशिखरकपित्थखटकानामन्यतमप्रयोगानुज्ञानार्थमिति तद्विदः | अथ नलिन्याख्यौ पद्मकोशौ - पद्मकोशाविति | पद्मकोशौ सम्मुखौ श्लिष्टमणिबन्धौ | ततोऽप्येकस्य कनीयसः संमुखमपरस्याङ्गुष्ठं मुखं क्रियया परिवर्तनमिति केचित् | इदं त्वत्र युक्तम् - व्यावृत्तेन परिवृत्तौ यदा पद्मकोशाविति सङ्गतिः | अस्मिन् मुष्टावेव स्वस्तिकक्षेत्रे करौ कृत्वा द्वयोरपि यदा व्यावर्तितकरणेन कनिष्ठादिना परिवर्तनमन्योन्यपराङ्मुखता तदनन्तरं च पद्मकोशद्वयं तदा | नलिन्यामनेककमलसंभवादिदं नाम | प्. ७९) करावुद्वेष्टिताग्रौ च प्रविधायालपल्लवौ | ऊर्ध्वप्रसारिताविद्धौ कर्तव्यावुल्बणाविति || २०८ || पल्लवौ च शिरोदेशं संप्राप्तौ ललितौ स्मृतौ | कूर्परस्वस्तिकगतौ लताख्यौ वलिताविति || २०९ || (करणे तु प्रयोक्तव्या नृत्तहस्ता विशेषतः | तथार्थाभिनये चैव पताकाद्याः प्रयोक्तृभिः || २१० || सङ्करोऽपि भवेत्तेषां प्रयोगोऽर्थवशात्पुनः | प्राधान्येन पुनस्संज्ञा नाट्ये नृत्ते करेष्विह || २११ || अथोल्वणौ ललितौ च | करावुद्वेष्टिताग्राविति | वक्षःक्षेत्रादुद्वेष्टितप्रधानौ हस्तौ विधायोर्ध्वस्कन्धक्षेत्रे प्रसारितावाविद्धौ च स्कन्धाभिमुखचलदङ्गुलीकावलपल्लवौ भवतस्तदोल्बणौ | हर्षपरवशां चित्तवृत्तिं सूचयतः इत्युल्वणौ | अथ ललितौ - अलपल्लवावेव तु शिरःक्षेत्रप्राप्तौ चलिनौ ललितौ चातुरश्र्येणाङ्गलालित्योपादानात् | अथ वलितौ - कूर्परस्वस्तिकगताविति | कूर्परस्थाने स्वस्तिकौ लताहस्तौ वाह्वोर्वलनाद्वलितौ इति | शब्द एवंप्रकारवर्तनान्तरसूचकः | करणसंश्रयान्करान्वक्ष्यामीति करणासक्तत्वाद्विशेषणभागस्यैव संश्रियमाणस्य करणस्य प्रवचनं फलतः | यथा लोहितोष्णीषा ऋत्विजः प्रचरन्तीति वचनान्तरादृत्विजां प्रचारलाभात् द्वाविति (?) विभक्तिरुपपदार्थविधानपरेति करणं करणानि वा इति ह्यर्थे पाठः | (करणं) क्रियते सम्पाद्यते वलादेवाभिनयविशेषो येनाङ्गुलितुलनक्रियाविशेषेण स्वसमाप्तौ निराकाङ्क्षायां स करणं यथा कनिष्ठाद्यावर्तनेनालपल्लवः विपरीतवर्तनायां तु परिसमाप्त्यभावे वर्तनायाः क्रियान्तराकाङ्क्षा | तदेवेदमङ्गतत्त्वविदस्त्रोटनमङ्गस्येति प्. ८०) वियुतास्संयुताश्चैव नृत्तहस्ताः प्रकीर्तिताः |) अतः परं प्रवक्ष्यामि करान्करणसंश्रयान् || २१२ || सर्वेषामेव हस्तानां नाट्यहस्तनिदेशिभिः | विज्ञातव्यं प्रयत्नेन करणं तु चतुर्विधम् || २१३ || अथावेष्टितमेकं स्यादुद्वेष्टितमथापरम् | व्यावर्तितं तृतीयं तु चतुर्थं परिवर्तितम् || २१४ || आवेष्ट्यन्ते यदाङ्गुल्यस्तर्जन्याद्या यथाक्रमम् | अभ्यन्तरेण करणं तदावेष्टितमुच्यते || २१५ || उद्वेष्ट्यन्ते यदाङ्गुल्यस्तर्जन्याद्या बहिर्मुखम् | क्रमशः करणं विप्रास्तदुद्वेष्टितमुच्यते || २१६ || आवर्त्यन्ते कनिष्ठाद्या अङ्गुल्योऽभ्यन्तरेण तु | यथा क्रमेण करणं तद्व्यावर्तितमुच्यते || २१७ || व्यवहरन्ति | तेन येषु हस्तेषु तर्जन्यादेः कुञ्चनं तेषरालवत्क्रिया यथा शुकतुण्डचतुरमृगशीर्षकादिषु | एवमन्यदुत्प्रेक्ष्यम् | पताकस्य तु सर्ववर्तनासु कार्यकरणतया साधारण्यं सर्वप्रकृतित्वम् | तत एव प्राधान्यात् पताकव्यपदेशः | नाट्यशब्देनाभिनयनहस्ताः नृत्तशब्देन नृत्तहस्ताः सूचिताः | अभ्यन्तरेण प्. ८१) उद्वर्त्यन्ते कनिष्ठाद्या बाह्यतः क्रमशो यदा | अङ्गुल्यः करणं विप्रास्तदुक्तं परिवर्तितम् || २१८ || नृत्तेऽभिनययोगे च पाणिभिर्वर्तनाश्रयैः | मुखभ्रूनेत्रयुक्तानि करणानि प्रयोजयेत् || २१९ || तिर्यक्तथोर्ध्वसंस्थो ह्यधोमुखश्चाञ्चितोऽपविद्धस्तु | मण्डलगतिस्तथा स्वस्तिकश्च पृष्ठानुसारी च || २२० || तलसंमुखत्वेन वाह्यपार्श्वात् देहं प्रति वक्षःक्षेत्रपर्यन्तप्राप्त्या | अतो वैपरीत्येन बहिर्मुखत्वं कनिष्ठाद्यावर्तत इति तलसंमुखमेवाभ्यन्तरत्वं वक्षःक्षेत्रात्तु बहिर्निर्गमनम् | एतद्विपर्यासेन बाह्यता | ननु किमेतैरावेष्टिताद्यैरित्याशङ्क्य एतेषां साधकतमत्वं दर्शयति नृत्तेऽभिनययोगे चेति | नृत्ते नाट्ये च करणानि प्रकर्षेण योजयेत् | केन हेतुनेत्याह पाणिभिरिति यतो वर्तना जाता जन्यजनकाश्च पूर्वपश्चाद्भावित्वेन | पाणयो नृत्तनाट्यहस्ताः | कथं प्रयोजयेदित्याह मुखभ्रूनेत्रयुक्तानीति | यतो हि वर्तना धावन्ति तत एव मुखा(दी)नीति तात्पर्यम् | नेत्रभ्रूमुखरागाः यैर्व्यञ्जिता इति त्वियमभिअयेषु पूरणार्था प्रक्रिया | इयं तु वर्तनास्वित्यपौनरुक्त्यम् | बाहुलग्नत्वादङ्गुलिक्रियायास्तद्भेदानाह तिर्यक्तथोर्ध्वसंस्थ इत्यादि | तिर्यगिति पार्श्वगत्या ऊर्ध्वः शिरसोऽप्युपरि गच्छन् अधोमुखो भुवमाश्लिष्यन् अञ्चितो वक्षोदेशान्निष्क्रम्य शिरःक्षेत्रमेव प्रत्यागतः अपविद्धो मण्डल प्. ८२) उद्वेष्टितः प्रसारित इत्येते वै स्मृताः प्रकारास्तु | बाह्वोरिति करणगता विज्ञेया नर्तकैर्नित्यम् || २२१ || हस्तानां करणविधिर्मया समासेन निगदितो विप्राः | अत ऊर्ध्वं व्याख्यास्ये हृदयोदरपार्श्वकर्माणि || २२२ || आभुग्नमथ निर्भुग्नं तथा चैव प्रकम्पितम् | उद्वाहितं समं चैव ह्युरः पञ्चविधं स्मृतम् || २२३ || निम्नमुन्नतपृष्ठं च व्याभुग्नांसं श्लथं क्वचित् | आभुग्नं तदुरो ज्ञेयं कर्म चास्य निबोधत || २२४ || गतेः सर्वतो भ्रमन् | पृष्ठं स्वकायस्यानुसरतीति पृष्ठानुसारी | उद्वेष्टितो मणिबन्धनवर्तनया निष्क्रामणप्रसारितस्य तु स्पष्टमेवाग्रमनुधावन् | एतेषु करणेषु चतुर्षु द्रुतमध्यविलम्बितादिवैचित्र्येण बाहुपर्यायेण च समस्तानि योजनया यदा नियुज्यन्ते तदा घातवर्तनादिशतसहस्राण्यत्रैवान्तर्भूतानीति यदेके चत्वारिंशतमन्ये शतमाहुस्तन्मिथ्यैव | तदाह करणगता विशेषा अवश्यं ज्ञातव्या इति | नित्यमेतद्व्यतिरिक्तप्रयोजनाभावात् | अथोरसः कर्माण्याह आभुग्नमित्यादि | निम्नमिति ससङ्कोचम् | क्वचिदिति मध्ये मध्ये श्लथं शिथिलं निरवष्टम्भं कृत्वा व्याभुग्नावधः पतन्ता- प्. ८३) सम्भ्रमविषादमूर्च्छाशोकभयव्याधिहृदयशल्येषु | कार्यं शीतस्पर्शे वर्षे लज्जान्वितेऽर्थवशात् || २२५ || स्तब्धं च निम्नपृष्ठं च निर्भुग्नांस समुन्नतम् | उरो निर्भुग्नमेतद्धि कर्म चास्य निबोधत || २२६ || स्तम्भे मानग्रहणे विस्मयदृष्टे च सत्यवचने च | अहमिति च दर्पवचने गर्वोत्सेके च कर्तव्यम् || (अत्र केचित् - क्षेपकोऽयम् - दीर्घनिःश्वसिते चैव जृम्भणे मोटने तथा | बिब्बोके च पुनः स्त्रीणां तद्विज्ञेयं प्रयोक्तृभिः ||) ऊर्धक्षेपैरुरो यत्र निरन्तरकृतैः कृतम् | प्रकम्पितं च तज्ज्ञेयमुरो नाट्यप्रयोक्तृभिः || २२९ || हसितरुदितेषु कार्यं श्रमे भये श्वासकासयोश्चैव | हिक्के दुःखे च तथा नाट्यज्ञैरर्थयोगेन || २३० || विवांसौ | यत्र शीतेनापि विना दुर्दिने एवमेव मार्गे भ्रमणमिति वर्ष इत्युक्तम् | सम्यगुत्थितं कृत्वा निष्क्रान्तौ शुद्धा(भुग्ना ?) वंसौ यत्र | हिक्का स्पष्टम् | प्. ८४) उद्वाहितं तूध्वकृतमुरो ज्ञेयं प्रयोक्तृभिः | दीर्घोच्छ्वासोन्नतालोके जृम्भणादिषु चेष्यते || २३१ || सर्वैरेवाङ्गविन्यासैश्चतुरश्रकृतैः कृतम् | उरः समं तु विज्ञेयं स्वस्थं सौष्ठवसंयुतम् || २३२ || एतदुक्तं मया सम्यगुरसस्तु विकल्पनम् | अत. परं प्रवक्ष्यामि पार्श्वयोरिह लक्षणम् || २३३ || नतं समुन्नतं चैव प्रसारितविवर्तिते | तथापसृतमेवं तु पार्श्वयोः कर्म पञ्चधा || २३४ || कटी भवेत्तु व्याभुग्ना पार्श्वमाभुग्नमेव च | तथैवापसृतांसं च किञ्चित्पार्श्वं नतं स्मृतम् || २३५ || नतस्यैवापरं पार्श्वं विपरीतं तु युक्तितः | कटिपार्श्वभुजांसैश्चाभ्युन्नतैरुन्नतं भवेत् || २३६ || आयामनादुभयतः पार्श्वयोः स्यात्प्रसारितम् | प्. ८५) परिवर्तात्त्रिकस्यापि विवर्तितमिहेष्यते || २३७ || निवर्तनापनयनाद्भवेदपसृतं पुनः | पार्श्वलक्षणमित्युक्तं विनियोगं निबोधत || २३८ || उपसर्पे नतं कार्यमुन्नतं चापसर्पणे | प्रसारितं प्रहर्षादौ परिवृत्ते विवर्तितम् || २३९ || विनिवृत्ते त्वपसृतं पार्श्वमर्थवशाद्भवेत् | एतानि पार्श्वकर्माणि जठरस्य निबोधत || २४० || क्षामं खल्वं च पूर्णं च सम्प्रोक्तमुदरं त्रिधा | तनुक्षामं नतं खल्वं पूर्णमाध्मातमुच्यते || २४१ || क्षामं हास्येऽथ रुदिते निःश्वासे जृम्भणे भवेत् | व्याधिते तपसि श्रान्ते क्षुधार्ते खल्वमिष्यते || २४२ || पूर्णमुच्छ्वसिते स्थूले व्याधितात्यशनादिषु | अन्ये तु - क्षामं खल्लं समं पूर्णमुदरं स्याच्चतुर्विधम् ||) २४३ || प्. ८६) इत्येतदुदरस्योक्तं कर्म कट्या निबोधत | छिन्ना चैव निवृत्ता च रेचिता कम्पिता तथा || २४४ || उद्वाहिता चेति कटी नाट्ये नृत्ते च पञ्चधा | कटी मध्यस्य वलनाच्छिन्ना सम्परिकीर्तिता || २४५ || पराङ्मुखस्याभिमुखी निवृत्ता स्यान्निवर्तिता | सर्वतो भमणाच्चापि विज्ञेया रेचिता कटी || २४६ || तिर्यग्गतागता क्षिप्रं कटी ज्ञेया प्रकम्पिता | नितम्बपार्श्वोद्वहनाच्छनैरुद्वाहिता कटी || २४७ || पुनश्चासां प्रवक्ष्यामि विनियोगप्रयोजनम् | छिन्ना व्यायामसम्भ्रान्तव्यावृत्त प्रेक्षणादिषु || २४८ || निवृत्ता वर्तने चैव रेचिता भ्रमणादिषु | कुब्जवामननीचानां गतौ कार्या प्रकम्पिता || २४९ || स्थूलेषूद्वाहिता योज्या स्त्रीणां लीलागतेषु च | कम्पनं वलनं चैव स्तम्भनोद्वर्तने तथा || २५० || प्. ८७) विवर्तनं च पञ्चैतान्यूरुकर्माणि कारयेत् | नमनोन्नमनात्पार्ष्.एर्मुहुः स्यादूरुकम्पनम् || २५१ || गच्छेदभ्यन्तरं जानु यत्तु तद्वलनं स्मृतम् | स्तम्भनं चात्र विज्ञेयमपविद्धक्रियात्मकम् || २५२ || वलिताविद्धकरणादुद्वर्तनमितीरितम् | पार्ष्णिरभ्यन्तरं गच्छेद्यत्र तत्तु निवर्तनम् || २५३ || गतिष्वधमपात्राणां भये चापि हि कम्पनम् | वलनं चैव कर्तव्यं स्त्रीणां स्वैरपरिक्रमे || २५४ || साधसे च विषादे च स्तम्भनं सम्प्रयोजयेत् | व्यायामे ताण्डवे चैव कार्यमुद्वर्तनं बुधैः || २५५ || विवर्तनं च कर्तव्यं सम्भ्रमादिपरिक्रमे | शिष्टकटीत्रिकस्कन्धकर्माणि पार्श्वकर्माणीति | गतेषु तदुक्तमपविद्धक्रियात्मकमिति निष्क्रियत्वमिति यावत् | प्. ८८) यथादर्शनमन्यच्च लोकाद्ग्राह्यं प्रयोक्तृभिः || २५६ || इत्यूर्वोर्लक्षणं प्रोक्तं जङ्घयोस्तु निबोधत | आवर्तितं नतं क्षिप्तमुद्वाहिताथापि वा || २५७ || परिवृत्तं तथा चैव जङ्घाकर्माणि पञ्चधा | वामो दक्षिणपार्श्वेन दक्षिणाच्चापि वामतः || २५८ || पादो यत्र व्रजेद्विप्रास्तदावर्तितमुच्यते | जङ्घास्वस्तिकयोगेन क्रमादावर्तितं नयेत् ||) २५९ || जानुनः कुञ्चनाच्चैव नतं ज्ञेयं प्रयोक्तृभिः | विक्षेपाच्चापि जङ्घायाः क्षिप्तमित्यभिधीयते || २६० || नतं स्याज्जानुनमनात्क्षिप्तं विक्षेपणाद्वहिः |) उद्वाहितं च विज्ञेयमूर्ध्वमुद्वाहनादिह || २६१ || प्रतीपनयनं यत्तु परिवृत्तं तदुच्यते | आवर्तितं प्रयोक्तव्यं विदूषकपरिक्रमे || २६२ || नतं चापि हि कर्तव्यं स्थानासनगतादिषु | क्षिप्तं व्यायामयोगेषु ताण्डवे च प्रयुज्यते || २६३ || तथा चोद्वाहितं कार्यमाविद्धगमनादिषु | ताण्डवादौ प्रयोक्तव्यं परिवृत्तं प्रयोक्तृभिः || २६४ || प्. ८९) इत्येवं जङ्घयोः कर्म पादयोस्तु निबोधत | उद्घट्टितः समश्चैव तथाग्रतलसञ्चरः || २६५ || अञ्चितः कुञ्चितश्चैव पादः पञ्चविधः स्मृतः | स्थित्वा पादतलाग्रेण पार्ष्णिर्भूमौ निपात्यते || २६६ || यस्य पादस्य करणे भवेदुद्घट्टितस्तु सः || अयमुद्वेष्टितकरणेष्वनुकरणार्थं प्रयोगमासाद्य | द्रुतमध्यमप्रचारः सकृदसकृद्वा प्रयोक्तव्यः || स्वभावरचितो भूमौ समस्थानश्च यो भवेत् | समपादः स विज्ञेयः स्वभावाभिनयाश्रयः || स्थिरः स्वभावाभिनये नानाकरणसंश्रये || २६९ || चलितश्च पुनः कार्यो विधिज्ञैः पादरेचिते || बहिः पार्ष्णिक्षेपाच्च पतनमाविद्धमूरोः वर्तना करण इति क्रियायां सत्यामित्यनेन पुनःपुनः पादतलाग्रात्तु स्थानं च कर्तव्यमिति दर्शयति | ऊर्ध्वविकृतस्य घट्टनानुद्घट्टितः उद्वेष्टितरूपं यत्करणमुदेष्ट्यन्ते यदाङ्गुल्य इत्यादि तदेव बाहुकर्मभेदाद्बहुधा | तत्रास्य प्रयोग इति वर्तनाश्रयो विनियोगः | केचित्तु प्रयोगमासाद्यानुकरणार्थमप्यस्य प्रयोग इत्यूचुः | यथा विक्रमोर्वश्यादौ पुरूरवःप्रभृतेः | एतेन नाट्यविषयो विनियोग उक्तः | प्. ९०) समस्यैव यदा पार्ष्णिः पादस्याभ्यन्तरे भवेत् || २७० || बहिः पार्श्वस्थितोऽङ्गुष्ठस्त्र्यश्रपादस्तु स स्मृतः || त्यक्त्वा (कृत्वा?) समपदं स्थानमश्वक्रान्ते तथैव च | स्याद्विक्लबादिष्वर्थेषु त्र्यश्रः पादो यथाविधि) || (अस्यैव समपादस्य पार्ष्णिरभ्यन्तरे भवेत् | त्र्यश्रपादः स विज्ञेयः स्थानकादिषु संश्रयः ||) उत्क्षिप्ता तु भवेत्प्रार्ष्णिः प्रसृतोऽङ्गुष्ठकस्तथा | अ ल्यश्चाञ्चिताः सर्वाः पादेऽग्रतलसञ्चरे || तोदननिकुट्टने स्थितनिशुभने भूमिताडने भ्रमणे | विक्षेपविविधरेचकपार्ष्णिकृतागमनमेतेन || पाष्णिर्यस्य स्थिता भूमौ पादमग्रतलं तथा || २७५ || अग्रेण नतेन च न त्वरत इति | तथा तोदनं प्रेरणम् निकुट्टनं तदवग्रहणं स्थितं स्थानकादि शुभनं पीडनं (ताडनं) हननं विक्षेपो भूतस्यापसारणं प्. ९१) अङ्गुल्यश्चाञ्चिताः सर्वाः स पादोऽञ्चित उच्यते || पादाग्रस्थितसञ्चारे वर्तितोद्वर्तिते तथा || २७६ || एष पादाहते कार्यो नानाभ्रमरकेषु च || उत्क्षिप्ता यस्य पार्ष्णिः स्यादङ्गुल्यः कुञ्चितास्तथा | तथाकुञ्चितमध्यश्च स पादः कुञ्चितः स्मृतः || उदात्तगमने चैव वर्तितोद्वर्तिते तथा || २७८ || अतिक्रान्तक्रमे चैव पादमेतं प्रयोजयेत् || उत्क्षिप्ता तु भवेत्पार्ष्णिरङ्गुष्ठाग्रेण संस्थितः || २७९ || वामश्चैव स्वभावस्थः सूचीपादः प्रकीर्तितः || नृत्ते नूपुरकरणे प्रयोगस्तस्यकीर्तितः ||) २८० || पादजङ्घोरुकरणं समं कार्यं प्रयोक्तृभिः | पादस्य करणे सर्वं जङ्घोरुकृतमिष्यते || २८१ || भ्रान्तकं मनसः विविधरेचकः करपादरेचकः | अञ्चिता इति प्रसृताः | अञ्चितमुद्वर्तितं विदूषकादिगतौ | भ्रमरी चारी येषु प्रयोगेषु ते भ्रमरकाः | सूचीं षष्ठं पादमन्ये पठन्ति | नूपुरस्य पादभूषणस्य करणे बन्धने | कट्यूरुजङ्घापादकर्माण्येव परव्यामिश्रीभूततावैचित्र्येण समुदिततया प्रयुज्यमानानि चारीत्युच्यन्ते | तत्समुदायस्य मण्डलभेदेन गतिर्निष्पद्यत इति कट्यादिपादान्तकर्मणैव चार्य उक्ताः | अत एव तासां विनियोगः पृथङ्नोक्तः | समनन्तरं त्वध्यायत्नयं तद्वैचित्र्योदाहरणप्रदर्शनार्थमित्येतत्सर्वं मनसि कृत्वाह पादजङ्घोरुकरणमित्यादि | सममिति सह | अत्र हेतुः पादस्येति नाभिजङ्घोरुकरणमित्यादिकर्मस्वन्यं पादकर्मेत्यर्थः | प्. ९२) यथा पादः प्रवर्तेत तथैवोरुः प्रवर्तते | तयोः समानकरणात्पादचारीं प्रयोजयेत् || २८२ || इत्येतदङ्गजं प्रोक्तं लक्षणं चैव कर्म हि | अतःपरं प्रवक्ष्यामि चारीव्यायामलक्षणम् || २८३ || इति श्रीभारतीये नाट्यशास्त्रे अङ्गाभिनयो नाम नवमोऽध्यायः || एतदेव स्फुटयति यथा पाद इति | तयोरिति मध्ये जड्वापि स्वीकृता | अत्रैवं सर्वमाङ्गिकमियतेवोक्तमिति दर्शयति इत्येतदिति | अनन्तरवक्तव्यस्यासूत्रयति अतःपरमिति | चारीव्यायामा लक्ष्यन्ते उपलक्ष्यन्ते उदाहरणतया येनेति शिवम् || शिशिरतरकिरणकलिकालङ्कारविभक्तिभक्तभङ्गुरतापः | अभिनवगुप्तो नवमाध्याये सन्देहतापमपनुदतति स्म || इति श्रीमहामाहेश्वराभिनवगुप्तविरचितायां नाट्यवेद विवृतावभिनवभारत्यां आङ्गिकाध्यायो नवमः || श्रीः नाट्यशास्त्रम् दशमोऽध्यायः (एवं पादस्य जङ्घाया ऊरोः कट्यास्तथैव च | समानकरणे चेष्टा चारीति परिकीर्तिता ||) १ || विधानोपगताश्चार्यो व्यायच्छन्ते परस्परम् | यस्मादङ्गसमायुक्तास्तस्माद् व्यायाम उच्यते || २ || निश्चलस्तितिमद्व्योमभूचारीसद्गतिप्रदः | सर्वदा ध्वनिमात्रात्मा शम्भुर्विजयतात् प्रभुः || चारीव्यायामलक्षणमित्युक्तम् | तत्र समासे सन्देहः व्यायामशब्दार्थे च चरेर्हि (इञ्) करणे भावे वा औणादिक इति कृदिकारादक्तिन ङिष् इति च चारीशब्दः प्रसिद्धार्थ इत्यभिप्रायेण सन्देहद्वयमपाकर्तुमाह - विधानोपगता इति | अन्योन्ययोजनापतिताश्चार्यो व्यायामशब्दस्यार्थ इति तात्पर्य | चार्य एव व्यायाम इति कर्मधारय इत्यर्थः | अन्वर्थस्तु व्यायच्छन्ते इति परस्परतया आपतन्ति | कुत्र नियम इत्याह - परस्परं पूर्वा चारी परत्र नियता (न तु) पूर्वस्यामिति तेनाकर्मकत्वादात्मनेपदं परस्परोपपदाच्चेति कर्मव्यतिहारजमात्मनेपदं निषेधति न तु आङोयमहन इति | ननु किं तन्नियमनमित्याह | विधानोपगता इति प्रधानेनैकस्या यतः अपरा उपगता वलादेवागता | नन्वेवमन्योन्याश्रयम् ? न अङ्गेन प्रधानभूतेन केनचित् सम्यगायुक्ताः प्रयुक्ताः प्रवर्तिता प्. ९४) एकपादप्रचारो यः सा चारीत्यभिसंज्ञिता | द्विपादक्रमणं यत्तु करणं नाम तद्भवेत् || ३ || करणानां समायोगः खण्ड इत्यभिधीयते | खण्डैस्त्रिभिश्चतुर्भिर्वा संयुक्तैर्मण्डलं भवेत् || ४ || चारीभिः प्रसृतं नृत्तं चारीभिश्चेष्टितं तथा | चारीभिः शस्त्रमोक्षश्च चार्यो युद्धे च कीर्तिताः || ५ || यत्रायत्रापेक्षया बहुवचनम् | एतदुक्तं भवति - किंचिदङ्गं प्रधानं यत् संभवति यथा हस्तो वा अभिनये पादो वा गतौ तदा तदुपयोगिनी चारी प्रधानं तच्चारीसंपत्त्युचिता च पूर्वा चारी आश्रीयते परयाचेति परस्परनियमात्यश्चार्योव्यायाम इति | तत्र व्यायामस्य संक्षिप्तमध्यमविस्तीर्णतया भेदान्निरुपयति | एकपादप्रचारो एकः एकाकिपादेन श्रोण्यादिनचारो व्याक्षिप्तः | द्विपादेति | पादशब्देन तत्प्रचारः | नामेति तुर्व्यायामप्रसिद्धादन्यदेवेदं संज्ञात्वेनाधुनैव नियम्यत इत्यर्थः | एष संक्षिप्तो व्यायामः अभिनयान्तरादौ | करणानामिति बहुवचनात् त्रीन् (त्रीणि?)कपिञ्जलानालभेतेति यथा | अन्यथा बहुत्वानियमे खण्डानां मण्डलेभ्यः क्व प्रविभागः | एष मध्यमो व्यायामः उपवृत्त्येधमानौ | त्रिभिश्चौर्भिरित्येतच्चतुरश्रतालाभिप्रायेण वाग्रहणान्मिश्रणमपि सूचयन् सङ्ख्यान्तरमपि गृह्णीते | तथा हि - चतुर्थे सूचीविद्धाख्ये (११-१२) मण्डले तु याश्चारीर्वक्ष्यति सूचीमाद्यं पदं दध्यादित्यादि | (११-१३) सप्तमे त्वलाताभिख्ये - भ्रान्त्वा चारीभिरेताभिः पर्यायेणाथ मण्डलम् | पट्सङ्ख्यं सप्तसङ्ख्यं वा इति (११-२२) द्वादशेऽद्ध्यर्धिका इति | एवमन्यत्र | तत्र लौकिकत्वं तावच्चारीणां दर्शयति चारीभिरिति नृत्तं वाऽङ्गहारात्मकत्वं च तच्चारीभिः प्रसृतं च व्याप्तमिति प्रत्येकं चेष्टितं गतिः | शस्त्रमोक्ष इति चक्रकुन्तादियुद्धं युधमिति खड्गहननादियुद्धं नियुद्धं च | प्रकृतेऽप्युपयोजयति - प्. ९५) यदेतत्प्रस्तुतं नाट्यं तच्चारीष्वेव संस्थितम् | न हि चार्या विना किंचिन्नाट्येऽङ्गं संप्रवर्तते || ६ || तस्माच्चारीविधानस्य संप्रवक्ष्यामि लक्षणम् | या यस्मिंस्तु यथा योज्या नृत्ते युद्धे गतौ तथा || ७ || समपादा स्थितावर्ता शकटाख्या तथैव च | अध्यर्धिका चाषगतिर्विच्यवा च तथापरा || ८ || एडकाक्रीडिता बद्धा ऊरूद्वृत्ता तथाड्डिता | उत्स्पन्दिताथ जनिता स्यन्दिता चापस्यन्दिता || ९ || यदेतदिति | यच्छब्देन व्याख्यातधर्मपूर्वक एतच्छब्देन व्याख्यास्यमानधर्मयोग. परामृश्यत इति वितततां नाट्यस्याह | किंचिदङ्गमिति शिरोहस्तादि किंचिद्धि चार्या सह किंचित्पूर्वापरभावेन | संप्रवर्तत इति संवर्तते खलत्वेन प्रवर्तते क्रियया सम्यक् प्रवर्तते वा अनित्येनेति वैकल्पिकोऽप्युप सर्गार्थयोगः तथाङ्गेऽपि स्वीकारतत्त्वं(?)निरूप्यत इति भर्तृमित्राचार्यः | प्रकृताधिकारिखेदावहत्वाच्च न पदवाक्यवित्परिचितताप्रकटनमात्रलालसात्मकमतिरिति विरमति(म्यते?) | लक्षणमिति उदाहरणम् | नृत्त हति करणाङ्गहारादौ | यस्मिन्निति | नपुंसकमित्येकशेषः तथेति उक्तं वक्ष्यते चेति प्. ९६) समोत्सारितमत्तल्लि मत्तली चेति षोडश | एता भौम्यः स्मृताश्चार्यः शृणुताकाशिकीः पुनः || अतिक्रान्ता ह्यपक्रान्ता पार्श्वक्रान्ता तथैव च | ऊर्ध्वजानुश्च सूची च तथा नूपुरपादिका || ११ || डोलापादा तथाक्षिप्ता आविद्धोद्वृत्तसंज्ञिते | विद्युद्भ्रान्ता ह्यलाता च भुजङ्गत्रासिता तथा || १२ || मृगप्लुता च दण्डा च भ्रमरी चेति षोडश | आकाशिक्यः स्मृता ह्येता लक्षणं च निबोधत || १३ || पदैर्निरन्तरकृतैस्तथा समनखैरपि | शेषः | तत्र नृत्ते उक्तं युद्धे वक्ष्यते न्यायेपूह्यमिति शेषः गतौ च द्वादशाध्याये वक्ष्यते - इत्यध्यायत्रयस्यार्थ इह सूचितः | तत्रोद्देशमाह - सभावेति (भौम्य इति?) भूमौ भवा भौम्यः एवमाकाशिक्यः उपरिचरताम् | स्मृता इति वेदोदाहरणेऽत्र यावत्स्मर्यते तावद्व्युत्पादनार्थं शिष्टानि | तैर्वक्तव्यम् तेनैतन्नाशङ्कनीयम् | यदि नेदं परिगणनं कियता भेदेनोक्तेति न तत्र स्पष्टम् | यल्लक्षणमनन्वर्थं च तद्व्याक्रियते | प्. ९७) समपादा तु सा चारी विज्ञेया स्थानसंश्रया || १४ || भूमिघृष्टेन पादेन कृत्वाभ्यन्तरमण्डलम् | पुनरुत्सारयेदन्यं स्थितावर्ता तु सा स्मृता || १५ || निषण्णाङ्गस्तु चरणं प्रसार्य तलसञ्चरम् | उद्वाहितमुरः कृत्वा शकटास्यां प्रयोजयेत् || १६ || सव्यस्य पृष्ठतो वामश्चरणस्तु यदा भवेत् | तस्यापसर्पणं चैव ज्ञेया साध्यर्धिका बुधैः || १७ || अथ समपादा - ननु सममादा कथं वा चारीत्याह - स्थानसंश्रयेति यदा समपाद एव स्थानान्तरं गच्छति तदा चरणश्चारी भवत्येव योग्यतया तथा व्यपदेशादिति भावः | अथ स्थितावर्ता - भूमिघृष्टेनेति अग्रतलसञ्चरेणाभ्यन्तरमण्डलं द्वितीयपार्श्व जानुस्वस्तिकान्तं पुनःशब्दो विशेषं द्योतयन् सन्नि(वेश)योगमाह | तेन स चेत् स्वस्तिकत्वेन श्लिष्टस्ततो द्वितीयमुत्सारयेत् स्वपार्श्वं कर्षयेदेकस्य स्थानमपरस्यामिति तथा || अथ शकटास्या - निषण्णाङ्गस्त्विति प्रयत्नधृतपूर्वकाय इत्यर्थः | शकटमसनीयं क्षेप्यं यया | एकस्मिन्नु पादे समेऽङ्गुल्यञ्चितं पक्षेतरं कृत्वा जानुनः कुञ्चने जङ्घाप्रसरणे च स्वपार्श्वे च त्र्यश्रिततलसञ्चरस्थापनं तु निरोधन (रेचन?) मिवेति केचिदेनामाहुः | एतच्च लक्षणं लक्ष्यार्थासङ्गतमेव | अथाध्यर्धिका - सव्यस्येति दक्षिणस्य | पृष्थत इति पार्ष्णिदेशे | तस्येति दक्षिणस्योपसर्पणे स्वपार्श्वार्धत्र्यश्रिततया स्थितिः | अव्यतिरेकेति अध्यर्धतालान्तरत्वादयो मन्तव्याः | एकस्य पूर्णता गतिरन्यस्य पादस्य पूर्णार्धकेत्यन्ये | करणप्राधान्याच्चैवमुक्तं वामस्यापि पृष्ठसङ्गतमेव | प्. ९८) पादः प्रसारितः सव्यः पुनश्चैवापसर्पितः | वामः सव्यापसर्पी वा चापगत्यां विधीयते || १८ || विच्यवात्समपादाया विच्यवां संप्रयोजयेत् | निकुट्टयंस्तलाग्रेण पादस्य धरणीतलम् || १९ || तलसञ्चरपादाभ्यामुत्प्लुत्य पतनं तु यत् | पर्यायशश्च क्रियते एडकाक्रीडिता तु सा || २० || अथ चाषगतिः - सव्येति दक्षिणस्य पृष्थत इति सव्योऽपसर्पत्येव सर्वत्र | प्रसारित इति तालमात्रमग्रतः पुनः स एवापसर्पितो द्वितालमात्रं पश्चान्नीतः वामः सव्येन सहापसर्पति | किंचिदुत्प्लुत्य सव्यवामावपसर्पतः श्लिष्यतश्चेति सत्रासमपसर्पणादौ चापस्येव गतिः चापगतिः | सव्योपसर्पि चेत्यन्ये पठन्ति तत्र श्लिष्टत्वं शब्दो (सव्यो?)क्तत्वमपसर्पणं चार्थः || अथ विच्यवा - पादस्येति पादयोरित्यर्थः | अथैलकाक्रीडिता - उत्प्लुत्या किंचिदेकह् सक्थिगुल्फदेशेभ्यः पुनरुत्प्लुतिः अङ्गान्तरेणैवमिति पर्यायशः पतनं यत्र चार्या सा अजिकागतितुल्यत्वादेडकाक्रीडिता || प्. ९९) अन्योन्यजङ्घासंवेधात्कृत्वा तु स्वस्तिकं ततः | ऊरुभ्यां वलनं यस्मात्सा बद्धा चार्युदाहृता || २१ || तलसञ्चरपादस्य पार्ष्णिर्बाह्योन्मुखी यदा | जङ्घाञ्चिता तथोद्वृत्ता ऊरूद्वृत्तेति सा स्मृता || २२ || अग्रतः पृष्ठतो वापि पादोऽग्रतलसञ्चरः | द्वितीयपादनिर्घृष्टो यस्यां स्यादड्डिता तु सा || २३ || अथ बद्धा - केवलयोरेवोर्वोर्वलनं स्थित एव जङ्घास्वस्तिक इति बद्धांकेचिदाहुः | अन्ये तु स्वस्तिकापसरणेन पादतलाग्रयोर्मण्डलभ्रमणपूर्वकं स्वस्वपार्श्वगमनमिति यदूरुवन्धनमाहुः | जङ्घयोः संबन्धनात् अनु बद्धा || अथोरूद्वृत्ता - अग्रतलसञ्चरस्य पादस्य संबन्धिनी पार्ष्णिर्द्वितीयपादपृष्ठभागौन्मुख्यं यदा भवति जङ्घा च जानुनमनादाकुञ्चिता उद्वृत्ताद्वितीयजङ्घा सम्मुखं वलनात् तथा ऊरोरूर्ध्वविवर्तनात् लज्जेर्ष्यादिविषया ऊरुद्धृत्ता | अन्ये तु पार्ष्णिद्वितीयस्य तलसञ्चारबाह्योन्मुखीत्याहुः || अथाड्डिता - अग्रत इति | अपिस्समुच्चये वा पर्याये | तेन समस्थितस्यैकस्य द्वितीयस्तलसञ्चरः क्रमादग्रे पृष्ठे च निर्घृष्टः श्लिष्टः कार्य इति अड्डिता प्. १००) शनैः पादो निवर्तेत बाह्येनाभ्यन्तरेण च | यद्रेचकानुसारेण सा चार्युत्स्पन्दिता स्मृता || २४ || मुष्टिहस्तश्च वक्षस्स्थः करोऽन्यश्च प्रवर्तितः | तलसञरपादश्च जनिता चार्युदाहृता || २५ || पञ्चतालान्तरं पादं प्रसार्य स्यन्दितां न्यसेत् | द्वितीयेन तु पादेन तथापस्यन्दितामपि || २६ || पादस्य स्वस्थानातिक्रमणात् | अड्डु अतिक्रमहिंसयोरिति पठन्ति सत्त्वे च रूपम् || अथोत्स्पन्दिता - बाह्येन कनिष्ठाङ्गुलिभागेन अभ्नन्तराङ्गुष्ठभागेन निवर्तते चेदु(भयोः पादयोः) गमागमं कुरुते | किमवधीत्याह पादरेचितस्यापसारेण शोभापेक्षयोत्क्रान्तमस्या | यन्नद्याः प्रत्यावर्तनरूपस्पन्दितकृत् तत्तुल्यत्वादियमुत्स्पन्दिता | रेचकं नृत्तहस्तमत्र केचिदाहुः || अथ जनिता - तलसञ्चरपादः प्रवर्तित इति | एतदेवास्याः स्वरूपं मुष्टेर्वक्षोगामित्वं हस्तान्तरस्य च प्रवर्तनमितिकर्तव्यतामात्रम् | समस्तगतीनामियं जननं करोति प्रारम्भरूपत्वादिति जनिता || अथ स्यन्दितापस्यन्दिते - क्रमसमो निषण्णोरुः पादो दक्षिणस्तुपञ्चतालात् प्रसारितः | तालः स्मृतः मध्यमया इति | सा स्यन्दिता प्रसारणधर्मत्वात् | एतद्विपर्ययादस्या अपि सव्येन स्यन्दितेनेति अङ्गपर्यायाच्च लब्धाप्येषा प्रयोगे साहचर्यनियमख्यापनार्थं पुनर्निरूपिता | आलीढप्रत्यालीढयोस्तु पादद्वयमपि त्र्यश्रितसंस्थानं मण्डलस्थानतो जीवित्वं यद्वक्ष्यते अस्यैव दक्षिणं प्. १०१) तलसञ्चरपादाभ्यां घूर्णमानोपसर्पणैः | समोत्सरितमत्तल्लि यायामे समुदाहृता || २७ || उभाभ्यामपि पादाभ्यां घूर्णमानोपसर्पणैः | उद्वेष्टितापविद्धैश्च हस्तैर्मत्तल्ल्युदाहृता || २८ || एता भौम्यः स्मृताश्चार्यो नियुद्धकरुणाश्रयाः | आकाशिकीनां चारीणां संप्रवक्ष्यामि लक्षणम् || २९ || पादं पञ्चतालान् इत्यादि स्यन्दितायास्तु नैवमिति शेषः | स्थानस्य स्थितिप्रधानता चार्यास्तु गतिप्रधानतेत्यपि विशेषः | अथ समोत्सरितमत्तल्लि - तलसञ्चरजङ्घास्वस्तिकेनाभ्यन्तरे यदान्यस्य तदेव च द्वितीयतलसञ्चरं करोति ततो घूर्णमानयोस्तयोः उपसर्पणमित्यन्ये | समः अविकलः(अ) अवनं रक्षणं उत् तदर्थं सरितः गतिमान् मदनं मत् मदं तनोतीति मत्तत् तस्य लयो गमनं यस्यामिति समोत्सरितमत्तल्लि | सरितशब्दो रि गतौ विन्यस्यते सहेन समासे च मदनं मुत्क्षिपः लयनं लीः | सरिशब्दस्य प्रातिपदिकात् तृचि वा सरितशब्दः | सं आ उत् सरित-इत्यन्ये पठन्ति | मदेन यो न विकलीभूतः रक्षार्थं चान्यताः पलायते तस्य वै द्विधा गतिरिति मध्यमदविषयेयं चारी सम्पद्यते | अथ मत्तली - पादाभ्यामिति भूमिश्लिष्टाशेषतालाख्यामिति जङ्घास्वस्तिकयोगेनार्धत्र्यश्रिभागाभ्यां घूर्णमानत्वेनापसर्पणाद्वा अगाढमदविषया मत्तल्ली | नियुद्धकरणाश्रया इति नियुद्धऽनादिसिद्ध एताः करणाङ्गहारेषु च ततो नाट्ये | स्मृता इत्यानेनोपवेदसंबन्धत्वेन वेदोऽत्र प्रमाणमिति दर्शितं वीयोगदिक्प्रदर्शनं चेदं मन्तव्यम् | प्. १०२) कुञ्चितं पादमुत्क्षिप्य पुरतः संप्रसारयेत् | उत्क्षिप्य पातयेच्चैनमतिक्रान्ता तु सा स्मृता || ३० || ऊरुभ्यां वलनं कृत्वा कुञ्चितं पादमुद्धरेत् | पार्श्वे विनिक्षिपेच्चैनमपक्रान्ता तु सा स्मृता || ३१ || कुञ्चितं पादमुत्क्षिप्य जानुस्तनसमं न्यसेत् | उद्घट्टितेन पादेन पार्श्वक्रान्ता विधीयते || ३२ || कुञ्चितं पादमुत्क्षिप्य जानुस्तनसमम् न्यसेत् | द्वितीयं च क्रमस्तब्धमूर्ध्वजानुः प्रकीर्तिता || ३३ || अथातिक्रान्ता - उत्क्षिप्ता यस्य पार्ष्णिरिति (१-२७७) कुञ्चितं तद्द्वितीयगुल्फक्षेत्रे कृत्वा किंचित् पुरतः प्रसार्य प्रकृतिभेदेन चतुस्तालाद्यन्तरमुत्क्षिप्याग्रेण भूमौ निपात्यत इति गन्तव्यातिक्रमादतिक्रान्ता | अथापक्रान्ता - ऊरू च स्तनोपलक्षितां पूर्वं (बद्धां) कृत्वा ततः पादमुद्धृत्य पार्श्वे क्षिपेदित्यपक्रमणादपक्रान्ता | अथ पार्शक्रान्ता - कुञ्चितं पादं स्वपार्श्वेनोपरि नीत्वा भूमौ पार्ष्ण्या पातयेदिति पूर्वं कुञ्चनाद्बलददेवोद्घाटितत्वं भवति तस्य हि लक्षणं स्थित्वा पादतलाग्रेण पार्ष्णीर्भूमौ निपात्यत इति (९-२६६) इयमेवपार्ष्णिचण्डधातेति प्रसिद्धा | अन्ये तु द्वितीयोरुक्षेत्रं यावदुत्क्षिप्योद्घाटितेन पातयेदित्याहुः || अथोर्ध्वजानुः - क्रमस्तब्धमिति यथा तस्योत्क्षेपस्तथास्य स्तब्धतेत्यर्थः | प्. १०३) कुञ्चितं पादमुत्क्षिप्य जा र्ध्वं संप्रसारयेत् | पातयेच्चाग्रयोगेन सा सूची परिकीर्तिता || ३४ || पृष्ठतो ह्यञ्चितं कृत्वा पादमग्रतलेन तु | द्रुतं निपातयेद्भूमौ चारी नूपुरपादिका || ३५ || कुञ्चितं पादमुत्क्षिप्य पार्श्वात्पार्श्वन्तु दोलयेत् | पातयेदञ्चितं चैव दोलपादा प्रकीर्तिता || ३६ || कुञ्चितं पादमुत्क्षिप्य आक्षिप्य त्वञ्चितं न्यसेत् | जङ्घास्वस्तिकसंयुक्ता चाक्षिप्ता नाम सा स्मृता || ३७ || अथ सूची - जानुध्वं जानुपर्यन्तां जङ्घां प्रसारयेत् यदि वा जानुनोरूर्ध्वमूरुपर्यन्तां जङ्घा सकलां प्रसार्याग्रयोगेनापातयेदिति | सूच्याकारत्वात् सूची || अथ नूपुरपादिका - पृष्ठत इति पार्ष्णिर्यस्य स्थिता भूमौ इत्यञ्चितम् (९- २७५) कृत्वा तं पृष्ठतः स्फिक्पार्ष्णिश्लेषपर्यन्तं नीत्वा स्वपार्श्वेऽग्रतलेनाञ्चितं जङ्घां पातयेदिति | नूपुराणां झणज्झणिति शब्दजननात् स्वरितार्थत्वमनया भवति नूपुरयोजनं चेति तथोक्ता | अथ डोलपादा - उत्क्षिप्येति दक्षिणक्षेत्रान्तं स्वपार्श्वं निनीय ततोऽपि स्वपार्श्वं दोलयेदिति दोलाकारेण नयेत् ततः स्वपार्श्वे पार्ष्ण्या निपातयेत् | अथाक्षिप्ता - आक्षिप्येति | अग्रतस्त्रितलोत्क्षेपादर्घमण्डलवत् पार्श्वान्तरं नीत्वा स्वस्तिकेन पार्ष्ण्या भुवि पातयेत् | प्. १०४) स्वस्तिकस्याग्रतः पादः कुञ्चितश्च प्रसारितः | निपतेदञ्चिताविद्धमाविद्धा नाम सा स्मृता || ३८ || पादमाविद्धाअवेष्ट्य समुत्प्लुत्य निपातयेत् | परिवृत्य द्वितीयं च सोद्वृत्ता चार्युदाहृता || ३९ || पृष्ठतो वलितं पादं शिरोघृष्टं प्रसारयेत् | सर्वतो मण्डलाविद्धं विद्युद्भ्रान्ता तु सा स्मृता || ४० || पृष्ठप्रसारितः पादो वलितोऽभ्यन्तरीकृतः | पार्ष्णिप्रपतितश्चैव ह्यलाता संप्रकीर्तिता || ४१ || अथाविद्धा - विश्लिष्टजङ्घस्यैव स्वस्तिकस्य संबन्धी कुञ्चितः पादः प्रसारितः तत आविद्धस्सन् स्वपार्श्वे द्वितीयपार्ष्णेः क्षेत्रे पार्ष्ण्या पातितः कार्यः | अथोद्वृत्ता - आविद्धमिति आविद्धचारीसंबन्धिनं कुञ्जितमित्यनेन आविद्धाशेषभूतेयमिति दर्शयति | आवेष्टनं द्वितीयोरुक्षेत्रगपार्ष्णित्वं | तमेव पादमुत्प्लुत्य भ्रमरकं कृत्वा पातयेत् | ततो द्वितीयमित्यूर्ध्व वर्तमानत्वादुद्वृत्ता | अथ विद्युद्भ्रान्ता - पृष्ठत ऊरुमूलादिति केचित् | उपाध्यायस्तु पृष्ठतः पार्श्वात् पश्चद्भागे वलितं कृत्वा शिरःसंश्लेषात् तद्द्वारेण सर्वत ऊर्ध्वाधः पार्श्वेषु मण्डलवद्भ्रमितं प्रसारयेदिति विद्युद्भ्रान्ता (इति) | अथालाता - पूर्वं पश्चाद्भागे प्रसारितस्ततो वलनेनाभ्यन्तरीकृतो द्वितीयोरुदेशादभिमुखतलं च नीतः ततः स्वपार्श्वपार्ष्ण्या पातित इति अलातचक्राकृतिरलाता | प्. १०५) कुञ्चितं पादमुत्क्षिप्य त्र्यश्रमूरुं विवर्तयेत् | कटीजानुविवर्ताच्च भुजङ्गत्रासिता भवेत् || ४२ || अतिक्रान्तक्रमं कृत्वा चोत्प्लुत्य वीपातयेत् | जङ्घाञ्चिता परिक्षिप्ता सा ज्ञेया हरिणप्लुता || ४३ || नूपुरं चरणं कृत्वा पुरतः संप्रसारयेत् | क्षिप्रमाविद्धकरणं दण्डपादा तु सा स्मृता || ४४ || अथ भुजङ्गत्रासिता - द्वितीयोरुमूलक्षेत्रान्तं कुञ्चितमुत्क्षिप्य कटिजानुनिवर्तनेन नितम्बसम्मुखपार्ष्णित्र्यश्रमुरुं विवर्तयेत् | स्वपार्श्वगजानुकमुत्तनपादतलं कुर्यादिति पादोपान्तभुजगभयभावितगतिसादृश्याद्भुजङ्गत्रासिता | अथ हरिणप्लुता-अतिक्रान्तचार्युक्तकुञ्चितं पादमुत्क्षिप्योत्प्लुत्य च तमेव पातयेत् तदनन्तरं द्वितीया जङ्घा अञ्चितपादा सती पृष्ठभागे पश्चाद्देशे क्षिप्ता कार्येति मृगप्लुतितुल्या सब्धि होदु इत्यादौ विदूषकादेर्दृश्यते | अथ दण्डपादा - नूपुरपादोक्तं कुञ्चितं पादं द्वितीयपार्ष्णिगं कृत्वाग्रतः प्रसारयेत् कथं क्षिप्रं कृत्वा तथा आविद्धकरणं आविद्धस्वदेहक्षेत्रसम्मुखीकृतजान्वग्रात् क्रिया यत्र | ऊरुजानुजङ्घस्य स्तब्धत्वेन दण्डाकारत्वाद्दण्डपादा | प्. १०६) अतिक्रान्तक्रमं कृत्वा त्रिकं तु परिवर्तयेत् | द्वितीयपादभ्रमणात्तलेन भ्रमरी स्मृता || ४५ || आकाशिक्यः स्मृता ह्येता ललिताङ्गक्रियात्मिकाः | धनुर्वज्रासिशस्त्राणां प्रयोक्तव्या विमोक्षणे || ४६ || अग्रगौ पृष्ठगौ वापि ह्यनुगौ वापि योगतः | पादयोस्तु द्विजा हस्तौ कर्तव्यौ नाट्ययोक्तृभिः || ४७ || अथ भ्रमरी - अतिक्रान्तचार्युक्तं कुञ्चितं पादमुत्क्षिप्य भुजङ्गत्रासितवत् त्र्यश्रमूरुं विवर्त्य द्वितीयपादतलभ्रमणे त्रिकं परिवर्तयेदिति सर्वशरीरपरिवर्तनद्वारेण नेमिभ्रमणाद्भ्रमरी | इतिकर्तव्यताशेषं विनियोगादिकं चासां दर्शयति - ललिताङ्गक्रियात्मिका इति धनुर्वज्रेत्यादि च | अथ कायशोभां निरूपयन् व्यापकविनियोगं चारीणां दर्शयति - अग्रगावित्यादि | इदं तात्पर्यं - इह कदाचिद्गतेः प्राधान्यं कदाचिद्धस्तव्यापारस्य कदाचिद्द्वयोः आद्ये पक्षे पादविक्षेपस्यानुगौ तदनुसारिणौ तत्पश्चाद्भाविनौ च हस्तौ द्वितीये हस्तव्यापारस्यानुसारेण पश्चाद्भावेन च पादौ तृतीये द्वयोरपि | तुल्यकालताविनियोगपारतन्त्र्येण च प्रवृत्तिः | योग औचित्यम् | कायशोभायोजनायेह चात्राध्यायाग्रे चार्यः प्रस्तुताः प्. १०७) यतः पादस्ततो हस्तो यतो हस्तस्ततस्त्रिकम् | पादस्य निर्गमं कृत्वा तथोपाङ्गानि योजयेत् || ४८ || पादचार्यां यथा पादो धरणीमेव गच्छति | एवं हस्तश्चरित्वा तु कटीदेशं समाश्रयेत् || ४९ || एताश्चार्यो मया प्रोक्ता ललिताङ्गक्रियात्मिकाः | स्थानान्यासां प्रवक्ष्यामि सर्वशस्त्रविमोक्षणे || ५० || वैष्णवं समपादं च वैशाखं मण्डलं तथा | प्रत्यालीढं तथालीढं स्थानान्येतानि षण्णृणाम् || ५१ || (१०-७३) इति तत्प्राधान्यं यदा भवति तदा प्रयोजाअ कीदृशी कार्येति स्पष्टयितुमाह - यतो हस्त इति | तथेति तेनैव प्रकारेण उपाङ्गानि भ्रुनेत्रादीनि | ननु पादस्य क्रियायां यदि हस्तस्य गतिक्रिया तर्हि तद्विश्रान्तौ हस्तस्य को वृत्तान्त इत्याशङ्क्याह - पादचार्यामिति समाप्तायामिति शेषः | एवकारोऽप्यसंभावनां निरस्यते | हस्त इति | अर्धचन्द्रो नृत्ते नाट्ये नृत्ते तु पक्षप्रद्योतौ पक्षवञ्चितावपि पादस्य धरणीप्राप्तौ कीदृक् कायसन्निवेश इत्याशयेन स्थानकान्यभिधित्सुः पूर्वोपसम्हारपूर्वकं प्रतिजानीते - एताश्चार्य इति | ललितत्वमङ्गस्य यत इयतीभिरेवेमा उत्तानत्वे तावानेव गतिप्रकार इति यावत् | स्थानानि भावे करणेऽधिकरणे वा व्युत्पत्त्या कायसन्निवेशाश्च या उच्यन्ते | सर्वशस्त्रविमोक्षण इति साधारणो विनियोग उक्तः | आसामपि चारीणां गतिरूपत्वं गतेश्च पूर्वं पश्चाद्भाविनी स्थितिरिति भावः | नृणामिति स्थानकानि प्. १०८) द्वौतालावर्धतालश्च पादयोरन्तरं भवेत् | तयोस्समुत्थितस्त्वेकस्त्र्यश्रः पक्षस्थितोऽपरः || ५२ || किंचिदञ्चितजङ्घं च सौष्ठवाङ्गपुरस्कृतम् | वैष्णवंस्थानमेतद्धि विष्णुरत्राधिदैवतम् || ५३ || स्थानेनानेन कर्तव्यः संलापस्तु स्वभावजः | नानाकार्यान्तरोपेतैर्नृभिरुत्तममध्यमैः || ५४ || चक्रस्य मोक्षणे चैव धारणे धनुषस्तथा | धैर्योदात्ताङ्गलीलासु तथा क्रोधे प्रयोजयेत् || ५५ || तु निरूपयिष्यन्त इत्यर्थः | पक्षस्थित इति पार्श्वाभिमुखाङ्गुलिः | त्र्यश्र इति किंचिदग्राभिमुख्यमस्पृशत् | अञ्चिता कुटिला जानुनमनाज्जड्या यत्र | सौष्ठवे यदङ्गम् वक्ष्यते तेन पुरस्कृतं पूजितं सौष्ठव अप्रधाने वा अङ्गपुरस्कृतं प्रधानम् | हि यस्मात् विष्णुरत्राधिदैवतम् तस्माद्वैष्णवम् | तेन तस्य तादृशस्य वाऽस्त्रीप्रधानस्य सूत्रधारादेः प्रयोगे स्थानकमिदम् | एवमुत्तरत्र मन्तव्यम् | एतदे- प्. १०९) इदमेव विपर्यस्तं प्रणयक्रोध इष्यते | उपालम्भकृते चैव प्रणयोद्वेगयोस्तथा || ५६ || शङ्कासूयोग्रताचिन्तामतिस्मृतिषु चैव हि | दैन्ये चपलतायां च गर्वाभीष्ठेषु शक्तिषु || ५७ || शृङ्गाराद्भुतबिभत्सवीरप्राधान्ययोजितम् |) समपादे समौ पादौ तालमात्रान्तरस्थितौ || ५८ || स्वभावसौष्ठवोपेतौ ब्रह्मा चात्राधिदैवतम् | अनेन कार्यं स्थानेन विप्रमङ्गलधारणम् || ५९ || रूपणं पक्षिणां चैव वरं कौतुकमेव च | खस्थानां स्यन्दनस्थानां विमानस्थायिनामपि || ६० || लिङ्गस्थानां व्रतस्थानां स्थानमेतत्तु कारयेत् | तालास्त्रयोऽर्धतालश्च पादयोरन्तरं भवेत् || ६१ || वाह - स्थानेनानेनेति स्वभावजः अनावेशितः | (विप्राङ्गलेति) विप्रैः क्रियमाणं यन्मङ्गलाशीर्वचनादि तस्य धारणं प्रतीप्सन् | खस्थादीनामिदं स्थानकम् | लिङ्गस्थाः शैवाद्याः व्रतस्था ऊर्ध्वकायादिप्रज्ञाङ्गाः (?) | निषण्णावचलौ विश्रान्तौ तु (ऊरू) यत्र सूच्यपेक्षया | कियत्याकाशदेश इत्याह - तालास्त्रयोऽर्धता- प्. ११०) तालाम्स्त्रीनर्धतालांश्च निषण्णोरुं प्रकल्पयेत् | त्र्यश्रौ पक्षस्थितौ चैव तत्र पादौ प्रयोजयेत् || ६२ || वैशाखस्थानमेतद्धि स्कन्दश्चात्राधिदैवतम् | स्थानेनानेन कर्तव्यमश्वानां वाहनं बुधैः || ६३ || व्यायामो निर्गमश्चैव स्थलपक्षिनिरूपणम् | शरासनसमुत्कर्षे व्यायामकृतमेव च || ६४ || रेचकेषु च कर्तव्यमिदमेव प्रयोक्तृभिः | ऐन्द्रे तु मण्डले पादौ चतुस्तालान्तरस्थितौ || ६५ || त्र्यश्रौ पक्षस्थितौ चैव कटिजानू समौ तथा | धर्वज्राणि शस्त्राणि मण्डलेन प्रयोजयेत् || ६६ || वाहनं कुञ्जराणां तु स्थूलपक्षिनिरूपणम् | लाश्चेति सार्धतालत्रयादधो नभोदेश इत्यर्थः | विशाखः स्कन्दः | व्याप्याङ्गानामेव युद्धादौ निर्गमनात् तेषामेव वेगादानपार्ष्णिचोदनाक्रमेण | ऐन्द्रे त्विति शेषं द्योतयन् सार्धतालद्वयान्तर्नभोदेशनिषण्णोरुत्वमत्रापि सूचयन्निति | मण्डलेश्वरविषयत्वान्मण्डलम् | अश्वानां वाहने वैशाखं इदं तु हस्तिनां तेभ्यस्स्थूलानामिति प्रक्रमात् (स्थूलतमात्) पक्षिणोऽत्र गरुडादयो मन्तव्याः | प्. १११) अस्यैव दक्षिणं पादं पञ्चतालान् प्रसार्य तु || ६७ || आलीढं स्थानकं कुर्याद्रुद्रश्चास्याधिदैवतम् | अनेन कार्यं स्थानेन वीररौद्रकृतं तु यत् || ६८ || उत्तरोत्तरसंजल्पो रोषामर्षकृतश्च यः | मल्लानां चैव संफेटः शत्रूणां च निरूपणम् || ६९ || तथाभिद्रवणं चैव शस्त्राणां चैव मोक्षणम् | कुञ्चितं दक्षिणं कृत्वा वामपादं प्रसार्य च || ७० || आलीढपरिवर्तस्तु प्रत्यालीढमिति स्मृतम् | आलीढसहित्ऽम् शस्त्रं प्रत्यालीढेन मोक्षयेत् || ७१ || नानाशस्त्रविमोक्षो हि कार्योऽनेन प्रयोक्तृभिः | न्यायाश्चैवात्र विज्ञेयाश्चत्वारः शस्त्रमोक्षणे || ७२ || भारतः सात्वतश्चैव वार्षगण्योऽथ कैशिकः | अस्यैवेति निषण्णोरुत्वं तथा त्र्यश्रत्वं द्वयोः सूचयति | आसमन्ताल्लीढा स्पृष्टा भूमिर्येनेत्यालीढम् | संफेटः सङ्घर्षः | आलीढपरिवर्त इतीयदेव लक्षणं पूर्वमुक्तं त्वितिकर्तव्यतास्पष्टकरणार्थम् | कुञ्चितमिति प्रसारणविपरीतं भूय उत्तानाकुञ्चितोऽत्र पादः | ननु प्रयोक्तृभिः शस्त्रविमोक्षः कार्य इत्युक्तम् | तस्य प्रयोक्तृभिः न्यायानामित्यादि प्. ११२) भारते तु कटिच्छेद्यं पादच्छेद्यं तु सात्वते || ७३ || वक्षसो वार्षगण्ये तु शिरश्छेद्यं तु कैशिके | एभिः प्रयोक्तृभिर्न्यायैर्नानाचारीसमुत्थितैः || ७४ || प्रविचाराः प्रयोक्तव्या नानाशस्त्रविमोक्षणे | न्यायाश्रितैरङ्गहारैर्न्यायाच्चैव समुत्थितैः || ७५ || यस्माद्युद्धानि वर्तन्ते तस्मान्न्यायाः प्रवर्तिताः | वामहस्ते विनिक्षिप्य खेटकं दक्षिणेन च || ७६ || शस्त्रमादाय हस्तेन प्रविचारमथाचरेत् | प्रसार्य च करौ सम्यक् पुनराक्षिप्य चैव हि || ७७ || खेटकं भ्रामयेत्पश्चात्पार्श्वात्पार्शमथापि च | शिरः परिगमश्चापि कार्यः शस्त्रेण योक्तृभिः || ७८ || कपोलस्यान्तरे वापि शस्त्रस्योदघट्टनं तथा | व्यायामाच्चेति नामानुसारादेषां वृत्तिविभागे परिशेषता | आरभट्या वार्पगण्यः | कटिच्छेद्यैति भावे कृत्यं | कटीस्थानादिषु परस्य हन्तव्येष्वतिक्रमेन चत्वारः | एभिरिति एभिर्न्यायैरुपलक्षिताः शस्त्रमोक्सणविषयाः प्रविचाराः प्रकृष्टाः विचित्रा गतिविशेषाः परिश्रान्तिशब्दाश्चारीव्यायामखण्डमण्डलात्मकाः कार्याः | न्यायशब्दस्यार्थं दर्शयति न्यायेनाङ्गौचित्येन यान्यङ्गोदाहर- प् ११३) पुनश्च खड्गहस्तेन ललितोद्वेष्टितेन च || ७९ || खेटकेन च कर्तव्यः शिरः परिगमो बुधैः | एवं विचारः कर्तव्यो भारते शस्त्रमोक्षणे || ८० || सात्वते च प्रवक्ष्यामि प्रविचारं यथाविधि | स एवं प्रविचारस्तु शस्त्रखेटकयोः स्मृतः || ८१ || केवलं पृष्ठतः शस्त्रं कर्तव्यं खलु सात्वते | गतिश्च वार्सगण्येऽपि सात्वतेन क्रमेण तु || ८२ || शस्त्रखेटकयोश्चापि भ्रमणं संविधीयते | शिरःपरिगमस्तद्वच्छस्त्रस्येह भवेत्तथा || ८३ || उरस्युद्वेष्टनं कार्यं शस्त्रस्यांसेऽथवा पुनः | भारते प्रविचारो यः कर्तव्यस्स तु कैशिके || ८४ || विभ्रमयय तथा शस्त्रं केवलं मूर्ध्नि पातयेत् | णादि न्यायादेव च परवन्धनस्वभाविताप्तिरूपात् प्रवर्तितानि तैः यत एतयोः क्रिया अतो न्यायाख्याः | अथापि चेत्यनन्तरं चेत्यर्थः | परिवेष्टनेन गमनं नयनं परिगमः | मणिबन्धोद्वेष्टनेन शस्त्रस्योद्वेष्टनं उद्वेल्लितेनेत्युद्वेष्टितेन | पृष्ठत इति कायस्य पश्चाद्भागे | युद्धप्रसङ्गेन सर्वं प्रयोज्यमापततीत्याशङ्क्याह - प्. ११४) प्रविचाराः प्रयोक्तव्या ह्येवमेतेऽङ्गलीलया || ८५ || धनुर्वज्रासिशस्त्राणां प्रयोक्तव्या विमोक्षणे | न भेद्यं नापि च च्छेद्यं न चापि रुधिरस्रुतिः || ८६ || रङ्गे प्रहरणे कार्यो न चापि व्यक्तघातनम् | संज्ञामात्रेण कर्तव्यं शस्त्राणां मोक्षणं बुधैः || ८७ || अथवाभिनयोपेतं कुर्याच्छेद्यं विधानतः | अङ्गसौष्ठवसम्पन्नैरङ्गहारैर्विभूषितम् || ८८ || व्यायामं कारयेत्सम्यग्लयतालसमन्वितम् | सौष्ठवे हि प्रयत्नस्तु कार्यो व्यायामएदिभिः || ८९ || सौष्ठवं लक्षणं प्रोक्तं वर्तनाक्रमयोजितम् | शोभा सर्वैव नित्यं हि सौष्ठवं समुपाश्रिता || ९० || न हि सौष्ठवहीनाङ्ग शोभते नाट्यनृत्तयोः | न भेद्यमिति भावे प्रत्ययः | संज्ञामात्रेणेति यथा परो जानाति युध्येते इमाविति एवं त्वमावित्यादिविषयं निधाय नाटकादौ संज्ञामात्रेणापि तेन नानुचितमिति दर्शयति | अथवेति व्यवत्स्थितविकल्पः | अङ्गसौष्ठवं यदुक्तं तस्य सिद्धये परिकरमाह व्यायाममिति | व्यायमोऽङ्गशिक्षाभ्यामङ्गयोग्यकालमेव प्. ११५) अचञ्चलमकुब्जं च सन्नगात्रं तथैव च || ९१ || नात्युच्चं चलपादं च सौष्ठवाङ्गं प्रयोजयेत् | कटी कर्णसमा यत्र कूर्परांसशिरस्तथा || ९२ || समुन्नतमुरश्चैव सौष्ठवं नाम तद्भवेत् | अत्र नित्यं प्रयत्नो हि विधेयो मध्यमोत्तमैः || ९३ || नाट्यं नृत्तं च सर्वं हि सौष्ठवे संप्रतिष्ठितम् | कटीनाभिचरौ हस्तौ वक्षश्चैव समुन्नतम् || ९४ || वैष्णवं स्थानमित्यङ्गं चतुरश्रमुदाहृतम् | परिमार्जनमादानं सन्धानं मोक्षणं तथा || ९५ || धनुषस्तु प्रयोक्तव्यं करणं तु चतुर्विधम् | प्रमार्जनं परामर्श आदानं ग्रहणक्रिया || ९६ || एवं द्रुतादेः चञ्चत्पुटादेश्चानुसन्धेरङ्गमात्मीकृतन्तालाख्यं पठ्यते | सन्नं स्वविश्रान्तिपरिणतं गात्रं यस्य | कूर्परांसशिर इति प्राण्यङ्गत्वादेकवद्भावः | तथेति साम्येनेत्यर्थः | अधमानामत्र स्वातन्त्र्यं दर्शयति मध्यमोत्तमैरिति | सौष्ठवं यदर्थं तत्सर्वसामान्यभूतं चातुरश्र्यमाह - कटिनाभिचराविति क्रमेण यौगपद्येन च | खड्गयुद्धे यथान्यायास्तथा धनुर्युद्धेऽपि कर्माणि सन्तीति दर्शयति | प्रमार्जनमिति प्रथमं धनुषो मार्जनं ततोऽपि वाणेन ग्रहस्ततोऽपि शरस्य सन्धानं ततो मोक्षः | व्यायामे प्रस्तुते तदुपयोगि सौष्ठवं तत्प्रसङ्गागतं च धनुः - प्. ११६) संधानं शरविन्यासो विक्षेपो मोक्षणं भवेत् | तैलाभ्यक्तेन गात्रेण यवागूमृदितेन च || ९७ || व्यायामं कारयेद्धीमान् भित्तावाकाशिके तथा | योग्यायां मातृका भित्तिस्तस्माद्भित्तिं समाश्रयेत् || ९८ || भित्तौ प्रसारिताङ्गंतु व्यायामं कारयेन्नरम् | बलार्थं च निषेवेत नस्यं वस्तिविधिं तथा || ९९ || स्निग्धान्यन्नानि च तथा रसकं पानकं तथा | आहाराधिष्ठिताः प्राणाः प्राणे योग्याः प्रतिष्ठिताः || तस्माद्योगा प्रसिद्ध्यर्थमाहारे यत्नवान् भवेत् | अशुद्धकायं प्रक्लान्तमतीव क्षुत्पिपासितम् || १०१ || कर्माभिधाय प्रयोगमेव व्यायाममाह - तैलाभ्यक्तेनेति | तैलमत्र तिलतैलम् | यवागूर्यवान्नम् | योगाय विद्याविशेषसंबन्धाय प्रभवतीति योग्या गुणनिका | तस्य वस्तिविधिश्च तैलघृतादिभिः यथादेशकालप्रकृतीति मन्तव्यमायुर्वेदात् | रसकमिति मांसरसं सेवेतेति संबन्धः | पानकानि च स्निग्धानीति संबन्धः | योग्या वा किमनेनेत्याशङ्क्याह - आहाराधिष्ठिता इति | अशुद्धकायमित्यनेन वमनविरेचनविशुद्धगात्रस्य व्यायामेऽधिकार इति दर्शयति | अशुद्धगात्रत्वं प्. ११७) अतिपीतं तथा भुक्तं व्यायामं नैव कारयेत् | अचलैर्मधुरैर्गात्रैश्चतुरश्रेण वक्षसा || १०२ || व्यायामं कारयेद्धीमान्नरमङ्गक्रियार्थिनम् | एवं व्यायामसंयोगे कार्यश्चारीकृतो विधिः || १०३ || अत ऊर्ध्वं प्रवक्ष्यामि मण्डलानां विकल्पनम् || इति भारतीये नाट्यशास्त्रे चारीविधानो नाम दशमोऽध्यायः || चाजीर्णयोगेऽपि | प्रक्लान्तमिति मध्वश्रमादिना | अचलेरिति यत्र यत्र क्रियायां योज्यते तत्र तत्रैव प्राप्तपरिणतिभिरित्यर्थः | मधुरैरिति ललितैः | अङ्गक्रिया अङ्गसिद्धिः | एवमित्युपसंहरन्नध्यायान्तरमासूत्रयति | (विकल्पनं) विचित्रतया कलयन्ते येन प्रकारेण तं वक्ष्यामीति सूत्रयन्नङ्गानुसारायातचारीपरम्परात्मनां मण्डलात्मनामसङ्ख्येयत्वं सूत्रयन्नुदाहरणमात्रार्थमध्यायान्तरमिति निरूपयतीति शिवम् | इत्थं दशममध्यायं व्याचष्टे च समासतः | शिवस्मृतिकृतार्थोऽपि परार्थं दुःखलात्मजः || इति श्रीमहामाहेश्वराभिनवगुप्ताचार्यविरचितायां नाट्यवेदविवृतावभिनवभारत्यां चारीविकल्पो नाम दशमोऽध्यायः || || श्रीः || श्रीः नाट्यशास्त्रम् एकादशोऽध्यायः एताश्चार्यो मया प्रोक्ता यथावच्छरत्रमोक्षणे | चारीसंयोगजानीह मण्डलानि निबोधत || १ || अतिक्रान्तं विचित्रं च तथा ललितसंचरम् | सूचीविद्धं दण्डपादं विहृतालातके तथा || २ || वामविद्धं सललितं क्रान्तं चाकाशगानि तु | मण्डलानि द्विजश्रेष्ठा भूमिगानि निबोधत ||) ३ || भ्रमरारकन्दिते स्यातामावर्तं च ततः परम् | समोत्सरितमप्याहुरेडकाक्रीडितं तथा || ४ || गतिमण्डलवैचित्र्यमासूत्रयति या सदा | तथा नेदिष्ठनिर्मात्री शक्तिं वन्दे महेशितुः || स्वल्पेऽपि पाठ्ये न त्याज्यः कोऽप्यध्यायो मया यतः | विभोर्विश्वात्मनः स्तोत्रं मुख्यमन्यत्प्रसङ्गतः || शस्त्रमोक्षणे मण्डलानीति संबन्धः | इहेत्यस्मिन्नध्याये श्रुते श्रुतितद्दिशान्यान्यपि निबोधय एषामियत् सामान्यलक्षणं चारीसंयोगजानीति | आका- प्. ११९) अड्डितं शकटाख्यं च तथाद्यर्धकमेव च | पिष्टकुट्टं च विज्ञेयं तथा चाषगतं पुनः || ५ || एतान्यपि दशोक्तानि भूमिगानीह नामतः | अतःपरं प्रवक्ष्यामि लक्षणानि यथाक्रमम् || ६ || आद्यं पादं च जनितं कृत्वोद्वाहितमाचरेत् | अलातं वामकं चैव पार्श्वक्रान्तं च दक्षिणम् || ७ || सूचीवामं पुनश्चैव पार्श्वक्रान्तं च दक्षिणम् | सूचीं वामक्रमं दद्यादपक्रान्तं च दक्षिणम् ||) ८ || सूचीं वामं पुनश्चैव त्रिकं च परिवर्तयेत् | तथा दक्षिणमुद्वृत्तमलातं चैव वामकम् || ९ || परिच्छिन्नं तु कर्तव्यं बाह्यभ्रमरकेण हि | वतिक्रान्तं पुनर्वासं दण्डपादं च दक्षिणम् || १० || विज्ञेयमेतद्व्यायामे त्वतिक्रान्तं तु मण्डलम् | शगतनां युद्धपरिक्रमेषु प्राधान्यात्पूर्वमुद्देशः आकाशभूचारीप्राचुर्यान्मण्डलेषु तथात्वम् | आद्यमिति दक्षिणम् | उद्वाहितमिति लक्षणैकदेशेन शकटास्यां सूचयति | एवमन्यत्र | त्रिकन्त्विति भ्रमरीमाह | बाह्यभ्रमरकं वामपादेन प्. १२०) आद्यं तु जनित्ऽम् कृत्वा तेनैव च निकुट्टनम् || ११ || आस्पन्दितं तु वामेन पार्श्वक्रान्तं च दक्षिणम् | वामं सूचीपदं दद्यादपक्रान्तं च दक्षिणम् || १२ || भुर्ज त्रासितं वाममतिक्रान्तं च दक्षिणम् | उद्वृत्तं दक्षिणं चैव ह्यलातं चैव वामकम् || १३ || पार्श्वक्रान्तं पुनः सव्यं सूची वामक्रमं तथा | विक्षेपो दक्षि * *? स्यादपक्रान्तश्च वामकः || १४ || (बाह्यभ्रमरकं चैव विक्षेपं चैव योजयेत् |) विज्ञेयमेतद्व्यायामे विचित्रं नाम मण्डलम् || १५ || क्र्त्वोर्ध्वजानु चरणमाद्यं सूचीं प्रयोजयेत् | अपक्रान्तः पुनर्वाम आद्यः पार्श्वगतो भवेत् || १६ || वामं सूचीं पुनर्दद्यत्त्रिकम् च परिवर्तयेत् | पार्श्वक्रान्तं पुनश्चाद्यमतिक्रान्तं च वामकम् || १७ || सूचीमाद्यक्रमं कृत्वा ह्यपक्रान्तं च वामकम् | पार्श्वक्रान्तं पुनश्चाद्यमतिक्रान्तं च वामकम् || १८ || प्. १२१) परिच्छिन्नं च कर्तव्यं बाह्यभ्रमरकेण च | एष चारीप्रयोगस्तु कार्यो ललितसञ्चरे || १९ || सूचीं वामपदं दद्यात्त्रिकं च परिवर्तयेत् | पार्श्वक्रान्तः पुनश्चाद्यो वामोऽतिक्रान्त एव च || २० || सूचीमाद्यं पुनर्दद्यादपक्रान्तं च वामकम् | पार्श्वक्रान्तं पुनश्चाद्यं सूचीविद्धे तु मण्डले || २१ || आद्यस्तु जनितो भूत्वा स च दण्डक्रमो भवेत् | वामं सूचीं पूनर्दद्यात्त्रिकं च परिवर्तयेत् || २२ || उद्वृत्तो दक्षिणश्च स्यादलातश्चैव वामकः | पार्श्वक्रान्तः पुनश्चाद्यो भुजङ्गत्रासितस्तथा || २३ || अतिक्रान्तः पुनर्वामो दण्डपादस्तु दक्षिणः | वामः सूचीत्रिकावर्तो दण्डपादे तु मण्डले || २४ || आस्पन्दितमिति स्पन्दितां चारीमाह तामेवान्ये अस्कन्दितेत्याहुः | दण्डक्रम इति दण्डपादा चारी त्रिकावर्तादि अन्ते पठितत्वात् परिसमाप्तिस्थानगतामेव प्. १२२) आद्यं तु जनित्ऽम् कृत्वा तेनैव च निकुट्टकम् | आस्कन्दितं च वामेन ह्यद्वत्तं दक्षिणेन च || २५ || अलातं वामकम् पादं सूचीं दद्यात्तु दक्षिणम् | पार्श्वक्रान्तः पुनर्वाम आक्षिप्तो दक्षिणस्तथा || २६ || समावर्त्य त्रिकं चैव दण्डपादं प्रसारयेत् | सूचीं वामपदं दद्यात्त्त्रिकं तु परिवर्तयेत् || २७ || भुजङ्गत्रासितश्चाद्यो वामोऽतिक्रान्त एव च | एष चारीप्रयोगस्तु विहृते मण्डले भवेत् || २८ || सूचीमाद्यक्रमं दद्यादपक्रान्तं च वामकम् | पार्श्वक्रान्तः पुनश्चाद्यो ह्यलातश्चैव वामकः || २९ || भ्रान्त्वा चारीभिरेताभिः पर्यायेणाथ मण्डलम् | षट्संख्यं सप्तसंख्यं वा ललितैः पादविक्रमैः || ३० || भ्रमरीमाश्रित्य यन्मण्डलं दण्डपादाख्यं तत्रेति संबन्धः | निकुट्टकमित्यनेन तलसञ्चरपादो लक्ष्यते | उद्वृत्तमूरूद्वृत्तादिकां चारीम् | समावर्तनं सम्यगावर्तनं सव्यापसव्यभ्रमरकद्वयेन | एताभिश्चारीभिः पर्यायेण षट्कृत्वः सप्तकृत्वो वा प्रयुक्ताभिः परिमण्डले चतुर्दिकं भ्रान्त्वान्तरालिकैः पादक्षेपैरिदमिदं प्. १२३) (आद्यं कुर्यादपक्रान्तमभिक्रान्तं च वामकम्) अपक्रान्तः पुनश्चाद्यो वामोऽतिक्रान्त एव च || ३१ || पादभ्रमरकश्च स्यादलाते खलु मण्डले | सूचीमाद्यक्रमं कृत्वा ह्यपक्रान्तं च वामकम् || ३२ || आद्यो दन्डक्रमश्चैव सूचीकार्यस्तु वामकः | कार्यस्त्रिकविवर्तश्च पार्श्वक्रान्तश्च दक्षिणः || ३३ || आक्षिप्तं वामकं कुर्याद्दण्डपादं तु दक्षिणम् | ऊरूद्वृत्तं च तेनैव कर्तव्यं दक्षिणेन तु || ३४ || सूचीवामक्रमं कृत्वा त्रिकं च परिवर्तयेत् | अलातश्च भवेद्वामः पार्श्वक्रान्तश्च दक्षिणः || ३५ || अतिक्रान्तः पुनर्वामो वामविद्धे तु मण्डले | सूचीमाद्यक्रमं दद्यादपक्रान्तं च वामकम् || ३६ || पार्श्वक्रान्तः पुनश्चाद्यो भुज त्रासितः स च | अतिक्रान्तः पुनर्वाम आक्षिप्तो दक्षिणस्तथा || ३७ || अतिक्रान्तः पुनर्वाम ऊरुद्वृत्तस्तथैव च | प्. १२४) अलातश्च पुनर्वामः पार्श्वक्रान्तश्च दक्षिणः || ३८ || सूचीवामं पुनर्दद्यादपक्रान्तश्च दक्षिणः | अतिक्रान्तः पुनर्वामः कार्यो ललितसंचरः || ३९ || एष पादप्रचारस्तु ललिते मण्डले भवेत् | सूचीमा क्रमं कृत्वा ह्यपक्रान्तं च वामकम् || ४० || पार्श्वक्रान्तं पुनश्चाद्यं वामं पार्श्व मं तथा | भ्रान्त्वा चारीभिरेताभिः पर्यायेणाथ मण्डलम् || ४१ || वामं सूचीं ततो दद्यादप्रक्रान्तं च दक्षिणम् | स्वभावगमने ह्येतन्मण्डलं संविधीयते || ४२ || क्रान्तमेतत्तु विज्ञेयं नामतो नाट्ययोक्तृभिः | एतान्याकाशगानीह ज्ञेयान्येवं दशैव तु || ४३ || अतः परं प्रवक्ष्यामि भौमानामपि लक्षणम् | आद्यस्तु जनितः कार्यो वामश्चास्पन्दितो भवेत् || ४४ || शकटाख्य पुनश्चाद्यो वामश्चापि प्रसारितः | कुर्यादिति सङ्गतिः | संख्याशब्देनाभ्यावृत्तिर्लक्ष्यते | अतिक्रान्तस्यैव विशेषणं ललितं सञ्चरतीत्यत एव मण्डलस्येदमेव नाम | स चेति | स एवेत्यर्थः | प्. १२५) आद्यो भ्रमरकः कार्यस्त्रिकं च परिवर्तयेत् || ४५ || आस्पन्दितः पुनर्वामः शकटास्यश्च दक्षिणः | वामः पृष्ठापसर्पी च दद्याद्भ्रमरकं तथा || ४६ || स एवास्पन्दितः कार्यस्त्वेतद्भ्रमरमण्डलम् | आद्यो भ्रमरकः कार्यो वामश्चैवाड्डितो भवेत् || ४७ || कार्यस्त्रिकविवर्तश्च शकटास्यश्च दक्षिणह् | ऊरूद्वृत्तः स एव स्याद्वामश्चैवापसर्पितः || ४८ || कार्यस्त्रिकविवर्तश्च दक्षिणः स्पन्दितो भवेत् | शकटाख्यो भवेद्वामस्तदेवास्फोटनं भवेत् || ४९ || एतदास्पन्दितं नाम व्यायामे युद्धमण्डलम् | आद्यन्तु जनितं कृत्वा वामेन तु निकुट्टकम् || ५० || शकटाख्यः पुनश्चाद्य ऊरूद्वृत्त स एव तु | पृष्ठापसर्पी वामश्च स च चाषगतिर्भवेत् || ५१ || आस्पन्दितः पुनः सव्यः शकटाख्यश्च वामकः | आद्यो भ्रमरकश्चैव त्रिकं तु परिवर्तयेत् || ५२ || प्. १२६) पृष्ठापसर्पी वामश्चेत्यावर्ते मण्डले भवेत् | कृत्वादौ समपादं तु स्थानं हस्तौ प्रसारयेत् || ५३ || निरन्तरार्ध्वतलावावेष्ट्योद्वेष्ट्य चैव हि | कटीतटे विनिक्षिप्य चाद्यमावर्तयेत्क्रमात् || ५४ || यथाक्रमं पुनर्वाममावर्तेन प्रसारयेत् | चार्यानया च भ्रान्त्वा तु पर्यायेणाथ मण्डलम् || समोसरितमेतच्च ज्ञेयं व्यायाममण्डलम् | पादैस्तु तमसि युक्तैः सूचीविद्धैस्तथैव च || ५६ || एलकाक्रीडितैश्चैव चूर्णैस्त्रिकविवर्तनैः | सूचीविद्धापविद्धैश्च क्रमेणावृत्य मण्डलम् || ५७ || एलकाक्रीडितं विद्यात्खण्डमण्डलसंज्ञितम् | सव्यमुद्घट्टितं कृत्वा तेनैवावर्तमाचरेत् || ५८ || तेनैवास्कन्दितः कार्यः शकटाख्यश्च वामकः | आद्यः पृष्ठापसर्पी च स च चाषगतिर्भवेत् || ५९ || अड्डितश्च पुनर्वाम आद्यश्चैवापसर्पितः | वामो भ्रमरकः कार्य आद्य आस्कन्दितो भवेत् || ६० || प्. १२७) तेनैवास्फोटनं कुर्यादेतदड्डितमण्डलम् | आद्यं तु जनितं कृत्वा तेनैव च निकुट्टकम् || ६१ || स एव शकटाख्याश्च वामश्चास्कन्दितो भवेत् | पादैश्च शकटाख्यस्थैः पर्यायेणाथ मण्डलम् || ६२ || विज्ञेयं शकटाख्यं तु व्यायामे युद्धमण्डलम् | आद्यस्तु जनितो भूत्वा स एवास्कन्दितो भवेत् || ६३ || अपसर्पी पुनर्वामः शकटाख्यश्च दक्षिणः | भ्रान्त्वा चारीभिरेताभिः पर्यायेणाथमण्डलम् || ६४ || अध्यर्धमेतद्विज्ञेयं नियुद्धे चापि मण्डलम् | सूचीमाद्यक्रमं कृत्वा ह्यपक्रान्तं च वामकम् || ६५ || भुजङ्गत्रासितश्चाद्य एवमेव च वामकः | भुजङ्गत्रासितैर्भ्रान्त्वा पादैरपि च मण्डलम् || ६६ || पिष्टकुट्टं च विज्ञेयं चारीभिर्मण्डलं बुधैः | सर्वैश्चाषगतैः पादैः परिक्रम्य च मण्डलम् || ६७ || एतच्चाषगतं विद्यानियुद्धे चापि मण्डलम् | आस्फोटनमिति पादतलेन भूमिताडनं युद्धेष्वास्फालनमिति प्रसिद्धम् | चशब्दोऽप्यर्थे | अतः परमपि मण्डलानि योजयेत् | कथमित्याहुः | समाः प्. १२८) नानाचारीसमुत्थानि मण्डलानि समासतः || ६८ || उक्तान्यतः परं चैव समचारीं नियोजयेत् | समचारीप्रयोगो यस्तत्समं नाम मण्डलम् || ६९ || आचार्यबुद्ध्या तानीह कर्तव्यानि प्रयोक्तृभिः | एतानि खण्डानि समण्डलानि युद्धे नियुद्धे च परिक्रमे च | लीलाङ्गमाधुर्यपुरस्कृतानि कार्याणि वाद्यानुगतानि तज्ज्ञैः || ७० || इति श्रीभारतीये नाट्यशास्त्रे मण्डलविकल्पनं नामैकादशोऽध्यायः | परस्परे योजनोचिताश्चार्यो यत्र तत्रोहनेऽप्युदाहरणं दर्शयति समचारप्रयोग इति | समानां भौमत्वेनाकाशीयत्वेन च चारीणां प्रयोगो यत्र | एवमनया दिशा बहूनि कल्पयेदित्याह आचार्यबुद्धयोपलभ्यो भागः प्रयोगयोग्यो भवतीति | खण्डानां प्राधान्यमपि दर्शयति खण्डानीति | वाद्येनानुगतानीति गत्या वाद्यानुसारिण्या (अ ४-२८२) इति नृत्तविषयतुर्याध्यायाद्धि वैपरीत्येन नाट्ये गतौ प्राधान्यमाहेति शिवम् || इति श्रीमहामाहेश्वराभिनवगुप्ताचार्यविरचितायां नाट्यवेदविवृतावभिनवभारत्यां मण्डलाध्याय एकादशः समाप्तः || श्रीः नाट्यशास्त्रम् द्वादशोऽध्यायः एवं व्यायामसंयोगे कार्यं मण्डलकल्पनम् | अतःपरं प्रवक्ष्यामि गतीस्तु प्रकृतिस्थिता || १ || तत्रोपवहनं कृत्वा भाण्डवाद्यपुरस्कृतम् | श्रुत्यन्तविश्रान्तविधिर्या गतिः परमात्मनः | तां महानन्दसन्दोहतत्त्वमूर्तिं स्तुमः सदा || प्रकरणसंगतये प्रकृतानुपूर्वकं निरूपयिष्यमाणं प्रतिजानीते एवमिति | व्यायामानामन्योन्यसंमीलनयोग्यानां चारीणां संहत्या योगे मिश्रीभावे सति मण्डलानां कल्पनमनुक्तमपि कर्तुं शक्यं बुद्ध्येति तत उपरम्यते | तत्राङ्गिकस्य रसभावयोर्विनियोगशो (विभागशो ?) विनियोगस्य कृतत्वाद्यद्यपि तन्मिश्रणेऽपि पृथग्विनियोगेन वक्तव्यं तथापि शिष्यहितप्रतिपन्नो मुनिर्दिशं दर्शयितुं शिरःप्रभृतिपादान्ते (यानि) अङ्गसंधेयानि कर्माण्युक्तानि तन्मेलनबलेन यो देहसंनिवेशो गतौ वा स्थितौ प्रकाराभावात्तस्य विनियोगम् प्रकटयिष्यन् चारीमण्डलप्रसंगस्या चित्तवृत्तित्वाद्गतिविनियोगमेव प्रतिजानीते | गतिश्च प्रकृतिं रसमवस्था देशं कालं चापेक्ष्य वक्तव्या | प्रतिपुरुषमभिधानात् | तत्र प्रक्रिया पूर्वमुच्यते तदेतत्तुशब्देन यावच्छब्दपर्यायवाचिना क्रमार्थेन काकाक्षिवदुभयतो धावता द्योतितम् | तत्राप्रविष्टस्य का गतिरिति प्रयोगोपक्रमं सूचयति तत्रोपवहनमिति | यदङ्गानुसारालाप प्. १३०) यथामार्गरसोपेतं प्रकृतीनां प्रवेशने || २ || ध्रुवायां संप्रवृत्तायां पटे चैवापकर्षिते | कार्यः प्रवेशः पात्राणां नानार्थरससंभवः || ३ || इति प्रसिद्धं तमालापं कृत्वा ध्रुवायां सम्यक् प्रवृत्तायां कथं ? भाण्डवाद्यपुरस्कृतत्वादि रूपत्रययुक्तं कृत्वेति त्रीण्यपि क्रियाविशेषणानि | तन्त्रीभाण्डं वाद्यमानं पुष्करवाद्यम् | मार्गो देशः रसः स्थायिचित्तवृत्तिः वीप्सायामव्ययीभावः | यो यः कश्चिद्गृहोद्याननिर्देशः रत्यादिश्चित्तवृत्तिविशेषः तेनोपेतं कृत्वा या ध्रुवा तथा उत्तमादिप्रकृतीनां यस्यावेशनं बुद्धौ प्रवेशो यत्र तथा कृत्वा | एतदुक्तं भवति - हंसाद्युपमानमुखेन प्रकृतिविशेषः चित्तवृत्तिविशेषः उद्यानादिविशेषश्चावश्यं ध्रुवासूपनिबन्धनीयः | एवं ध्रुवायां प्रवृत्तायामेवं सत्यां | पटेऽपकर्षिते यावनिकायामपसारितायां तदा सामाजिकानां नेपथ्यगृहादयमागत इति नटी निवर्त्यते | चकारात्तत्काले पुनरुपोहनम् | ध्रुवाप्रवेशो लये मध्ये वलितया - वलनिकेति कोहलेन प्रयोगवलनाद्व्यपदिष्टं - शुष्काक्षरगानं कृत्वा प्रवेश एव तथा समुचितस्थानकदृष्टिमुखरागादियुक्तः कर्तव्यो यथा सामाजिकानां झडित्येवान्विताभिधाननयेन मुख्यरसव्याप्तिरुदयते | प्रगीतं गीयमानग्रामरागाग्रगतैकगमकाकर्णने समग्रग्रामतत्त्वसंवेदनवशः | अन्ये तु यथामार्गकलोपेतमिति पठन्ति | उभयतः शेषत्वेन व्याचक्षते - मार्गेषु चित्रादिषु याः कला द्विमात्राचतुमात्राष्टमात्रेति ग्रामेपूच्यन्ते चालिप्तकादिषु कला वाद्याक्षराणीति | यद्यपि पात्राणामध्रुवा अपि प्रवेशा प्. १३१) स्थानं तु वैष्णं कृत्वा ह्युत्तमे मध्यमे तथा | समुन्नतं समं चैव चतुरश्रमुरस्तथा || ४ || बाहुशीर्षे प्रसन्ने च नात्युत्क्षिप्ते च कारयेत् | ग्रीवाप्रदेशः कर्तव्यो मयूराञ्चितमस्तकः || ५ || कर्णादष्टाङ्गुलस्थे च बाहुशीर्षे प्रयोजयेत् | उरसश्चापि चिबुकं चतुरङ्गुलसंस्थितम् || ६ || हस्तौ तथैव कर्तव्यौ कटिनाभितटस्थितौ | दक्षिणो नाभिसंस्थस्तु वामः कटितटे स्थितः || ७ || पादयोरन्तरं कार्यं द्वौतालावर्धमेव च | पादोत्क्षेपस्तु कर्तव्यः स्वप्रमाणविनिर्मितः || ८ || वक्ष्यन्ते तथापि संभवमात्राभिधानमेतदुत्तममध्यमयोर्वा प्रस्तावादेवमुक्तम् | तयोर्हि ता ध्रुवाः प्रवेशास्तेऽपि वा चकारेण संगृहीता एव | एकः समोऽन्यः पक्षः | स्थानमिति त्र्यश्रेऽर्धद्विकतालभागिति वैष्णवं स्वप्रवेश एव सन्ने अचले प्रसन्ने नात्युक्षिप्ते अधो वा अधोगामित्वं यत्नेन परिहार्यमिति श्लोकार्थमेव शिक्षयितुं स्फुटपायमाह ग्रीवाप्रदेश इत्यादिना सार्धेन श्लोकद्वयेन | स्वस्थ मयूरवदञ्चितं सुरूपं शिरो यत्र | नाभिसंस्थ इति चातुरश्र्यप्रस्तावः खटकामुखः वाम इत्यर्धचन्द्रः | न चेदमुपविष्टस्थानकमपि तु गत्यानन्तर्यौचित्यात्तु स्थितस्थानकमेवेति दर्शयितुमाह पादयोरन्तरमिति | द्वौतालावर्धं च पादयोरन्तरमिति (११-५२) यत्स्थानकलक्षणं सूचितं तदेव कार्यं नान्यदुपवेशनादित्यर्थः | तत्र स्थानकानन्तरं गतिमुपक्षिपति पादोत्क्षेप इति स युक्तस्तेन प्. १३२) चतुस्तालो द्वितालश्चाप्येकतालस्तथैव च | चतुस्तालस्तु देवानां पार्थिवानां तथैव च || ९ || द्वितालश्चैव मध्यानां तालः स्त्रीनीचलिडिनाम् | चतुष्कलोऽथ द्विकलस्तथा ह्येककलः पुनः || १० || चतुष्कलो ह्युत्तमानां मध्यानां द्विकलो भवेत् | तथा चैककलः पातो नीचानां संप्रकीर्तितः || ११ || भाविलक्षणेन देशकालपरिच्छेदेन च कर्तव्यः | स्वकरमानेन च तालः पात्रस्येत्यर्थः | तत्र देशपरिच्छेदं तावदाह एकताल इति | तालः प्रसारितमध्यमाङ्गुष्ठान्तरं तालः स्मृतो मध्यमया इति | संख्याक्रमेणाभिधाय स्थायिस्थानभूतोत्तमप्रकृतिविश्रान्तत्वात्प्रयोगजातस्य तदुपक्रमं विनियोगमाह चतुस्तालस्त्विति | तु शब्दोऽप्यर्थे कदाचिदन्यथापि भावात् | तथाशब्दो राज्ञां देवसदृशगत्यसंभवसंभावनापसारणद्योतकः | स्त्रीणां नीचानां साहचर्यादधमानामिति मन्तव्यम् | तेषां हि लिङ्गित्वादधमत्वं किंचिन्न संभावयेत् | यथाशोभमिति नाट्यधर्मीकाममित्यर्थः | देशनियममुक्त्वा कालनियममप्यौत्सर्गिकं तावदाह चतुष्कलो हीति | तथा चेति तेनोत्क्षेपेण यत्पादस्य पतनं तदुत्तमानां चतसृभिः कलाभिः यस्मात्तदर्धार्धक्रमेण मध्यमाधमयोः परिभाषित इत्युत्सर्गतयेति भावः | प्. १३३) स्थितं मध्यं द्रुतं चैव समवेक्ष्ये लयं बुधः | यथाप्रकृति नाट्यज्ञो गतिमेवं प्रयोजयेत् || १२ || तत्र गीतिचतुष्टयं मागध्यादि वक्ष्यते यत्तत्रार्धमागध्यदौ क्रमेण चित्रादित्रयविनियोगात् | निमेषाः पञ्च मात्रा स्यात् इति कलासामान्यलक्षणलब्ध औत्सर्गिकः सर्वत्र ध्रुवकमार्गो मन्तव्यः | विशेषादभिधाने तेन ध्रुवकमानेन चतुष्कलः पादपातः तथा चोत्तमपरिग्रहे द्विपदी कोहलेनोक्ता - स्यादुत्तमानां द्विपदी चतुर्गुरुसमन्विता | तत्रोत्क्षेपनिपाताभ्यां यस्मात्पादद्वयं भवेत् || इति लक्ष्यश्च इत्थमेव धिक्डिधिं इति द्विपदीभागेन पादेन पादपातः | अत्र ध्रुवके चतस्रः कला भवन्ति धिगडधिङ् इत्यस्य हि कालः कखगघङ नहि व्यञ्जनकालः स्वरकालात्पृथक् तानि गुरोश्च प्रचलत्वं खडतलचडस्तद्विद्भिस्त्रिपुटमेवावधार्यते (?) | तत्र हि तागडुधिं - इत्येवंरूपं लघु कला तस्यास्तिस्रो मात्राश्चतुर्थे गर्वक्षरे (द्वे) मात्रे इति च मात्राः | सर्वत्र चैवं प्रकारः समनन्तरग्रहणे विश्रान्त्यभावेन दुष्कर्ऽह् प्रयोग इति स्थानचेष्टाविश्रान्तिप्रकृप्तये मध्यगता विरामरूपैका मात्रा लक्ष्यविद्धिः प्रकल्पिता तद्वशादुक्ता तादृशां चतुर्भिर्वा द्रुताः कलायां प्रतिभासन्त इत्यास्तां तावत् | इह चित्रमार्गेण चतुष्कलपादपतनमिति न्याय (नायं?) लक्ष्यलक्षणशोभावाह्यत्वादपेक्ष्यते च | अथ लयकालनियमशेषमाह स्थितमिति विलम्बितम् | समवेक्ष्येति प्रकृत्यादि भेदविभागेनेत्याह तमेव दर्शयति धैर्यस्थैर्यविलम्बितलयमध्यसंमतं संवेदनं यथार्थमिथ्यागोन(गौण?)गतधैर्यगाम्भीर्यादिकृतं मन्तव्यम् | (यथाप्रकृतीति) प्. १३४) धैर्योपपन्ना गतिरुत्तमानां मध्या गतिर्मध्यमसंमतानाम् | द्रुता गतिश्च प्रचुराधमानां लयत्रयम् सत्त्ववशेन योज्यम् || १३ || एष एव तु विज्ञेयः कलाताललये विधिः | पुनर्गतिप्रचारस्य प्रयोगं शृणुतानघाः || १४ || न तु जातिकालादिकृतं विदूषकस्य द्विजत्वेऽपि अविमलात्केवलमुत्तमघोषणायैव रचितं जात्यादि योजनीयम् | उत्तमस्याप्यन्यथाभावे कथंचिदुत्तमं सदप्यविद्यमाना इति प्रचुरेति लोकप्रसिद्धमेवेदमुक्तमित्यर्थः | न केवलं प्रकृतितोऽवयवभेदो यावच्चित्तवृत्तिभेदेनाभिप्रेत्याह सत्त्वबलेन च लयत्रयं योज्यम् | सत्त्वं चित्तवृत्तिः तेन संग्रामादावुत्तमस्यापि द्रुतं शोकादावधमस्यापि विलम्बितम् | अथैतदनुसारिणो गत्युपयोगिन्यां ध्रुवायां विधिरिति दर्शयति एष एव त्विति | अत्र गत्यनुसारी तालविधिः अन्ये त्वन्यथेत्युक्तं ताले | यस्ताललयः कलासहितः स कलाताललयः इति मध्यमपदलोपी समासः | तेनायमर्थः - ध्रुवातालेऽपि गत्यनुसार्येव कलाविधिर्विलयविधिश्च | अत एवैतदनुसारेण भट्टलोल्लटगोपालादिभिर्भङ्गोपभङ्गविभङ्गविषये तालदीपिकादौ चिरन्तनसंमतो ध्रुवातालानां विनियोगः प्रपञ्चतो दूषितः | तत्तु ध्रुवाध्याये विचारयिष्याम इत्यास्ताम् | एवं देशकालनियममुक्तं प्रकृते योजयति पुनर्गतिप्रचारस्येति गतिषु प्रचारो वैचित्र्यं प्रयोगं पुनः शृणुतेति संबन्धः | संघटना ह्यनुक्तेति भावः | प्. १३५) स्वभावे तूत्तमगतौ कार्यं जानु कटीसमम् | युद्धचारीप्रयोगेषु पुनः स्तनसमं न्यसेत् || १५ || पार्श्वक्रान्तैः सललितैः पादैर्वाद्यान्वितैरथ | रङ्गकोणोन्मुखं गच्छेत्सम्यक्पञ्चपदानि तु || १६ || वामवेधं ततः कुर्याद्विक्षेपं दक्षिणेन च | परिवृत्य द्वितीयं तु गच्छेत्कोणं ततः परम् || १७ || तत्रापि वामवेधस्तु विक्षेपो दक्षिणेन च | ततो भाण्डोन्मुखो गच्छेत्तान्येव तु पदाइ च || १८ || एवं गतागतैर्गत्वा पदानामेकविंशतिम् | वामवेधं ततः कुर्याद्विक्षेपं दक्षिणस्य च || १९ || स्वभावे त्विति | तुना विशेषद्योतकेन मन्र्थरगतौ चतुस्तालत्वमुक्तं स्वभावगतौ तु त्रितालत्वं दीप्तगतौ तु पञ्चतालत्वमपि कार्यमिति दर्शयति | तां गतिप्रचारघटनामाह पार्श्वक्रान्तैरित्यादि | कुञ्चितं पादमुत्क्षिप्य पार्श्वोत्थानोत्थितं न्यसेत् | उद्घट्टितेन पादेन पार्श्वक्रान्ता (१०-३२) इति पार्श्वक्रान्ता चारी | रङ्गकोणं पूर्वोत्तरं द्वितीयकोणमित्युत्तरपश्चिममेवमिति | अन्यस्मिन्निति कोणद्वयेऽतिदिशति | पूर्वरङ्गे चैषा पञ्चपदी व्याख्याता (अ ५-७३) | वेधः पार्ष्णिक्षेत्रे सूचीपादनिपातः | वामवेधमिति अन्तराविद्धमुखं (तत्) प्राप्तिसिद्धौ कोणैर्गत्वा ब्रह्मस्थानस्थानुल्लंघ्यतामाह | एतच्च प्. १३६) रङ्गे विकृष्टे भरतेन कार्यो गतागतः पादगतिप्रचारः | त्र्यश्रस्त्रिकोणे चतुरश्ररङ्गे गतिप्रचरश्चतुरश्र एव || यः समैः सहितो गच्छेत्तत्र कार्यो लयाश्रयः | चतुष्कलोऽथ द्विकलस्तथैवैककलः पुनः || २१ || अथ मध्यमनीचैस्तु गच्छेद्यः परिवारितः | चतुष्कलमथार्धं च तथा चैककलं पुनः || २२ || दैत्यदानायक्षाणां नृपपन्नगरक्षसाम् | चतुस्तालप्रमाणेन कर्तव्याथ गतिर्बुधैः || २३ || दिवौकसां तु सर्वेषां मध्यमा गतिरिष्यते | तत्रापि चोद्धता ये तु तेषां देवैः समा गतिः || २४ || पञ्चपदीगमनं सर्वतौत्सर्गिकम् | विशेषमप्याह रङ्गे विकृष्ट इति | भरतशब्देन उपचारतस्तद्विद्यायोनिसंबन्धः सूच्यते | गतागतैरिति परिमितायां दिशि पञ्चपदी गतागतेन नियमः एकतैव स्थाने द्वौ पादविक्षेपाइति मन्तव्यम् | विकृष्टायां च भूयो भूयः पञ्चपदी | अत्रैव विषये विविधप्रमाणा पातरीति तद्द्विलयद्विभङ्गचतुर्भङ्गादयः प्राधान्येन | व्यामिश्रगतेरपि विशेषं व्याचिख्यासुः समगतिमुपसंहरति यः समैरिति | तथैवेति साम्येनेत्यर्थः | मिश्रगतिमाह अथेति | परिवारित इत्युत्तमत्वेन विवक्षित इत्यर्थः | तेन देवादि साध्वाश्रीयमानमुत्तमप्रकृतावपि (?)नायं विधिरन्यस्यैव तत्र प्राधान्यात् | तदोत्तमपादपाते मध्यमस्यदौ नीचादे(रेकः उत्तम)स्य चत्वारः | अतैव च चतुस्तालादिविभागे निश्चयार्थं प्रश्नमुत्थापयितुमुपसंहारमुत्तमविशेषाभिधानसहितमाह दैत्यदानवेत्यादि | सर्वेषामिति देवदूतादीनाम् | उद्धता ये त्विति मातलिप्रभृतयः | प्. १३७) ऋषय ऊचुः यदा मनुष्या राजानस्तेषां देवगतिः कथम् | अत्रोच्यते कथं नैषा गती राज्ञां भविष्यति || २५ || अथ दिव्याः प्रकृतयो दिव्यमानुष्य एव च | मानुष्य इति विज्ञेया नाट्यवृत्तिक्रियां प्रति || २६ || देवानां प्रकृतिर्दिव्या राज्ञां वै दिव्यमानुषी | या त्वन्या लोकविदिता मानुषी सा प्रकीर्तिता || २७ || देवांशजास्तु राजानो वेदाध्यात्मसु कीर्तिताः | एवं देवानुकरणे दोषो ह्यत्र न विद्यते || २८ || अयं विधिस्तु कर्तव्यः स्वच्छन्दगमनं प्रति | संभ्रमोत्पातरोषेषु प्रमाणं न विधीयते || २९ || सर्वासां प्रकृतीनां तु अवस्थान्तरसंश्रया | उत्तमाधममध्यानां गतिः कार्या प्रयोक्तृभिः || ३० || देवांशजा इति लोकपालांशविनिर्माणा राजानः | वेदेषु तथाध्यात्मशास्त्रेषु वेदान्तेषु येषामनेन प्राधान्यमुक्तम् | (अनुकरणं) देवादीनां वर्णनात् उक्तं च विराजविद्धराजगुह्यमिति (?) देवानुकरणे नाल्पत्वमित्यर्थः | अयमिति चतुष्कल इत्यादिः | स्वच्छन्दगमनं स्वस्था गतिः | संभ्रम आवेगः उत्पातोऽत्रोन्मादादिः | (उक्त) प्रमाणमिति उक्तरूपमित्यर्थः | एतदेवास्य दूषयति चतुरर्धं द्वे उत्तमस्य एका मध्यमस्य अर्ध नीचस्य अवस्थान्तरवलात् सर्वासां प्. १३८) चतुरर्धकलं वा स्यात्तदर्धकलमेव च | अवस्थान्तराअसाद्य कुर्याद्गतिविचेष्टितम् || ३१ || ज्येष्ठे चतुष्कलं यत्र मध्यमे द्विकलं भवेत् | द्विकला चोत्तमे यत्र मध्ये त्वेककला भवेत् || ३२ || कलिकं मध्यमे यत्र नीचेष्वर्धकलं भवेत् | एवमर्धार्धहीनं तु जडानां संप्रयोजयेत् || ३३ || ज्वरार्ते च क्षुधार्ते च तपःश्रान्ते भयान्विते | विस्मये चावहित्थे च तथौत्सुक्यसमन्विते || ३४ || शृङ्गारे चैव शोके च स्वच्छन्दगमने तथा | गतिः स्थितलया कार्याधिकलान्तरपातिता || ३५ || (प्रकृतीनां गतिरिति कलालयतालाश्रिता) | सर्वपतदिति तु युक्तम् | (नीचेष्वर्धकलं भवेदिति) अनेन कलातुर्यभागो भरतमुनिना सूचितोऽयं लक्षणविदो वृत्ताकारं द्रुतमाहुः यद्यथा पञ्चमांश उक्तनीत्या श्वासादिविश्रान्तिपूर्वक इति चुतुर्धा स एव द्रुतो युक्तः | चतुष्कलादप्याधिवयमस्तीति दर्शयति | ज्वरार्त इत्यादि | भयेन योऽन्वितो जातोरुस्तम्भः अन्यथा ह्यस्य त्वरिततरा गतिर्वक्ष्यते | विस्मय इति तत्कृतस्तम्भ इत्यर्थः | अवहित्थ इति कृतकधैर्याणां कृतकं हि नः सुश्लिष्टं कर्तु पार्यत इति | तत्राधिक्यमेव भवति तत एव हि कुशलाः कृतकतां विदुः | अत्यादरवदौत्युक्येन सम्यगन्वितो य एव | शृङ्गारभेदस्तत्रैव विप्रलम्भ इति यावत् | स्वच्छन्दगमन इति कार्येण विना क्रीडाचङ्क्रमणे | अधिकले इत्यधिशब्दोऽधिकार्थः | अधिकलामिति केचित् | आधिक्यं प्रकर्षेण चतुःस्वरूपेण संख्या चैतत् प्लुतस्य विरामस्य च स्वरू- प्. १३९) पुनश्चिन्तान्विते चैव गतिः कार्या चतुष्कला | अस्वस्थकामिते चैव भये वित्रासिते तथा || ३६ || आवेगे चैव हर्षे च कार्ये यच्च त्वरान्वितम् | अनिष्टश्रवणे चैव क्षेपे चाद्भुतदर्शने || ३७ || अपि चात्ययिके कार्ये दुःखिते शत्रुमार्गणे | अपराद्धानुसरणे श्वापदानुगतौ तथा || ३८ || पाधिक्ये तालबोधः संख्याधिक्येन षडष्टकलादेर्विकृष्टमधिकृतं कलान्तरं परिमाणं यथा तथाभूतः पादपातो यस्याम् | अत एवैतदापानप्रसङ्गविचारणाद्वक्ष्यति - षट्कलन्तु न कर्तव्यं तथाष्टकलयेव च | पादस्य पतनं तज्ज्ञैः खेदनं तद्भवेत् स्त्रियाह् || (१२-१७२) इति | चतुरर्धैककलमिति वचसा सप्तकस्य च निषेधेन च त्रिकलपञ्चकलादीनामभावं सूचयति | विषमाणां सपरिमाणोत्क्षेपणनिपातनात् योगात्तालविदां हि साम्यमुपनिषद्भूतं तच्चात्र स्फुटयति | एवमेतेषु षट्क्लादप्यधिकं मानं तथा च तपःशान्तानां परिक्रमे यत्तूल्ल(स)नाख्योलयः कोहलादिभिरुक्तो यस्यातिविलम्बितः कालावधौ | एवं कलाधिक्यमभिधाय न्यूनत्वमप्यस्तीत्याह अस्वस्थकामितमित्यादि | अस्वस्थे प्रच्छन्नकामिते हि त्वरातिशयः अनिष्टं यदा वान्धवादेः श्रुतं तदा तदन्तिकं द्रुतगमनं अद्भुतदर्शनविषये यदा क्षेपः प्रक्षिप्तता पुअरेतन्न दुष्यत इति | अत्ययोऽतिक्रमणं शीघ्रसंपादनं प्रयोजनमस्य | यन्नाभिरुचितमवश्यकर्तव्यं च तत्त्वरया क्रियते त्वरयान्वितं सुकार्यं अभिरुचितमेवेति विशेषः त्वरान्वित- प्. १४०) एतेष्वेवं गतिं प्राज्ञो विकलां संप्रयोजयेत् | उत्तमानां गतिर्या तु न तां मध्येषु योजयेत् || ३९ || या गतिर्मध्यमानां तु न तां नीचेषु योजयेत् | मिति | इयता यद्यपि सर्वं लभ्यते तथापि कविनटव्युत्पादनाय प्रपञ्चः | अपराधोऽभिनेयः शत्रोरन्य एव यद्वा यस्यापराधः कृतो गुर्वादेस्ततश्च रुपा गतः सोऽपराद्धः | एतेष्विति एवंप्रकारेष्वन्येषु मदादिष्वपीत्यर्थः | विकलामिति विकलः कलापरिमाणं यस्याः कला अर्धकला तुर्या सा यद्यपि तत्र नादरणीयं तत्त्रिभागषड्भागादिरपि तत भवति | अत एव संभ्रमोत्पातरोषेषु चतुरर्धकलमित्यनेन पौनरुक्त्यं तस्याविषयत्वादस्य तु विषमभागविषयत्वात् | तथाहि मत्तगतौ शेखरकस्य खण्डकप्रयोगे हि गहिदुं धि इत्येवंरूपे मात्रा तृतीये तृतीयस्य नामात धं धग् इत्येकः पातः त्सुक इति द्वितीयो धि इति तृतीयो नचैषां साम्यम् | एतेन च कलानां साम्यं न्यूनाधिकतानिरूपणेन समविषमकलाभाग भद्गाभिधानेन गुरुलघुद्रुतप्लुतानां स्विकारात्तद्वैचित्र्यम् | इयमपि (भङ्गोपभङ्गविभङ्ग)प्रकारप्रस्तारसंगृहीता लक्ष्यसिद्धा भङ्गलयव्यवस्था प्रतिपाद्याक्षरतदर्थादिरूपा च धाराबन्धादिविषयाघातमार्गशब्देन प्रसिद्धा व्यवस्था स्फुटमेव दर्शिता | साभूदेवं कालप्रमाण(कलापरिमाण ?)नियमाभिधानं गजस्नानीभूतमित्याह उत्तमानां गतिर्या त्विति | तुरेवार्थे अन्यक्रममेनैवेत्यर्थः | एतदुक्तं भवति - अनियमेन निदर्शितेन नियमो विप्लुतः तथापि कलाधिक्ये षट्कलातोत्तमस्य तत्र मध्यमस्य चतुष्कलता अधमस्य द्विक- प्. १४१) गतिः शृङ्गारिणी कार्या स्वस्थकामितसंभवा || ४० || दूतीदर्शनमार्गस्तु प्रविशेद्रङ्गमण्डलम् | सूचया चाप्यभिनयं कुर्यादर्थसमाश्रयम् || ४१ || हृद्यैर्वस्त्रैस्तथा गन्धैर्धूपैश्चूर्णैश्च भूषितः | नानापुष्पसुगन्धाभिर्मालाभिः समलंकृतः || ४२ || गच्छेत्सललितैः पादैरतिक्रान्तस्थितैस्तथा | तथा सौष्ठवसंयुक्तैर्लयतालवशानुगैः || ४३ || पादयोरनुगौ चापि हस्तौ कार्यौ प्रयोक्तृभिः | (उत्क्षिप्य हस्तं पातेन पादयोश्च विपर्ययात् ||) ४४ || लता | यत्र न्यूनकलमुक्तं तत्राप्युत्तमस्य कला मध्यमस्यार्धकला अधमस्य कलातुर्यभाग इति कथं विप्लवः | एवं प्रकृतिभेदेन गतिमभिधाय रसविषयेण दर्शयितुं प्रथमं पुरुषार्थोपयोगिरसविषयाणि निरूपयन् प्राधान्याच्च शृङ्गारे तावदाह गतिः शृङ्गारिणीत्यादि | स्वस्थकामितमप्रच्छन्नम् | अर्थसमाश्रये सिद्धे सूचायाः पुनर्वचन हृद्यस्य पदार्थस्य पर्यालोचनं सातिशयं चमत्कारकारीति निरूपयितुं तत्र चर्वितचर्वणवत्पुनः पुनः कंचिदपि भागमत्यजन् सूचां शृङ्गारे कुर्यादिति दर्शयति | युद्धवीरादौ हि प्रधानानुसंधानमेवोचितं तन्मध्यपतितानां कार्यान्तराणामपर्यालोचनीयत्वात् पर्यालोचने आचार्यं मातुलान् भ्रातॄन् स्वजनमित्याद्यापत्तेः येऽपि चान्तरमार्गा इत्यत्रत्यान् नृत्ते सूच्यान् परिहर्तुमित्यर्थस- प्. १४२) प्रच्छन्नकमिते चैव गतिं भूयो निबोधत | विसर्जितजनः स्रस्तस्तथा दूतीसहायवान् || ४५ || निर्वाणदीपो नात्यर्थं भूषणैश्च विभूषितः | वेलासदृशवस्त्रैश्च सह दूत्या शनैस्तथा || ४६ || व्रजेत्प्रच्छन्नकामस्तु पादैनिःशब्दमन्दगैः | शब्दशङ्क्युत्सुकश्च स्यादवलोकनतत्परः || ४७ || वेपमानशरीरश्च शङ्कितः प्रस्खलन्मुहुः | माश्रयमित्यसत् | सापि हि निरर्थिका सूचैव हि कथं स्यात् | सूचातोऽपि चानन्तरमस्य प्रकृतां गतिमाह | नृत्तकन्यादि शोभनो गन्धः सुगन्धः नानापुष्पैः सहायानामिति समासान्ताभावः | सललितैः सविलासैः | सौष्ठएनाङ्गचातुरश्र्येण युक्तैः लयो विलम्बितं तालं चतुरश्रादि भूयः पुनः सामान्येन युक्ताप्युत्तमगतिः पुनर्विशेषतां निरूप्यत इति भावः | प्रच्छनं कृत्वा कामितं यत्र शृङ्गारे सागरिकादाविव वत्सराजादेः तदन्यो वा सीतादाविव पौलस्त्यप्रभृतेस्तु वेपमानदेहः | स्खलन्नित्यादिकलातुर्याशानुत्सुक इत्यादिना कार्ये निर्वाणदीपः शब्दाशङ्कीत्यादिना खण्डितां कलां सूचयन् मिश्रप्रयोगं गतिमत्राह | अथैवंविधकामिविषयमेव सुभद्राभिधानं ध्रुआतालमाहुः कोहलाद्याः | तस्य हि प्रस्तारो द्रुतलघुमिश्रः | वेलातुल्यवस्त्रा इति तथा चन्द्रालोके सितवस्त्रावगुण्ठितो घनसारपरागपुञ्जमञ्जुगात्रो मुत्तमप्रायप्रचुराभरणो वस्त्राद्युपलक्षणम् | विप्रलम्भे तु शृङ्गारिण्येव करुणव्यामिश्रा गतिर्व्यभि- प्. १४३) रसे रौद्रे तु वक्ष्यामि दैत्यरक्षोगणान् प्रति || ४८ || एक एव रसस्तेषां स्थायी रौद्रो द्विजोत्तमाः | नेपथ्यरौद्रो विज्ञेयस्त्वङ्गरौद्रस्तथैव च || ४९ || तथा स्वभावजश्चैव त्रिधा रौद्रः प्रकल्पितः | रुधिरक्लिन्नदेहो यो रुधिरार्द्रमुखस्तथा || ५० || तथा पिशितहस्तश्च रौद्रो नेपथ्यजस्तु सः | बहुबाहुर्बहुमुखो नानाप्रहरणाकुलः || ५१ || स्थूलकायस्तथा प्रांशुरङ्गरौद्रः प्रकीर्तितः | रक्ताक्षः पिङ्गकेशश्च असितो विकृतस्वरः || ५२ || रूक्षो निर्भर्त्सनपरो रौद्रे सोऽथ स्वभावजः | चतुस्तालान्तरोत्क्षिप्तैः पादैस्त्वन्तरपातितैः || ५३ || चारिसंवादिन्यभिप्रेत्य पृथङ्नोक्ता | एवं विषयाभिलाषे प्राणे शृङ्गारेऽभिधाय तद्रूप एव रोद्रे गतिं निरूपयति रौद्रे रसे त्विति | दैत्यादिप्रयुक्तं यदुक्तं तत्केनाशयेनेति शङ्काशमनायाह एक एवेति | ननु किं तेषां क्रोधेन विनापि रौद्रता ओमिति ब्रूमः | कथमिति चेत् रसाध्यायोक्तन्यायेनानु रसयितुमाह नेपथ्यरौद्र इत्यादि स्वभाव इत्यन्तम् | एवमेक एव रसस्तेषामिति कथितं रसाध्याये चैतत्प्रपञ्चितम् | चतुस्तालान्तरोत्क्षिप्तैरिति तालान्तरपातित्वं द्वितीयतालान्तरालापेक्षयेति केचित् | उपाअध्यायास्तु - तालशब्देनात्र कालमानमुक्तं न तु देशमानं तेन यावता कालेनोत्क्षेपस्ततो न्यूनेन पतनं - इति | एतदनु प्. १४४) गतिरेवं प्रकर्तव्या तेषां ये चापि तद्विधाः || ५४ || अहृद्या तु मही यत्र श्मशानरणकश्मला | गतिं तत्र प्रयुञ्जीत बीभत्साभिनयं प्रति || ५५ || क्वचिदासन्नपतितैर्विकृष्टपतितैः क्वचित् | एलकाक्रीडितैः पादैरुपर्युपरिपातितैः || ५६ || तेषामेवानुगैर्हस्तैर्वीभत्से गतिरुच्यते | अथ वीरे च कर्तया पादविक्षेइपसंयुता || ५७ || प्रकृतिसन्धिसंरम्भत्वं चाभिदधता विषमगतित्वमेषामनुज्ञानम् | तथा च कोहलमुखाः कलातदर्थद्वयलक्षणेन नर्तनकोत्फुल्लकादिना रौद्रादौ परिक्रममाहुः | तद्विधा इति भीमसेनादयः मनेन युद्धवीरेऽप्येषैव गतिरिति सूचयति | अथ रौद्रप्राणौग्रयविवक्षामध्ये पुरुषार्थप्राणायातबीभत्साश्रयां गतिमाह अहृद्यात्विति | श्मशानरूपा युद्धपतितकबन्धप्रभृतिविरचिता | अत एव रणेन कश्मला जुगुप्सिता | आसन्नपतितत्वेन कलार्धतुर्यागत्वादि विकृष्टपतितत्वेन कलासाधकलादि सूचयति | अथ वीरगतिमाह अथ वीरे चेति | विस्तारेण क्षेप इति स्यन्दितापस्यन्दितोर्गहणम् | तत्र च कलयार्धकलादि च प्रयोगः | तत एवोल्लासनिकाख्यं प्. १४५) द्रुतप्रचाराधिष्ठाना नानाचारीसमाकुला | पार्श्वक्रान्तैर्द्रुताविद्धैः सूचीविद्धैस्तथैव च || ५७ || कलाकालगतैः पादैरावेगे योजयेद्गतिम् | उत्तमानामयं प्रायः प्रोक्तो गतिपरिक्रमः || ५८ || मध्यानामधमानां च गतिं वक्ष्याम्यहं पुनः | विस्मये चैव हर्षे च विक्षिप्तपदविक्रमा || ५९ || आसाद्य तु रसं हास्यमेतच्चान्यं च योजयेत् | तालमत्राहुर्लक्ष्यविदः | द्रुतेन प्रचारेणाधिष्ठानं गन्तव्ये देशे यस्यामिति | मल्लघटीत्र्यश्रादि विकृष्टपतितत्वे कलासार्धलघुद्रुतप्रचारं सूचितमनेन वीरे रौद्रे वा प्रवेगस्य स्पर्शभावत्वात् | तत्र गतिमाह कलाकालगतैरिति | पादैरिति बहु वचनेन त्रयः पादपाता गृह्यन्ते | तेन कलया कालेन च सन्निधानात् तालगतैवगतिरिति लघुपातनं येषा अथ वैको लघुपातो द्वावन्योन्यद्रुतपातौ कलामात्रं च विराममित्येवम् | उत्फुल्लकपरिक्रमः स चोभयोर्वीररौद्रयोः क्रमः | उत्तमानामिति | ननु बीभत्सस्यैवोत्तमविषयतैवं ? केनैतदुपदिष्टं भवतः ? | पुरुषार्थसाधनो बीभत्सः उत्तमेष्वेवैतदभिहितरसविषयव्यभिचारियोगे तु | मध्यमानां गतिमाह विस्मये चेति | चकारादावेगादौ व्यभिचार्यन्तरेष्वपि | विक्षिप्तः इतस्ततो गतो व्याकुलप्रायो लघुद्रुतबहुलः परिक्रमो यस्य | तथा विस्मय एव व्यभिचारिरूपे स्थायिनि अद्भुतरसरूपे मध्यमानाम् | पुनरेवमिति पुनर्ग्रहणादुत्तमानामद्भुतेऽपि स्वच्छन्दगतिरेव पूर्वोक्तेति दर्शयति | केवलं तत्र विस्मयो वदन उत्पाद्यो मुखरागे | एतश्चेति परं हास्यं स्मिताद्यतिहस्तिअपर्यन्तं यदोत्त मानां स्वस्थगतिरेव तदा मध्याधमानान्तु अपहसितातिहसितयोर्विक्षिप्तगतित्व- प्. १४६) पुनश्च करुणे कार्या गतिः स्थितपदैरथ || ६० || बाष्पाम्बुरुद्धनयनः सन्नगात्रस्तथैव च | उत्क्षिप्तपातितकरस्तथा सस्वनरोदनः || ६१ || गच्छेत्तथाध्यर्धिकया प्रत्यग्राप्रियसंश्रये | एषा स्त्रीणां प्रयोक्तव्या नीचसत्त्वे तथैव च || ६२ || उत्तमानां तु कर्तव्या सधैर्या वाष्पसंगता | निःश्वासैरायतोत्सृष्टैस्तथैवोर्ध्वनिरीक्षितैः || ६३ || न तत्र सौष्ठवं कार्यं न प्रमाणं तथाविधम् | मध्यानामपि सत्त्वज्ञा गतिर्योज्या विधानतः || ६४ || उरःपातहतोत्साहः शोकव्यामूढचेतनः | मेव | अन्यच्चेति तावद्विदूषकगतौवक्ष्यमाणम् एवं प्रसङ्गाद् द्रुतहास्ययोग्यगतिरभिहिता | करुणे तूच्यते पुनश्च करुण इति | उवरार्ते चेत्यादि श्लोकेन यद्यपिस्तोकगतिरुक्ता तथापि यद्वक्ष्यत इति पुनश्शब्दार्थः | स्थितपदैः विलम्बितैः | आयतं दीर्घं कृत्वा उत्सृष्टैस्त्यक्तैः | ऊर्ध्वनिरीक्षणैःदेवोपालम्भसूचकैः | न प्रमाणं तथाविधमिति नात्र सर्वथा प्रमाणाभावः अपि त्वनियन्त्रितमेव पातात्मकं प्रमाणम् | अत एवात्र विलम्बितलयेन लघुत्रयेण दुर्तलयेन गुरुप्लुतमात्रेण च विरामेण जम्भटिकाख्यो लयः कोहलेन दर्शितः | उरसः पात आभुग्नत्वात् | प्. १४७) नात्युत्क्षिप्तैः पदैर्गच्छेदिष्टबन्धुनिपातने || ६५ || गाढप्रहारे कार्या च शिथिलाङ्गभुजाश्रया | विघूर्णितशरीरा च गतिश्चूर्णपदैरथ || ६६ || शीतेन चाभिभूतस्य वर्षेणाभिद्रुतस्य च | गतिः प्रयोक्तृभिः कार्या स्त्रीनीचप्रकृतावथ || ६७ || पिण्डीकृत्य तु गात्राणि तेषां चैव प्रकम्पनम् | करौ वक्षसि निक्षिप्य कुब्जीभूतस्तथैव च || ६८ || दन्तोष्ठस्फुरणं चैव चिबुकस्य प्रकम्पनम् | कार्यं शनैश्च कर्तव्यं शीताभिनयने गतौ || ६९ || तथा भयानके चैव गतिः कार्या विचक्षणैः | स्त्रीणां कापुरुषाणां च ये चान्ये सत्त्ववर्जिताः || ७० || करुणप्रसङ्गात्प्रहारे गतिमाह | चूर्णानि परिमितोत्क्षिप्तानि अधिकपतितानि पादानि तेनाध्यर्धिकातोऽल्यान्तरंस्यात् | करुणे रसे दारिद्र्यमभिभवस्त्वत्र शीतः वर्षभवः संभाव्यत इति | नावगतिमाह शीतेन चेति | अथेत्यनेन मध्यमोत्तमानामनुभावन्यूनभावेन शीतादिगतिं सूचयति | तेषामिति पिण्डि कृतानां मात्राणां चकारेण कम्पनं सङ्कोचनं समुच्चीयते | एवकारेण सौष्ठव चातुरश्र्यादि निरस्यते | कराविति कटिपातरूपावित्यर्थः | गात्राणि पिण्डीकृत्य करौ वक्षसि च कृत्वा या गतिः लोके तस्याभिगमने योऽयं शीताभिनयस्तत्र कर्तव्यः | प्रयोक्तृभिर्नटैर्गात्रकम्पनं कुबुजीभूतो देह इत्यादि कार्यमिति पदसङ्गतिः | एवंकरुणे तत्प्रसङ्गेन चान्यत्रापि गतिमभिधाय भयानके कथयति येचान्य इति | येषामुत्तमत्वं कुलाद्यौचित्यात् | अथ सत्त्वविहीनाः | प्. १४८) विस्फारिते चले नेत्रे विधुतं च शिरस्तथा | भयसंयजुक्तया दृष्ट्या पार्श्वयोश्च विलोकितैः || ७१ || द्रुतैश्चूर्णपदेश्चैव बध्वा हस्तं कपोतकम् | प्रवेषितशरीरश्च शुष्कोष्ठः स्खलितं व्रजेत् || ७२ || एषानुसरणे कार्या तर्जने त्रासने तथा | सत्त्वं च विकृतं दृष्ट्वा श्रुत्वा च विकृतं रवम् || ७३ || एषा स्त्रीणां प्रयोक्तव्या नृणामाक्षिप्तविक्रमा | क्वचिदासन्नपतितेर्विकृष्टपतितैः क्वचित् || ७४ || एलकाक्रीडितैः पादैरुपर्युपरि पातितैः | एषामेवानुगैर्हस्तैर्गतिं भीतेषु योजयेत् || ७५ || वणिजां सचिवानां च गतिः कार्या सभावजा | तद्यथा - विराटपुत्र उत्तरः | द्रुतैरित्यनेन धारालयादिः कोहलोक्तः सूचितः | अनुसरण इति शत्रोः पृष्ठतः आगमनमित्यर्थः | नृणां पुनराक्षिप्तविक्रमं यत्तनोपाहृतं मध्येमध्ये कृतधैर्य यस्यावित्यर्थः | तेन मध्ये गुरुलघुपादपाता अपि | तदाह - क्वचिदासन्नपतितैरित्यादि | अथ शान्तरसेगतिर्वक्तव्या | सचप्राधान्येन तथा प्रयोगसौन्दर्यमावहति अतोऽन्तस्संस्काररूपता येषां वणिक्प्रभृतीनामस्ति वीरप्रशान्ता वणिज इति वचनाद्यतिप्रभृतयोऽपि च शान्तरसप्रधानाः ये नाटकादौ प्रसङ्गाः भवन्ति तेषामुभयेषामपि गतिमाह वणिजामित्यादिना | सचिवाः अमात्याः | स्वभावशब्देन तत्र तत्रानाविष्टमेव रूपमाह | नैष्ठिका- प्. १४९) (कृत्वा नाभितटे हस्तमुत्तानं खटकामुखम् || ७६ || आद्यं चारालमुत्तानं कुर्यात्पार्श्वं स्तनान्तरे | न निषण्णं न च स्तब्धं न चापि परिवाहितम् || ७७ || कृत्वा गात्रं तथा गच्छेत्तेन चैअ क्रमेण तु |) अतिक्रान्तैः पदैर्विप्रा द्वितालान्तरगामिभिः || ७८ || यतीनां श्रमणानां च ये चान्ये तपसि स्थिताः | तेषां कार्या गतिर्ये तु नैष्ठिकं व्रतमास्थिताः || ७९ || अलोलचक्षुश्च भवेद्युगमात्रनिरीक्षणः | उपस्थितस्मृतिश्चैव गात्रं सर्वं विधाय च || ८० || अचञ्चलमनाश्चैव यथावल्लिङ्गमाश्रितः | विनीतवेषश्च भवेत्काषायवसनस्तथा || ८१ || प्रथमं समपादेन स्थित्वा स्थानेन वै बुधः | हस्तं च चतुरं कृत्वा तथा चैकं प्रसारयेत् || ८२ || प्रसन्नं वदनं कृत्वा प्रयोगस्य वशानुगम् | अनिषण्णेन गात्रेण गतिं गच्छेद्व्यतिक्रमात् || ८३ || नामिति ब्रह्मचर्यादेव प्रवर्तिता इत्यर्थः | युगं चतुरहस्तम् | उपस्थिता झटिति संस्कारप्रबोधप्रभवा स्मृतिर्यस्य | शान्तत्वादेव हि हृदयं नियम्यमेषां वणिगमात्ययतिप्रभृतीनां निर्जने विषयेति सन्धिवन्धमेव नित्यनिरूपणपरं यस्य | प्. १५०) उत्तमानां भेवेदेषा लिङ्गिनां ये महाव्रताः | एभिरेव विपर्यस्तैर्गुणैरन्येषु योजयेत् || ८४ || तथा व्रतानुगावस्था अन्येषां लिङ्गिनामपि | विभ्रान्ता चाप्युदात्ता वा विभ्रान्ता निभृतापि वा || शकटाख्यस्थितैः पादैरतिक्रान्तैस्तथैव च | कार्या पाशुपतानां च गतिरुद्धतगामिनी || ८६ || अन्धकारेऽथ याने च गतिः कार्या प्रयोक्तृभिः | भमौ विसर्पितैः पादैर्हस्तैर्मार्गप्रदर्शिभिः || ८७ || लिङ्गं जपभस्मकौपीनादि | अन्येष्विति नाममात्रवृत्तिषु तत्र तु विपर्यासो यथोचितं द्रष्टव्यः | तद्यथा लोलं चक्षुः मनश्च लिङ्गं पुनर्जटादि भवति एवमन्यदुत्प्रेक्ष्यम् | व्रतानुगत्वं स्फुटयति बिभ्रान्ता चेति | उन्मत्तादिव्रतं हि श्रुयते आगमेषु तत्तदुचितैरित्येवमेव गतिरित्यथः | क्रमणा * *?कान्तं कृत्वा गतिः पाशुपतानां परमेश्वरव्रतधारिणां गतिरित्युदात्तेत्यर्थः | यदि वा परमयोग्यवस्थायां नाकुलदर्शनप्रतिपन्नानामुन्मत्तव्रतमप्यस्ति तद्विपयमेवोद्भ्रान्तत्वं गतो | एवं रसान्तरसद्गतिरुक्ता | यच्चान्यैः रौद्रानन्तरं शान्तरसाभिप्रायेण पठितं | रूपादित्वनिराशंसः परोपायविचिन्तकः | चतुष्कलैर्द्विपातैश्च पादैर्भ्रान्तगतिं व्रजोत् इति | तदनर्थमेव एतद्ग्रन्थे पुनरुक्तमपुष्कलार्थं पुस्तके कथं दृष्टमिति स्वकल्पितमेवेत्युपेक्ष्यम् || एवं रसानुसारेण गतिमुक्त्वा देशानुसारेणाप्याह | अन्धकार इति अन्धत्वेन गमन इति | विसर्पितैरपक्षेपणशून्यैः | मार्गप्रदर्शिभिः मार्गान्वेषण- प्. १५१) रथस्थस्यापि कर्तव्या गतिश्चूर्णपदैरथ | समपादं तथा स्थानं कृत्वा रथगतिं व्रजेत् || ८८ || धनुगृहीत्वा चैकेन तथा चैकेन कूबरम् | सूतश्चाख्य भेवेदेवं प्रतोदप्रग्रहाकुलः || ८९ || वाहनानि विचित्राणि कर्तव्यानि विभागशः | द्रुतैश्चूर्णपदैश्चैव गन्तव्यं रङ्गमण्डले || ९० || विमानस्थस्य कर्तव्या ह्येषैव स्यन्दनी गतिः | आरोढुमुद्वहेद्गात्रं किंचित्स्यादुन्मुखस्थितम् || ९१ || अस्यैव वैपरीत्येन कुर्याच्चाप्यवरोहणम् | परैरित्यर्थः | कर्तव्या गतिरिति च्छेदः तदाह चूर्णपदैः | समपादेन स्थानकेन रथेन गतिः यस्मिन् देशे तं व्रजेत् रथविशिष्टा वा गतिः सामान्यके अकर्मकरभासिका शास्त्र इतिवत् | चूर्णपदैरित्यनेन खण्डधारालयं द्रुतबहुलं गुर्वन्तं कोहलोक्तं सूचयति | कूबरं युगन्धर्ऽम् प्रतोदः प्रेषणकः प्रग्रहो वल्गा रथ्यानि वाहनानि तानि प्रकृतिविभागौचित्येन विचित्राणि तुरगवलीवर्दखरोष्ट्रकानि चित्राणि लिखितानि अस्य सूतस्यैव कर्तव्यानि तच्चित्रपटं सूतस्यैव हस्ते वर्जयेदिति यावत् | चूर्णपादानां लयविशेषनिरूपणाय पुनर्ग्रहणं द्रुतैरिति | रङ्गमण्डल इत्यनेनेदमाह - अवतुतोऽसौ रथ्यामण्डल एव गतिक्रियां करोति तथात्र सर्वं तच्चित्रं तद्रथाकृति कर्तव्यं तत्त्वनुगतपदमात्रमेव येन रथो यातीति प्रतीयते | एवं सर्वत्र अत एवाह विमाअस्थस्यापीति | दिव्यस्याकाशगामिनोऽपि पुष्पकादेरित्यर्थः | अथ रथप्रसङ्गादुद्धृतं क्रियान्तरमप्याह आरोढुमिति | उद्वहेदूर्ध्वं प्रापयेत् | वैपरीत्येन अधोमुखत्वेन गात्राधोनयनेन प्. १५२) अधोऽवलोकनैश्चैव मण्डलावर्तनेन च || ९२ || आकाशगमने चैव कर्तव्या नाट्ययोक्तृभिः | स्थानेन समपादेन तथा चूर्णपदैरपि || ९३ || व्योम्नश्चावतरेद्यस्तु तस्यैतां कारयेद्गतिम् | ऋज्वायतोन्नतनतैः कुटिलावर्तितैरथ || ९४ || भ्रश्यतश्च तथाकाशादपविद्धभुजा गतिः | विकीर्णवसना चैव तथा भूगतलोचना || ९५ || प्रासादद्रुमशैलेषु नदीनिम्नोन्नतेषु च | आरोहणावतरणं कार्यमर्थवशात्तथा || ९६ || प्रासादारोहणं कार्यमतिक्रान्तैः पदैरथ | उद्वाह्य गात्रं पादं च न्यसेत्सोपानपङ्क्तिषु || ९७ || तथावतरणं चैव गात्रमस्यैव कारयेत् | प्रासादे यन्मया प्रोक्तः प्रतारः केवलो भवेत् || ९८ || चेत्यर्थः | अथाकाशगतिं विमानप्रसङ्गादाह - अधोऽवलोकनेनेति | मण्डलावर्तंपरिवर्तुलगतिरितिकेचित् | आकाशीयानां चारीमण्डलानां पुनःपुनराअर्तनेनेति तूपाध्यायाः | एतामिति वक्ष्यमाणां कारयेन्नाट्याचार्यो नटैः | ऋजुभिः सरलललितजङ्घैः | अत एवायतैरुत्क्षिप्तपातितैः कुटिलया गत्या आवर्तितैः भ्रमितैः | उन्नतनतैरित्यन्ये पठन्ति उत्क्षेपकाले उन्नतिअः पातनकाले तु नतैरिति व्याचक्षते | भ्रश्यत इत्यबुद्धिपूर्वकं पतत इत्यर्थः | अपविद्धौ त्वरितडोलाकारपातौ भुजौ यस्याम् | अर्थवशादिति स्फुटयति प्रतार इति | तटादवतीर्य ततः शरीरं प्. १५३) जलप्रमाणापेक्षा तु जलमध्ये गतिर्भवेत् | तोयेऽल्पे वसनोत्कर्षः प्राज्ये पाणिविकर्षणैः || ९९ || किंचिन्नताग्रकाया तु प्रतारे गतिरिष्यते | प्रसार्य बाहुमेकैकं मुहुर्वारिविकर्षणैः || १०० || तिर्यक्प्रसारिता चैव ह्रियमाणा च वारिणा | अशेषाङ्गाकुला धूतवदना गतिरिष्यते || १०१ || नौस्थस्यापि प्रयोक्तव्या द्रुतैश्चूर्णपदैर्गतिः | अतिक्रान्तेन पादेन द्वितीयोनञ्चितेन च || १०२ || प्रासादारोहणे यत्तु तदेवाद्रिषु कारयेत् | केवलं तच्च विक्षेपमङ्घ्रिष्वङ्गं भवेदथ || १०३ || द्रुमे चारोहणं कार्यमतिक्रान्तैः स्थितैः पदैः | प्रयोगेन तारयेत् | प्रतारणमिति एतत्प्रकारं व्याचष्टे | जलप्रमाणापेक्षा त्विति | एतत्स्फुटयति तोयेऽल्प इति | उत्कर्षः ऊर्ध्वं नयनं प्राज्ये भूयसि जले यः प्रचारस्तत्र पाणिविचित्रकर्षणेन पताकसर्पशीर्षकादिनोपलक्षितगतिरिति संबन्धः | अबुद्धिपूर्वकन्तु जलेन नीयमानस्य गतिमाह र्पसार्येति | एकैकमिति पर्यायेणेत्यर्थः | अशेषेऽर्ङ्ग आकुलत्वं यस्यां गतौ तथा आधृतमुच्यते तिर्यक् सकृदुद्वाहितं तुलयात् अस्वतन्त्रत्वाच्चैवं भवति | कैश्चित्तु पर्यायशः | पार्श्वत्वमुक्तं तदसत् | परिवाहितं ह्येतत् बुद्धिपूर्वके च जलप्रतरणे तत्स्यात् नत्विह | जलप्रसङ्गात् नौगतिमाह - नौस्थस्यैति | एवं प्रसङ्गान्नौगतिमुक्त्वा प्रकृतमेवारोहणमनुसन्धत्ते | प्रासादारोहणमिति | ननु वृक्षप्रासादादि तत्र किं रङ्गमण्डले प्. १५४) सूचीविद्धैरपक्रान्तैः पार्श्वक्रान्तैस्तथैव च || १०४ || एतदेवावतरणं सरित्स्वपि नियोजयेत् | अनेनैव विधानेन कर्तव्यं गतिचेष्टितम् || १०५ || संज्ञामात्रेण कर्तव्यान्येतानि विधिपूर्वकम् | कस्मान्मृत इति प्रोक्ते किं मर्तव्यं प्रयोक्तृभिः || अङ्कुशग्रहणान्नागं खलीनग्रहणाद्धयम् | प्रग्रहग्रहणाद्यानमेवमेवापरेष्वपि || १०७ || अश्वयाने गतिः कार्या वैशाखस्थानकेन तु | तथा चूर्णपदैश्चित्रैरुपर्युपरि पातितैः || १०८ || पन्नगानां गतिः कार्या पादैः स्वस्तिकसंयुतैः | पार्श्वक्रान्तपदं कृत्वा स्वस्तिकं रेचयेदिह || १०९ || रथचित्रपटादिन्यायेन दर्शनीयं नेत्याह संज्ञामात्रेणेति | संज्ञा उक्तरूपारोहणाद्यभिनयः | प्रसङ्गादन्यत्राप्यभिनयं दर्शयति | अङ्कुशग्रहणादित्यादि | तेन चित्रपटादिवियोगेऽपि रथगमनाद्यभिनयनं न युक्तम् | सौकर्यात्तु तत्करणमपि भवत्विति भावः | स्वस्तिकसंयुतैरित्युक्तमेव विभजति पार्श्वक्रान्तमिति | एवं देशापेक्षया गतिरुक्ता | नागादिप्रसङ्गात्तु सर्पगतिरपि | प्. १५५) विटस्यापि च कर्तव्या गतिर्ललितविभ्रमा | पादैराकुञ्चितैः किंचित्तालाभ्यन्तरपातितैः || ११० || स्वसौष्ठवसमायुक्तौ तथा हस्तौ पदानुगौ | खटकावर्धमानौ तु कृत्वा विटगतिं व्रजेत् || १११ || कञ्चुकीयस्य कर्तव्या वयोऽवस्थाविशेषतः | अवृद्धस्य प्रयोगज्ञो गतिमेवं प्रयोजयेत् || ११२ || अर्धतालोत्थितैः पादैर्विष्कम्भैर्-ऋजुभिस्तथा | समुद्वहन्निवाङ्गानि पङ्कलग्न इव व्रजेत् || ११३ || अह वृद्धस्य कर्तव्या गतिः कम्पितदेहिका | विष्कम्भनकृतप्राणा मन्दोत्क्षिप्तपदक्रमा || ११४ || अथावस्थाभेदेन गतिं निरूपयन् विटावस्थायां तावदाह विटस्यापि चेति | स्वं प्रकृत्युचितं यत्सौष्ठवम् | कञ्चुकमिति तन्नेपथ्योचिता वृत्तिः तदिच्छत्यात्मन इति क्यचि च कञ्चुकीयः | वयोऽवस्थाविशेषत इति यदुक्तं तद्विभजत्येवमिति वक्ष्यमाणक्रमेण | विष्कम्भः स्थैर्य तद्येषामिति मत्वर्थीयोऽकारः | समुद्वहन्निति यत्नेनाकर्षन् | एतदेव दृष्टान्तेन शिक्षयति पङ्कलग्न इवेति | अत एव खञ्जकहेलाविलम्बितलघुमयस्य कोहलोक्तस्य सङ्ग्रहः | विष्कंभने यष्ट्यादिके कृतं सम- प्. १५६) कृशस्यापि हि कर्तव्या गतिर्मन्दपरिक्रमा | व्याधिग्रस्ते ज्वरार्ते च तपःश्रान्ते क्षुधान्विते || ११५ || विष्कम्भनकृतप्राणः कृशः क्षामोदरस्तथा | क्षामस्वरकपोलश्च दीननेत्रस्तथैव च || ११६ || शनरिरुत्क्षेपणं चैव कर्तव्यं हस्तपादयोः | कम्पनं चैव गात्राणां क्लेशनं च तथैव हि || ११७ || दूराध्वानं गतस्यापि गतिर्मन्दपरिक्रमा | विकूणनं च गात्रस्य जानुनोश्च विमर्दनम् || ११८ || स्थलस्यापि हि कर्तव्या गतिर्देहानुकर्षिणी | समुद्वहनभूयिष्ठा मन्दोत्क्षिप्तपदक्रमा || ११९ || विष्कम्भगामी च भवेन्निश्वासबहुलस्तथा | श्रमस्वेदाभिभूतश्च व्रजेच्चूर्णपदैस्तथा || १२० || मत्तानां तु गतिः कार्या मदे तरुणमध्यमे | न्वितं प्राणो वलं येन | विकूणनं सङ्कोचनं विमर्दनमिति मिश्रपरिहारार्थम् | स्थूलस्येति महाकायस्य श्रमकृत्स्वेदः | प्. १५७) वामदक्षिणपादाभ्यां घूर्णमानाऽपसर्पणैः || १२१ || अवकृष्टे मदे चैव ह्यनवस्थितपादिका | विघूर्णितशरीरा च करैः प्रस्खलितैस्तथा || १२२ || उन्मत्तस्यापि कर्तव्या गतिस्त्वनियतक्रमा | बहुचारीसमायुक्ता लोकानुकरणाश्रया || १२३ || रूक्षस्फुटितकेशश्च रजोध्वस्ततनुस्तथा | अनिमित्तप्रकथनो बहुभाषी विकारवान् || १२४ || गायत्यकस्माद्धसति सङ्गेचापि न सज्जते | नृत्यत्यपि च संहृष्टो वादयत्यपि वा पुनः || १२५ || कदाचिद्धावति जवात्कदाचिदवतिष्ठते | कदाचिदुपविष्टस्तु शयानः स्यात्कदाचन || १२६ || नानाचीरधरश्चैव रथ्यास्वनियतालयः | उन्मत्तो भवति ह्येवं तस्यैतां कारयेद्गतिम् || १२७ || स्थित्वा नूपरपादेन दण्डपादं प्रसारयेत् | बद्धां चारीं तथा चेवं कृत्वा स्वस्तिकमेव च || १२८ || अनेन चारीयोगेन परिभ्राम्य तु मण्डलम् | बाह्यभ्रमरकं चैव रङ्गकोणे प्रसारयेत् || १२९ || प्. १५८) त्रिकं सुवलितं कृत्वा लताख्यं हस्तमेव च | विपर्ययगतैर्हस्तैः पद्भ्यां सह गतिर्भवेत् || १३० || त्रिविधा तु गतिः कार्या खञ्जपङ्गुकवामनैः | विकलाङ्गप्रयोगेण कुहकाभिनयं प्रति || १३१ || एकः खञ्जगतौ नित्यं स्तब्धो वै चरणो भवेत् | तथा द्वितीयः कार्यस्तु पादोऽग्रतलसंचरः || १३२ || स्तब्धेनोत्थापनं कार्यमङ्गस्य चरणेन तु | गमनेन निषण्णः स्यादन्येन चरणे न तु || १३३ || इतरेण निषीदेच्च क्रमेणानेन वै व्रजेत् | एषा खञ्जगतिः कार्या तलशल्यक्षतेषु च || १३४ || पादेनाग्रतलस्थेन गतिः कार्याञ्चितेन तु | निषण्णदेहा पङ्गोस्तु नतजङ्घा तथैव च || १३५ || पद्भ्यां सह विपर्ययगतैरिति पादचेष्टा तथा करकर्मण्यनुवर्तनीयेति | कुहकाः अधमा लिङ्गिन इति केचित् | कुहकशब्देन हास्यरस इत्येतत् | तले पादतले शल्यादिक्षतमस्य तस्मिन् गतिमाह पादेनाग्रतलस्थेनेति नर्कुटः | प्. १५९) सर्वसंकुचिताङ्गा च वामने गतिरिष्यते | न तस्य विक्रमः कार्यो विक्षेपश्चरणस्य च || १३६ || सोद्वाहिता चूर्णपदे सा कार्या कुहकात्मिका | विदूषकस्यापि गतिर्हास्यत्रयविभूषिता || १३७ || अङ्गकाव्यकृतं हास्यं हास्यं नेपथ्यजं स्मृतम् | दन्तुरः खलतिः कुब्जः खञ्जश्च विकृताननः || १३८ || यदीदृशः प्रवेशः स्यादङ्गहास्यं तु तद्भवेत् | यदा तु बकवद्गच्छेदुल्लोकितविलोकितैः || १३९ || अत्यायतपदत्वाच्च अङ्गहास्यो भवेत्तु सः | काव्यहास्यं तु विज्ञेयमसंबद्धप्रभाषणैः || १४० || अनर्थकैर्विकारैश्च तथा चाश्लीलभाषणैः | चीरचर्ममषीभस्मगैरिकाद्यैस्तु मण्डितः || १४१ || यस्तादृशो भवेद्विप्रा हास्यो नेपथ्यजस्तु सः | तस्मात्तु प्रकृतिं ज्ञात्वा भावं कार्यं च तत्त्वतः || १४२ || गतिप्रचारं विभजेन्नानावस्थान्तरात्मकम् | प्रवेश इति यद्यस्मादीदृशः प्रवेश्यमानः पात्रविशेषः रङ्गे भवति ततोऽङ्गहास्यमिति | प्रवेशपदेन नाट्य एव रसो न लोक इति दर्शयति | असंबद्धं निरर्थमनुचितं च तद्व्याचष्टे अनर्थकैरश्लीलैश्चेति अश्रियमशोभां रातीति रेफस्य लत्वम् | तस्मादिति त्रिप्रकारं हास्यमाश्रित्य क्वचिदेकः प्रकारः क्वचित् द्वौ प्. १६०) स्वभावजायां विन्यस्य कुटिलं वामके करे || १४३ || तथा दक्षिणहस्ते च कुर्याच्चतुस्कं पुनः | पार्श्वमेकं शिरश्चैव हस्तोऽथ चरणस्तथा || १४४ || पर्यायशः संसमयेल्लयतालवशानुगः | स्वभावजा तु तस्यैषा गतिरन्या विकारजा || १४५ || अलाभलाभाद्भुक्तस्य स्तब्धा तस्य गतिर्भवेत् | कार्या चैव हि नीचानां चेटादीनां परिक्रमात् || १४६ || अधमा इति ये ख्याता नानाशीलाश्च ते पुनः | पार्श्वमेकं शिरश्चैव करः सचरणस्तथा || १२७ || शकारस्यापि कर्तव्या गतिश्चञ्चलदेहिका | क्वचित्सर्व इत्यनेन क्रमेण विदूषकः स्वामिनः प्रकृतिं राजामात्यश्रेष्ठि प्रकृतिभावं चित्तवृत्तिं करणीयं ज्ञात्वा विभागः कार्यः | न च राजनि संनिवृत्तेऽश्लिलभाषणं समुचितम् | एवं सर्वत्रोह्यम् | गत्युपयोगिनं वृत्तान्तमस्याभिधाय गतिमाह - स्वभावजायामिति | अनावेशे सति वकवद्गमनस्योक्तत्वात् | लयो विलम्बितः तालः प्लुतलघुगुरुप्राय इह स्वीकृतः | अन्या द्रुतलयत्वेन प्लुतकालमानाद्बाहुल्येन शोकादिः स्वभावजा | गर्वात्मकोऽपि विकारो भवतीत्याशयेनाह अलाभलाभादिति | अलाभः लाभपूर्वकाल्लाभात् | भुक्तं वस्त्राद्युपलक्षयति | भयादौ तु परित एवास्य प्. १६१) गतौ नमेत चेटानां दृष्टिश्चार्थविचारिणी || १४८ || वस्त्राभरणसंस्पर्शैर्मुहुर्मुहुरवेक्षितैः | गात्रैर्विकारविक्षिप्तैर्लम्बवस्त्रस्रजा तथा || १४९ || सगर्विता चूर्णपदा शकारस्य गतिर्भवेत् | जात्या नीचेषु योक्तव्या विलोकनपरा गतिः || १५० || क्रमः | (शकारस्यापीति) शकारबहुला यस्य भाषा स शकारः | शकारोपलक्षितशकादिजनपदवासीत्यन्ये यद्वक्ष्यते शकाराभीरचण्डाल (अध्या १७-६०) इत्यादि | हीनाशय उत्तमपदेऽभिरोपितः शकार इत्यन्ये | अध्यहारस्य श्लोक - प्राकृतेऽपि शकारस्य विभूतिर्न प्रसिद्धये | तदिभूतिरपभ्रंशे तापस्येव प्रकाशिता (?) || ममापि चात्रार्थे श्लोक - लब्धापशब्दघटना विधुतश्च धर्मः स्वार्थप्रतीतिकलनां प्रति का कथैव | मूर्धन्यतां गमयता भवता शकारः शक्नोति यत्र न विधे हृदि किं न्यधायि || तथा - सकलजनतालभ्यः सोऽयं शकार इति स्फुटं विरचयति यन्मूर्धन्यत्वं विभुर्हतलक्षणा | हततनुरियं लोके जातापशब्दपरम्परा परिचयमयी वार्ता कीर्तिं निकृत्य निकर्तनी || इति प्रतिज्ञाचाणक्ये तन्महाकविना भीमेन राजापि विन्ध्यकेतुः शकार इति भूयसा व्यवहृतः | वस्त्राभरणसंस्पर्शालोकनगर्वयोगोऽत्र पक्षे क्लिष्ट- प्. १६२) असंस्पर्शाच्च लोकस्य स्वाङ्गानि विनिगूह्य च | म्लेच्छानां जातयो यास्तु पुलिन्दशबरादयः || १५१ || तेषां देशानुरूपेण कार्यं गतिविचेष्टितम् | पक्षिणां श्वापदानां च पशूनां च द्विजोत्तमाः || १५२ || स्वस्वजातिसमुत्थेन स्वभावेन गतिर्भवेत् | सिंहर्क्षवानराणां च गतिः कार्या प्रयोक्तृभिः || १५३ || या कृता नरसिंहेन विष्णुना प्रभविष्णुना | आलीढ स्थानकं कृत्वा गात्रं तस्यैव चानुगम् || १५४ || जानूपरि करं ह्येकमपरं वक्षसि स्थितम् | अवलोक्य दिशः सर्वाश्चिबुकं बाहुमस्तके || १५५ || गन्तव्यं विक्रमैर्विप्राः पञ्चतालान्तरोत्थितैः | नियुद्धसमये चैव रङ्गावतरणे तथा || १५६ || सिंहादीनां प्रयोक्तव्या गतिरेषा प्रयोक्तृभिः | शेषाणामर्थयोगेन गतिं स्थानं च योजयेत् || १५७ || तरः न चार्यदेशजातिः शकारः कश्चित्प्रसिद्धः म्लेच्छजातीनां पृथगेव निर्वक्ष्यते म्लेच्छानां जतयो यास्तु इत्यादिना तस्मादिहायमीदृश एव शकार इति युक्तम् | प्रभविष्णुनेति वचनादिदं सूचयत्यसाववतरणप्राधान्येन ये ऋक्षवानरादयो जाम्बवत्सुग्रीवाङ्गदहनूमत्प्रायाः तेषामेवेयं गतिः | अन्येषां तु स्वजात्यानुरूप्येणैव | तस्यैवेत्यालीढस्यानुगतं गातं वामभागगमनमित्यर्थः | प्. १६३) वाहनार्थप्रयोगेषु रङ्गावतरणेषु च | एवमेताः प्रयोक्तव्या नराणां गतयो बुधैः || १५८ || नोक्ता या या मया ह्यत्र ग्राह्यास्तास्ताश्च लोकतः | अतः परं प्रवक्ष्यामि स्त्रीणां गतिविचेष्टितम् || १५९ || स्त्रीणां स्थानानि कार्याणि गतिष्वाभाषणेषु च | आयतं चावहित्थं च अश्वक्रान्तमथापि च || १६० || (स्थानान्येतानि नारीणामथ लक्षणमुच्यते) | वामः स्वभावतो यत्र पादो विरचितः समः || १६१ || तालमात्रान्तरे न्यस्तस्त्र्यश्रः पक्षस्थितोऽपरः | प्रसन्नमाननमुरः समं यत्र समुन्नतम् || १६२ || लतानितम्बगौ हस्तौ स्थाअं ज्ञेयं तदायतम् | (दक्षिणस्तु समः पादस्त्र्यश्रः पक्षस्थितोऽपरः || १६३ || वामः समुन्नतकटिश्चायते स्थानके भवेत् | आवाहने विसर्गे च तथा निर्वर्णमेषु च || १६४ || चिन्तायां चावहित्थे च स्थानमेतत्प्रयोजयेत्) रङ्गावतरणारम्भः पुष्पाञ्जलिविसर्जनम् || १६५ || प्. १६४) मन्मथेर्ष्योद्भवं कोपं तर्जन्यङ्गुलिमोटनम् | निषेधगर्वगाम्भीर्यमौनं मानावलम्बनम् || १६६ || स्थानेऽस्मिन् संविधातव्यं दिगन्तरनिरूपणम् | (समो यत्र स्थितो वामस्त्र्यश्रः पक्षस्थितोऽपरः || समुन्नतकटिर्वामस्त्ववहित्थं तु तद्भवेत्) | पुरो विचलितस्त्र्यश्रस्तदन्योऽपसृतः समः || १६८ || पादस्तालान्तरयस्तस्त्रिकमीषत्समुन्नतम् | पाणिर्लताख्यो यत्रैकस्तदन्यस्तु नितम्बगः || १६९ || अवहित्थं समाख्यातं स्थानमागमभूषणैः | विलासलीलाबिब्बोक शृङ्गारात्मनिरूपणे || १७० || स्थानमेतत्प्रयोक्तव्यं भर्तृमार्गावलोकने | स्त्रीणामेतत्स्मृतं स्थानं संलापे तु स्वभावजे || १७१ || निश्चये परितोषे च वितर्के लज्जिते तथा) | पादः समस्थितश्चैक एकश्चाग्रतलाञ्चितः || १७२ || सूचीविद्धमविद्धं वा तदश्वक्रान्तमुच्यते | स्खलित घूर्णितं चैव गलिताम्बरधारणम् || १७३ || कुसुमस्तबकादानं परिरक्षणमेव च | वित्रासनं सललितं तरुशाखावलम्बनम् || १७४ || प्. १६५) स्थानेऽस्मिन्संविधानीयं स्त्रीणामेतत्प्रयोक्तृभिः | (शाखावलम्बने कार्यं स्तबकग्रहणे तथा || १७५ || विश्रामेष्वथ नीचानां नराणां चार्थयोगतः) स्थानकं तावदेव स्याद्यावच्चेष्टा प्रवर्तते || १७६ || भग्नं च स्थानकं नृत्ते चारी चेत्समुपस्थिता | एवं स्थानविधिः कार्यः स्त्रीणां नॄणामथापि च || १७७ || पुनश्चासां प्रवक्ष्यामि गतिं प्रकृतिसंस्थिताम् | कृत्वावहित्थं स्थानं तु वामं चाधोमुखं भुजम् || नाभिप्रदेशे विन्यस्य सव्यं च खटकामुखम् | ततः सललितं पादं तालमात्रसमुत्थितम् || १७९ || दक्षिणं वामपादस्य बाह्यापार्श्वे विनिक्षिपेत् | तेनैव समकालं च लताख्यं वामकम् भुजम् || दक्षिणं विनमेत्पार्शं न्यसेन्नाभितटे ततः | नितम्बे दक्षिणं कृत्वा हस्तं चोद्वेष्ट्य वामकम् || १८१ || स्खीलतमिति पदम् | तथा विशेषेण च्युत इत्यर्थः | प्रकृतिसंस्थितामित्यविशेषोक्ता प्राधान्यात्प्राथम्यात् तदस्ति(?)गतिरित्युच्यते | कृत्वावहित्थमित्यादि | वामश्चेति | लताख्यं वाह्यपार्श्वे कनिष्ठाङ्गुलिदेशे | प्. १६६) ततो वामपदं दद्याल्लताहस्तं च दक्षिणम् | लीलयोद्वाहितेनाथ शिरसानुगतेन च || १८२ || किंचिन्नतेन गात्रेण गच्छेत्पञ्चपदीं ततः | यो विधिः पुरुषाणां तु रङ्गपीठपरिक्रमे || १८३ || स एव प्रमदानां वै कर्तव्यो नाट्ययोक्तृभिः | षट्कलं तु न कर्तव्यं तथाष्टकलमेव च || १८४ || पादस्य पतनं तज्ज्ञैः खेदनं तद्भवेत्स्त्रियाः | सयौवनानां नारीणामेवं कार्या गतिर्बुधैः || १८५ || स्थानीया याः स्त्रियस्तासां संप्रवक्ष्याम्यहं गतिम् | कृत्वावहित्थं स्थानं तु वामं न्यस्य कटीतटे || १८६ || आद्यं चारालमुत्तानं कुर्यानाभिस्तनान्तरे | न निषण्णं न च स्तब्धं न चापि परिवाहितम् || यो विधिरिति वापवेधं ततः कुर्यादिति | अतिदेशेन चेदं दर्शयति यावती काचिद्रसप्रकृतिदेशकालापेक्षा नॄणां गतिरुक्ता सा सर्वैवोक्तविलासरूपप्रकारानुविद्धा स्त्रीणामपि विवक्षिता | दिक्कलापरिमाणत्वं यत्र शोभोदात्तं तत्र विशेषमाह | एतत्प्रागेव व्याख्यातं चतुष्कलादभ्यधिको न स्त्रीणां मानविधिरिति | अष्टकलग्रहणं तदप्यधिकं मानं पुरुषेष्वपि नास्तीति सूचयति | अन्यथा षट्कले निषिद्धे काष्टकलस्य संगतिस्तन्निषेधेन | स्थानीया मध्यमवयसः अत एव मध्यमाकृतित्वमनूद्यम् | आद्यं दक्षिणम् | परिवाहितमिति प्. १६७) कृत्वा गात्रं ततो गच्छेत्तेनैवेह क्रमेण तु | प्रेष्याणामपि कर्तव्या गतिरुद्भ्रान्तगामिनी || १८८ || किंचिदुन्नमितैर्गात्रैराविद्ध भुजविक्रमा | स्थानं कृत्वावहित्थं च वामं चाधोमुखं भुजम् || नाभिप्रदेशे विन्यस्य सव्यं च खटकामुखम् | अर्धनारीगतिः कार्या स्त्रीपुंसाभ्यां विमिश्रिता || उदात्तललितैर्गात्रैः पादैर्लीलासमन्वितैः | या पूर्वमेवाभिहिता ह्युत्तमानां गतिर्मया || १९१ || स्त्रीणां कापुरुषाणां च ततोऽर्धार्धं तु योजयेत् | मध्यमोत्तमनीचानां नॄणां यद्गतिचेष्टितम् || १९२ || स्त्रीणां तदेव कर्तव्यं ललितैः पदविक्रमैः | सविभागमधमानां गतिमाह प्रेष्याणामित्यादि | उद्भ्रान्तगामिनीति समदविकारा आविद्धो वर्तनाबहुलो बाहुजानां विक्रगस्य नार्या अर्धमिति नपुंसकलक्षणा तृतीयप्रकृतिरुच्यते समप्रविभागविवक्षया चार्धनपुंसकमिति समासः उदात्तत्वं पुरुषाणां लालित्यं योषितां गतौ | गतिरिति चतुस्ताला चतुष्कला च अनुत्तमस्त्रीणां द्विताला द्विकलेति ततोऽप्यर्धा कापुरुषाणां तत्कर्मकराणामेकताला एककला चेति | किमुत्तमानामेवेयं स्थाने दर्शयति मध्यमोत्तमानां नृणां अपुंसां यद्गतिचेष्टितं तदेव तदोदात्तमध्यमोत्तमनीचानां स्त्रीणां तथा तत्कर्मकराणां कुर्यादित्युत्तमग्रहणम् | प्. १६८) बालानामपि कर्तव्या स्वच्छन्दपदविक्रमा || १९३ || न तस्यां सौष्ठवं कार्यं प्रमाणं न प्रयोक्तृभिः | तृतीया प्रकृतिः कार्या नाम्ना चैव नपुंसका || १९४ || नरस्वभावमुत्सृज्य स्त्रीगतिं तत्र योजयेत्) विपर्ययः प्रयोक्तव्यः पुरुषस्त्रीनपुंसकैः || १९५ || स्वभावमात्मनस्त्यक्त्वा तद्भावगमनादिह | व्याजेन क्रीडया वापि तथाभयश्च वञ्चनात् || १९६ || स्त्री पुंसः प्रकृतिं कुर्यात् स्त्रीभावं पुरुषोऽपि च | धैर्योदार्येण सत्त्वेन बुद्ध्या तद्वच्च कर्मणा || १९७ || स्त्री पुमांसं त्वभिनयेद्वेष वाक्यविचेष्टितैः | सर्वग्राहकं दर्शयितुं यत्रोत्तमादिविभागो नोद्भिन्नः तत्र गतिमाह बालानामपीति | तद्भावगमनादिति | यदेवं रूपं यो गृह्णाति तदीयैव तस्य गतिः | विपर्ययपरिग्रहे च विशिष्टार्थ कारणमाह व्याजेनेति | व्याजः कस्यचित्कार्यस्य साधनाय यथा विदूपकस्य संकेतस्थाने चेटिकावस्त्रधारणम् | क्रीडायथा इष्टजनस्याकृतौ नायिकानाम् | वञ्चनादिति यथा विदूषकं वञ्चयितुं चेटकस्य स्त्रीवेषकरणम् | अपिचेति ग्रहणात् स्त्रीपुंसयोर्नपुंसकेन सह तस्य च ताभ्यां सह विपर्ययं दर्शयति | अत्रैव विपर्यये गतिविपर्ययप्रसङ्गेन व्यभिचारिभावसात्त्विकोपाङ्गाद्यभिनयविपर्ययमप्याह धैर्यौदार्येणेति | धैर्यौदार्ये सामान्याभिनयोक्ते | ताभ्यां भावा उपलक्ष्यन्ते | बुद्ध्येति स्थायित्वम् सत्त्वेनेति सात्त्विकाः कर्मणेति स्थानकादिविषयः वेपेति आहार्यप्रकाराः वाक्येति वाचिकगतसंस्कृतादिप्रयोगः चेष्टितैरिति अन्तरालस्थाने त्रिपताकादयः | प्. १६९) स्त्रीवेषभाषितैर्युक्तः प्रेक्षिताप्रेक्षितैस्तथा || १९८ || मृदुसन्नगतिश्चैव पुमान्स्त्रीभावमाचरेत् | (जातिहीनाश्च या नार्यः पुलिन्दशबरा नाः || १९९ || याश्चापि तासां कर्तव्या तज्जातिसदृशी गतिः | व्रतस्थानां तपःस्थानां लिङ्गस्थानां तथा पुनः || २०० || खस्थानां चैव नारीणां समपादं प्रयोजयेत् | उद्धता येऽङ्गहाराः स्युर्याश्चार्यो मण्डलानि वा || २०१ || तानि नाट्यप्रयोगज्ञैर्न कर्तव्यानि योषिताम्) | तथासनविधिः कार्यः स्त्रीणां नॄणामथापि च || २०२ || नानाभावसमायुक्तस्तथैव शयनाश्रयः | विष्कम्भिताञ्चितौ पादौ त्रिकं किंचित्समुन्नतम् || हस्तौ कट * रुविन्यस्तौ स्वस्थे स्यादुपवेशने | यथास्थानगतैः पूर्वपश्चाद्भावि तथोपवेशनात्मकमासनमपीति तद्विधमाह तथासनविधिरिति | तथैवेति गतौ हि शयनमपि पूर्वपश्चाद्भावि शयनाश्रय इति शेषः विष्कम्भेन वैशाखस्थानकोचितेन विस्तारेणाञ्चितौ विस्तीर्णान्तरौ सुन्दरु पादौ न त्वत्राञ्चितपादलक्सणयोगः | स्वस्थे पुंसि यदुपवेशनमासनपीठिकादौ तत्र त्रिकमुन्नतं स्यादिति संबन्धः | इति शब्देन वाक्यार्थः स्यादित्यत्र कर्तव्याख्येय इति स्यादिति | हस्ताविति कर्कटरूपौ प्. १७०) पादः प्रसारितः किंचिदेकश्चैवासनाश्रयः || २०४ || शिरः पार्श्वानतं चैव सचिन्त उपवेशने | चिवकोपाश्रितौ हस्तौ बाहुशीर्षाश्रितं शिरः || २०५ || संप्रणष्टेन्द्रियमाअ भवेच्छोकोपवेशने | प्रसार्य बाहु शिथिलौ तथा चापाश्रयाश्रितः || २०६ || मूर्छामदश्रमग्लानिविषादेषूपवेशयेत् | सर्वपिण्डीकृताङ्गस्तु संयुक्तैः पादजानुभिः || २०७ || व्याधिव्रीडितनिद्रासु ध्याने चोपविशेन्नरः | तथाचोत्कटिकं स्थानं स्फिक्पार्ष्णीनं समागमः || पित्र्ये निवापे जप्ये च सन्ध्यास्वाचसनेऽपि च | विष्कम्भितं पुनश्चैव जानु भूमौ निपातयेत् || २०९ || समाहारद्वन्द्वे | संप्रणष्टशब्देनेन्द्रियमात इति पाठः मन इति पाठे प्रोच्यत्वे कृते त्वध्याहृत्य संगतिः कार्या | अपाश्रयन्तीत्यादिकमाश्रितम् | उपवेशयेदिति स्वार्थे णिच आचार्ये वा कर्तृभूतमात्रम् आचार्यास्तु बाहू प्रसार्यैवासने उपवेशयेत् विश्रामयेदित्याहुः | पिण्डितत्वमङ्गानां जानुविश्लेषादूर्धकायं कुटिलीकरोतीत्युत्कटं संज्ञायां कुटते | अत्र च विरलत्वं जानुनोः स्फिग्भ्यां भूमेः परामर्शः पूर्वत्र तु नैतदुभयमपीति विशेषः | पित्र्य इति श्राद्धादौ निवापसलिल इति पितृतर्पणे प्रतिग्रहार्थं परस्य सलिलदाने तत्प्रतिग्रहे च | सन्ध्याशब्देन तदवसरोचितं जपध्यानादि | विष्कम्भितमिति विस्तरितमेकं प्. १७१) प्रियाप्रसादने कार्यं होमादिकरणेषु च | महीगताभ्यां जानुभ्यामधोमुखमवस्थितम् || २१० || देवाभिगमने कार्यं रुषितानां प्रसादने | शोके चाक्रन्दने तीव्रे मृतानां चैव दर्शने || २११ || त्रासने च कुसत्त्वानां नीचानां चैव याचने | होमयज्ञक्रियायां च प्रेष्याणां चैव कारयेत् || २१२ || मुनीनां नियमेष्वेव भवेदासनजो विधिः | तथासनविधिः कार्यो विविधो नाटकाश्रयः || २१३ || स्त्रीणां च पुरुषाणां च बाह्यश्चाभ्यन्तरस्तथा | आभ्यन्तरस्तु नृपतेर्बाह्यो बाह्यगतस्य च) || २१४ || देवानां नृपतीनां च दद्यात् सिंहासनं द्विजाः | पुरोधसाममात्यानां भेवेद्वेत्रासनं तथा || २१५ || भूमौ जानु द्वितीयं यथास्थितं यन्त्रनिकटढौकगमनशंक्यं सन्तापादिभयात् | तत्र च कार्यं मन्त्रं तदुपलक्षणम् | होमादिकरणेष्विति | अभिगमनं वन्दनम् | शोके चेति नीचानामिति सर्वत्रात्र संबध्यते | नीचानां शोकजनितो यस्तीव्राक्रन्दस्तत्रैव नीचा यदा मृतमवलोकयन्ति संबन्धमात्रे षष्ठीत्युभयप्राप्त्यभावान्न नियमः | कुसत्त्वाः शिवादयः यदा नीचानां त्रासयन्ति तदा | नीचा यदा किंचिद्याचन्ते तदा जानुद्वयक्षेपो भूमौ | अथासनात्मककालसंनिवेशप्रसङ्गेन तदधिकरणेषु विधिमाह तथासनविधिरिति | बाह्यः सर्वजनविषयः आभ्यन्तरो राजोचितः | प्. १७२) मुण्डासनं तु दातव्यं सेनानीयुवराजयोः | काष्ठासनं ब्राह्मणानां कुमाराणां कुथासनम् || २१६ || एवं राजसभां प्राप्य कार्यस्त्वासनजो विधिः | स्त्रीणां चैवासनविधिं संप्रवक्ष्याम्यहं पुनः || २१७ || सिंहासनं तु राज्ञीनां देवीनां मुण्डमासनम् | पुरोधोऽमात्यपत्नीनां दद्यद्वेत्रासनं तथा || २१८ || भोगिनीनां तथा चैव वस्त्रं चर्म कुथापि वा | ब्राह्मणीतापसीनां च पट्टासनमथापि च || २१९ || वेश्यानामपि कर्तव्यमासनं हि मसूरकम् | शेषाणां प्रमदानां च भवेद्भूम्यासनं द्विजाः || २२० || एवमाभ्यन्तरो ज्ञेयो बाह्यश्चासनजो विधिः | तथा स्वगृहवार्तासु छन्देनासनमिष्यते || २२१ || मुण्डासनं चातुरी मसूरकं वस्तुशून्यं काष्ठासनं पीठकं वेत्रलताकृतं वेत्रासनं वेत्रसनादन्य एव रूढो वर्णकम्बलखण्डः विस्तारिकेत्यन्ये) राज्ञी राजवेश्या देवी सेनापतिप्रभृतिपुत्र्यो राज्ञा परिणीता भोगिन्यः संगृहीतकन्याः | भूमिरेवासनं भूम्यासनं | एवमिति नरपतिसंनिधौ | अन्यदात्मस्वेच्छयेति दर्शयति तथा स्वगृहेति | वार्ताशब्देन सेनापतेरमात्यगृहगमन् इत्यादि सूच- प्. १७३) नियमस्थो मुनीनां च भवेदासनजो विधिः | लिङ्गिनामासनविधिः कार्यो व्रतसमाश्रयः || २२२ || ब्रुसीमुण्डासनप्रायं वेत्रासनमथापि वा | होमे यज्ञक्रियायांच् अ पित्र्यर्थे च प्रयोजयेत् || २२३ || स्थानीया ये च पुरुषाः कुलविद्यासमन्विताः | तेषामासनसत्कारः कर्तव्य इह पार्थिवैः || २२४ || समे समासनं दद्यान्मध्यमे मध्यमासनम् | अतिरिक्तेऽतिरिक्तं च हीने भूम्यासनं भवेत् || २२५ || उपाध्यायस्य नृपतेर्गुरूणां चाग्रतो बुधैः | भूम्यासनं तथा कार्यमथवा काष्ठमासनम् || २२६ || नौनागरथयानेषु भूमिकाष्ठासनेषु च | सहासनं न दुष्येत गुरूपाध्यायपार्थिवैः || २२७ || यति | नियमस्थ इति कस्यचिदङ्गविष्टरोऽन्यस्य मृगाजिनम् | लिङ्गिनामिति | यथा शाक्यानां ब्रुसी शैवानां मुण्डासां क्षपणकानां वेत्रवल्कलडिम्बकम् | तदेवाह व्रुसीत्यादि | स्थानाय हिता वृद्धाः तन्निकटे व्यवस्थादृष्टादृष्टोपयोगिवृद्धा ये भवन्ति अत एवाह कुलविद्येति | आसनसत्कार इहास्यतामिति | तत्र विभागमाह सम इति तत्तुल्यजाति विद्यः | सममिति त्रित्वाच्चासनापेक्षय मध्य इति किंचिदूनेन मध्यममिति स्वासनात्प्रमाणतोऽप्यूनं हीन इति स्वापेक्षया भूम्या सह भूमिरेव इहास्यतामिति निर्देश्या स एव तस्यासनसत्कारः | काष्ठमिति एकमेव दीर्घं भरसहं पर्यङ्कं दर्शयितुं काष्ठमित्युक्तं न तु काष्ठमयमिति | प्. १७४) आकुञ्चितं समं चैव प्रसारितविवर्तने | उद्वाहितं नतं चैव शयने कर्म कीर्त्यते || २२८ || सर्वैराकुञ्चितैरङ्गैः शययाविद्धे तु जानुनी | स्थानमाकुञ्चितं नाम शीतार्तानां प्रयोजयेत् || २२९ || उत्तानितमुखं चैव प्रत्यङ्मुक्तकरं तथा | समं नाम प्रसुप्तस्य स्थानकं संविधीयते || २३० || एकं भुजमुपाधाय संप्रसारितजानुकम् | स्थानं प्रसारितं नाम सुखसुप्तस्य कारयेत् || २३१ || अधोमुखस्थितं चैव विवर्तितमिति स्मृतम् | शस्त्रक्षतमृतोत्क्षिप्तमत्तोन्मत्तेषु कारयेत् || २३२ || अंसोपरि शिरः कृत्वा कूर्परक्सोभमेव च | उद्वाहितं तु विज्ञेयं लीलायां वचने प्रभोः || २३३ || ईषत्प्रसारिते जङ्घे यत्र सृष्टौ करावुभौ | आलस्यश्रमखेदेषु नतं स्थानं विधीयते) || २३४ || अथ शयनसंनिवेशनमाहाकुञ्चित(मिति) दिक् या निजशरीरस्य कुटिलीकरणात्सा स्यात् | बाहुमध्यमपसरेण विक्षेपयोगात् पार्श्वे संनिवेशनवशात् पूर्वकायस्यापरकायस्योर्ध्वनयनं नान्यशयनसंनिवेशात् | प्. १७५) गतिप्रचारस्तु मयोदितोऽयं नोक्तश्च यः सोऽर्थवशेन साध्यः || २३५ || अतःपरं रङ्गपरिक्रमस्य वक्ष्यामि कक्ष्यान्तरसंविधानम् || २३६ || इति श्रीभारतीये नाट्यशास्त्रे गतिप्रचारो नाम द्वादशोऽध्यायः | अर्थवशेनेति लौकिकेनेत्यर्थः | अथैतदुपसंहृताध्यायानन्तरावकाशं संगतिप्रदर्शनपूर्वकमाह अतःपरमिति | रङ्गे यत्परिक्रमात् परिक्रमणवृत्ते गत्यध्याये निरूपितं तदुपयोगः कक्ष्याविशेषविभाग इति शिवम् | यावद्गतिभेद(विधि)प्रकटनमध्यायमिह विवृणुते | स्मरमथनचरणसरसिजपरागभूतोऽभिनवगुप्तः || इति श्रीमहामाहेश्वराचार्याभिनवगुप्ताचार्यविरचितायां नाट्यवेदविवृतावभिनवभारत्यां गत्यध्यायो द्वादशः समाप्तः | भ म मातृकाभिन्नपाठक्रमो द्वादशोऽध्यायः गतिप्रचारः | एवं व्यायामसंजातं कार्यं मण्डलकल्पनम् | अत ऊर्ध्वं प्रवक्ष्यामि गतीस्तु प्रकृतिस्थिताः || १ || तत्रोपवहनं कृत्वा भाण्डवाद्यपुरस्कृतम् | यथामार्गरसोपेतं प्रकृतीनां प्रवेशनम् || २ || ध्रुवायां संप्रवृत्तायां पटे चैवापकर्षिते | कार्यः प्रवेशः पात्राणां नानार्थरससंभवः || ३ || स्थानं तु वैष्णव्ऽम् कार्यमुत्तमे मध्यमे तथा | समुन्नतं समं चैव चतुरश्रमुरस्तथा || ४ || वाहुशीर्षे प्रसन्ने च नान्युत्क्षिप्ते च कारयेत् | ग्रीवाप्रदेशः कर्तव्यो मयूराञ्चितमस्तकः || ५ || कर्णाभ्यां बाहुशिरसी स्यातामष्टाङ्गुलस्थिते | उरसश्चापि चिबुकं चतुरङ्गुलसंस्थितम् || ६ || हस्तौ तथैव कर्तव्यौ कटीं नाभिं तु संस्थितौ | दक्षिणो नाभिसंस्थस्तु वामः कटितटस्थितः || ७ || पादयोरन्तरं कार्यं द्वौ तालावर्धमेव च | पादोत्क्षेपश्च कर्तव्यः स्वप्नमाणविनिर्मितः || ८ || चतुस्तालो द्वितालश्च तथा स्यादेकतालकः | चतुस्तालस्तु देवानां पार्थिवानां तथैव च || ९ || द्वितालश्चैव मध्यानां तालः स्त्रीनिचलिङ्गिनाम् | चतुष्कलोऽथ द्विकलस्तथा ह्येककलः पुनः | चतुष्कलो ह्युत्तमानां मध्यानां द्विकलो भवेत् || प्. १७७) तथा चैककलः पातो नीचानां संप्रकीर्तितः | स्थितं मध्यं द्रुतं चैव समवेक्ष्य लयत्रयम् || यथाप्रकृति नाट्यज्ञो गतिमेवं प्रयोजयेत्) | स्वभावेनोत्तमगतौ जानुं कुर्यात्कटीसमम् || १० || युद्धचारीप्रचारेषु जानु स्तनसमं भवेत् | अयं विधिस्तु कर्तव्यः स्वच्छन्दगमनं प्रति || ११ || संभ्रमोत्थानरोषेषु प्रमाणं न विधीयते | दृप्तानां दैत्ययक्षाणां तथा पन्नगरक्षसाम् || १२ || चतुस्तालप्रमाणेन कर्तव्या तु गतिर्बुधैः | दिवौकसां तु शेषाणां मध्यमा गतिरुच्यते || १३ || तत्रापि चोत्तमा ये तु तेषां देवैः समा गतिः | पुलिन्दाः शबराश्चैव शेषा ये म्लेच्छजातयः || १४ || तेषां देशानुरूपेण कार्यं गतिविचेष्टितम् | जलाशयमृगव्यालपशुश्वापदपक्षिणाम् || १५ || देशजातिसमुत्थेन गतिं भावेन योजयेत् | स्थितं मध्यं द्रुतं चैव समवेक्ष्य लयं बुधैः || १६ || पादयोः पतनं सम्यक्प्रकुर्वीत यथाक्रमम् | स्थैर्यपपन्ना गतिरुत्तमानां मध्या गतिर्मध्यमसंस्थितानाम् | द्रुता गतिश्च प्रचुराधमानां लयत्रयं सत्त्ववशेन योज्यम् || १७ || चतुष्कलं तूत्तमानां मध्यानां द्विकलं भवेत् | तथा चैककलं पातं नीचानां संप्रयोजेत् || १८ || यः समैः संहितो गच्छेत्तत्र कार्यो लयाश्रयः | चतुष्कलश्च द्विकलस्तथा चैककलः पुनः || १९ || अथ मध्यमनीचैस्तु गच्छेत्संपरिवारितः | चतुष्कलस्तथार्घं च तथा चैककलो भवेत् || २० || एवमेष तु विज्ञेयः कलानां गमने विधिः | पुनर्गतिप्रचारस्य प्रयोगं शृणुतानघाः || २१ || प्. १७८) पार्श्वाक्रान्तैः सललितैः पादैर्वाद्यान्वितैरथ | रङ्गकोणोन्मुखो गच्छेत्सम्यक्पञ्चपदानि तु || २२ || एवं गतागतैर्गत्वा पदानामेकविंशतिम् | वामबन्धं ततः कुर्याद्विक्षेपं दक्षिणस्य च || २३ || रङ्गे विकृष्टे भरतेन कार्यो गतागतैः पादगतिप्रचारः | त्र्यश्रस्त्रिकोणे चतुरश्ररङ्गे गतिप्रचारश्चतुरश्र एव || २४ || द्रुता गतिस्तु कर्तव्या द्विकलापादपातने | ज्येष्ठे चतुष्क्ला कार्या द्विकला तत्र मध्यमे || २५ || द्विकला चोत्तमे यत्र मध्ये त्वेककला भवेत् | कलाप्रमाणं मध्ये च नीचे त्वर्धकला ततः || २६ || एवमर्धार्धहानिं तु कलानां संप्रयोजयेत् | उत्तमानां गतिर्या तु न तां मध्येषु योजयेत् || २७ || या गतिश्चैव मध्यानां न तां नीचेषु योजयेत् | उत्तमानां मयोक्ता तु गतिर्विप्रा यथायथम् || २८ || मध्यानामधमानां च गतिं वक्ष्याम्यहं पुनः | वणिजां मन्त्रिणां चैव गतिः कार्या स्वभावजा || २९ || अतिक्रान्तपदैः सा तु द्वितालान्तरगामिभिः | कृत्वा नाभितटे हस्तमुत्थानं कटकामुखम् || ३० || आद्यं चारालमुत्तानं कुर्यात्पार्श्वस्तनान्तरे | न निषण्णं न च स्तब्धं न चैव परिवाहितम् || ३१ || कृत्वा गात्रं तथा गच्छेत्तेनै(न?)वाद्यक्रमेण तु | हासे त्वथ गतिः कार्या तथा खञ्जनवामने || ३२ || द्विकलार्धप्रयोगेषु कुहुकाभिनयं प्रति | खञ्जे गतिस्तु कर्तव्या स्तब्धैकचरणाश्रया || ३३ || तथा द्वितीयः कार्यस्तु पादोऽग्रतलसंचरः | स्तब्धेनोन्नमनं कार्यमङ्गस्य चरणेन तु || ३४ || प्. १७९) गमने च निषण्णः स्यात्तथान्यचरणाश्रये | एष खञ्जप्रयोगेषु तलशल्यक्षते तथा || ३५ || पादेनाग्रतलेनाथ गतिः कार्याञ्चितेन तु | निषण्णदेहा कर्तव्या अतजङ्घा तथैव तु || ३६ || सर्वसंकोचिताङ्गी च वामने गतिरिष्यते | न तस्यातिक्रमः कार्यो विक्षेपश्चरणस्य तु || ३७ || उद्वाहिता चूर्णपदैः सा कार्या कुहकात्मिका | विदूषकस्यापि गतिर्हास्य त्रयविभूषिता || ३८ || अङ्गहास्यं कार्यहास्यं हास्यं नेपथ्यजं तथा | कुब्जः खञ्जोऽथ खलतिर्दन्तुरो विकृताननः || ३९ || यत्तादृशो भवेद्विप्रा अङ्गाश्यं तु तद्भवेत् | यदा तु वकवद्गच्छेदुल्लोकितविलोकितैः || ४० || अत्यायतपदत्वाच्चाप्यङ्गहास्यो भवेत्तु सः | चीरचर्ममषीभस्मगैरिकादिविभूषणैः || ४१ || यत्तादृशो भवेद्विप्रा हास्यं नेपथ्यजं तु तत् | काव्यहास्यं तु विज्ञेयमसंवद्धप्रभाषणैः || ४२ || अनर्थवाक्यैर्विविधैस्तथा चाश्लिलभाषणैः | तस्य तु प्रकृतिं ज्ञात्वा तथा भावं विचक्षणः || ४३ || गतिप्रचारं विभजेन्नानावस्थान्तरात्मकम् | स्वभावजायां विन्यस्य कुटिलं वामके करे || ४४ || दक्षिणं चैव हस्तं तु कुर्याच्चतुरकं तथा | पार्श्वमेकं शिरश्चापि हस्तं चरणमेव च || ४५ || पर्यायतः सन्नमयेल्लयतालवशानुगम् | स्वभावजाता तस्यैषा गतिरन्या विकारजा || ४६ || लाभे तथा च भुक्तस्य तुष्टे चापि गतिर्भवेत् | शकारस्यापि कर्तव्या गतिश्चञ्चलदेहिका || ४७ || प्. १८०) वस्त्राभरणसंस्पर्शं सम्यक्पञ्चपदानि तु | वामवेधं ततः कुर्याद्विक्षेपं दक्षिणेन च || ४८ || परिवृत्य द्वितीयं तु गच्छेत्कोणं ततः परम् | तत्रापि वामवेधं तु विक्षेपो दक्षिणेन च || ४९ || ततो भाण्डोन्मुखो गच्छेदेतान्येव पदानि तु | एवं गतागतिर्गत्वा पदानि त्वेकविंशति || ५० || वामवेधं ततः कुर्याद्विक्षेपं दक्षिणेन च | एषा स्वभावगमने गतिः कार्या प्रयोक्तृभिः || ५१ || अवस्थान्तरयोगे तु गतिं समनुबोधत | अस्वस्थकाञ्चिते(?) चैव भयवित्रासयोरतया || ५२ || आवेगे च तथा हर्षे तथानिष्टश्रुतावपि | कालातिक्रमणे चैव क्षेपे चाद्भुतदर्शने || ५३ || कार्य आत्ययिके चैव दुःखिते चारिमार्गणे | अवरुद्धानुकरणे श्वापदाउगतौ तथा || ५४ || गतिमेतेषु भावेषु द्विकलां संप्रयोजयेत् | दिव्यानां नृपतीनां च गतिरेवं विधीयते || ५५ || अत्रोच्यते कथं देवैः समा राज्ञां गतिर्भवेत् | दिव्या तु प्रक्र्तिर्ज्ञेया तथान्या दिव्यमानुषी || ५६ || मानुषी चैव मन्तव्या नाट्यवृत्तिक्रियां प्रति | दिव्या तु देवप्रकृती राज्ञां स्याद्दिव्यमानुषी || ५७ || अन्या या लोकसंस्था तु मानुषी सा प्रकीर्तिता | तस्माद्देवानुकरणे दोषस्तत्र न विद्यते || ५८ || गतिः शृङ्गारिणी कार्या स्वस्थकामितसंभवा | चतुष्कलाप्रमाणेन सविलासा तथैव च || ५९ || दूतीदर्शितमार्गस्तु प्रविशेद्रङ्गमण्डलम् | सूच्या चैवाप्यभिनयं प्रकुर्यादर्थसंश्रयम् || ६० || प्. १८१) हृद्यैर्वस्त्रैस्तथागन्धैर्दूपैश्चूर्णैश्च योजितैः | सुगन्धिभिश्च मालाभिर्विचित्राभिरलंकृतः || ६१ || गच्छेत्सललितैः पादैरतिक्रान्तोत्थितैरथ | सौष्ठवेन समायुक्तैर्लयतालवशानुगैः || ६२ || पादयोरनुगौ चापि हस्तौ कार्यौ प्रयोक्तृभिः | प्रच्छन्नकामिते चैव गतिं भूयो निबोधत || ६३ || विसर्जितजनस्तत्र तथा दूतीसमन्वितः | निर्वाणदीपो नात्यर्थं भूषणैश्च विभूषितः || ६४ || वेलासदृशवस्त्रश्च निवृत्तस्तु शनैः शनिः | शब्दशंक्युत्सुकश्चापि पश्चाल्लोकनतत्परः || ६५ || वेपमानशरीरश्च प्रस्खलंस्तु मुहुर्मुहुः | शङ्कितः पुरुषो गच्छेद्दिदृक्षुर्वल्लभं जनम् || ६६ || उत्तमानामियं कार्या पुरुषाणां गतिर्बुधैः | मध्यमानां गतिं चैव संप्रवक्ष्याम्यहं पुनः || ६७ || ज्वरार्ते च रुजार्ते च तपःश्रान्ते भयान्विते | विक्षते च्छन्नगमने त्ववहित्थे तथैव च || ६८ || चिन्तान्विते तथा स्वस्थ औत्सुक्ये संहते तथा | गतिः स्थिरलया कार्या करणाश्रयभाविनी || ६९ || भये वित्रासिते चैव प्रमत्ते शङ्किते तथा | व्याधिते हर्षिते क्रोधे कार्यं तु चतुराञ्चितम् || ७० || संभ्रामाद्भुतसंदर्शे मुहुर्मुहुरवेक्षणैः | कम्पनेन च गात्राणां वस्त्रस्याकर्षणेन च || ७१ || सुसन्धिता चूर्णपदा शकारस्य गतिर्भवेत् | स्थूलस्यापि तु कर्तव्या गतिर्देहानुकर्षिणी || ७२ || समुद्वाहितगात्रा च निलम्बितपदक्रमा | विष्कम्भगामीइ चैव निश्वासबहुला तथा || ७३ || अतिक्रान्ता च कर्तव्या तथा चूर्णपदैः सदा | कार्या चैव तु हीनानां चेट्यादीनां द्विजोत्तमाः || ७४ || प्. १८२) अधमा इति ये ख्याता नानाशीलाः कुवृत्तयः | पार्श्वमेकं शिरश्चैव करं चरणमेव च || ७५ || नामयेत्तद्गतौ किंचित्कुजन्मा चेटसंज्ञितः | जातिनीचेषु कर्तव्या विलोकनपरा गतिः || ७६ || विकला वकसंचारा गात्रं सर्व नियम्य च | स्वजातिसदृशी चैव तथा देहानुकर्षिणी || ७७ || संभ्रमे चैव हर्षे च विक्षिप्तपदविक्रमा | आसाद्य हास्यं तरसमेताश्चान्याश्च योजयेत् || ७८ || पुनश्च करुणे कार्या गतिः स्थिरपदक्रमा | सवाष्पः साश्रुनयनः सन्नगात्रस्तथैव च || ७९ || उत्क्षिप्तपातिकरः तथा सस्वनरोदनैः | गच्छेदथाध्यर्धिकया प्रत्यग्राप्रियसंश्रयात् || ८० || एषा स्त्रीषु प्रयोक्तव्या नीचसत्त्वेषु चैव हि | उत्तमानां तु कर्तव्या सवाष्पा धैर्यसंयुता || ८१ || निश्वासैरायतोत्सृष्टैस्तथा चोर्ध्वनिरीक्षणैः | न तत्र सौष्ठवं कार्यं न प्रमाणं यथोदितम् || ८२ || नात्युत्क्षिप्तैः पदैर्गच्छेदिष्टबन्धुनिपातने | गाढप्रहारे कार्या च शिथिलाङ्गभुजाश्रया || ८३ || विघूर्णितशरीरा च गतिश्चूर्णपदैरथ | गतिः काञ्चुकिनी प्रोक्ता वयोऽवस्था विशेषतः || ८४ || वृद्धे वा मध्यमे वापि तथा चैव कनीयसि | अर्ह्दतालोत्थितैः पादैर्विष्कम्भैर्-ऋजुभिस्तदा || ८५ || उद्वहन्निव गात्राणि पङ्कमग्न इव व्रजेत् | अथ वृद्धस्य कर्तव्या गतिः कम्पितदेहिका || ८६ || विष्कम्भितगतिप्राणा मन्दोत्क्षिप्तपदा तथा | शीतेन चाभिभूतस्य वर्षेणाभिहतस्य च || ८७ || गतिं प्रयोक्तृभिः कुर्यात्स्त्रीनीचप्रकृतैः सदा | पिण्डीकृत्य च गात्राणि तेषां चैव प्रकम्पनात् || ८८ || प्. १८३) करौ वक्षसि निक्षिप्य कुब्जदेहा तथैव च | दन्तोष्ठस्फुरणाच्चैव चिबुकस्य प्रकम्पनात् || ८९ || शनैः शनैश्च कर्तव्या शीतार्थाभिनये गतिः | उष्णे चापि प्रयोक्तव्या गतिर्दाहसमाकुला || ९० || नेत्रसंकोचनस्वेदगात्रसंहरणान्विता | अतिक्रान्तैरपक्रान्तैरेलकाक्रीडितैस्तथा || ९१ || क्रमैरभिअयैर्युक्ता तथा चूर्णपदैरपि | एतानन्यांश्च युञ्जीत नाट्यज्ञैः करुणे रसे || ९२ || रौद्रे रसे प्रवक्ष्यामि दैत्यरक्षोगणान्प्रति | एक एव रसस्तेषां स्थायी रौद्रो द्विजोत्तमाः || ९३ || नेपथ्यरौद्रो विज्ञेयः स्वाङ्गरौद्रस्तथैव च | अथ स्वभावजश्चैव त्रिधा रौद्रः प्रकीर्तितः || ९४ || रुधिरक्लिन्नदेहो यो रौद्राभिविकृताननैः | तथा पिशितहस्तश्च रौद्रो नैपथ्यजस्तु सः || ९५ || बहुबाहुर्बहुमुखो नानाप्रहरणाकुलः | स्थूलकायस्त्वतिप्रांशुरङ्गरौद्रस्तु स स्मृतः || ९६ || रक्ताक्षः पिङ्गकेशश्च कृष्णाङ्गो विकृतस्वरः | रौद्रनिर्भर्त्सनकथो रौद्रोऽयं स्यात्स्वभावजः || ९७ || चतुस्तालोत्तरोत्क्षिप्तैः पादैस्त्र्यन्तरपातितैः | गतिरेवं प्रकर्तव्या शेषा ये चापि तद्विधाः || ९८ || एक एव रसस्तेषां स्थायी रौद्रो द्विजोत्तमाः | विग्रहः प्रहसश्चैव तथा शृङ्गार इष्यते || ९९ || तथा भयानके चापि गतिः कार्या विचक्षणैः | स्त्रीणां कापुरुषाणां च ये चान्ये सत्त्ववर्जिताः || १०० || विष्फारितचलन्नेत्रो विधून्वन् स्वशिरस्तथा | भयाकुलितचित्तत्वात्पार्श्वानि च विलोकयन् || १०१ || द्रुतैश्चूर्णपदैश्चैव कृत्वा हस्तं कपोतकम् | प्रलेपितशरीरस्तु शुष्कोष्ठश्च स्खलन्व्रजेत् || १०२ || प्. १८४) एषानुकरने कार्या तर्जने कलहे तथा | सत्त्वं च विकृतं दृष्ट्वा श्रुत्वा च विकृतस्वरम् || १०३ || एषा स्त्रीणां प्रयोक्तव्या स्त्रीणां चाक्षिपितविक्रमा | क्वचिदासन्नपतितैर्विकृष्टपतितैः क्वचित् || १०४ || एलकाक्रीडितैः पादैरुपर्युपरिपातितैः | एषामेवानुगैर्हस्तैर्गतिर्भीतेषु योजयेत् || १०५ || अहृद्या तु मही यत्र श्मशानरणकश्मला | गतिस्तत्र प्रकुर्वीत बिभत्साभिनयं प्रति || १०६ || क्वचिदासन्नपतितैर्विकृष्टपतितैः क्वचित् | अतिक्रान्तैः पदैर्गच्छेज्जुगुप्सितगतिं प्रति || १०७ || तथा वीरे च कर्तव्या पादविक्षेपसंयुता | द्रुतप्रचारणाविद्धा नानाचारीसमाकुला || १०८ || पार्श्वाक्रान्तैर्द्रुतविद्धैः सूचीविद्धैस्तथैव च | कलातालगतैः पादैरावेगे योजयेद्गतिम् || १०९ || विटस्यापि तु कर्तव्या गतीर्ललितविक्रमाः | किंचिदाकुञ्चितैः पादैस्तालाभ्यन्तरपातितैः || ११० || रङ्गसौष्ठवसंयुक्तं तथा हस्तौ कटिस्थितौ | खटकावर्धमानौ च कृत्वा कार्या विटे गतिः || १११ || कृशाङ्गानां तु कर्तव्या गतिर्मन्दपरिक्रमा | व्याधिग्रस्तो ज्वरार्तश्च तपश्श्रान्तः क्षुधान्वितः || ११२ || विष्टम्भनगतप्राणस्तथा क्षामोदरः सदा | क्षामस्वरकपोलश्च सन्नगात्रस्तथैव च || ११३ || हस्तपादसमुत्क्षेपं शनैस्तत्र प्रयोजयेत् | कम्पनं चैव गात्राणां श्लथनं चैव योजयेत् || ११४ || प्रकर्तव्याध्वगस्यापि गतिर्मन्दपदक्रमा | विकूणनेन वक्त्रस्य जानुनोश्च विमर्शनान् || ११५ || नीचानां मध्यमानां च गतिः कार्या सदा बुधैः | तालमात्रोत्थितैः पादैस्तथा व्याकुञ्चिताञ्चितैः || ११६ || प्. १८५) यतिनश्चाश्रमस्था ये ये चान्ये तपसि स्थिताः | ऋषयस्तापसाश्चैव नैष्ठिकं व्रतमास्थिताः || ११७|| आलोलचक्षुः स्याच्चैव युगमात्रनिरीक्षणे | उपस्थितस्मृतिश्चैव गात्रं सर्वं नियम्य च || ११८ || अचञ्चलमनाश्चैव गच्छेल्लिङ्गसमाश्रितः | विनीतवेषश्च तथा काषायवसनोऽपि च || ११९ || प्रथमं समपादेन स्थित्वा स्थानेन नाट्यवित् | हस्तं चतुरकं कृत्वा तथा चैतत्प्रसारयेत् || १२० || प्रसन्नवदनं कृत्वा प्रयोगस्य वशानुगम् | सुनिषण्णेन गात्रेण गतिं कुर्याद्यतेस्तथा || १२१ || उत्तमानां भवेदेषा लिङ्गिनां ये महाव्रताः | एभिरेव विपर्यस्तैर्गुणैरन्येषु लिङ्गिषु || १२२ || तथा व्रतानुगा च स्यादन्येषां लिङ्गिनां गतिः | हस्तौ तदनुगौ चापि यथायोगं प्रयोजयेत् || १२३ || विभ्रान्ता वा ह्यदात्ता च विक्रान्ता विहृता तथा | शकटास्यस्थितैः पादैरतिक्रान्तैस्तथैव च || १२४ || कार्या पाशुपतानांच् अ गतिरुद्भ्रान्तगामिनी | एवं लिङ्गस्थितानां हि प्रयोज्यैव गतिर्बुधैः || १२५ || अन्धस्येव गतिं कुर्यादन्धकारेषु योगवत् | भूमौ विसर्पितैः पादैर्हस्तदर्शितमार्गकैः || १२६ || रथस्थस्यापि कर्तव्या गतिश्चूर्णपदक्रमा | समपादन्तथा स्थानं कृत्वा रथगतिं व्रजेत् || १२७ || धनुरेकेन हस्तेन गृहीत्वान्येन सायकम् | सूतश्चास्य भवेदेव प्रतोदप्रग्रहाकुलः || १२८ || करणानि विचित्राणि कर्तव्यानि विभागतः | द्रुतैश्चूर्णपदैश्चैव गन्तव्यं रङ्गमण्डलम् || १२९ || प्. १८६) विमानस्थस्य कर्तव्या गती रथगतोपमा | आरोढुमुद्वहेद्गात्रं किंचित्स्यादुन्मुखस्तथा || १३० || अस्यैव वैपरीत्येन कुर्याच्चाप्यवरोहणम् | अधोऽवलोकनेनैव मण्डलावर्तनेन च || १३१ || आकाशगमने चैव कर्तव्यं गतिचेष्टितम् | स्थानेन समपादेन तथा चूर्णपदैरथ || १३२ || व्योम्नस्त्ववतरेद्यस्तु तस्येमां कारयेद्गतिम् | ऋज्वायतोन्नतनतैः कुटिलावर्तितैस्तथा || १३३ || भ्रममाणस्य चाकाशादपरुद्धभुजागतिः | विकीर्णवसना चैव तथा भूगतलोचना || १३४ || द्रुमप्रासादशैलेषु नदीनिम्नोन्नतेषु च | आरोहणावतरणं कार्यमर्थवशाद्बुधैः || १३५ || प्रासादारोहणं कार्यमतिक्रान्तैः पदैरथ | उद्वाह्य गात्रं पादं च सोपानं निक्षिपेद्बुधः || १३६ || तथावतरणे चैव गात्रमानस्य रेचयेत् | अतिक्रान्तेन पादेन द्वितीयेनाञ्चितेन च || १३७ || प्रासादारोहणं यत्तु तद्देवादिषु कारयेत् | केवलं तूर्ध्वाविक्षेपमद्रिष्वङ्गं भवेदथ || १३८ || द्रुमे चारोहणं कार्यमतिक्रान्तोत्थितैः पदैः | सूचीविद्धैरपक्रान्तैः पार्श्वक्रान्तैस्तथैव च || १३९ || एवं देवावतरणं प्रयोज्यं सरिदादिषु | प्रासादेषु तथा प्रोक्तं तथैवोत्तरणं भवेत् || १४० || द्रुमप्रासादशैलेभ्यः संज्ञामात्रेण दर्शयेत् | जलप्रमाणापेक्षा तु जलमध्ये गतिर्भवेत् || १४१ || तोयेऽल्पे वसनोत्कृर्षैः प्राज्ये पाणिविकर्षणैः | किंचिन्नताग्रकाया तु प्रतारे गतिरिष्यते || १४२ || प्. १८७) प्रसार्य बाहुमेकैकं मुहुर्वारिविकर्षणैः | तिर्यक्प्रसारिता चैव ह्रियमाणा स्ववारिणा || १४३ || अशेषाङ्गाकुलाधूतवदाअ गतिरिष्यते | नौस्थस्यापि प्रयोक्तव्या द्रुतैश्चूर्णपदैर्गतिः || १४४ || अनेनैव विधानेन कर्तव्यं गतिचेष्ठितम् | (संज्ञामात्रेण कर्तव्यान्येतानि विधिपूर्वकम्) || १४५ || अङ्कुशग्रहणान्नागं प्रग्रहग्रहणाद्रथम् | खलीनग्रहणादश्वं नावं चैवावरोहणात् || १४६ || अश्वयाने गतिः कार्या वैशाखस्थानकेन तु | तथा चूर्णपदैश्चैव ह्युपर्युपरिपातितैः || १४७ || पन्नगानां मतिः कार्या पादैः स्वस्तिकसंस्थितैः | पार्श्वाक्रान्तक्रमं कृत्वा स्वस्तिकं योजयेत्तथा || १४८ || मत्तानां तु गतिः कार्या तरुणे मध्यमे मदे | वामदक्षिणपादाभ्यां घूर्णमानापसर्पणात् || १४९ || आकाशस्खलितैः प्रायः पादैश्चाप्यनवस्थितैः | विघूर्णितशरीरा च करैः प्रचलितैस्तथा || १५० || उन्मत्तस्यापि कर्तव्या गतिस्त्वनियमक्रमा | बहुचारीसमायुक्ता लोकानुकरणाश्रया || १५१ || रुक्षस्फुरितकेशस्तु रेणुध्वस्ततनुस्तथा | अनिमित्तप्रकथनो बहुभाषी विकारवाक् || १५२ || प्रगीतहसितश्चापि नानाविकृतभूषणः | नृत्ते गीते च वाद्ये च भाषणे च सदारतः || १५३ || कदाचिद्धावति जवात्कदाचिदवतिष्ठते | कचाचिदुपविष्टस्तु शयानश्च कदाचन || १५४ || नाननच्चिरधरश्चैव रथ्यास्वनियतालयः | उन्मत्ताभिनयस्त्वेवं तस्येमां कारयेद्गतिम् || १५५ || प्. १८८) स्थित्वा नूपुरपादेन दण्डपादं प्रसारयेत् | कृत्वा चारीं तथोद्वद्धामथ स्वस्तिकमेव च || १५६ || अनेन चारीयोगेन परिभ्राम्य तु मण्डलम् | वक्रं तु भ्रमणं चैव रङ्गकोणेषु योजयेत् || १५७ || त्रिकं सललितं कृत्वा लताख्यं हस्तमेव च | विपर्यगतैर्हस्तैः पादैर्हंसगतिं व्रजेत् || १५८ || सिंहर्क्षवानराणां च गतिः कार्या प्रयोक्तृभिः | या कृता नरसिंहेन विष्णुना प्रभविष्णुना || १५९ || आलीढस्थानकं कृत्वा गात्रं तस्यैव चानुगम् | ऊर्ध्वजानु च विक्षिप्य करमेकं च संस्थितम् || १६० || विलोलितं शिरः कृत्वा चिबुकं बाहुमस्तके | गन्तव्यं विक्रमैश्चैव पञ्चतालान्तरस्थितैः || १६१ || नियुद्धे संशये चैव रङ्गावतरणे तथा | सिंहादीनां च योक्तव्या गतिरेषा प्रयोक्तृभिः || १६२ || शे.आणामर्थयोगेन स्थानान्यपि तु कारयेत् | गजवाजिरथादींस्तु चिह्नमात्रेण कारयेत् || १६३ || वाहनार्थप्रयोगेषु रङ्गावतरणेषु च | एवमेताः प्रयोक्तव्या नॄणां तु गतयो बुधैः || १६४ || अत्र नाभिहिता यास्तु विज्ञेयाः शास्त्रलोकतः | अतः परं प्रवक्ष्यामि स्त्रीणां गतिविचेष्टितम् || १६५ || स्त्रीणां स्थानानि कार्याणि गतिष्वाभाषणेषु च | आयतं चावहित्थं च तथाश्वक्रान्तमेव च || १६६ || दक्षिणस्तु समः पादस्त्र्यश्रः पक्षस्थितोऽपरः | वामो नतः कटीपार्श्वमायतस्थानके भवेत् || १६७ || प्. १८९) अथवा - वामः स्वाभाविको यत्र पादो विरचितस्ततः | तालमात्रान्तरे न्यस्तस्त्र्यश्रः पक्षस्थितोऽपरः || १६८ || प्रसन्नमाननमुरस्समं यत्र समुन्नतम् | लतानितम्बगौ हस्तौ ज्ञेयं स्थानं तदायतम् || १६९ || रऽऽगावतरणारम्भं पुष्पाञ्जलिविसर्जनम् | मन्मथेर्ष्योद्भवः कोपस्तर्जनाङ्गुलिमोटनम् || १७० || निषेधगर्वगाम्भीर्यमौनमायावलम्बनम् | स्थानेऽस्मिन् सन्निधानीयं दिगन्तरनिरूपणम् || १७१ || आवाहने विसर्गे च तथा निर्वर्णनेषु च | चिन्तायामवहित्थे च स्थानमेतत्प्रयोजयेत् || १७२ || समो यत्र स्थितो वामस्त्र्यश्रः पक्षस्थितोऽपरः | वामोन्नतं त्रिकं यस्मिन्नवहित्थं तदुच्यते || १७३ || स्थानमेतत्तु नारीणां सल्लापे तु स्वभावजे | निश्चये परितोषे च वितर्के लज्जिते तथा || १७४ || एकः समस्थितः पाद एकस्त्वत्र तलाञ्चितः | सूचीविद्धमविद्धं वा तदश्वक्रान्तमुच्यते || १७५ || स्खलिते घूर्णिते चैव स्खलिताम्बरधारणे | चित्रासने सललिते स्थानमेतत्तु रक्षणे || १७६ || शाखावलम्बने कार्या स्तवकग्रहणे तथा | विश्रान्तिषु तथैव स्यात्पादताडन एव च || १७७ || स्थानकं तावदेव स्याद्यावच्चेष्टा प्रवर्तते | भग्नं च स्थानकं नृत्ते (नृत्त) चारीसमन्विताः || १७८ || एवं स्थानविधिः कार्यः स्त्रीणां सम्यग्द्विजोत्तमाः | पुनरासां प्रवक्ष्यामि गतीस्तु प्रकृतिस्थिताः || १७९ || प्. १९०) कृत्वावहित्थं स्थानं तु वामं चाधोमुखं भुजम् | नाभिप्रदेशे विन्यस्य सव्यं च खटकामुखम् || १८० || ततः सललितं पादं तालमात्रं समुत्थितम् | दक्षिणं वामपादस्य वाह्ये पार्श्वे विनिक्षिपेत् || १८१ || तेनैव समकालं च लताख्यं वामकं भुजम् | दक्षिणं च नयेत्पार्श्वं न्यसेन्नाभितटे ततः || १८२ || नितम्बे दक्षिणं कृत्वा हस्तं चोद्वेष्ट्य वामकम् | ततो वामपदं दद्याल्लताहस्तं च दक्षिणम् || १८३ || लीलयोद्वाहितेनाथ शिरसानुगतेन च | किंचिन्नतेन चाङ्गेन गच्छेत्पञ्चपदीं ततः || १८४ || यो विधिः पुरुषाणां तु रङ्गपीठपरिक्रमे | स एव प्रमदानां तु कर्तव्यो नाट्ययोक्तृभिः || १८५ || षट्कलं न प्रयोक्तव्यं तथाष्टकलमेव च | पादस्य पतनं तज्ज्ञैः खेदजं तद्भवेस्त्रियाः || १८६ || सयैवनानां नारीणां कार्या त्वेवं गतिर्बुधैः | स्थानीया या स्त्रियस्तासां संप्रवक्ष्याम्यहं गतीः || १८७ || कृत्वाऽवहित्थं स्थानं तु वामं न्यस्य कटीतटे | आद्यं चारालमुत्तानं कुर्यान्नाभिस्तनान्तरे || १८८ || न निषण्णं न च स्तब्धं न चैव परिवाहितम् | कृत्वा गात्रं ततो गच्छेत्तेनैवाद्यक्रमेण तु || १८९ || प्रेष्याणामपि कर्तव्या गतिर्विभ्रान्तगामिनी | किंचिदुन्नमितैर्गात्रैराविद्धपदविक्रमा || १९० || स्थानं कृत्वावहित्थं तु वामं चाधोमुखं भुजम् | नाभिप्रदेशे चिन्यस्य सव्यं च खटकामुखम् || १९१ || अर्धनारीगतिः कार्या स्त्रीपुंसाभ्यां विमिश्रिता | उदात्तललितैर्गात्रैः पादैर्लीलासमन्वितैः || १९२ || या मयाभिहिता पूर्वमुत्तमानां गतिर्बुधाः | स्त्रीणां कापुरुषाणां च ततोऽर्धार्धं च कारयेत् || १९३ || प्. १९१) उत्तमाधममध्यानां नॄणां यद्गतिचेष्टितम् | स्त्रीणां तदेव कर्तव्यं ललितैः पदविक्रमैः || १९४ || वालानामपि कर्तव्या स्वच्छन्दपदविक्रमा | न तस्यां सौष्ठवं कार्यं न प्रमाणं तथाविधम् || १९५ || तृतीया प्रकृतिः कार्या नाम्ना चैव नपुंसके | नरस्वभावमुत्सृज्य स्त्रीगतिं तत्र योजयेत् || १९६ || विपर्यस्तप्रयोगस्तु पुरुषस्त्रीनपुंसके | स्वभावमात्मनस्त्यक्त्वा परभावेन योजयेत् || १९७ || निजां प्रकृतिमुत्सृज्य क्रीडया वञ्चनेन वा | स्त्री पुंसः प्रकृतिं कुर्यात्स्त्रीभावं पुरुषोऽपि वा || १९८ || सौष्ठवेनाथ सत्त्वेन बुद्ध्या तद्वच्च कर्मणा | स्त्री पुमांसं ह्यभिनयेद्वेपवाक्यविचेष्टितैः || १९९ || स्त्रीवेषभाषितैर्युक्तं प्रेक्षिताप्रेक्षितस्मितैः | मृदुसन्नगतिश्चैव पुमान् स्त्रीभावमाचरेत् || २०० || जातिहीनास्तु या नार्यः पुलिन्द शवराङ्गनाः | याश्चापि तासां कर्तव्या तज्जातिसदृशी गतिः || २०१ || व्रतस्थानां तपःस्थानां लिङ्गस्थानां तथा पुनः | खस्थानां चैव नारीणां समपादं प्रयोजयेत् || २०२ || उद्धता येऽङ्गहाराः स्युर्याश्चार्यो मण्डलानि वा | तानि नाट्यप्रयोगज्ञैर्न कर्तव्यानि योषिताम् || २०३ || अथासनविधिः कार्यः स्त्रीणां नॄणां तथैव च | नानाभावसमायुक्तं तथैव शयनाश्रयः || २०४ || स्वस्थं मन्दालसं क्लान्तं स्रस्तालसमथापि च | विष्कम्भकमुत्कटिकं मुक्तजानु तथासनम् || २०५ || जानूगतं विमुक्तं च स्थानकान्युपवेशने | लक्षणं पुनरेतेषां विनियोगं च वक्ष्यते || २०६ || विष्कम्भेनाञ्चितौ पादौ किंचिद्वक्षः समुन्नतम् | हस्तौ कट्यूरुविन्यस्तौ स्वस्थे स्यादुपवेशने || २०७ || स्वभावाभिनये चैव तथा स्वस्थोपवेशने | आविष्कृतेषु सर्वेषु भावेष्वेतत्प्रयोजयेत् || २०८ || एकः प्रसारितः किंचित्पादोऽन्यस्त्वासनाश्रितः | शिरः पार्श्वगतं चैव स्थानं मन्दालसं तु तत् || २०९ || चिन्तायां च तदौत्सुक्ये निर्वेदे विरहे तथा | विवादादिषु चाधेयं स्थानमेतत्प्रयोक्तृभिः || २१० || चिबुकापाश्रयौ हस्तौ बाहुशीर्षाश्रयं शिरः | संप्रनष्टेन्द्रियमना विज्ञेयं क्लान्तमासनम् || २११ || बलेन विगृहीतस्य रिपुणा खण्डितस्य च | शोकग्लानस्य चौत्सुक्ये स्थानमेतद्विनिर्दिशेत् || २१२ || स्रस्तौ हस्तौ विमुक्तौ च शरीरमलसं तथा | खेदालसं तथा चक्षुर्यत्र स्रस्तालसं तु तत् || २१३ || श्रमग्लानौ मदे चैव मूर्छायां व्याधितेषु च | मोहे प्राणभये चैव विपादे चैव तद्भवेत् || २१४ || प्. १९३) विष्कम्भादञ्चितौ पादावूरु विष्कम्भितौ भुजौ | निमीलितं तथा चक्षुः स्थाने विष्कम्भनामनि || २१५ || स्ववक्षोगतया दृष्ट्या योगध्याने विलीयते | स्वभावसंस्थया चैव नटानामुपगम्यते || २१६ || समौ पादौ समाधाय समं यदुपविश्यते | अस्पृष्टभूतलं चैव ज्ञेयमुत्कटिकासनम् || २१७ || पित्र्ये समाधिजप्ये च होमादिकरणेषु च | एतत्स्थानं विधातव्यं तथाचमनकर्मणि || २१८ || एकं जानु यदास्यैव महीपृष्ठे निधीयते | मुक्तजानुकमेतद्धि विज्ञेयं ह्यासनं बुधैः || २१९ || एतत्कृतव्यलीकानां प्रियाणां संप्रसादने | मार्जने कुट्टिमानां च तथाभूम्यनुलेपने || २२० || महीगताभ्यां जानुभ्यां स्थानं जानूगतं भवेत् | देवाभिवन्दने कार्यं रुष्टानां च प्रसादने || २२१ || शोके चाक्रन्दने तीव्रे मृतानां चैव दर्शने | संत्रासने कुसत्त्वानां नीचानां चैव याचने || २२२ || भूमौ यदूर्ध्वपतनं तद्विमुक्तमिति स्मृतम् | प्रहारे तत्प्रयोक्तव्यमावेगे क्रन्दिते तथा || २२३ || तथासनविधिः कार्यो विधिवन्नाटकाश्रयः | स्त्रीणां च पुरुषाणां च वाह्योऽथाभ्यन्तरस्तथा || २२४ || देवानां नृपतीनां च योज्यं सिंहासनं तथा | पुरोधःश्रेष्ठ्यमात्यानां भवेद्वेत्रासनं तथा || २२५ || मुण्डासनं तु कर्तव्यं सेनानियुवराजयोः | काष्ठासनं ब्राह्मणानां कुमाराणां कुथासनम् || २२६ || स्थानीया ये तु पुरुषाः कुलविद्याप्रकाशिताः | तेषामासनसत्कारः कर्तव्यो गुरुपार्थिवैः || २२७ || प्. १९४) समे समासनं चैव मध्ये मध्यं तथासनम् | अतिरिक्तेऽतिरिक्तं च हीने भूम्यासनं तथा || २२८ || उपाध्यायस्य नृपतेर्गुरूणां चाग्रतो बुधैः | भूम्यासनं तथा कार्यं काष्ठासनमथापि वा || २२९ || नौनागरथभूमीषु तथा काष्ठासनेषु च | सहासनं न दुष्येत गुरूपाध्यायपार्थिवैः || २३० || एवं राजसभां प्राप्य कार्यस्त्वासनजो विधिः | प्रकृतीनां तु सर्वासां तथा ज्ञानसमुत्थितम् || २३१ || पुरुषाणां भवेदेष विधिरासनसंश्रयः | स्त्रीणां चैवासनविधिं संप्रवक्ष्याम्यतः परम् || २३२ || सिंहासनं महादेव्या राज्ञीनां मुण्डमासनम् | पुरोधोऽमात्यपत्नीनां भवेद्वेत्रासनं तथा || २३३ || भगिनीनां तु कर्तव्यं वस्त्रचर्मकुथापि वा | ब्राह्मणीनां तापसीनां पट्टासनमथापि च || २३४ || वेश्यानामपि कर्तव्यमासनं हि मसूरकम् | शेषाणां प्रमदानां तु भवेद्भूम्यासनं बुधाः || २३५ || एवमन्तःपुरे ज्ञेयो बाह्यश्चासनतो विधिः | तथा स्वगृहवार्तासु छन्देनासनमिष्यते || २३६ || नियमस्थो मुनीनां तु भवेदासनतो विधिः | लिङ्गिनां चासनविधिः कार्यो व्रतसमाश्रयः || २३७ || व्रुसीमुण्डासनप्रायं वेत्रासनमथापि च | होमयज्ञक्रियायां च पित्र्यर्थे च प्रयोजयेत् || २३८ || आकुञ्चितं समं चैव प्रसारितविवर्तिते | उद्वाहितं नतं षोढा शययासथानानि निर्दिशेत् || २३९ || सर्वैराकुञ्चितैरङ्गैः शययाविद्धे तु जानुनी | स्थानमाकुञ्चितं नाम शीतार्तानां प्रयोजयेत् || २४० || प्. १९५) उत्तानितमुखं चैव प्रत्यङ्मुक्तकरं तथा | समं नाम प्रसुप्तस्य स्थानकं संविधीयते || २४१ || एकं भुजमुपाधाय संप्रसारितजानुकम् | स्थानं प्रसारितं नाम सुखसुप्तस्य कारयेत् || २४२ || अधोमुखस्थितं चैव विवर्तितमिति स्मृतम् | शस्त्रक्षतमृतोत्क्षिप्तमत्तोन्मत्तेषु कारयेत् || २४३ || हस्तोपरि शिरः कृत्वा कूर्परक्षोभमेव च | उद्वाहितं तु विज्ञेयं लीलयाविशने विभोः || २४४ || ईषत्प्रसारिते जङ्घे यत्र स्रस्तौ करावुभौ | आलस्यश्रमखेदेषु नतं स्थानं विधीयते || २४५ || रङ्गे विकृष्टे भरतेन कार्यो गतागतैः पादगतिप्रचारः | त्र्यश्रे त्रिकोणश्चतुरश्रके वा समैर्गतैरर्थवशेन नित्यम् || २४६ || वयोऽनुरूपः प्रथमस्तु वेषो वेषानुरूपेण गतिप्रचारः | गतिप्रचारानुगतं च पाठ्यं पाठ्यानुरूपोऽभिनयश्च कार्यः || २४७ || गतिप्रचारस्तु मयोदितोऽयं नोक्तस्तु यः सोऽर्थवशेन साध्यः | अतःपरं रङ्गपरिक्रमस्य वक्ष्यामि कक्ष्यानुगतं विभागम् || २४८ || इति श्रीभारतीये नाट्यशास्त्रे गतिप्रचारो नाम द्वादशोऽध्यायः || नाट्यशास्तम् त्रयोदशोऽध्यायः | ये तु पूर्वं मया प्रोक्तास्त्रयो वै नाट्यमण्डपाः | तेषां विभागं विज्ञाय ततः कक्ष्यां प्रयोजयेत् || १ || देहस्तु(स्य?) बाह्यान्तरभेदिकक्ष्या- विभागधर्मीविविधा प्रवृत्तिम् | आसूत्रयन्दोषविशुद्धिदक्ष- क्रमोऽर्कदृष्टिर्जयताद्वृपाङ्कः || इहाभिनयानन्तरं यद्यपि सर्वा वृत्तिप्रवृत्तय उद्दिष्टाः सर्वान्ते च रङ्गे (३६) सूचिता कक्ष्या तच्चतुर्विधाभिनयाभिधानानन्तरमेतदध्यायार्थो वक्तव्यः | तथापि प्रत्यभिनयमियतीतिकर्तव्यतोपयुज्यते | तदभिधानं विना- (ना-)ङ्गिकमेवोक्तं स्यादिति वक्तव्यम् | तदुद्देशे तु सामान्यशब्दत्वान्नास्ति प्रत्येकमुद्देशने गतिः | तथोद्देशनेऽपि च गौरवं स्यात् | अत एवंवादिना कक्ष्यादेरपृथग्भावे यो हेतुरुक्तः क्रमोल्लङ्घनादिति तस्यासिद्धत्वं विरुद्धता च प्रत्युत प्रत्येकप्रसङ्गत्वलाभात् क्रमस्यापदार्थत्वान्नार्थप्रमाणकत्वान्मुख्यश्रौतपदार्थवाधकत्व मयुक्तं श्रुत्या वाक्यप्रमाणस्य वादनादिति तु भट्टलोल्लटोक्तं प्रकृते सिद्ध्यति विरोधाभावात् क्रमस्य च मध्यत्वात् गतिरूपप्रयोगहेतुत्वा प्. १९७) ये नेपथ्यगृहद्वारे मया पूर्वं प्रकीर्तिते | तयोर्भाण्डस्य विन्यासो मध्ये कार्यः प्रयोक्तृभिः || कक्ष्याविभागो निर्देश्यो रङ्गपीठपरिक्रमात् | अतस्तदवसर एवाभिधानं युक्तम् | तद्द्वारेणाभिनयाङ्गतामगात् | तद्देशत्रयं वक्तृत्रयं वक्तव्यम् | तत्र प्रथमं कक्ष्याभिधानेऽयमभिप्रायः इह गतिर्गन्तव्यदेशाश्रयात् देशश्च जलस्थलादि बहुतरसमविषमादिस्वभेदसहितं काव्यार्थतामात्रेणैवेह संभवन्नपि प्रयोगस्थाने न संभवत्येवेति तस्य परिहारार्थं कक्ष्यानिरूपणं कर्तव्यम् | अत एव पूर्वाध्यायान्त उक्तं परिक्रमे गतावुपयोगिनं स्थानविशेषाणां सम्यग्विभागं वक्ष्यामीति | सेयमध्यायसंगतिस्तां दर्शयितुमाह ये तु पूर्वमिति | तु शब्दाद्दूरत्वं पूर्वतायाः सूचयन् द्वितीयाध्यायार्थं स्मारयति तेषामिति प्रत्येकमित्यभिप्रायः | मण्डपस्य यो विशिष्टो भागोऽन्तरङ्गपीठात्मकस्तं विज्ञाय विभागतो ज्ञात्वा कक्ष्यागत्युपयोगिनं स्थानविशेषं प्रयोजयेत् विभागेन संबन्धं नयेत् | नाट्यदेशानुसारेण प्रकोष्ठे त्यक्ते यो देशोऽवशेष्यते तत्रैव चातुरश्रीयम् | अत एव वामदक्षिणभागयोः कुतपविन्यासः शिष्टे कक्ष्याविभागः | रङ्गस्य को विभाग इत्याह ये नेपथ्यगृहद्वार इत्यादि | (पूर्वमिति)द्वितीयाध्याये प्रकीर्तिते भाण्डस्य ततातोद्यसहितस्य त्रिपुष्करस्य | ततः किमित्याह कक्ष्याविभाग इति | तेन भाण्डेन यत्परित आक्रान्तं तद्विवर्ज्य शेषे रङ्गपीठदेशे निष्क्रमणप्रवेशगत्याद्युपयोगी स्थानविभागो निर्देश्यः प्रेक्षकावधिः प्. १९८) परिक्रमेण रङ्गस्य ह्यन्या कक्ष्या भवेदिह || ३ || कक्ष्याविभागे ज्ञेयानि गृहाणि नगराणि च | उद्यानाराम सरितस्त्वाश्रमा अटवी तथा || ४ || पृथिवी सागराश्चैव त्रैलोक्यं सचराचरम् | वर्षाणि सप्तद्वीपाश्च पर्वता विविधास्तथा || ५ || आलोकश्चैव लोकश्च रसातलमथापि च | दैत्यनागालयाश्चैव गृहाणि भवनानि च || ६ || संक्रमयितन्यः | ननु कः स्थानविभागः आह - परिक्रमेणेति | परिक्रामन्त्यनेनेति परिक्रामः चार्यादिसंनिवेशः तद्वशादेकस्यापि रङ्गदेशस्य स्थानभेदनापत्यागः यथा - आरोढुमुद्वहेद्गावं अतिक्रान्तेन पादेन (१२-१०२) इत्यादिना विशेषे तु प्रासादपर्वतादिरूपत्वमस्यैव | ननु भाण्डवाद्यविनिर्मुक्ते रङ्गपीठदेशे क्रमविशेषस्थानभेद कॢप्तिः | तन्नेत्याह कक्ष्याविभाग इत्यादि विशिष्टे शिष्टे देशे स्थानान्तराणि कल्पनीयानि तानि कविजनस्मरणार्थमुपलक्षणत्वेन पठन्ति | गृहादीनि पृथिवीस्वर्गपातालभेदात्पुनरुदाहृतानि सर्वसंग्रहाय त्रैलोक्यमित्युक्तेऽपि स्माणार्थं वर्णनोद्देशः | ननु सर्वत्र प्रयोगे सर्वे त्रैलोक्यवर्तिनः स्थानभेदात्किं संभाविनः नेति दर्शयति नगरे वेत्यादि | निपातैरनुक्ता अटव्यादयः साक्षात् | तथा प्. १९९) नगरे वा वने वापि वर्षे वा पर्वतेऽपि वा | यत्र वार्ता प्रवर्तेत तत्र कक्ष्यां प्रयोजयेत् || ७ || बाह्यं आ मध्यमं वापि तथैवाभ्यन्तरं पुनः | दूरं वा सन्निकृष्टं वा देशं तु परिकल्पयेत् || ८ || पूर्वप्रविष्टा ये रङ्गं ज्ञेयास्तेऽभ्यन्तरा बुधैः | पश्चात्प्रविष्टा विज्ञेया कक्ष्याभागे तु बाह्यतः || ९ || तेषां तु दर्शनेच्छुर्यः प्रविशेद्रङ्गमण्डलम् | दक्षिणाभिमुखः सोऽथ कुर्यादात्मनिवेदनम् || १० || वीप्साद्योते | यत्र यत्र वार्ता वृत्तान्त इतिवृत्तवलायातः प्रकर्षेण वर्तेत तत्रमध्ये यो देशविभागस्तमेव प्रवर्तयेत् रङ्गपीठे दर्शयेत् न सर्वमित्यर्थः विशिष्टे देश इत्युक्तं न रङ्गपीठस्य | विशेषं दर्शयति वाह्येचेत्यादि | भागत्रितये सति कस्मिंश्चिद्भागे देशादि कल्पयित्वा तत्रैव दूरादिभेदं परिकल्पयेत् भूयस्त्वाल्पत्वादिभिन्नेन परिक्रमेण कल्पयेदित्यर्थः | बाह्यादिभेदं निरूपयति पूर्वप्रविष्टा इति पूर्वभूताः प्रधानभूताः सन्तः पूर्वं ये प्रविष्टास्ते अभ्यन्तरा इति अधिष्ठितो देशविशेषोऽभ्यन्तरकक्ष्या प्रधानभूतस्तु पूर्वप्रविष्टोऽपि प्रधाने प्रविशति स्वकक्ष्यान्त्य इत्येव | पश्चात्प्रविष्टानां तु स्थानं वाह्यकक्ष्या | ते तु येन स्थानविशेषेण प्राक्प्रविष्टमुपसर्पन्ति सदेशो मध्यमा कक्ष्या | एतदुक्तं भवति पूर्वप्रविष्टस्य स्वस्थान एवेतिवृत्तोचितगृहोद्यातादिविभागः पश्चात्प्रविष्टस्यापि पूर्वप्रविष्टेन सह यावन्न च संमिलनं तावत्प्रेक्षायामेव मध्यमकक्ष्यायां तु गतिपरिक्रमादिः तत्संमेलनार्थं संमिलितानां तु कक्ष्यविभगो विच्छिद्यत इति संमेलन इतिकर्तव्यतामाह तेषां त्विति पूर्वप्रविष्टानां कर्मणि षष्ठी | प्. २००) यतो मुखं भवेद्भाण्डद्वारं नेपथ्यकस्य च | सा मन्तव्या तु दिक्पूर्वा नाट्ययोगेन नित्यशः || ११ || निष्क्रामेद्यश्च तस्माद्वै स तेनैव तथा व्रजेत् | यतस्तस्य कृतं तेन पुरुषेण निवेदनम् || १२ || (निष्क्रान्तोऽर्थवशाचापि प्रविशेद्यदि तद्गृहम् | यतः प्राप्तः स पुरुषस्तेन मार्गेण निस्क्रमेत् || १३ || अथवार्थवशाच्चापि तेनैव सह गच्छति | तथैव प्रविशेद्रङ्गमेकाकी सहितोऽपि वा || १४ || पूर्वप्रविष्टस्य यो दक्षिणो भागस्तं वीक्षमाणः स्थितो यथा प्रेक्षकस्य यः पराङ्मुखीभवतीत्यर्थः एषां प्रवृत्तये दाक्षिणात्यादिके क्रमः एतद्विपरीतमन्यत्र | प्रवृत्त्यवयवोद्भाविनं क्रममथशब्देअ सूचयति | तेनेदमाह (प्रा)धान्येनोत्तराभिमुख्यं दक्षिणस्यामात्मनिवेदनं यथावदितिवृत्तवशात्तादृङ्निबध्यते | यः पूर्वप्रविष्टैः सह संमिलितस्य सर्वबाह्यकक्ष्यायामेवेति तु शब्दस्यार्थः | का खल्विह दक्षिणा दिगित्याह यतोमुखमिति समासः यदपेक्षं भाण्डस्य मुखं सा दिक् पूर्वा | ननु भाण्डस्य मुखं दुर्मानमित्याह द्वारमिति | नेपथ्यग्रहणे गृहस्य यन्मुखद्वारं भाण्डोपादानं तु तस्य प्रतियोजने पूर्वतां प्रकटयति प्राधान्यज्ञापनेन | तेनैवेति पूर्वप्रविष्टपात्रान्तर योगेनेत्यर्थः | प्. २०१) तयोश्चापि प्रविशतोः कक्ष्यामन्यां विनिर्दिशेत् | परिक्रमेण रङ्गस्य त्वन्या कक्ष्या विधीयते || १५ || समैश्च सहितो गच्छेन्नीचैश्च परिवारितः | अथ प्रेषणिकाश्चापि निर्देश्या ह्यग्रतो गतौ) || १६ || सैव भूमिस्तु बहुभिर्विकृष्टा स्यात्परिक्रमैः | मध्या वा संनिकृष्टा वा तेषामेवं विकल्पयेत् || १७ || नगरे वा वने वापि पर्वते सागरेऽपि वा | दिव्यानां गमनं कार्यं वर्षे द्वीपेऽपि वा पुनः || १८ || आकाशेन विमानेन माययाप्यथवा पुनः | विविधाभिः क्रियाभिर्वा नानार्थाभिः प्रयोगतः || १९ || नाटके च्छन्नवेषाणां दिव्यानां भूमिसंचरः | एवं बाह्ये वा मध्यमे वापि तथैवाभ्यन्तर इति विकृष्टं दूरमित्यादि विभजति सैव भूमिरिति विकल्पानां मध्याल्पत्वरचनादिश्च न केवलमल्पत्व बहुत्वकृतमेव | परिक्रमवैचित्यरं यावदन्यदपीति दर्शयति नगरे वेत्यादिना प्रयोगत इत्यन्तेन | प्रयोगो नाट्ये | दिव्यानां देवयोनीनां पिशाचादिब्रह्मान्तानां यन्नगरादिद्वीपादिविषयागमनं तदाकाशेनैव विमानगामिना विमानेन मायया वा अदर्शरूपया अन्याभिर्वा वलादाहरणादिक्रियाभिर्विविधप्रयोजनाभिः कार्यमिति संबन्धः | न च दिव्यानामेष एव प्रकारः किं तु अन्योऽप्यस्तीत्याह नाटक इति | वेपशब्देन न चापादभूतलं वपुर्लक्ष्यते | तेन वरप्रदानाद्यनुग्रहनिमित्ताच्छन्नस्वरूपाणां देवानां मानुषैर्दर्शनं भवति तदा प्. २०२) मानुषैः कारणादेषां यदा भवति दर्शनम् || २० || (भारतेऽप्वथ हैमे वा हरिवर्ष इलावृते | रम्ये किंपुरुषे वापि कुरुषूत्तरकेषु वा) || २१ || दिव्यानां छन्दगमनं सर्ववर्षेषु कीर्तितम् | भारते मानुषाणां तु गमनं संविधीयते || २२ || (विकृष्टं यस्तु गच्छेद्धि देशं कार्यवशान्नरः | अङ्कच्छेदे तमन्यरिमन्निर्दिशेद्धि प्रवेशके || २३ || अह्नः प्रमाणं गत्वा तु कार्यलाभं विनिर्दिशेत् | तथालाभे तु कार्येऽस्या अङ्कच्छेदो विधीयते || २४ || क्षणो मुहूर्तो यामो वा दिवसो वापि नाटके | एकाङ्के संविधातव्यो बीजस्यार्थवशानुगः || २५ || अङ्कच्छेदे तु निर्वृत्तं मासं वा वर्षमेव वा | नाटके प्रयोगे तेषामपि भूमिसंचरः संचरत्यस्मिन् भूमिरेव सञ्चरः | अयं तु देवेषु सामान्यकल्प इत्याह दिव्यानामिति | पुराणेषु त्वयं सामान्यविधिरित्याह भारत इति न त्विलावृतादावित्यर्थः | वर्षं प्रचारार्थमाह प्. २०३) नोर्ध्वं वर्षात्प्रकर्तव्यं कार्यमङ्कसमाश्रयम् || २६ || एवं तु भारते वर्षे कक्ष्याः कार्याः प्रयोगतः | मानुषाणां गतिर्या तु दिव्यानां तु निबोधत) || २७ || हिमवत्पृष्ठसंस्थे तु कैलासे पर्वतोत्तमे | यक्षाश्च गुह्यकाश्चैव धनदानुचराश्च ये || २८ || रक्षोभूतपिशाचाश्च सर्वे हैमवताः स्मृताः | हेमकूटे च गन्धर्वा विज्ञेयाः साप्सरोगणाः || २९ || सर्वे नागाश्च निषधे शेषवासुकितक्षकाः | महामेरौ त्रयस्त्रिंशज्ज्ञेया देवगणा बुधैः || ३० || नीले तु वैडुर्यमये सिद्धा ब्रह्मर्षयस्तथा | दैत्यानां दानवानां च श्वेतपर्वत उच्यते || ३१ || पितरश्चापि विज्ञेयाः शृङ्गवन्तं समाश्रिताः | इत्येते पर्वताः श्रेष्ठा दिव्यावासा भवन्ति हि || ३२ || हैमवता इति हिमवति बाहुल्येनैषां गतिरित्यर्थः एवं सर्वत्र | नील इति अद्रिविशेषे तस्यैव विशेषणं वैडूर्यमये एतच्च कवेः शिक्षार्थम् | दिव्यानां पिशाचादिब्रह्मान्तानामावासः | प्. २०४) तेषां कक्ष्याविभागश्च जम्बूद्वीपे भवेदयम् | तेषां न चेष्टितं कार्यं स्वैः स्वैः कर्मपराक्रमैः || ३३ || परिच् दविशेषस्तु तेषां मानुषलोकवत् | सर्वे भावास्तु देवानां कार्या मानुषसंश्रया || ३४ || तेषां त्वनिमिषत्वं यत्तन्न कार्यं प्रयोक्तृभिः | इह भावा रसाश्चैव दृष्ट्यामेव प्रतिष्ठिताः || ३५ || दृष्ट्या हि सूचितो भावः पश्चादङ्गैविभाव्यते | ननु वर्षान्तरेषु दिव्यपर्वतेषु यदुचितं गमनं तत्कर्तु शक्यमित्याह तेषामिति | चकार इहार्थ जम्बूद्वीप इव दिव्यानामपि कक्ष्याविभागस्थानविशेषोपलक्षिता गतिरित्यर्थः | एतत् स्फुटयति न तेषामिति | परिच्छेदविशेषश्च तदीयः परिचारः स्वाभितो न कार्य इत्यर्थः परिच्छेदो वा ज्ञानं तद्दूरव्यवहितादिविषयं न प्रदर्शनीयम् | कथं तर्हि आह मानुषगत एवेषा सर्वो भावः कार्यः कथं मानुषलोकवत् यथामानुषलोके अंशावतरणे नायकानां रामादीनां किंइदुत्कृष्टं सातिशयं मानुष्योचितमेव चरितं तथैव दिव्यभावबहुवृत्तीनामपीत्यर्थः | न निमपतीत्यनिमिषं रूपं तेषां नैव कार्यम् | तुरवधारणे | अत्र हेतुरिहेति | भावा व्यभिचारिणो रसाः स्थायिनो दृष्टावेवेति स्पष्टयति दृष्ट्यामिति | सूचितः सूचाभिनय एव विभाव्यते विभावादिशेषयुक्तत्वे स्फुटीभवतीत्यर्थः | अत एव न तेषां चेष्टितमित्यनेन साध्योऽप्ययमर्थः पुनरुपात्तः प्राधान्यात् | प्. २०५) एवं कक्ष्याविभागस्तु मया प्रोक्तो द्विजोत्तमाः | पुनश्चैव प्रवक्ष्यामि प्रवृत्तीनां तु लक्षणम् ||) ३६ || चतुर्विधा प्रवृत्तिश्च प्रोक्ता नाट्यप्रयोक्तृभिः | आवन्ती दाक्षिणात्या च पाञ्चाली चोढ्रमागधी || ३७ || अत्राह - प्रवृत्तिरिति कस्मात् ? उच्यते - पृथिव्यां नाना देशवेषभाषाचारा वार्ताः ख्यापयतीति वृत्तिः प्रवृत्तिश्च निवेदने | अत्राह - यथा पृथिव्यां नानादेशाः एवं सर्वोपकारित्वादुद्देशस्य संग्रहे सर्वं पश्चादभिधानं तेनैवं न यद्यपि कक्ष्याविभागः सूचितस्तथापि चारीपरिक्रमप्रसङ्गेन गत्यध्यायानन्तरं दर्शितः | इदानीं त्वाङ्गिकोपयोगिधर्म्यादित्रयमुद्दिष्टं तत्र वृत्तीनामग्रतो निरूपणं भविष्यति तत्र च हेतुः वृत्त्यध्याय (अ २०) एव वक्ष्यामः | यद्यपि धर्मः पूर्वमुद्दिष्टस्तथापि यत्र वार्ता प्रवर्तत इत्यनेन कक्ष्याविभागकल्पितदेशभेदाभिधानप्रसङ्गेन च देशविभागप्रतिपन्नाः प्रवृत्तय आक्षिप्ताः किं च पात्रस्य सति प्रवेशे कक्ष्याविभाग उत्तरद्वारेण दाक्षिणात्यावन्त्योः प्रवेशो अन्ययोस्तु सवेयनेत्येवं प्रवृत्तिविभागं प्रवेशकभेदमाक्षिपति | सोऽपि तत्स्थानेनेदमिति तदुपयोगित्वेनापि समनन्तरं प्रवृत्तयो वक्तव्या इति मनसि कृत्वाह चतुविधेति | प्रवृत्तिः तस्मादित्यर्थः | प्रश्ना इति कस्मादिति चतुष्कप्रशनः अर्थं तावदाह पृथिव्याइति प्रवृत्तिः देशविशेषगता वेषभाषासमाचारवैचित्र्यप्रसिद्धिरुच्यते | तत्रैवं योजना - देशे देशे येष्वेव वेषादयो नैपथ्यं भाषा वा आचारो लोकशास्त्रव्यवहारः वार्ता कृषिपाशुपाल्यादिजीविका इति तान् प्रख्यापयन्ति पृथिव्यादिसर्वलोकविद्याप्रसिद्धिं करोति प्रवृत्तिर्बाह्यार्थे यस्मान्नि- प्. २०६) सन्ति कथमासां चतुर्विधत्वमुपपन्नं समानलक्षणश्चासा प्रयोगः ? उच्यते - तत्तु सत्यं आसां समानलक्षणप्रयोगः | किं तु नानादेशवेषभाषाचारो लोक इति कृत्वा लोकानुमतेन वृत्तिसंश्रितस्य नाट्यस्य मया चतुर्विधत्वमभिहितं भारत्यारभटी सात्त्वती कैशिकी चेति | वेदने निश्शेषेण वेदने ज्ञाने प्रवृत्तिशब्दः | अस्त्येषा भुवने प्रवृत्तिरभवद्रामेण रामस्य यत् इत्यादौ | अथ संख्याप्रश्ने स्वाभिप्रायमाह यदेति | देशा इति | तत्कृत्वापि चतुष्टयी प्रवृत्तिरित्युक्तं न चत्वार एव देशाः | स्यादेतदेव तावत्यस्तावदुक्ता अभ्यधिकास्तु त्यक्ता इत्याशङ्क्याह समानलक्षणत्वात्प्रयोग इत्युच्यते महद्भिरिति शेषः | प्रयोग इति नाट्यम् | चतसृणामेव समानलक्षणानामेतत्प्रवृत्तिचतुष्टयसाधारणस्वभावः सर्वप्रयोगे युष्मन्मते न त्वन्यो व्यवहारः कश्चिद्दर्शितः | तथा च लोभक्रोधमोहैस्तु साधारीकृतजगच्चिन्ताद्याशु प्रदेशः पराक्रियते तथा प्रकृतेऽपि | ननु चतुस्साधारणप्रयोगो नत्वन्योऽत्र प्रविशति व्यवहार इत्येतदुक्तम् | विस्मरणशीलो भवान् न स्मर्यते | उक्तं पूर्वरङ्गान्ते (अध्या-५) इत्येषोऽवन्तिपाञ्चालदाक्षिणात्योढ्रमागधैः | कर्तव्यः पूर्वरङ्गस्त्विति पूर्वरङ्गस्य प्रयोगस्य गर्भाधानीयस्थानीय इत्युक्तम् | तत्रैवाभ्युपगमपूर्वकमुत्तरमाह | तत्तु सत्यमित्यादिना वेपादीनामित्यन्तेन अभ्युपगमदेशादिशब्देन प्रवृत्तिमभिदधता | आसामिति व्याख्यातम् | किंत्वित्यादिनोत्तरमाह | एतदुक्तं भवति - वृत्तिसंश्रितं वृत्तिराश्रितमेतच्चतुर्विधम् | ननु का प्रवृत्तिः प्. २०७) वृत्तिसंश्रितैश्च प्रयोगैरभिहिता देशाः यतः प्रवृत्तिचतुष्टयमभिनिर्वृत्तं प्रयोगश्चोत्पादितः | तत्र दाक्षिणात्यास्तावद्वहुनृत्तगीतवाद्याः कैशिकीप्रायाः चतुरमधुरललिताङ्गाभिनयाश्च | तद्यथा - महेन्द्रो मलयः सह्यो मेकलः पालमञ्जरः | प्रत्येकं तत्रैवाभ्युपगमः प्रवृत्तिः नेत्याह लोकानुगुणानुसारेण | लोको हि दक्षिणापथः पूर्वदेशः पश्चिमदेशः उत्तरभूमिरिति चतुर्धा विभागोऽस्ति न चैष निर्बन्धनः सादृश्यसंभवात् | तथाहि दाक्षिणात्येषु शृङ्गारप्रचुरतया कैशिक्याः संभवः | पश्चिमेष्वावन्त्येव संगृहीतेषु सापि सति धर्मप्राधान्य इति सात्त्वत्यस्ति | प्राच्येषु तु घटाटोपवाक्याडम्बरप्राधान्यो भारत्यारभटीयोगः | उत्तरभूमिः प्राधान्यात्तु भारत्यारभटीयोगेऽपि कैशिकीलेशात्तु प्रवेशसहिष्णवो यद्वक्ष्यते प्रयोगस्त्वल्पगीतार्थ (१३-५१) इति | अर्थशब्देन तत्प्रयोजनं नृत्तवाद्यादि | इत्येवं चित्तवृत्तिभेदसादृश्याल्लोको यश्चतुर्धाविभागः स एवास्मिन्नुक्तः | ननु किमित्ययं संक्षेप आदृतः आह यस्माल्लोको बहुविधभाषाचारादियुक्तः कस्तं प्रतिपदं वक्तुं शक्नुयात् शिक्षितुमभ्यसितुं वा प्रयोक्तुं द्रष्टुं वा चित्तवृत्तिप्रधनं चेदं नाट्यमिति तदेव वक्तुं न्याययम् | एतदेव स्पष्टीकुर्वन्नाह भारतीत्यादिना | प्रयोगे वागङ्गचेष्टासु अभिनिर्वृत्तं लोकप्रसिद्धमि- प्. २०८) एतेषु संश्रिता देशास्ते ज्ञेया दक्षिणापथाः || ३९ || कोसलास्तोसलाश्चैव कलिङ्गा यवनाः खसाः | द्रमिडान्ध्रमहाराष्ट्रा वैण्णा वै वानवासजाः || ४० || दक्षिणस्य समुद्रस्य तथा विन्ध्यस्य चान्तरे | ये देशास्तेषु युञ्जीत दाक्षिणात्यां तु नित्यशः || ४१ || आवन्तिका वैदिशिकाः सौराष्ट्रा मालवास्तथा | सैन्धवास्त्वथ सौवीरा आनर्ताः सार्वुदेयकाः || ४२ || दाशार्णास्त्रिपुराश्चैव तथा वै मार्तिकावताः | कुर्वन्त्यावन्तिकीमेते प्रवृत्तिं नित्यमेव तु || ४३ || त्यर्थः | चकारेण तत इत्याकृष्यते | तल्लोकप्रसिद्धचतुष्टयमवलम्ब्य ब्रह्मणा प्रयोग उत्पादितः | अयं ग्रन्थश्चिरन्तनैर्वृत्तीनां चतुर्ष्वेव दृष्टान्ततामाश्रित्य व्याख्यातः तत्र च वैषम्येण दूषणमुक्तम् वृत्तीनां हि सनिमित्तं चतुर्धादेः प्रवृत्तीनां तस्माच्चतुष्टमात्रेण दृष्टान्तोऽयमिति व्याख्यानेषु गजस्नानीयमानयनेनालूनविशीर्णः कृत इत्यास्तां तावत् | कैशिकी प्रायेणास्यामिति बहुव्रीहिः | असामानाधिकरण्यात्सामानाधिकरण्येऽपि वा समानायामाकृतौ भाषितपुंस्त्वाभावान्न पुंवद्भावः | कैशैर्निर्वृत्तात्तेषु भवेदित्यादिर्व्युत्पत्तिर्निमित्तमात्रम् | एतचा वक्ष्यामः संक्षेपेण (अध्या-२०) | दक्षिणसमुद्रस्य विन्ध्यस्य च मध्ये ये देशास्तेषु दाक्षिणात्या | एतेनैव सिद्धे सति देशभेदानां प्रतिपाठस्तदन्तरालानां पर्वत- प्. २०९) सात्त्वतीं कैशिकीं चैव वृत्तिमेषां समाश्रिताः | भवेत्प्रयोगो नान्यत्र स तु कार्यः प्रयोक्तृभिः || ४४ || अङ्गा वङ्गाः कलिङ्गाश्च वत्साश्चैवोढ्रमागधाः | पौण्ड्रनेपालकाश्चैव अन्तर्गिरबहिर्गिराः || ४५ || तथा प्लवङ्गमा ज्ञेया मलदा मल्लवर्तकाः | ब्रह्मोत्तरप्रभृतयो भार्गवा मार्गवास्तथा || ४६ || प्राग्ज्योतिषाः पुलिन्दाश्च वैदेहास्तामलिप्तकाः | प्राङ्गाः प्रावृतयश्चैव युञ्जन्तीहोढ्रमागधीम् || ४७ || अन्येऽपि देशाः प्राच्या ये पुराणे संप्रकीर्तिताः | तेषु प्रयुज्यते ह्येषा प्रवृत्तिश्चोढमागधी || ४८ || पाञ्चालाः शौरसेनाश्च काश्मीरा हास्तिनापुराः | बाह्लीकाः शाकलाश्चैव मद्रकौशीनरास्तथा || ४९ || हिमवत्संश्रिता ये तु गङ्गायाश्चोत्तरां दिशम् | कच्छादिम्लेच्छानां निषेधेन प्रसिद्ध्या देशोपसंग्रहणार्थः कवीनाम् | एवमुत्तरत्र | नित्यानित्यमिति | अनादिरयं देशभेदेन चित्तवृत्तिक्रमः | दृष्टो हि वस्त्राभरणात्मना देशभेदोचितः स्वभावभेदः | बाहुल्येनेति नात्र भविष्यति प्रमाणाभावादित्यादिना शुष्कतर्केणासूचितव्यमिति भावः | एषेति अवन्तिप्राग्ज्योतिषकामरूपीया | पुराण इत्यागापूर्वकत्वमाह | तुरुष्काश्चारट्टकदरक- प्. २१०) ये श्रिता वै जनपदास्तेषु पाञ्चालाध्यमा || ५० || पाञ्चालमध्यमायां तु सात्त्वत्यारभटी स्मृता | प्रयोगस्त्वल्पगीतार्थ आविद्धगतिविक्रमः || ५१ || द्विधा क्रिया भवत्यासां रङ्गपीठपरिक्रमे | प्रदक्षिणप्रवेशा च तथा चैवाप्रदक्षिणा || ५२ || आवन्ती दाक्षिणात्या च प्रदक्षिणपरिक्रमे | अपसव्यप्रवेशा तु पाञ्चाली चोढ्रमागधी || ५३ || आवन्त्यां दाक्षिणात्यायां पार्श्वद्वारमथोत्तरम् | पाञ्चाल्यामोढ्रमागध्यां योज्यं द्वारं तु दक्षिणम् || ५४ || खसप्रभृतयः मधमायामेव प्रविष्टाः ते तु व्यवहारबहिष्कृतत्वात् स्वकण्ठेन न पठिताः | अल्पगीतार्थ इति लेशतः कैशिकीमनुजानाति | तत्र प्राग्देशानां सीमात्वेन दक्षिणत उढ्राः समुद्रनिकटे उत्तरतो मागधाः तदुभयमध्यार्तित्वादौढ्रमागधी अत ऐवोढ्रकलिङ्गानामुभयोपजीवित्वाभिप्रायेण वृत्तिद्वयमध्ये गणनम् | गिरीणामन्तर्ये भवास्तेऽन्तर्गिराः गिरेश्च सेनक स्येति समासान्ते मत्वर्थीये वाचि रूपम् | दक्षिणोत्तरव्यतिरेकेण परिक्रमणस्थानाभावात् नैक्ऽत्याद् द्वे प्रवृत्ती एकीकृत्य प्रयोगाभिधानम् | तत्र दाक्षिणात्य उत्तरेण द्वारेण प्रविश्य पश्चिमायां दिशि परिक्रम्य ततोऽपि दक्षिणस्यां ततः पूर्वस्यां ततः उत्तरस्यां परिक्रमेत् | परिक्रम्य च तस्यामेव दिश्यात्मनिवेदनं कुर्यात् | तदुक्तं दक्षिणाभिमुख इति | तत उत्तरस्यां पूर्वां ततोऽपि दक्षिणां ततः पश्चिमां प्राप्योत्तरद्वारेणैव निष्क्रामेत् | एवं सात्त्वत्यादौ तद्विपर्ययेण पाञ्चाली | प्. २११) एकीभूताः पुनश्चैताः प्रयोक्तव्याः प्रयोक्तृभिः | पर्षदं देशकालौ चाप्यर्थयुक्तिमवेक्ष्य च || ५५ || येषु देशेषु या कार्या प्रवृत्तिः परिकीर्तिता | तद्वृत्तिकानि रूपाणि तेषु तज्ज्ञः प्रयोजयेत् || ५६ || एकीभूताः पुनस्त्वेताः नाटकादौ भवन्ति हि | अवेक्ष्य वृत्तिबाहुल्यं तत्तत्कर्म समाचरेत् || ५७ || तदस्या दक्षिणद्वारेण प्रवेशो निष्क्रमणं च प्रदक्षिणेन दक्षिणदिशा प्रवेशोऽभ्यन्तरकक्ष्याव्यवस्थितपात्रनिकट एवेति स्यात् | एवमपसव्यप्रवेश इति | विशेषान्तरमाह एकीभूता इति | (पार्षदमिति) परिपदि स्वामित्वकृतं वा प्राधान्यं देशकृतं कालकृतं प्रयोजनकृतं बहुतरपात्रपरीक्षायातोचितं यद्वैचित्र्यकृतमिदमवेक्ष्य सङ्करोऽपि कर्तव्यः तदाह एकीभूता इति प्रधानानुयायिन्य एवेत्यर्थः | एवं प्रयोक्तरि परिक्रमोपयोगः | प्रवृत्तिनां प्रत्येकविषयेऽपि तं दर्शयन्नाह येषु देशेष्वित्यादि (या) प्रवृत्तिरित्यर्थः सा वृत्तिर्येषु रूपकेषु | तेन तेन काश्मीरकनायक देशे नाटिकानुचिता (?) तस्यां कैशिकीप्राधान्येन दाक्षिणात्योचितत्वात् | देशादौचित्ये तच्चेष्टितव्यावर्तनेन प्रतीतिविघाताद्रसमयत्वाभावः | रसाश्च नाट्यस्य प्राणाः व्युत्पत्तिरपि वा परेव भवेत् असत्यताशङ्का च समूलघातं विहन्यादेव प्रयोगमित्यनेनाभिप्रायेणाह तद्वृत्तिकानीति | येषु देशेषु यो वृत्तिप्रकार उक्तः स येषु रूपकेषु नाटकादीनामन्यतमेषु भवति तानि रूपाणि तेष्विति तद्देशगतनायकप्राधान्येन कर्तव्यं कविना नाटकेन च नाट्यशब्दवाच्यस्य प्रयोगस्याश्रयः | नाटकशब्दोऽत्र न रूपकविशेषे अपि तु नाट्य एव | यथा - प्. २१२) (सार्थे बाहुल्यमेकस्य शेषाणामथ बुद्धिमान् | येषामन्यस्य बाहुल्यं प्रवृत्तिं पूरयेत्तथा) || ५८ || प्रयोगो द्विविधश्चैव विज्ञेयो नाटकाश्रयः | सुकुमारस्तथाविद्धो नाट्ययुक्तिसमाश्रयः || ५९ || यत्त्वाविद्धाङ्गहारं तु छेद्यभेद्याहवात्मकम् | मायेन्द्रजालबहुलं पुस्तनैपथ्यसंयुतम् || ६० || पुरुषैर्बहुभिर्युक्तमल्पस्त्रीकं तथैव च | सात्त्वत्यारभटीप्रायं नाट्यमाविद्धमेव तत् || ६१ || डिमः समवकारश्च व्यायोगेहामृगौ तथा | एतान्याविद्धसंज्ञानि विज्ञेयानि प्रयोक्तृभिः || ६२ || हास्यस्थानानि यानि स्युः कार्योत्पन्नानि नाटके | (अ-२२) इत्यत्र नाटक उन्नयति प्रेक्षकान् संवेशेन व्युत्पत्त्या च तथा तद्भावानुप्रवेशेन प्रयोक्तृनिति | नाटकं कृताविति पाठे गात्राणि विक्षिप्यन्ते अभिनयप्रयोगायास्मादिति संज्ञाकाले | अन्ये तु नटशब्दं कठादिवच्चरणादिच्छन्तो नटाना कर्मश्लाघ्यमिति गोत्रचरणाच्च श्लोघादिविशेषणत्वाद् वुञित्याहुः (पा-५- १.१३४) लौकिकं च लिङ्गमिति नैवं शङ्कितव्यमेतद् वुञू तस्यैकान्तिकं स्त्रीत्वमिति | आविद्ध उत्कटः अङ्गानां हारो हरणं यत्र | छेदेन भेदेन प्रधानः आहवः संग्रामः आह्वयन्ते परस्परं वीरा यत्रेति | मायामन्त्रौपधादिकृतं रूपपरिवर्तनादि (इन्द्र) जालः हस्तलाघवसादृश्यादिकृतं पुस्तं द्रुमृण्मयमाकृत्यादि | तथैव च आविद्धं (आविद्धं?) स्त्रीकर्मरूपाणां स्वरूपं स्वक्षेत्र एव वक्ष्यामः | शौर्यमभीरुत्वं प्. २१३) एषां प्रायोगः कर्तव्यो देवदानवराक्षसैः | उद्धता ये च पुरुषाः शौर्यवीर्यबलान्विताः || ६३ || नाटकं सप्रकरणं भाणो वीथ्यङ्क एव च | सुकुमारप्रयोगाणि मानुष्षाश्रितानि तु || ६४ || अथ बाह्यप्रयोगे तु प्रेक्षागृहविवर्जिते | विदिक्ष्वपि भवेद्रङ्गं कदाचिद्भर्तुराज्ञया || ६५ || पृष्ठे कृत्वा कुतपं नाट्यं युक्ते यतो मुखं भरतः | सा पूर्वा मन्तव्या प्रयोगकालेन नाट्यज्ञः || ६६ || द्वाराणिषट्चैव भवन्तिचात्ररङ्गस्य दिग्भाण्डविनिश्चितानि नाट्यप्रयोगेन खलु प्रवेशे प्राच्यांप्रतीच्यां च दिशिप्रवेशः वीर्यमुत्साहः वलं कायधर्मः पराक्रमः | मानुषेष्विति बाहुल्यापेक्षमेतत् | एवं चत्वारि भिन्नानि डिमाद्युद्धतानि वर्गसुकुमाराणि नाटकादीनि | एवमन्तरङ्गोपकारित्वात्कक्ष्यामाधारमुक्त्वा तदाक्षिप्तं च वृत्तिभेदमभिधाय धर्मा निरूप्यन्ते | तथा हि लोकस्वभावमेवानुवर्तमानं धर्मीद्वयम् | लोको नाम जनपदवासी जनः स च प्रवृत्तिक्रमेण प्रपञ्चितः | तत्प्रसङ्गेनैव तावद्धर्म्यायाता | सा चाङ्गिकशेषतया वक्तव्या | प्रसङ्गाच्च वाचिकाहार्यादिविषयाण्यच्यन्ते तुल्यलक्षणत्वादिति | सा च द्वेधा | यद्यपि लौकिकधर्मव्यतिरेकेण नाट्ये न कश्चिद्धर्मोऽस्ति तथापि स यत्र लोकागतप्रक्रियाक्रमो रञ्जनाधिक्यप्राधान्यमधिरोहयितुं कविनटव्यापारे वैचित्र्यं स्वीकुर्वन् नाट्यधर्मीत्युच्यते | प्. २१४) विधानमुत्क्रम्य यथात्ररङ्गे विना प्रमाणाद्विदिशः प्रयोगे | द्वारं तु यस्मात्समृदङ्गभाण्डं प्राचीं दिशं तां मनसाध्यवस्येत् || ६८ | वयोऽनुरूपः प्रथमं तु वेषो वेषानुरूपश्च गतिप्रचारः | गतिप्रचारानुगतं च पाठ्यं पाठ्यानुरूपोऽभिनयश्च कार्यः) धर्मी या द्विविधा प्रोक्ता मया पूर्वं द्विजोत्तमाः | लौकिकी नाट्यधर्मी च तयोर्वक्ष्यामि लक्षणम् || ७० || स्वभावभावोपगतं शुद्धं तु विकृतं तथा | लोकवार्ताक्रियोपेतमङ्गलीलाविवर्जितम् || ७१ || स्वभावाभिनयोपेतं नानास्त्रीपुरुषाश्रयम् | यदीदृशं भेवेन्नाट्यं लोकधर्मी तु सा स्मृता || ७२ || तदेतदाह धर्मी या द्विविधेति | प्रोक्ता उद्दिष्टेत्यर्थः | पूर्वमिति रसा भावा इत्यादिसंग्रहविभागावसरे (अ ६-१०) लौकिकस्य धर्मस्य मूलभूतत्वान्नाट्यधर्मं वैचित्र्योल्लेख्यभित्तिस्थानत्वादिति लोकधर्मीमेव लक्षयति स्वभावभावोपगतमित्यादि | काचित्तद्विपया धर्मी काचिन्नटविषया | यो यस्य स्वभावतो भावः स्यात् स्थायिव्यभिचार्यादिः तेनोपेतम् | कथमधिकृतत्वादित्याह (शुद्धमिति) | शुद्धत्वात् स्वविकल्पितेन व्यामिश्रत्वात् तथेति शुद्धं कृत्वा | लोकवार्ता लोकप्रसिद्धिः तस्यां या क्रिया व्यवहारो वृत्तान्तस्तया शुद्धमेव कृत्वा युक्तं यन्नाट्यं नटनीयं कार्यं सा लोकधर्मी धर्म्यास्तद्वतश्चाभेदोपचारात्सामानाधिकरण्यम् | अङ्गलीलया वर्तनादिकया वर्जितं कृत्वा | स्वभाववलपतनप्रहारनादावसरविवादादाविव पताकादिना योऽभि- प्. २१५) अतिवाक्यक्रियोपेतमतिसत्त्वातिभावकम् | लीलाङ्गहाराभिनयं नाट्यलक्षणलक्षितम् || ७३ || स्वरालङ्कारसंयुक्तमस्वस्थपुरुषाश्रयम् | नयस्तेनोपेतम् | नानात्वेन च स्त्रीपुंसोः स्त्रियां प्रयोज्यायां योषिदेव प्रयोक्त्रीपुरुषे तु पुरुष इत्येवंभूतं यन्नाभ्यस्तचेष्टितं सा लोकधर्मी तद्धर्मव्यपदेशात् यदि वा समुदायरूपस्य काव्यं ताभ्यां मनसो एकदेशभूता धर्मी | एतदुक्तं भवति - यदा कविर्यथावृत्तवस्तुमात्रं वर्णयति नटश्च प्रयुङ्क्ते न तु स्वबुद्धिकृतं रञ्जनावैचित्र्यं तत्रानुप्रवेशयंस्तदा तावान् स काव्यभागः प्रयोगभागश्च लोकधर्माश्रयः तत्र धर्मी | अर्थाभिनये सहकारिरूपा इतिकर्तव्यतारूपा वेति दशशततमादितरत्र प्रवेशानाह शून्यतायाम् (?) | काव्यनाट्ययोर्हि लोकानुसारित्वं वा वैचित्र्ययोगित्वं वा धर्मः | तत्र किमेतद्भावमुद्भावमुच्यते तदास्तामेतत् | अथ नाट्यधर्मी लक्षयति अतिवाक्यक्रियोपेतमिति | इतिहासादिवाक्यमतिक्रम्य या उचितरञ्जकेतिवृत्तकल्पनात्मिका क्रिया | राजशेखरेण रामनिर्वासना दशरथवेपराक्षसविरचिततत्त्वकल्पना तया यदुपेतं भावसत्त्वं स्वभावचित्तवृत्तिमतिक्रम्य यत्स्थितं कविकल्पितचित्तवृत्त्यन्तरयुक्तमित्यर्थः | यथा स्वभावचपलविदूषकचित्तवृत्त्यतिक्रमात् यथा तापसवत्सराजे मन्त्रिसमुचितगाम्भीर्यावहित्थयोजनं वसन्तकस्य तथा स्वभावभाषितमतिक्रम्य यत्स्थितं यथाराज्ञ्याः संस्कृतम् | एवंभूतं काव्यं काव्यगतनाट्यधर्मी नटगता तु नाट्यलक्षणलक्षितं कृत्वा लीलया शोभाप्रधानतया अङ्गहाराणि मनोहराणि तत्प्रधानैरभिनयैः उपेतं तथापाठे स्वरालङ्कारसंयोजनया युक्तं यत्र च पुरुषो न स्वरूपे तिष्ठति अपि तु स्त्रीवलमाश्रयति प्रयोज्यः पुरुषो यत्र न स्वरूपस्थः प्. २१६) यदीदृशं भवेन्नाट्यं नाट्यधर्मी तु सा स्मृता || ७४ || लोके यदभियोज्यं च पदमत्रोपयुज्यते | मूर्तिमत्साभिलापं च नाट्यधर्मी तु सा स्मृता || ७५ || आसन्नोक्तं च यद्वाक्यं न शृण्वन्ति परस्परम् | अनुक्तं श्रूयते यच्च नाट्यधर्मी तु सा स्मृता || ७६ || शैलयानविमानानि चर्मवर्मायुधध्वजाः | मूर्तिमन्तः प्रयुज्यन्ते नाट्यधर्मी तु सा स्मृता || ७७ || (य एकां भूमिकां कृत्वा कुर्वीतैकान्तरेऽपराम् | कौशल्यादेककत्वाद्वा नाट्यधर्मीति सा स्मृता || ७८ || अपि तु स्त्रिया प्रयुज्यते तन्नटधर्मी | भवेदित्यनेन संभावनामाचक्षाण इदमाह नैवेदं समयमात्रं निष्ठमिति वक्तव्यं अपि तु संभाव्यमानमेव | सद्रज्जनोपयोगि वस्तूपयोगि च न ह्यासन्नवचनस्यापि अश्रवणमन्यैरप्यश्रूयमाणस्य च श्रवणं लोकेऽपि कदाचन न भवति | केवलं तन्त्रे तत्सौन्दर्यार्थमानीयते | यथोक्तमुपाध्यायैः - यदत्रास्ति न तत्रास्य कवेर्वर्णनमर्हति | यनासंभवि तत्र स्यात्सम्भवयत्र तु धर्मनः || अत्र नियमहेतुः सौमनस्यं तत्र नाट्यधर्मव्यापकत्वं बहुतरोदाहरणनिदर्शनदिशा दर्शयितुमाह लोके यदिति अभियोज्यं क्रियासु पदं मूर्तत्वात् केवलं साभिलाषं लोकेऽपि कलाशिल्पकल्पनाकलितवपुस्तदपि मूर्तिसंपादनेन प्रयुज्यते प्रयोगः क्रियते | यथा मायापुष्पके ततः प्रविशति ब्रह्मशाप इति | शृण्वन्ति जनान्तिकापवारितकयोः | अनुक्तं श्रूयते आकाशभाषितं च गतादावाकाशादौ | मूर्तिमन्त इति प्रक्रिया तु कर्म कायवत्प्रयुज्यन्त इत्यर्थः | तद्यथा - अग्रे पर्वत एष कथमत्र गन्तव्यम् इत्यादि | चर्म खेटकं वसुनन्दादि प्. २१७) यागम्या प्रमदा भूत्वा गम्या भूमिषु युज्यते | गम्या भूमिष्वगम्या वा नाट्यधर्मी तु सा स्मृता || ७९ || ललितैरङ्गविन्यासैस्तथोत्क्षिप्तपदक्रमैः | नृत्यते गम्यते चापि नाट्यधर्मी तु सा स्मृता || ८० || योऽयं स्वभावो लोकस्य सुखदुःखक्रियात्मकः | सोऽङ्गाभिनयसंयुक्तो नाट्यधर्मी प्रकीर्तिता || ८१ || यश्चेतिहासवेदार्थो ब्रह्मणा समुदाहृतः | दिव्यमानुषरत्यर्थं नाट्यधर्मी तु सा स्मृता || ८२ || यश्च कक्ष्याविभागोऽयं नानाविधिसमाश्रितः | रङ्गपीठगतः प्रोक्तो नाट्यधर्मी तु सा भवेत् || ८३ || नाट्यधर्मीप्रवृत्तं हि सदा नाट्यं प्रयोजयेत् | अपूर्णरूपं दारुवस्त्रचित्रादिरूपतया प्रयुज्यते | ललितैरिति आवेष्टितादिचतुर्विधकरणोपगृहीतवर्तनाप्रवर्तितैः | उत्क्षिप्तानि चतुस्तालादिना (अ. ९-२७३-२८९) यानि पदानि तेषां क्रमात्कालविभागाश्चतुष्कलत्वादयः | च शब्द इवशब्दार्थः | नृत्यत इव यद्गम्यते नृत्तसदृशी विशाखा सा या गतिरित्यर्थः तद्भावे लटौ | एतत्प्राणितमेव नाट्यमित्याह योऽयं स्वभाव इति | अङ्गैरातोद्यादिभिरभिनयैश्च यदुपेतत्वं लोकस्वभावस्य नाट्यधर्मी लोकस्वभावत्वानुभावविलासोपेतत्वं विधायकस्य नाट्यधर्मीत्वं विधानमिति प्रथमाध्याये (१-११८) श्लोकाद्भिन्नार्थ एवायं तत्र नाट्यलक्षणपरो वाक्यार्थ इति विवृतं चैतत्तत्रैवाध्याये | प्रसङ्गोपयोगेन सर्वाभिनयप्रकारसारा नाट्यधर्म्यभिहिता तां दर्शयति यश्चेति | चकारः प्रसङ्गं द्योतयति | प्रोक्त इति समनन्तरमेव | व्यापकत्वमेव नाट्यधर्म्या उपसंहरति (नाट्यधर्मीत्यादिना) उपदेशद्वारेण नाट्यधर्मीप्रवृत्ता गतिः | अत्र प्. २१८) न ह्यगाभिनयात्किञ्चिदृते रागः प्रवर्तते || ८४ || सर्वस्य सहजो भावः सर्वो ह्यभिनयोऽर्थतः | अङ्गालङ्कारचेष्टा तु नाट्यधर्मी प्रकीर्तिता || ८५ || एवं कक्ष्याविभागस्तु धर्मी युक्तय एव च | विज्ञेया नाट्यतत्त्वज्ञैः प्रयोक्तव्याश्च तत्त्वतः || ८६ || उक्तो मयेहाभिनयो यथावच्छाखाकृतो यस्तुकृतोऽङ्गहारैः हेतुः न ह्यङ्गाभिनयादिति | अङ्गानि च गीतातोद्यादीन्यभिनयाश्चेति द्वन्द्वसमाहारः | राग इति सामाजिकप्रीतिः | नाट्यधर्म्या यदि व्यापकत्वाल्लोकस्वभावभाविन्या न प्रयोजनमुक्तयेत्याशंक्याह सर्वस्य सहज इति | हि शब्दो हेतुमद्भावं द्योतयति | तदयमर्थः - यस्मात्कविगता नाट्यगता वागङ्गालङ्कारनिष्ठां नाट्यधर्मीरूपा सर्वप्राणवती अर्थत इति अर्थमपेक्ष्य प्रवर्तते अभिनयश्च सर्वाभिनेयमर्थमपेक्ष्य प्रवर्तते तस्मात्सर्वस्य संबन्धी सहजो भावो लोकधर्मलक्षण उक्तो भित्तिस्थानियत्वेन नाट्यधर्म्या सहजसंवादिकर्मणः | अङ्गं वर्तनारूपं गुणलक्षणानि च अलङ्कारचेष्टा अलङ्कारा उपमादयश्च | अध्यायार्थमुपसंहरति एवं कक्ष्याविभागस्त्विति | धर्मी ह्येकवचनं नाट्यधर्म्या अत्र प्राधान्यादन्यस्यास्तत्रैव मग्नत्वात् | युक्तय इति प्रवृत्तयः अथोपसंहारे च प्रयोजनं धर्मयादयो उपकरणभूताः तेषामल्पबाहुल्यविरचितक्रमाभिधानं योजयित्वेति र्पतिपादनमध्यायार्थप्रकरणप्रस्तावे च प्रथमेन योजयति | अन्येन च भाविप्रकरणार्थमासूत्रयति उक्तो मयेहाभिनय इति स मयेत्यात्मज्ञानोत्कर्षणं व्युत्पत्तिं शिष्याणामुत्पादयति |यद्यप्यस्य शाखानृत्तं (करवर्तना) चाङ्गहारश्च वस्तुनीत्युक्तं तथापि भावाध्याये सात्त्विकप्रसङ्गेन (७-१४३) अङ्कुरस्याभिहितत्वात् सामान्याभिनये च (अ २२-४१) तदुक्तं वक्तव्यशेषस्य वक्ष्यमाणत्वादाङ्गिकाभिनयोपसंहारादेवोपसंहरति | वाक्य- प्. २१९) पुनश्च वाक्याभिनयं यथावद्वक्ष्ये स्वरव्यञ्जनवर्णयुक्तम् || इति भारतीये नाट्यशास्त्रे कक्ष्याप्रवृत्तिधर्मीव्यञ्जको नाम त्रयोदशोऽध्यायः | मेवाभिनयः तत्त्वतश्च धर्मी अभिनयो वाक्यं हास्यादौ यद्यपि वाक्याभिनय उक्तस्तथापि सत्युक्तस्वरूपमभिनेयमिति तथाह यथावदिति अत एव पुनरुक्तम् | स्वराः अचः व्यञ्जनानि हलः वर्णा अज्झल्समुदाया इति शिवम् | शीतांशुमण्डलकशेखरपादपद्म- किञ्जल्कपूगपरिपूतशिरोरुहेण | वृत्तिः कृताभिनवगुप्तपदाभिधेन कक्ष्याङ्कचित्रतललक्षणवर्णनेऽस्मिन् || इति श्रीमन्महामाहेश्वराचार्याभिनवगुप्ताचार्यविरचितायां नाट्यवेदविवृतावभिनवभारत्यां कक्ष्यावृत्तिधर्म्यभिधानं नाम त्रयोदशोऽध्यायः || नाट्यशास्त्रम् चतुर्दशोऽध्यायः यो वागभिनयः पूर्वं मया प्रोक्तो द्विजोत्तमाः | लक्षणं तस्य वक्ष्यामि स्वरव्यञ्जनसंभवम् || १ || वाचि यत्नस्तु कर्तव्यो नाट्यस्यैषा तनुः स्मृता | अङ्गनैपथ्यसत्त्वानि वाक्यार्थं व्यञ्जयन्ति हि || २ || अथ चतुर्दशोऽध्यायः | द्विधास्थितं सद्म सदाविभक्तं विश्वान्पदार्थान् समुपाददानम् | पाणीन्द्रियं संव्यवहारहेतु यस्येश्वरं तं वरदं नमामः || आङ्किकाभिनयानन्तरं वाचिकस्य भेदं नाट्यानुप्राणकतया पूर्वोद्दिष्टाङ्गिकस्य विषयसमर्पणप्राणत्वाच्च वाचिको लक्षणीय इत्येवंभूतामध्यायसङ्गतिं करोति यो वागभिनय इति | वागेवाभिनयः वाचिकाभिनयः | पूर्वमिति षष्ठेऽध्याये स निरूप्यते तत्त्वेन चास्याभिधानप्राधान्यात् | अत्र हेतुमाह वाचि यत्रस्तु कर्तव्य इति कविना निर्माणकाले नटेन प्रयोगकाले | कुत इत्याह (नाट्यस्यैषेति) एषा हि तनुर्नाट्यस्य सकलप्रयोगभित्तिभूतत्वेनातोद्य- प्. २२१) गीताभिनयानुग्राहक्तवात् स्वयमभिनयरूपत्वाच्च | प्रदर्शितं चैतदस्माभिरुपाङ्गाभिनयारम्भ एव (अध्या-८) | यत्तु कैश्चिदभिधीयते चित्तवृत्तिं प्रति शब्दानां बहिरङ्गत्वं तदसत् | तथा हि यदुच्यते व्यतिरेकाभावान्न रसादयः शब्दवाच्या इति तत्र सर्वैः शब्दैर्व्यतिरेकाभावोऽसिद्धः अभिनयचतुष्टयसामान्यं वहिः सर्वत्र प्रतीतिस्फुटतायां व्याप्रियत इत्यवोचाम सप्तमेऽध्याये | अथ शृङ्गारादिशब्दानां वाचिकानामभावेऽपि तत्प्रतिपत्तिः | परिणतशरकाण्डापाण्डुरा गण्डपाली हिमसमयनिमीलत्पुण्डरीकायमाणम् | नयनमधरबिम्बं श्वासविश्रान्तितान्तं तव सुतनु तनोति प्राणितं मन्मथस्य || इत्यादावयमेव च व्यतिएकाभावः | तदप्यसत् | एतावतापि हि वृश्चिकादिवत् निमित्तान्तरमपि तत्प्रतीतौ सुवचम् | वृश्चिकोऽन्यो गमयजोऽन्य एव वृश्चिकप्रभव इति चेदिहापि तत्समानम् | न हि शृङ्गारशब्दे यादृशी प्रतीतिस्तादृश्येवान्यतः न च न भवति शृङ्गारशबात्तत्प्रतीतिः शृङ्गारहास्येति | (६-१६) श्लोकस्य काकवाशितदेशीयतापत्तेः | यथासंकेतं हि शब्दात्प्रवर्तमानात्सिद्धं साध्यं चाभिधातुं केन प्रतिहन्यत इति साध्यनामकापि बिभीषिका | किंचेदमपि शृङ्गारायते हसति करुणायते इत्यादि साध्यशब्दशब्दनीयत्वं प्रति किं वक्तव्यं स्यात् अवश्यं चैतत् अन्यथा याते द्वारवतीं इत्यादौ प्. २२२) सोत्कण्ठयेति उत्कमिति चानुवादो विफल एव स्यात् तद्रूपास्पर्शे तदनुभावसमाकर्षणस्याप्ययोगात् | स्थायिव्यभिचारिणां च भेदप्रतीतौ - यान्त्या तया वलितकन्धरमानतं त- दावृत्तवृन्तशतपत्रनिभं वहन्त्या | दिग्धोऽमृतेन च विषेण च पक्ष्मलाक्ष्या गाढं निखात इव मे हृदये कटाक्षः || (मालती १-३२) इत्यादावनुभावप्रत्ययोऽपि दुर्लभीभवेत् का कथा रसस्य वलितावृत्तदिग्धनिखातादीनां कटाक्षशब्दे जीवभूतानां क्रियासु प्रतिपत्तेरभावात् | लीनेव प्रतिबिम्बितेव लिखितेव इत्यादावेषैव वार्ता | तथा सहासरभसव्यावृत्तकण्ठग्रहं वपुरलसलसद्वाहु लक्ष्म्याः कतिचिदहानि वपुरभूत्केवलमलसेक्षणं तस्याः || रम्याणि वीक्ष्य मधुराणि निशम्य शब्दान् पर्युत्सुको भवति यत्सुखितोऽपि जन्तुः | तच्चेतसा स्मरति नूनमबोधपूर्व भावस्थिराणि जननान्तरसौहृदानि || शाकु (५-२) प्. २२३) निद्रानिमीलितदृशो मदमन्थरायाः विवृण्वती शैलसुतापि भावमङ्गैः इत्यादिकाव्येषु सहृदयहृदयसागरसमुच्चलद्राकामृगाङ्कप्रतिबिम्बेषु जीवितभूतानां हासालस्यौत्सुक्यनिद्रामदागमाभिलाषागमादीनां शब्दास्पृष्टस्वेन विभावानुत्साध्यस्वभावे वीतरागतेव वक्रकाकक्रीडाकल्पनैव स्यात् | सिद्धस्वभावानामेव पदैरभिधीयते तत्र भवनमिति तदनुभवतीति तत्साध्यस्वभावतेति चेत् अन्यतरधर्ममुखेन क्रियाख्यस्य धर्मिणो द्वाभ्यामपि यथासङ्केतस्पर्शाद् द्वितीयधर्मास्पर्शस्योभयोरपि तुल्यत्वात् साध्यतार्थं क्रियाया जीवितमिति चेत् धर्मद्वयवति धर्मिणि क एषोऽन्यतरधर्मपक्षपातः न च सिद्धताधर्मोऽस्या नास्ति तथात्वे वा कदाचिदपि कूलदर्शनं न स्यात् | भवनमिति वारोपितगौणीप्रतिपत्तिः स्यात् | सापि वलादारोपस्थानस्य चानीतस्यैव केनापि शब्देनास्पृष्टत्वात् तस्मात्सिद्धाभिधायिना वा शृङ्गारादिशब्देन स्पृश्यत एव तदर्थः | न तु सर्वो *?य विकविरित्यतिप्रसङ्गलक्ष्यमाणप्रबन्धवन्धुरं काव्यनिर्मातृत्वं हि कवित्त्वं न चित्तवृत्ति प्रतिपादकत्वम् | यत्तु शृङ्गार्दादिशब्दाद्यवधिर्न प्रतीरिच्युच्यते तत्र सङ्केत स्मृतिं मुक्त्वा नान्यद्व्यवधानं विद्मः विततलक्षणपौर्वापर्यं विपाकोऽयमिति सङ्केतग्रहणे किं तथा प्रतीतिः | एतेनान्वयाभावः प्रत्युक्तः | विभावादिभ्योऽपि पूर्णकाव्यप्रक्रिया परिगतमन्तरेण न रसादयः | (यथा) उद्याने तु स्थितावेतावन्योन्यं ददतौ दृशम् | मध्येभुवं लिखन्तौ च प्राप्य सङ्गमसङ्गतौ || इति तस्मादपूर्णत्वे तुल्योऽन्वयाभावः | तासां तु - सिद्ध एव | यत्तुपाध्यायैः काव्यकौतुके रसोद्देशपरश्लोके - इत्यादिनिरूपितं तदुक्तान्यार्थतयैव न गृहीतव्यम् | प्. २२४) वाङ्मयानीह शास्त्राणि वाङ्निष्ठानि तथैव च | तस्माद्वाचः परं नास्ति वाग्घि सर्वस्य कारणम् || ३ || नामाख्यातनिपातोपसर्गतद्धितसमासनिर्वर्त्यः | सन्धिविभक्तिनियुक्तो विज्ञेयो वाचिकाभिनयः || ४ || नन्वेवं रससूत्रे शब्दोऽप्युपादातव्यः ? | तदिदमायातं - उत्सङ्गसङ्गिनि वालके तदन्वेषणमिति | अत्र भावोपादाने हि किं न संगृहीतम् यदयमनुभावयति वागङ्गसत्त्वकृत इति (७-७) | आवृत्या च वागित्यत्रैव छेदः | तद्यदि वाग्भवति तदेतान्यर्थं व्यज्जयन्ति वाक्सहितानि स्वार्थं त्यज्जयन्ति एकतस्त्र्यात्मकतश्च वागिति समसयोगेनाह | सैवेयमुपयोगिनी किंतु चतुर्थगोपायभूता परमपुरुषार्थस्वभावा विश्व कारणभूता भगवती भारतीत्याह वाङ्मयानीति वाचि फलरूपायां निष्ठा येषाम् | कुत इत्याह वा | इह भावानां सत्तासंबन्धनिजलक्षणार्थक्रियाकारित्वादिकृतं यत्सत्त्वं तत्प्रधानकबोधत्वभूतं शपथशरणं तस्य बोधस्य पारमैश्वर्यं स्वातन्त्र्यं प्रत्यवमर्शात्मकमेव जडवैलक्षण्यदायीति विभक्तमस्मत्परमगुरुपादैः प्रत्यभिज्ञादौ अस्माभिश्च तद्विवरणे भेदवादविदारणादौ च | एवं वागेवावभासिका सैव च निर्वाहिकी अवभासनैव हि परमार्थतो निर्वाणम् | तदाह वाग्घि सर्वस्येति वागेव विश्वाभुवनानीति श्रुतेः शब्दविवर्तादिरूपत्वं च प्रसाधितं तत्र भवद्भिर्भर्तृहरि प्रभृतिभिरिति तदिहानुसरणीयम् | सर्वाकारत्वे च वाचः इतिवृत्तमपि प्. २२५) द्विविधं हि स्मृतं पाठ्यं संस्कृतं प्राकृतं तथा | तयोर्विभागं वक्ष्यामि यथावदनुपूर्वशः || ५ || व्यञ्जनानि स्वराश्चैव सन्धयोऽथ विभक्तयः | नामाख्यातोपसर्गाश्च निपातास्तद्धितास्तथा || ६ || एतैरङ्गैः समासैश्च नानाधातुगवेक्षितम् | विज्ञेयं संस्कृतं पाठ्यं प्रयोगं च निबोधत || ७ || यच्छरीरं नाट्यस्येति (अ २२-१) यद्वक्ष्यते तन्न विरुद्धं तस्यापि वाङ्मयत्वादिति तत्रैव निर्णेष्यते | तत्र शास्त्रान्तरप्रसिद्धानपि रसाङ्गत्वेन कविशिक्षार्थं नटस्य च तत्र तत्राभिधेये विश्रान्तिकरान् कर्तव्यतयेत्युपदेशार्थमागमानिति इर्दिशति आगमेत्यादि | अर्थद्वारेण रूपसौन्दर्येण चैषामुभयधा च योगः क्षुभितं मह्यमिदं मे क्षुब्धमिति मन्थेः प्रतीतिः स्यात् | अर्थभेदेऽपि स्वरूपसौन्दर्यं सार्वत्रिकं विषयभेदेन च अस्यन्दिष्यन्त सिन्धवः इति हि कर्तव्ये अस्पन्दिष्यन् सर्वे सिन्धवः इति दुर्भणम् अश्रवं च मक्ष्यं माक्षति वक्षसः क्षतभवन्वेपक्षतं क्लीवितम् (?) इति - अत्र रौद्रे मोक्ष्यतीति हृद्यम् | अत्र कदा संमार्जिष्यति इति लोचने न तु कदा संमार्क्ष्यतीति एवं वैकल्पिकेऽपि आगमे सौन्दर्यात् अभावपक्षो वा आच्छिद्य प्रियतः इति सुव्यक्तमेव | एकान्त्संप्रतीतिनश्चेति घुटोऽसत्त्वपक्ष एव | आगमेनादेशोऽप्युपलक्ष्यते | मुग्धाशब्दस्थाने न मूढाशब्दः प्रयोगार्हः | प्. २२६) नाम यथा मदनरिपुरिति भगवत्पर्यायश्चेति तदीयशृङ्गारवर्णने न प्रयोज्यम् | आख्यातमपि यद्वैचित्यरमावहति स्मरसि स्मर मेखलागुणैः इति वर्तमानप्रत्ययेन तत्साक्षत्करणमुपालम्भविषयता त्वमेवात्र साक्षी अनृतं न प्रकटितं अन्यथा स्मृतवानिति मेखलागुणैरिति स्यात् | उपसर्गात्प्रकृतार्थयोगिनो यथा - निर्मित इत्यर्थे न मितिः | अधिकद्योतको यथा - मुहुरुपचितैर्दृष्टिरालुप्यते इति | उपसर्गैः कर्मप्रवचनीया अप्युपलक्ष्यन्ते (यथा) किं स्यादर्जुनतः प्रति इति विचितं नास्तीति र्पतीतिः पुनरेव स्यात् अर्जुनकृते विचितमिति | तद्धितप्रत्ययोपलक्षणम् | मीमांसते हृदयमात्मन एव बाला नाम्नापि मानकलनां सहते न जातु | न तु चित्तं विचारयत्यात्मन एवेति | एवं सुव्धातुप्रत्ययपदं न तल्मु कृत्सु वाच्यं गौरवभयात्तु नोदाहृतम् | स्त्रीप्रत्ययो यथा - अध्यासीनः सवैदग्धी कर्म तया कृती न तु वैदग्धीमिति स्त्रीप्रत्ययेन सौभाग्यातिशयप्रतीतेः | तद्धितो यथा - शात्रवं च पपुर्यशः इति न तु शत्रूणां चेति तद्धितवृत्त्या ह्येकार्थीभवान्वयात् तद्ग्रासीकृतमपि यशस्ते स्वयंग्राहीचक्रुरित्यर्थः | निपातो यथा - हहा हा देवि धीरा भव सूः (आः?) किमत्र किरातैर्यत्र प्. २२७) अकाराद्याः स्वरा ज्ञेया औकारान्ताश्चतुर्दश | हकारान्तानि कादीनि व्यञ्जनानि विदुर्वुधाः || ८ || अत्र स्वराश्चतुर्दश कादीनि व्यञ्जनानि यथा - अ आ इ ई उ ऊ ऋ ॠ ऌ ॡ ए ऐ ओ औ स्वरा ज्ञेयाः | क ख ग घ ङ च छ ज झ ञ ट ठ ड ढ ण त थ द ध न प फ ब भ म य र ल व श ष स हाः इति व्यञ्जनवर्गाः || ९ || वान्ति वर्षानिला विशेषेण निरङ्कुशा इति एकार्थीभावो यत्र सति वृत्तं ... | समासो यथा - मध्येगङ्गायमुनमनु नेति न तु मध्ये गङ्गायमुनयोरिति | एवं समासान्तरेषु वाच्यम् | शुद्धेषु सङ्कीर्णेषु चागमादयो निवृत्तान्ता विद्यन्ते यत्रेति मत्वर्थीये च | सन्धिर्द्विधा नेरन्तर्यं रूपश्लेषश्च - भवतोयेति विपर्ययेण नैरन्तर्ये असिद्धता तत्रास्थिरा इति रूपश्लेषे बिभत्सा श्लीलने | सूत्रं ब्राह्ममिति पृथगपि द्विश्रुति सङ्गः पदयोः नैकपदवत्ता ब्रह्मसूत्रमित्यनुस्वानस्योत्तरसंक्रान्तिव्यतिरेकेण चात्मनि विश्रावयितुमशक्यत्वादेकपदवद्भावः | विभक्तयः सुप्तिङ्वचनानि तैः कारकशक्तयो लिडाद्युपग्रहाश्चोपन्यन्ते | यथा पाण्डिम्नि मग्नं वपुः इति वपुष्येव मज्जनकर्तृकत्वं तदायता पाण्डिम्नश्चाधारतां गदस्थानीयतां द्योतयन्नतीव रञ्जयति न तु पाण्डु स्वभावं वपुरिति | एवं कारकान्तरेषु वाच्यम् | प्. २२८) अष्टौ स्थानानि वर्णानामुरः कण्ठः शिरस्तथा | जिह्वामूलं च दन्ताश्च नासिकोष्टौ च तालु च || १० || अकुहविसर्जनीयाः कण्ठ्याः इचुयशास्तालव्याः ऋटुरषा मूर्धन्याः ऌतुलसा दन्त्या उपूपध्मानीया ओष्ठ्याः इत्युपध्मानीयः इति जिह्वामूलीयः ए ऐ कण्ठतालव्यौ ओ वौ कण्ठ्यौष्ठ्यौ वकारो दन्त्योष्ठ्यः ङ ञ ण न मा अनुनासिकाः विसर्जनीयस्यौरस्य इत्येके | सर्वमुखस्थानमवर्णमित्यपरे | द्वौ द्वौ वर्णौ तु वर्गाद्यौ शषसाश्च त्रयोऽपरे | अघोषा घोषवन्तस्तु ततौऽन्ये परिकीर्तिताः || वर्गे वर्गे समाख्यातौ द्वौ वर्णौ प्रागवस्थितौ | अघोषा इति ये त्वन्ये सघोषाः संप्रकीर्तिताः || १२ || एते घोषाघोषाः कण्ठ्यौष्ठ्या दन्त्यजिह्व नासिक्याः | ऊष्माणस्तालव्या विसर्जनीयाश्च बोद्धव्याः || १३ || ग घ ङ ज झ ञ ड ढ ण द ध न ब भ म य र ल वा मता घोषाः | क ख च छ ट ठ त थ प फ श ष सा इति वर्गेष्वघोषा स्युः || क ख ग घ ङा कण्ठस्थास्तालुथानास्तु च छ ज झ ञाः | ट ठ ड ढ णा मूर्धन्याः तददधनाश्चैव दन्तस्थाः || १५ || प्. २२९) वचनं यथा - पाण्डवा यस्य दासाः सर्वे च पृथक्चेत्यर्थः | तथा वैचित्र्येण त्वं हि रामस्य दाराः किं यथा कीर्तिस्तवश्वेतेति न तु श्वेतं यशस्तवेति | उपग्रहः - कुर्वाणो भुजशालिनो न तु कुर्वते भुजशालित्वं लिङ्गम् | परिमृदितमृणालीकोमलान्यङ्गकानि | आसमन्तादितिवैचित्र्यं यथा - आपातेऽपि विकारकारणमहो वक्त्रम्बुजन्मा स वः | नियुज्यते क्रियायामिति धातुः तस्य वैचित्र्यं (यथा) ग्रस्तं कुलान्ते जगतः न तु भुक्तम् | ग्रसिति स्वदनमात्रे परिभाषितेऽपि ग्रासातिशयसंरम्भः कुले तत्र वर्तते पूर्ववदत्रापि द्वन्द्वान्मत्वर्थीयः | एतदेवोपजीव्यानन्दवर्धनाचार्येणोक्तं सुप्तिङ्वचनेत्यादि | अन्यैरपि सुवादिवक्रतेति | इत्येवं दशभिरङ्गैरुक्तो कवितावाचिकशब्दनिष्ठो व्यवहारः विभज्य स्थानकरणादिज्ञानं च कवेर्गाढशिथिलमसृणपरुषादिगुम्फविशेषविभागायोपदिष्टं न तस्य च सम्यगुच्चारणापदेशाय वगेश उपादानं सावर्ण्येन प्रबन्धसौन्दर्यज्ञानार्थम् तथा - दत्तानन्दो धनिनमनुसर्ता वृतिधन इत्यादौ | घोष इति अनुप्रदानविशेषः | नासिका तद्व्यापारोऽन्ते यस्य तथाभूतो धर्मोऽनुस्वारः | तत्र घोषबाहुल्याद्गाढता तथा - प्. २३०) प फ ब भ मास्त्वोष्ठ्याः स्युर्दन्त्या ऌलसा अहौ च कण्ठस्थौ तालव्या इचुयशाः स्युः ऋटु रुषा मूर्ध्नि स्थिता ज्ञेयाः || ऌ ॡदन्त्यौ ओ औ कण्ठोष्ठ्यौ ए ऐकारौ च कण्ठतालव्यौ कण्ठ्यो विसर्जनीयो जिह्वामूलोद्भवौ करवयोः || १६ || पफयोरोष्ठस्थानो भवेदुकारस्तथा स्वरो विवृतः | स्पृष्टाः काद्यामान्ताः शषसहकारास्तथा विवृताः || १७ || अन्तःस्थाः संवृतजा ङञणनमा नासिकोद्भवा ज्ञेयाः | ऊष्माणश्च शषसहा यवरलवर्णास्तथैव चान्तःस्थाः || १८ || जिह्वामूलीयः कः प उपध्मानीय संज्ञया ज्ञेयः | कचटतपाः स्वरिताः स्युः खछठथफाः स्युस्तथा कण्ठ्याः || कण्ठोरस्यान् विद्यात् गजडदवान् पाठ्यसंप्रयोगे तु | वेद्यो विसर्जनीयो जिह्वास्थाने स्थितो वर्णः || २० || एते व्यञ्जनवर्गाः समासतः संज्ञया कथिताः | शब्दप्रयोगविषये स्वरांस्तु भूयः प्रवक्ष्यामि || २१ || अङ्गं दधन्निविडचन्दनमङ्गनानां नैदाघवातसदनं न तु मन्मथस्य | अत्राकरतकारावेवाघोषौ | एतदर्थ एव च स्थानादिविभाग उपन्यस्तः | एतत्स्वरलक्षणाध्याये (अ-१७) शुटयिष्यामः | कषयोरुच्चारणाय ककारपकारौ जिह्वाशब्देन स्थानकरणौ | प्. २३१) यस्मिन् स्थानेषु समो विज्ञेयो यः सवर्णसंज्ञोऽसौ | य इमे स्वराश्चतुर्दश निर्दिष्टास्तत्र वै दश समानाः || पूर्वो ह्रस्वस्तेषां परश्च दीर्घो विधातव्यः | इत्थं व्यञ्जनयोगैः स्वरैश्च साख्यातनामपदविहितैः || काव्यनिबन्धाश्च स्युर्धातुनिपातोपसर्गैस्तु | उद्दिष्टं शब्दानां लक्षणमेतत्समासयोगेन || २४ || प्रकरणवशाद्धि तदहं विस्तरतः संप्रवक्ष्यामि | तत्प्राहुः सप्तविधं षट्कारकसंयुतं प्रथितसाध्यम् || २५ || (सवर्णसंज्ञ इति) ये यत्र तुल्ये तत्सवर्णभूमयः | पुनर्ह्रस्वदीर्घादिरूपतया समानसंज्ञाद्भेदेऽप्यनुप्रासादावभेदादव्यञ्जनभेदे(?)... स्वरा ... ... ... भावादेकवचनादि भूतकालयुक्तं नामेति - संबन्धः | करिष्यमाणं क्रियमाणं क्रियाकृतमिति यथाभूतादियुक्तं गमनागमनाभ्यां पूर्वापरीभूताध्य- प्. २३२) (निर्देशसंप्रदानोपादानप्रभृतिसंज्ञाभिः | संप्रत्यतीतकालक्रियादिसंयोजितं प्रथितसाध्यम् || वचनं नागतयुक्तं सुसदृशसंयोजनविभक्तम् | पञ्चशतधातुयुक्तं पञ्चगुणं पञ्चविधमिदं वापि || २७ || स्वाद्याद्यधिकारगुणैरर्थविशेषैर्विभूषितन्यासम् | प्रातिपदिकार्थलिङ्गैर्युक्तं पञ्चविधमिदं ज्ञेयम् || २८ || आख्यातं पाठकृतं ज्ञेयं नानाश्रयविशेषम्) वचनं नामसमेतं पुरुषविभक्तं तदाख्यातम् || २९ || प्रातिपदिकार्थयुक्ता धात्वर्थानुपसृजन्ति ये स्वार्थे | उपसर्गा ह्युद्दिष्टास्तस्मात्संस्कारतस्तस्मिन् || ३० || क्षापरोक्षभूताभ्यां युक्तमाख्यातं प्रथितः साध्योऽर्थो वाच्यत्वेन यस्य | उरुषैरुत्तममध्यमप्रथमैर्विभक्तम् | धात्वर्थानुपसृजन्ति उपरागेणान्यादृशान् कुर्वन्ति तेनोपकारेण प्रातिपादिकार्थस्य युक्तसंबन्धेन प्रकरोतीति हि शब्दः | प्रकर्षप्रातिपदिकार्थोपरागेण वा धात्वर्थं विचित्रं करोति यद्वा तु स्वार्थे धात्वर्थानुपसृजन्ति अतः उपसर्गान् प्रातिपदिकार्थे च युक्त्या उपसर्गाः यथा प्राचार्यः प्रान्तेवासी प्रातिपदिकार्थयुक्त्या वृद्धश्च घटश्च धातुयुक्त्या पचति पठति च पाक(पाठ)योरेव हि समुच्च्यशब्दौ युक्तौ अयुक्त्याश्रयात्तु पादपूरणार्थमुच्यते यत्र द्योतनेन विना न खण्डना द्योतनेन च सति वाक्यमलंकृतं भवति | तद्यथा - मिलति न खलु यस्या इति खलुशब्दः प्रयासस्याकृतार्थत्वं द्योतयति | तच्च तेनापि विना स्फुटमेव वाक्यार्थत एव लाभात् | अहरह- प्. २३३) प्रातिपदिकार्थयोगाद्धतुच्छन्दोनिरुक्तयुक्त्या च | यस्मान्निपतन्ति पदे तस्मात्प्रोक्ता निपातास्तु || ३१ || प्रत्ययविभागजनिताः प्रकर्षसंयोगसत्त्ववचनैश्च | यस्मात्पूरयतेऽर्थान् प्रत्यय उक्तस्ततस्तस्मात् || ३२ || लोके प्रकृतिप्रत्ययविभागसंयोगसत्त्ववचनेषु | तांस्तान् पूर्यन्तेऽर्थांस्तेषु हि तद्दितस्तस्मात् || ३३ || एकस्य बहूनां वा धातोर्लिङ्गस्य वा पदानां वा | यस्माद्विभजन्त्यर्थान्विभ्क्तयः कीर्तितास्तस्मात् || ३४ || विशिष्टास्तु स्वरा यत्र व्यञ्जनं वापि योगतः | सन्धीयते पदे यस्मात्तस्मात्सन्धिः प्रकीर्तितः || ३५ || (वर्णपदक्रमसिद्धः पदैकयोगाच्च वर्णयोगाच्च | सन्धीयते तु यस्मात्तस्मादुपदिश्यते सन्धिः || ३६ || रनुरागात् इति निर्भज्य वचनं द्योतितस्यापि शुटीकरणम् तद्युक्ता | अहो वतासि स्पृहणीयवीर्यः प्रातिपदिकार्थानेतैरर्थैरुपनिपतितैर्ज्ञापयति | तद्धितः - तस्मै प्रातिपदिकार्थाय हितस्तत्प्रातिपदिकार्थं च यस्य वा स्वात्मीकुरुते यतः प्रत्ययादिविभागावयवः काव्ये तन्मतं संप्रयोगप्रयोजनमैन्द्रेऽभिहितं संयोगस्येति संबन्धः | चान्द्री ज्योत्स्ना सत्त्वं तद्भावः (सूक्तं) सौक्त्यं वचनं प्रवचनं काठकमादित्यश्रुत्या तुर्यपञ्चमाध्यायविहिता निर्देश्यन्ते | प्. २३४) लुप्तविभक्तिर्नाम्नामेकार्थं संहरत्समासोऽपि | तत्पुरुषादिस्तज्ज्ञैर्निर्दिष्टष्षड्विधो विप्राः ||) ३७ || एभिः शब्दविधानैर्विस्तारव्यञ्जनार्थसंयुक्तैः | पदबन्धाः कर्तव्या निबद्धवन्धास्तु चूर्णा वा || ३८ || विभक्त्यन्तं पदं ज्ञेयं निबद्धं चूर्णमेव च | तत्र चूर्णपदस्येह संविबोधत लक्षणम् || ३९ || अनिबद्धपदं छन्दस्तथाचानियताक्षरम् | अर्थापेक्ष्यक्षरस्यूतं ज्ञेयं चूर्णपदं बुधैः || ४० || निबद्धाक्षरसंयुक्तं यतिच्छेदसमन्वितम् | निबद्धं तु पदं ज्ञेयं प्रमाणनियतात्मकम् || ४१ || एवं नानार्थसंयुक्तैः पादैर्वर्णविभूषितैः | एकस्य पदस्य बहूनां वा पदानां समाप्तिं प्राप्तानाम् | वाशब्दाद् द्वयोरपि | येनार्थो विभज्यते विभक्त्याख्यः प्रत्ययः तेषां च पदानां द्वैविध्यं धातोर्वा संबन्धि यदुत्पन्नं लिङ्गस्य वा अर्थबल्लिङ्गमिति संज्ञायां संबन्धि व्युत्पन्नं यदि वा लिङ्गस्य संबन्धिन्यो विभक्तयः सुपः धातोस्तिङः | पद इत्येकपदे नास्त्यतिसंहितेत्याह | निबद्धो भाविच्छन्दोविधिना बद्धः संघट्टना यथा | पदबन्धा इत्युक्ते पदं निरूपयति तत्रेति परिमितवक्तव्यत्वादित्यत्राशयः | यतिर्विरामः च्छन्दांऽक्षरसंख्या नियमः अक्षरनियमो गुरुलघुनिवेशनियमः एतद्विहीनं चूर्णपदमर्थशृङ्गारवीराद्यपेक्ष्यक्षराणि परिमितानि भूयांसि वा यत्रेति असमाससंघट्टनात्मकमुक्तमिति | इदं तु केवलं पठनकर्मत्वाद्गद्यमित्यु- प्. २३५) चतुर्भिस्तु भेवेद्युक्तं छन्दोवृत्तभिधानवत् || ४२ || षड्विंशति स्मृतान्येभिः पादैश्छन्दांसि संख्यया | सममर्धसमं चैव तथा विषममेव च || ४३ || छन्दो ज्ञेयं समासेन त्रिविधं वृत्तमिष्यते | नानावृत्तविनिष्पन्ना शब्दस्यैषा तनुः स्मृता || ४४ || छन्दोहीनो न शब्दोऽस्ति न च्छन्दश्शब्दवर्जितम् | एवं तूभयसंयोगो नाट्यस्योद्द्योतकः स्मृतः || ४५ || एकाक्षरं भवेदुक्तमत्युक्तं द्व्यक्षरं भवेत् | मध्यं त्र्यक्षरमित्याहुः प्रतिष्ठा चतुरक्षरा || ४६ || सुप्रतिष्ठा भवेत्पञ्च षड्गायत्री भवेदिह | सप्ताक्षरा भवेदुष्णिगष्टौ चानुष्टुबिष्यते || ४७ || नवाक्षरा तु बृहती पङ्क्तिश्चैव दशाक्षरा | एकादशाक्षरा त्रिष्टुब्जगती द्वादशाक्षरा || ४८ || च्यते | वर्णा गुरुलघुत्वच्छेदः पादसंख्या सामान्यलक्षणमाह प्रमाणेन श्रोत्रेन्द्रियेण नियत आत्मा यत्र श्रव्यमित्यर्थः | इदं तत्पद्यं पादेषु भवति गद्यमिति निगदनीयत्वेऽपि विशेषसंज्ञया व्यपदेशः | प्. २३६) त्रयोदशातिजगती शक्करी तु चतुर्दश | दशपञ्चातिशक्कर्या अष्टिः स्यात् षोडशाक्षरा || ४९ || तथा सप्तदशात्यष्टिः धृतिरष्टादशाक्षरा | एकोनविंशातिधृतिः कृतिर्विंशतिरेव च || ५० || प्रकृतिश्चैकविंशत्या द्वाविंशत्याकृतिस्तथा | विकृतिः स्यात् त्रयोविंशा चतुर्विंशापि संकृतिः || ५१ || पञ्चविंशत्याभकृतिः षड्विंशत्यक्षरोत्कृतिः | अतोऽधिकाक्षरं छन्दो मालावृत्तमिति स्मृतम् || ५२ || छन्दसां तु तथाह्येते भेदाः प्रस्तारयोगः | असंख्येय प्रमाणानि वृत्तान्याहुरतो बुधाः || ५३ || अथ तस्य लक्षणं कर्तुं छन्दःस्वरूपं तावदित्याह एवमित्यादि विविध (वर्ण)भूषणैः सालंकारैः पादैश्चतुर्भिरिति संबन्धः षड्विंशकमिति तावत्परिमाणमेकाक्षरात्प्रभृति षड्विंशत्यक्षराणि तदुक्तादीन्युत्कृत्यन्तानि छन्दांसीत्यर्थः | पादचतुष्टये तुल्यलक्षणं समं अतुल्यलक्षणं विषमं (अर्थसमं) प्रह्तमतृतीययोर्द्वितीयचतुर्थयोः | संज्ञाभिश्छन्दोभेदा आश्रिताः | कथं ते भेदा इत्याह प्रस्तारयोगत इति प्रस्तारे योगो युक्तः तेन तत्र युक्तिर्वक्ष्यते - प्रकीर्य सर्वं गुरु तत्र पूर्वगुरोरधो लं परपूर्य तत्वम् | स्यात्पूर्वपूर्व गुरुणेति यावत्सर्वत्र लः प्रस्तरणे तदेव || प्. २३७) गायत्रीप्रभृ तित्वेषां प्रमाणं संप्रवक्ष्यते | प्रयोगजानि सर्वाणि प्रायशो न भवन्ति हि || ५४ || वृत्तानि च चतुःषष्टि गायत्र्यां कीर्तितानि तु | (६४) शतं विंशतिरष्टौ च वृत्तन्युष्णिह्यथोच्यते || (१२८) षट्पञ्चाशच्छते द्वे च वृत्तानामप्यनुष्टुभि | (२५६) शतानि पञ्च वृत्तानां बृहत्यांद् वादशैव तु || (५१२) पंक्त्यां सहस्रं वृत्तानां चतुर्विंशतिरेव तु || (१०२४) त्रैष्टभे द्वे सहस्रे च चत्वारिंशत्तथाऽष्ट च || (२०४८) सहस्राण्यथ चत्वारि नवतिश्च षडुत्तरा | जगत्यां समवर्णानां वृत्तानामिह सर्वशः || ५८ || (४०९६) शतमष्टौ सहस्राणि द्व्यधिका नवतिः पुनः | जगत्यामतिपूर्वायां वृत्तानां सर्वशो भवेत् || ५९ || (८१९२) एतद्यथा भेदाः | अक्षरस्याष्टौ गायत्रीप्रभृतीनि तत एवारभ्य प्रयोगार्हतेति सूचयति उक्त्यादीनामश्रवत्वात् | तदाह प्रयोगजानीति लक्ष्यतो स्थितानि अपि तु वेदवद् दृश्यन्त इति भावः | वृत्तानि च चतुः षष्टिरित्यादिना स्वकण्ठेन संख्यां पठति यावत् | प्. २३८) शतानि त्रीण्यशीतिश्च सहस्राण्यपि षोडश | वृत्तानि चैव चत्वारि शक्कर्याः परिसंख्यया || ६० || (१६३८४) द्वात्रिंशत्तु सहस्राणि सप्तचैव शतानि च | अष्टौ षष्टिश्च वृत्तानि ह्याश्रयन्त्यतिशक्करीम् || ६१ || (३२७६८) पञ्चषष्टि सहस्राणि सहस्रार्धं तु संख्यया | षड्विंशच्चैव वृत्तानि तथाष्ट्यां गदितानि तु || ६२ || (६५५३६) एकत्रिंशत्सहस्राणि वृत्तानां च द्विसप्ततिः | तथा शतसहस्रंच् अ छन्दस्यत्यष्टिसंज्ञिते || ६३ || (१३१०७२) धृत्यामपि हि पिण्डेन वृत्तान्याकल्पितानि तु | तज्ज्ञैः शतसहस्रे द्वे शतमेकं तथैव च || ६४ || षट्कोट्यस्तु सहस्राणां शतानि ह्येकसप्ततिः | अष्टौ चैव सहस्राणि शतान्यष्टौ तथैव च | चतुःषष्टिस्तु वृत्तानि ह्युत्कृतावपि संख्यया || इति (६७१०८८६४) प्रमाणम् | अभिकृत्यन्तानां संख्यां प्रमाणीकृत्याह तिस्रः कोट्य इत्यादिना | तदङ्कं पूर्वेण पिण्डयित्वा सर्वसंख्याज्ञानं क्रमवशात् | प्. २३९) द्विषष्टिश्च सहस्राणि चत्वारिंशच्च योगतः | चत्वारि चैव वृत्तानि समसंख्याश्रयाणि तु || ६५ || (२६२१४४) अतिधृत्यां सहस्राणि चतुर्विंशतिरेव च | तथा शतसहस्राणि पञ्चवृत्तशतद्वयम् || ६६ || अष्टाशीतिश्च वृत्तानि वृत्तज्ञैः कथितानि तु | (५२४२८८) कृतौ शतसहस्राणि दश प्रोक्तानि संख्यया || ६७ || चत्वारिंशत्तथाष्टौ च सहस्राणि शतानि च | पञ्च षट्सप्ततिश्चैव वृत्तानां परिमाणतः || ६८ || (१०४८५७६) तथा शतसहस्राणां प्रकृतौ विंशतिर्भवेत् | सप्त वै गदितान्यत्र नवतिश्चैव संख्यया || ६९ || सहस्राणि शतं चैकं द्विपञ्चाशत्तथैव च | वृत्तानि परिमाणेन व्ट्तज्ञैर्गदितानि तु || ७० || (२०९७१५२) चत्वारिंशत्तथैकं च सहस्राणां शतानि तु | तथा चेह सहस्राणि नवतिश्चतुरुत्तरा || ७१ || शतत्रयं समाख्यातं ह्याकृत्यां चतुरुत्तरम् | (४१९४३०४) प्. २४०) ज्ञेया शतसहस्राणामशीतिस्त्र्यधिका बुधैः || ७२ || अष्टाशीति सहस्राणि वृत्तानां षट्छतानि च | अष्टौ चैव तु वृत्तानि विकृत्यां गदितानि तु || ७३ || (८३८८६०८) तथा शतसहस्राणि सप्तषष्टिश्च सप्ततिः | सप्त चैव सहस्राणि षोडश द्वे शते तथा || ७४ || कोटिश्चैवेह वृत्तानि संकृतौ कथितानि वै | (१६७७७२१६) तथा शतसहस्राणि पञ्चत्रिंशच्च संख्यया || ७५ || तिस्रः कोट्यः सहस्राणि चतुष्पञ्चाशदेव च | शतानि चत्वारि तथा द्वात्रिंशत्प्रविभागतः || ७६ || वृत्तान्यभिकृतौ चैव छन्दोज्ञैः कथितानि वै | (३३५५४४३२) षट्कोट्यस्तु सहस्राणां शतानि ह्येकसप्ततिः || ७७ || अष्टौ चैव सहस्राणि शतान्यष्टौ तथैव च | चतुष्षष्टिस्तु वृत्तानि ह्यत्कृतावपि संख्यया || ७८ || (६७१०८८६४) प्. २४१) उक्ताद्युत्कृतिजातानि वृत्तसंख्याविचक्षणैः | एतेन च विकल्पेन वृत्तान्येतानि निर्दिशेत् || ७९ || सर्वेषां छन्दसामेवं वृत्तानि कथितानि वै | तिस्रः कोट्यो दश तथा सहस्राणां शतानि तु || ८० || चत्वारिंशत्तथा द्वे च सहस्राणि दशैव तु | सप्तभिः सहितान्येव सप्त चैव शतानि च || ८१ || (१३४२१७७२६) षड्विंशतिरिहान्यानि व्याख्यातानि समासतः | समानि गणनायुक्तिमाश्रित्य कथितानि वै || ८२ || सर्वेषां छन्दसामेवं त्रिकैर्वृत्तं प्रयोजयेत् | ज्ञेया ह्यष्टौ त्रिकास्तत्र संज्ञाभिः स्थानमक्षरम् || ८३ || त्रीण्यक्षराणि विज्ञेयस्त्रिकोंऽशः परिकल्पितः | गुरुलघ्वक्षरकृतः सर्ववृत्तेषु नित्यशः || ८४ || गुरुपूर्वो भकारः स्यान्मकारस्य गुरुत्रयम् | जकारो गुरुमध्यस्तु सकारोऽन्तगुरुस्तथा || ८५ || प्. २४२) लघुमध्यस्तु रेफः स्यात्तकारोऽन्तलघुस्तथा | लघुपूर्वो यकारस्तु नकारस्तु लघुत्रयम् || ८६ || एते ह्यष्टौ त्रिका नाम्ना विज्ञेया ब्रह्मसंभवाः | लाघवार्थं पुनरमी छन्दोमानमवेक्ष्य च || ८७ || एभ्यो विनिर्गताश्चान्या जातयोऽथ समादयः | अस्वराः सस्वराश्चापि प्रोच्यन्ते वृत्तलक्षणैः || ८८ || गुर्वेकं गू इति विज्ञेयं तथा लघु ल् इति स्मृतम् | नियतः पदविच्छेदो यतिरित्यभिसंज्ञिता || ८९ || गुरु दीर्घं प्लुतं चैव संयोगपरमेव च | सानुस्वारविसर्गं च तथान्त्यं च लघु क्वचित् || ९० || (गायत्री प्रभृति त्वेषां प्रमाणं संप्रवर्तते | प्रयोगजानि पूर्वाणि प्रायशो न भवन्ति हि || ९१ || गायत्र्यां द्वौ त्रिकौ ज्ञेयावुष्णिगेकाक्षराधिका | अनुष्टुब्द्व्यधिका ज्ञेया वृहत्यां तु त्रिकास्त्रयः || ९२ || एकाधिकाक्षरा पङ्क्तिस्त्रिष्टुप्च द्व्यधिकाक्षरा || चतुस्त्रिका तु जगती सैकातिजगती ततः || ९३ || शक्करी द्व्यधिका पञ्चत्रिका ज्ञेयातिशक्करि | प्. २४३) एकाधिका तथाष्टिश्च द्वयधिकात्यष्टिरुच्यते || ९४ || षट्त्रिका धृतिरुद्दिष्टा ह्यतिपूर्वाधिकाक्षरा | कृतिश्च द्व्यधिका प्रोक्ता प्रकृत्यां सप्त वै त्रिकाः || ९५ || आकृतिस्त्वधिकैकेन द्वयधिका विकृतिस्तथा | संकृत्यां तु त्रिका ह्यष्टौ सैका त्वभिकृतिर्भवेत् || ९६ || उत्कृतिर्द्व्यधिका चैव विज्ञेया गणमानतः |) गुर्वेकं ग इति प्रोक्तं गुरुणी गावितिस्मृतौ || ९७ || लघ्वेकं ल इति ज्ञेयं लघुनी लावितिस्मृतौ | द्व्यक्षरादधिकौ पादावन्यौ हीनाक्षरावपि || ९८ || स्वराडिति समाख्याता विराडिति हि सूरिभिः | पादो यस्या ऋचश्चैव भवेदेकाधिकाक्षरः || ९९ || समास्त्वन्ये त्रयः पादाः सा भुरुक् संप्रकीर्तिता | एकाक्षरोनः पादश्चेदेको यस्या ऋचो भवेत् || १०० || समाः पादास्त्र्यश्चान्ये सा निवृत्संप्रकीर्तिता |) (सम्पदाद्यधुना चैषां छन्दसां सम्यगुच्यते) || १०१ || सम्पद्विरामपादश्च देवतास्थानमक्षरम् | वर्णः स्वरा विधिर्वृत्तमिति छन्दोगतो विधिः || १०२ || प्. २४४) नैवातिरिक्तं हीनं वा यत्र संपद्यतेऽक्षरम् | विधाने छन्दसामेषा संपदित्यभिसंज्ञिता || १०३ || यत्रार्थस्य समाप्तिः स्यात्स विराम इति स्मृतः | एकादिकक्रमवशाद् द्विगुणादिपिण्डया- च्छन्दः प्रमाणकलितानथ पिण्दयेत्तान् | एकं क्षिपेत्तदुपरीति समस्तवृत्त- संख्याप्रकाशनविधौ लघुरभ्युपायः || यथा त्र्यक्षरे तत्पिण्डयित्वा एकाक्षेपादेकसंख्यावत् | षड्विंशत्यक्षरे- द्व्यंश उक्तक्रमेणेह द्वैगुण्यं यावदुत्कृतेः || इति | एकाक्षरे द्वौ द्व्यक्षरे चत्वारः त्र्यक्षरेऽष्टौ चतुरक्षरे षोडशेत्यादिसंक्षेपः | अनेनैवोपायेन विचार्य ग्रन्थे पाठो निश्चेयः | सर्वेषां वृत्तानामित्यादावर्थः समासेन जयदेवोऽभ्यधात् - सर्वादिमध्यान्तग्लौ त्रिकौ म्नौ भ्यौ ज्रौ स्तौ इति (अ. १-२) त्रिकैरुपलक्षितेऽपि वृत्ते त्रिकसंख्यानतया छन्दो न पूर्यते यथोष्णिक् अत्रैकमधिकमक्षरमधिकत्वेनोक्तं अनुष्टुभि द्वे तत्र त्रिकबीजानि गुरुलघुस्पाण्येव कर्तव्यानि | तथा चैकं गुरुलघु वा द्वे गुरुणी लघुनी लघुगुरुणी गुरु लघुनी वा तदाह यदेकमधिकमिति | ग्लावित्यादि श्लोकेन व्याचष्ट नैवातिरिक्तमिति | सम्पदिति स्वराट् विराट् भुरिक् निवृत् श्रुतावेव संभवो न काव्य इति तात्पर्यम् | प्. २४५) पादश्च पद्यतेर्धातोश्चतुर्भागः प्रकीर्तितः || १०४ || अग्न्यादि दैवतं प्रोक्तं स्थानं द्विविधमुच्यते | शरीराश्रयसंभूतं दिगाश्रयमथापि वा || १०५ || (शारीरं मन्त्रसंभूतं छन्दोगायत्रसंज्ञितम् | क्रुष्टे मध्यन्दिनं प्रोक्तं त्रैष्टुभं परिकीर्त्यते || १०६ || तृतीयसवनं चापि शीर्षण्यं जागतं हि यत् |) ह्रस्रं दीर्घं प्लुतं चैव त्रिविधं चाक्षरं स्मृतम् || १०७ || एतन्निरुपणं तु उपयुज्यते यत्र वेदवाक्यसदृश वाक्यं निर्णीयते यथा अभिज्ञानशाकुन्तले | अर्थस्यावान्तररूपस्य समाप्तिर्लक्षणतो यतिः मीलति सति राज्ञो यथा आयान्त्या तुल्यकालं इति न तु जम्भारातीभकुभोद्भवं इति उच्छब्दोऽर्थसमाप्त्यभावात् | चतुर्भाग इति पादान्ते छेदः कर्तव्यः न तु ताम्बूलवल्लीपरिणद्धपूगास्वेला इति | प्रयोगी प्रतिपादमङ्कुरीकृत्य पठन्मध्ये विश्राम्यति | विश्रान्तौ चात्र वृत्तभङ्गोऽर्थभङ्गोऽभिनेयोऽत्र श्राव्यत्वाद्भट्टशङ्करादिभिरुपगतमेत क्वचिदुपान्त्यो वा इति | अधिष्ठात्री देवता वह्न्यादयः | शरीराश्रयेत्यादि | यथोक्तं कात्यायनेन - प्. २४६) श्वेतादयस्तथा वर्णा विज्ञेयाश्छन्दसामिह | तारश्चैव हि मन्द्रश्च मध्यमश्च त्रिधा स्वरः || १०८ || ध्रुवाविधाने चैवास्य संप्रवक्ष्यामि लक्षणम् | विधिर्गणकृतश्चैव तथा चार्थकृतोऽपि च || १०९ || वृत्तमर्धसमं चैव समं विषममेव च | छन्दसो यस्य पादे स्याद्धीनं वाधिकमेव वा || ११० || अक्षरं तन्निवृत्प्रोक्तं भुरुक्चेति द्विजातिभिः | अक्षराभ्यां यदा द्वाभ्यामधिकं हीनमेव वा || १११ || तच्छन्दो नामतो ज्ञेयं स्वराडथ विराडपि |) सर्वेषामेव वृत्तानां तज्ञैर्ज्ञेया गणास्त्रिकाः || ११२ || वीरस्य भुजदण्डानां वर्णने स्रगधरा भवेत् | नायिकावर्णने कार्यं वसन्ततिलकादिकम् || शार्दूललीला प्राच्येषु मन्दाक्रान्ता च दक्षिणे || इत्यादि | प्लुतस्याप्यत्र प्रयोगो भवत्येव | यथा - यतोऽपि मानेन स एष मूढो द्रोणारिरेयातिपद्यतिलग्नो (?) स तु पाठो दीर्घवत्पठितव्यः प्रयोक्ता त्रिमात्र एव | श्वेतादय इति प्रातिशाख्यादौ छन्दांसि (छन्दसि?) विविधवर्णं कृतं तदनुपयोगान्नास्माभिर्लिखितम् | भगवते कृत इति केषांचिद्द्रोदकतोदकादीनां गीयमानतया शोभातिशयो भवति श्लोकः स्रग्धरादीनां तु प्. २४७) दिव्यो दिव्येतरश्चैव दिव्यमानुष एव च | गायत्र्युष्णिगनुष्टुप्च बृहती पङ्क्तिरेव च || ११३ || त्रिष्टुप्च जगती चैव दिव्योऽयं प्रथमो गणः | तथातिजगती चैव शक्करी ह्यतिशक्करी || ११४ || अष्टिरत्यष्टिरपि च धृतिश्चातिधृतिर्गणः | कृतिश्च प्रकृतिश्चैव ह्याकृतिर्विकृतिस्तथा || ११५ || संकृत्यभिकृतिचैव ह्युत्कृतिर्दिव्यमानुषः | एतेषां छन्दसां भूयः प्रस्तारविधिसंश्रयम् || ११६ || लक्षणं संप्रवक्ष्यामि नष्टमुद्दिष्टमेव च | प्रस्तारोऽक्षरनिर्दिष्टः मात्रोक्तश्च तथैव हि || ११७ || पाठेन | इति शब्देन प्रकारार्थेन व्याचष्टे दिव्य इति | प्रथम इति स्तोत्रशास्त्रेषु सप्तानामेव छन्दसां बाहुल्येन दर्शनात् | देवस्तुत्यादौ देवेषु वक्तृष्वयं गण इत्यर्थः | गण इति द्वितीयो दिव्यनिवृत्तौ गण इत्यर्थः तेन मानुषेषु वक्तृष्वयं प्रायेण | तृतीयस्तु दिव्यमानुषेषु च रामादिषु नरपतिषु च | प्रस्तारतत्र संख्यादि सर्वमिति संश्रयशब्देनाह तद्गणसंविज्ञानाच्च प्रस्तरोऽप्युच्यते | प्रस्तरणं विताननं | लक्षणमङ्कसंख्येत्यर्थः | गतं नष्टमिति स्वरूपेणैव न ज्ञातं उद्दिष्टं तु स्वरूपेण ज्ञातं न संख्यया | तज्ज्ञानोपायेन नष्टादयः शुद्धः (सिद्धाः?) | प्. २४८) द्विकौ ग्लाविति वर्णोक्तौ मिश्रौ चेत्यपि मात्रिकौ | गुरोरधस्तादाद्यस्य प्रस्तारे लघु विन्यसेत् || ११८ || अग्रतस्तु समादेया गुरवः पृष्टतस्तथा | प्रथमं गुरुभिर्वर्णैर्लघुभिरत्ववसानजम् || ११९ || वृत्तं तु सर्वच्छन्दस्सु प्रस्तारविधिरेव तु | गुर्वधस्ताल्लघ्नं न्यस्य ततो द्विद्वि यथोदितम् || १२० || न्यसेत्प्रस्तारमार्गोऽयमक्षरोक्तस्तु नित्यशः | मात्रासंख्याविनिर्दिष्टो गणो मात्राविकल्पितः || १२१ || मिश्रौ ग्लाविति विज्ञेयौ पृथग्लक्ष्यविभागतः | मात्रागणो गुरुश्चैव लघुनी चैवं लक्षितः || १२२ || तत्र वर्णगतो मात्रागतश्चेति प्रस्तारो द्विधा तमुदाहरति | द्विकौ ग्लाविति वर्णसंख्यादि नियमेन यौ गुरुलघु | द्विकै संख्यापरिमाणौ तौ मात्रिकौ मात्रागणनेषूक्तौ | अन्येनाविकृतत्वादेकेन भेदेन मिश्रौ भवतः | अत प्रस्तारेऽप्युपायमाह गुर्वधस्तादिति | आद्यस्यैव गुरोरधो लघुः सर्वो न्यसनीयः | यत्र द्वौ भागौ मिश्रौ विषमसंख्यायां तदा द्विरिति भूयो भूयो मात्राप्रस्तारो निरूप्यते | मात्रापरिकल्पतौ यस्तिमात्रचतुर्मात्रादिः समूहो गणमात्रसंख्याया लघ्वक्षरसंख्यया तत्र प्रथमं प्रस्तार इत्याह पृथग्लक्षणीयोऽपि भागोऽत्र संख्यायास्तत्र गुरुः सर्वतो न्यसनीयः | यत्र तु द्वौ भागौ मिश्रौ विषमसंख्यायां तत्राद्यो लघुरन्यो गुरुः शेषं वर्णप्रस्तारेण तुल्यम् | केवलमात्रासंख्येति वचनाद्गुणनान्यासे पूर्वत्र मात्रा देया | यत्र वर्णप्रस्तारः विषममात्रार्पसातेऽप्युदाहृत एव | द्वितीयस्तु तदाह गुरुरिति जातावेकवचनं गुरू इत्यर्थः | लघुनी चकराद्गुरू तथाशबादन्यद्भेदत्रयं चतुर्मात्रा आर्याणा प्. १४९) आर्याणां तु चतुर्मात्राप्रस्तारः परिकल्पितः | गीतकप्रभृतीनां तु पञ्चमात्रस्तथेष्यते || १२२ || वैतालीयं पुरस्कृत्य षण्मात्राद्यास्तथैव च | त्र्यक्षरास्तु त्रिका ज्ञेया लघुगुर्वक्षरान्विताः || १२३ || मात्रागणविभागस्तु गुरुलघ्वक्षराश्रयः | अन्त्याद् द्विगुणिताद्रूपाद् द्विद्विरेकं गुरोर्हरेत् || १२४ || द्विगुणं च लघोः कृत्वा संख्यां पिण्डेन निर्दिशेत् | आद्यं सर्वगुरु ज्ञेयं वृत्तं तु समसंज्ञितम् || १२५ || कोशं तु सर्वलघ्वन्तं मिश्रैः शेषाणि सर्वतः | वृत्तानां तु समानानां संख्यां संयोज्य तावतीम् || राश्यूनामर्ह्दविषमां समासादभिनिर्दिशेत् | प्रस्तारे गणभेदः पञ्चदश इत्यर्थः पञ्चमात्रोऽष्टधा एवं षष्ठोऽत्र प्रस्तार्यातीते इति वर्णवृत्तेष्वेव च कृत इत्यर्थः | अन्यत्र तु मात्राकृतो गणविभागः तदपेक्षया गुरुलघुव्यवस्थानात्स्वातन्त्र्येण | तत्रोद्दिष्टमाह द्विगुणितादिति वर्णवृत्तेष्वेव चेदं सर्वं मन्तव्यम् | भेदं पश्यैकमेकमङ्कं द्विगुणितं च दत्वा द्विद्विरिति भूयो द्विगुणितादपि द्विगुणितं कृत्वान्त्यं परिसमाप्य गुरु संबन्धिनोऽङ्कान् हरेत् पुंसथेत् (प्रस्तरेत् ?) | लघोः संबन्धिनोऽङ्कान् पिण्डीकृत्य तेन पिण्डेनातिक्रान्तेनैतावदयं भेद इति संख्यां निर्दिशेत् यथा चतुरक्षरस्येदृशं क्रियाभेदं यच्च लघ्वङ्कगणनातिक्रान्तौ | प्. २५० समानां विषमाणां च संगुणयय तथा स्फुटम् || १२७ || राश्यूनमभिजानीयाद्विषमाणां समासतः | एकादिकां तथा संख्यां छन्दसो विनिवेश्य तु || १२८ || यावत्पूर्वं तु पूर्वेण पूरयेदुत्तरं गणम् | एवं कृत्वा तु सर्वेषां परेषां पूर्वपूरणम् || १२९ || नैधनादेकमेकं तु प्रातिलोम्यक्रियात्मकम् | सर्वेषां छन्दसां न्यस्य लघ्वक्षरविनिश्चयम् || १३० || जानीत समवृत्तानां संख्यां संक्षोपतस्तथा | अथैकादिलघुज्ञानार्थं पीठं रचयति आद्यं सर्वगुर्वित्यादि | कोश इत्याद्यन्तयोर्मध्यगो भेदगणः | सोऽस्य लघोः संख्यया निश्चयं कुर्यात् | तद्यथा चतुरक्षरौ प्रथमान्तौ सर्वगुरुः सर्वलघुश्च एकद्वित्रिलघवस्तु चतुः षट्चतुः प्रकाराः संक्षेपत इति एतदङ्कव्यामिश्रणेन संख्या लभ्यते षोडशभेदाश्चरश्चतुरश्चेति | संख्यास्थान उपायान्तरमाह एकादिकामिति | छन्दोऽक्षरोपरि एकद्वि चत्वारीत्यदीनि निक्षिपेत् | तत्र पूर्वेणोत्तरस्य पूर्वेण मिश्रणं कुर्यात् यावत्पर्यन्तं गणपिण्डस्तां चैकादिकामेकेन मिश्रितं कुर्यादित्येवं समवृत्तानां संख्या | लघूनामित्थं षोडशाभिर्गुणयेत् | ततो गुणराशेः षोडशसंख्यामवपातयेत् | तेन चतुरक्षरे विंशत्यधिकं शतमर्धसमवृत्तानां तामपि संख्यां गुणयित्वा गुणराशिं पातयेत् | तेन च सहस्राणीति शतान्यशीतिश्चेति चतुरक्षरे विषमवृत्तानि | प्. २५१) वृत्तार्धपरिमाणं तु छित्वार्धेन यथाक्रमम् || १३१ || न्यसेल्लघु तथा सैकमक्षरं गुरु चाप्यथ | एवं विन्यस्य वृत्तानां नष्टोद्दिष्टविभागतः || १३२ || लघ्वादीनि गुरूण्यस्मिन्नक्षराणि निवेशयेत् | (इति छन्दांसि यानीह मयोक्तानि द्विजोत्तमाः || १३३ || वृत्तान्येतेषु नाट्येऽस्मिन् प्रयोज्यानि निबोधत ||) इति भारतीये नाट्यशास्त्रे वाचिकाभिनये छन्दोविधानं नाम चतुर्दशोऽध्यायः || अथ नष्टमाह वृत्तार्धपरिमाणं त्विति संख्यामर्धेन छिन्द्यात् यत्र विषमाङ्कं न पूर्यते तत्र पूरणार्थमेकमधिकं कुर्यात् | तदाह यथाक्रममिति | तत्र गुरुः | सैककरणात्प्रयत्नगौरवाल्लघुरन्यथा च्छेदनात् | एवं पुनः पुनर्यावदक्षराणि पूर्णानि यथावच्चतुरक्षरे पञ्चमो भेदः कीदृगिति - पूर्वं पञ्चाङ्कस्य सैकच्छेदात् गुरु पुनरपि त्र्यङ्कस्य सैकच्छेदात् गुरु द्वयोश्च समच्छेदाल्लघु एकस्य सैकच्छेदाद्गुरु एतेनेदृशः पञ्चमो भेदः | एतदुपसंहरन्नध्यायान्तरमासूत्रयति एवमिति | व्याकृतेन विभागेन लघुप्रधानानि वा लक्ष्ये निवेशयेत् कविरुपवध्नीयादिति शिवम् || पार्वतीवदनाम्भोजभृङ्गनेत्रत्रयीभुवः | दासोऽभिनवगुप्ताख्यश्छन्दोध्यायमपप्रथत् || इति श्रीमहामाहेश्वराभिनवगुप्ताचार्यविरचितायामभिनवभारत्यां नाट्यवेदविवृतौ छन्दोऽध्यायश्चतुर्दशः समाप्तिमगमत् || श्री नाट्यशास्त्रम् अथ पञ्चदशोऽध्यायः | छन्दांस्येवं हि यानीह मयोक्तानि द्विजोत्तमाः | वृत्तानि तेषु नाट्येऽस्मिन्प्रयोज्यानि निबोधत || १ || आद्ये पुनरन्त्ये द्वे द्वे गुरुणी चेत् | सा स्यात्तनुमध्या गायत्रसमुत्था || २ || समस्तवृत्तानि विना न येन पट्टद्भवश्रोत्ररसायनस्य (?) | छन्दांसि यस्मात्प्रभवन्ति वन्दे तं वाङ्मयं रूपमिहाष्ठमूर्तेः || यदुक्तमक्षराणि निवेशयेदिति (१४-१३३) तत्र श्रव्यताकृतं प्रविभागमाख्यातुमुपचक्रमे छन्दांस्येवमिति | एषां छन्दसां नाट्यप्रयोगयोग्यानि वृत्तानि निबोधतेति संबन्धः | गुरुलघुनियमेन श्रव्यता वर्तते येषु तानि वृत्तानि श्राव्यार्थत्वात् अधिकरणे क्तः | गायत्रीत आरभ्य प्रयोगार्हतेति पूर्वाध्याये निरूपितत्वात् तदुपक्रममेवाह आद्य पुनरिति मध्ये तु लघुन्यर्थात् | गायत्र्यैव गायत्रम् | तत्रेहाध्याये भरतमुनिकृतमिति त्रिकरिमकारादिभिः कैश्चित्कं- प्. २५३) यथा - संत्यक्तविभूषा भ्रष्टाञ्जननेत्रा | हस्तार्पितगण्डा किं त्वं तनुमध्या || ३ || लघुगण आदौ भवति चतुष्कः | गुरुयुगमन्त्ये मकरकशीर्षा || ४ || यथा - स्वयमुपयान्तं भजसि न कान्तं | भयकरि किं त्वं मकरकशीर्षा || ५ || एकमात्रं षट्के स्याद् द्वितीयं पादे | ख्यातरूपा वृत्ते मालिनी सा नाम्ना || ६ || षडक्षरकृते पादे लघु यत द्वितीयकम् | शेषाणि तु गुरूणि स्युर्मालिनी सा मता यथा ||) स्नानगन्धाधिक्यैर्वस्त्रभूषायोगैः | व्यक्तमेवासौ त्वं मालिनी प्रख्याता || ८ || द्वितीयं पञ्चमं चैव लघु यत्र प्रतिष्ठितम् | शेषाणि च गुरूणिस्युर्मालती नाम सा यथा || ९ || शोभते बद्धया षट्पदाविद्धया | मालतीमालया मानिनी लीलया || १० || द्वितीयं च चतुर्थं च पञ्चमं च यदा लघु | चिल्लक्षणं स्वीकृतमिति द्विविधः पुस्तकपाठओ दृश्यते मध्ये च चिन्तनाय पुस्तकेषूभयमपि पठ्यत इति | एतन्नाम्ना प्रसिद्धा ख्यातरूपा श्लाघनीयेत्यर्थः | प्. २५४) यस्याः सप्ताक्षरे पादे ज्ञेया सा तूद्धता यथा || ११ || (सौत्रिकौ यदिपादे अक्षरश्च गकारः | उस्णिगुत्थितपादा उद्धता खलु नाम्ना) || १२ || दन्तकुन्तकृतास्त्रं व्याकुलालकशोभम् | शंसतीव तवास्यं निर्दयं रतयुद्धम् || १३ || आदौ द्वै निधने चैव गुरुणी यत्र वै सदा | पादे सप्ताक्षरे ज्ञेया नाम्ना भ्रमरमालिका || १४ || (पादे यदि निविष्टौ सम्यग्विरचितौ त्सौ | अन्त्ये यदिगकारः सा तु भ्रमरमाला ||) १५ || यथा - नानाकुसुमचित्रे प्राप्त्रे सुरभिमासे | एषा भ्रमति मत्ता कान्ते भ्रमरमाला || १६ || आद्यं तृतीयमन्त्यं च पञ्चमं सप्तमं तथा | गुरूण्यष्टाक्षरे पादे सिंहलेखेति सा यथा || १७ || जौतु यस्य गौ च पादे संस्थितौ समस्तरूपौ | तामनुष्टुभाश्रयस्थां वावदन्ति सिंहलेखाम् ||) यत्त्वया ह्यनेकभावैश्चेष्टितं रहः सुगात्रि | तन्मनो मम प्रविष्टं वृत्तमत्र सिंहलेखम् || १९ || त्वया यन्मदीयं मनःप्रविष्टं व्याप्तमाक्रान्तं तत्सिंहवन्नखविलेखनं त्र तादृशं वृत्तं तद्यथाक्रान्तं जातमिति यावत् | प्. २५५) चतुर्थं च द्वितीयं च षष्ठमष्टममेव च | गुरूण्यष्टाक्षरे पादे यत्र तन्मत्तचेष्टितम् || २० || (यदा तु जात्परौ रलौ गकार एव च स्थितः | अनुष्टुबुद्भवं तदा वदन्ति मत्तचेष्टितम् ||) २१ || अथा- चरावघूर्णितेक्षणं विलम्बिताकुलालकम् | असंस्थितैः पदैः प्रिया करोति मत्तचेष्टितम् || २२ || अष्टाक्षरकृते पादे सर्वाण्येव भवन्ति हि | गुरुणि यस्मिन्सा नाम्ना विद्युमालेति कीर्तिता || (मौ गौ चान्त्यौ यस्याः पादे पादस्यान्ते विच्छेदश्च | सा चानुष्टुप् छन्दस्युक्ता नित्यं सद्भिर्विद्युन्माला ||) साम्भोभारैरानर्दाद्भिः श्यामाम्भोदैव्याप्ते व्योम्नि | आदित्यांशुस्पर्धिन्येषा दिक्षु भ्रान्ता विद्युमाला || पञ्चमं सप्तमं चान्त्यं गुरु पादेऽष्टके तथा | छन्दोज्ञैर्ज्ञेयमेतत्तु वृत्तं चित्तविलासितम् || २६ || स्मितवशविप्रकाशैर्दशनपदैरमीभिः | वरतनुपूर्णचन्द्रं तव मुखमावृणोति || २७ || नवाक्षरकृते पादे त्रीणि स्युर्नैधनानि च | गुरूणि यस्याः सा नाम्ना ज्ञेया मधुकरी यथा || प्. २५६) (षडिह यदि लघूनि स्युर्निधनगतमकारश्चेत् | बुधजनबृहतीसंस्था भवति मधुकरी नाम्ना ||) २९ || कुसुमितमभिपश्यन्ती विविधतरुगणैश्छन्नम् | वनमतिशयगन्धाढ्यं भ्रमति मधूकरी हृष्टा || ३० || दशाक्षरकृते पादे त्रीण्यादौ त्रीणि नैधने | यस्या गुरूणि सा ज्ञेया पङ्क्तिरुत्पलमालिका || ३१ || त्रीण्यादौ यदि हि गुरूणि स्यु- श्चत्वारो यादि लघवो मध्ये | पङ्क्तावन्तगतमकारः स्या द्विज्ञेया कुवलयमालाख्या ||) ३२ || यथा - अस्मिंस्ते शिरसि तदा कान्ते वैडूर्यस्फटिकसुवर्णाढ्ये | शोभा स्वां न वहति तां बद्धा सुश्लिष्टा कुवलयमालेयम् || द्वितीयं च चतुर्थं च षष्ठमष्टममेव च | ह्रस्वं दशाक्षरे पादे यत्र सा शिखिसारिणी || ३४ || शोभां स्वां स्वभाववर्तने ये भेदाः | वैडूर्यच्छायानि यानि दलानि तत्तत्स्फुरत्सुवर्णतुल्यानि वर्णानि तदभ्यन्तरकेसराणि | प्. २५७) (र्जौ त्रिकौ हि पादगौ तु यस्या र्गौ च संश्रितौ तथा समस्तौ | पङ्क्तियोग सुप्रतिष्ठिताङ्गी सा मयूरसारिणीति नाम्ना ||) ३५ || यथा - नैव तेऽस्ति संगमो मनुष्यैर्नापि कामभोगचिह्नमन्यत् | गर्भिणीव दृश्यसे ह्यनार्ये किं मयूरसारिणी त्वमेवम् || आद्यं चतुर्थमन्त्यं च सप्तमं दशमं तथा | गुरूणि त्रैष्टुभे पादे यत्र स्युर्दोधकं तु तत् || ३७ || (भौतु भगाविति यस्य गणाः स्युः स्याच्चयतिस्त्रिचतुर्भिरथः त्रैष्टुभमेव हि तत्खलु नाम्ना दोधकवृत्तमिति र्पवदन्ति || यथा- प्रस्खलिताग्रपदप्रविचारं मत्तविघूर्णितगात्रविलासम् | पश्य विलासिनी कुञ्जरमेतं दोधकवृत्तमयं प्रकरोति || ३९ || मयूरवद्व्याकोचमस्याः मयूरीभिर्वा (सारी) गतिविशेषो भवतीत्याहुः | मन्दं मन्दं दोधकेन गीयमानं वृत्तं दोधकवृत्तम् | (एष इति) यावन्मुरजघाततुल्यं गर्जितं श्रुत्वा | प्. २५८) आदौ द्वौ पञ्चमं चैवाप्यष्टमं नैधनं तथा | गुरूण्येकादशे पादे यत्र तन्मोटकं यथा || ४० || एषोऽम्बुदनिस्वनतुल्यरवः क्षीवः स्खलमानविलम्बगतिः | श्रुत्वा घनगजितमद्रितटे वृक्षान् प्रतिमोटयति द्विरदः || ४१ || नवमं सप्तमं षष्ठं तृतीयं च भवेल्लघु | एकादशाक्षरे पाद इन्द्रवज्रेति सा यथा || ४२ || त्वं दुर्णिरीक्ष्या दुरतिप्रसादा दुःखैकसाध्या कठिनैकभावा | सर्वास्ववस्थासु च कामतन्त्रे योग्यासि किं वा वहुनेन्द्रवज्रा || ४३ || एभिरेव तु संयुक्ता लघुभिस्त्रैष्टुभी यदा | उपेन्द्रवज्रा विज्ञेया लघ्वादाविह केवलम् || ४४ || उपेन्द्रवज्रो अस्या उपमानत्वेन सा तथा मत्वर्थीयो उपेन्द्र वज्रन्तु इन्द्रधनुषा उपमितमुपेन्द्रवज्रमुपमितसमासः द्विगुप्राप्ते परवल्लिङ्गनिषेधः | स्मितेन कान्त्येति इन्द्रधनुषोऽपि वर्णवैचित्र्यं च भवति | (श्लो- ४५) प्. २५९) प्रिये श्रिया वर्णविशेषणेन स्मितेन कान्त्या सुकुमारभावात् | अमी गुणा रूपगुणानुरूपा भवन्ति ते किं त्वमुपेन्द्रवज्रा || ४५ || आद्यं तृतीयमन्त्यं च सप्तमं नवमं तथा | गुरूण्येकादशे पादे यत्र सा तु रथोद्धता || ४६ || यथा - किं त्वया सुभट दूरवर्जितं नात्मनो न सुहृदां प्रियं कृतम् | यत्पलायनपरायणस्य ते याति धूलिरधुना रथोद्धता || ४७ || (किं त्वया कुमतिसङ्गया सदा नाज्ञयेव सुहृदां प्रियं कृतम् | यद्गृहाद्वचनरोषकम्पिता याति तूर्णमबला रथोद्धता) || ४८ || आद्यं तृतीयमन्त्यं च सप्तमं दशमं गुरु | यस्यास्तु त्रैष्टुभे पादे विज्ञेया स्वागता हि सा || ४९ || आत्मने सुहृदे दूरवर्जितं प्रियं दूरत्यक्तं किं त्वया न कृतं दूरत्यक्तमित्यर्थः | कुत इत्याह यत्पलायनेति | मदनसंश्रयो भावो यस्य कामफलमिति यावत् | प्. २६०) यथा- अद्य मे सफलमायतनेत्रे जीवितं मदनसंशयभावम् | आगतासि भवनं मम यस्मा- त्स्वागतं तव वरोरु निषीद || ५० || षष्ठं च नवमं चैव लघुनी त्रैष्टुभे यदि | गुरूण्यन्यानि पादे तु सा ज्ञेया शालिनी यथा || ५१ || दुःशीलं वा निर्गुणं वापरं वा लोके धैर्यादप्रियं न ब्रवीपि | तस्माच्छीलं साधुहेतोः सवृत्तं माधुर्यात्स्यात्सर्वथा शालिनी त्वम् || ५२ || तृतीयं चैव षष्थं च नवमं द्वादशं तथा | गुरूणि जागते पादे यत्र तत्तोटकं भवेत् || ५३ || (यदि सोऽत्र भवेत्तु समुद्रसम- स्रिषु चापि तथा नियमेन यतिः | सततं जगतीविहितं हि ततो गदितं खलु तोटकवृत्तमिदम् ||) ५४ || (किमिदमिति) तोटकस्य छेदकस्य वृत्तं चेष्टितम् | प्. २६१) यथा- किमिदं कपटाश्रयदुर्विषहं बहुशाठ्यमथोल्बणरूक्षकथम् | स्वजनप्रियसज्जनभेदकरं ननु तोटकवृत्तमिदं कुरुषे || ५५ || आद्यं तृतीयमन्त्यं च पञ्चमं षष्ठमेव च | तथोपान्त्यं जगत्यां च गुरु चेत्कुमुदप्रभा || ५६ || (र्यौ त्रिकौ तथान्यौ यदिखलु पादे षड्भिरेव वर्णर्यदि च यतिः स्यात् | नित्यसंनिविष्टा जगतिविधाने नामतः प्रसिद्धा कुमुदनिभा सा ||) ५७ || यथा - मन्मथेन विद्धा सललितभावा नृत्तगीतयोगा र्पविकसिताक्षी | निन्द्यमद्य किं त्वं विगलितशोभा चन्द्रपादयुक्ता कुमुदवती च || ५८ || (मन्मथेनेति) नृत्तगीतयुक्ता न भवसीति संबन्धः | प्. २६२) मतान्तरे - यदि खलु पादे न्यौ त्रिकौ यथा र्यौ यतिरपि वर्णैः षडूभिरेव चेत्स्यात् | जगति विधाने नित्यसंनिविष्टा कुमुदनिभा सा नामतः प्रसिद्धा || ५९ || यथा- कुमुदनिभा त्वं कामबाणविद्धा किमसि नतभ्रूः शीतवातदग्धा | मृदुनलिनीवापाण्डुवक्त्रशोभा कथमपिजाता ह्यग्रतः सखीनाम् || ६० || द्वादशाक्षरके पादे सप्तमं दशमं लघु | आदौ पञ्चाक्षरच्छेदश्चन्द्रलेखा तु सा यथा || ६१ || वक्त्रं सौम्यं ते पद्मपत्रायताक्षं कामस्यावासं सु - नोच्चप्रहासम् | कामस्यापीदं काममाहर्तुकामं कान्ते कान्त्या त्वं चन्द्रलेखेव भासि || ६२ || तृतीयमन्त्यं नवमं पञ्चमं च यदा गुरु | द्वादशाक्षरके पादे यत्र सा प्रमिताक्षरा || ६३ || प्. २६३) यथा - स्मितभाषिणी ह्यचपलापरुषा निभृतापवादविमुखी सततम् | अपि कस्यचिद्युवतिरस्ति सुखा प्रमिताक्षरा स हि पुमान्जयति || ६४ || द्वितीयमन्त्यं दशमं चतुर्थं पञ्चमाष्टमे | गुरूणि द्वादशे पादे वंशस्था जगती तु सा || ६५ || (यदि त्रिकौ ज्तौ भवतस्तु पादत- स्तथैव च (ज्राव)वसानसंस्थितौ | तदा हि वृत्तं जगतीप्रतिष्ठितं वदन्ति वंशस्थमितीह नामतः ||) ६६ || न मे प्रिया त्वं बहुमानवर्जितं प्रियं प्रिया ते परुषाभिभाषिणी | तथा च पश्याम्यहमद्य विग्रहं ध्रुवं हि वंशस्थगतिं करिष्यति || ६७ || चतुर्थमन्त्यं दशमं सप्तमं च यदा गुरु | भवेद्धि जागते पादे तदा स्याद्धरिणप्लुता || ६८ || (स्मितेति) प्रमिताक्षरा भण्यते सा यस्यां स्मितभाषित्वादिगुणा युक्ता सा तादृशी सुसुखी युवतिरपि कस्यचिद्भवेदिति शेषः | प्. २६४) यथा - परुषवाक्यकशाभिहता त्वया भयविलोकनपार्श्वनिरीक्षणा | वरतनुः प्रततप्लुतसर्पणै- रनुकरोति गतैर्हरिणप्लुतम् || ६९ || सप्तमं नवमं चान्त्यमुपान्त्यं च यदा गुरु | द्वादशाक्षरके पादे कामदत्तेति सा यथा || ७० || करजपदविभूषिता यथा त्वं सुदति दशनविक्षताधरा च | गतिरपि चरणावलग्नमन्दा त्वमसि मृगनिभाक्षि कामदत्ता || ७१ || आद्यं चतुर्थं दशमं सप्तमं च यदा लघु | पादे तु जागते यस्या अप्रमेया तु सा यथा || ७२ || न ते काचिदन्या समा दृश्यते स्त्री नृलेके विशिष्टा गुणैरद्वितीयैः | (परुषेत्यादि) भवत्पारुष्यं वाक्यं तदीयया कशया अभिहता वरतनुर्हरिणप्लुतमिव करोति | प्. २६५) त्रिलोक्यां गुणाग्र्यान् समाहृत्य सर्वान् जगत्यप्रमेयासि दृष्टा विधात्रा || ७३ || द्वितीयं पञ्चमं चैव ह्यष्टमैकादशे तथा | पादे यत्र लभूनि स्युः पद्मिनी नाम सा यथा || ७४ || (रास्त्रिकाः सागराख्या निविष्टा यदा स्यात् त्रिके च त्रिके युक्तरूपा यतिः | सन्निविष्टा जगत्यास्ततस्सा बुधै- र्नामतश्चापि संकीर्त्यते पद्मिनी ||) ७५ || देहतोयाशया वक्त्रपद्मोज्ज्वला नेत्रशृङ्गाकुला दन्तहंसस्मिता | केशपाशच्छदा चक्रवाकस्तनी पद्मिनीव प्रिये भासि मे सर्वदा || ७६ || फुल्लपद्मानना त्वं द्विरेफेक्षणा केशपत्रच्छदा चक्रवाकस्तनी | पीततोयावली बद्धकाञ्चीगुणा पद्मिनीव प्रिये भासि नीरे स्थिता ||) ७७ || आदौ षट्दशमं चैव पादे यत्र लघून्यथ | शेषाणि तु गुरूणि स्युर्जागते पुटसंज्ञिता || ७८ || (यदिचरणनिविष्टौ नौ तथा म्यौ यतिविधिरपि युक्त्याष्टाभिरिष्टः | प्. २६६) त्रिलोक्यां गुणाग्र्यान् समाहृत्य सर्वान् जगत्यप्रमेयासि दृष्टा विधात्रा || ७३ || द्वितीयं पञ्चमं चैव ह्यष्टमैकादशे तथा | पादे यत्र लघूनि स्युः पद्मिनी नाम सा यथा || ७४ || रास्त्रिकाः सागराख्या निविष्टा यदा स्यात् त्रिके च त्रिके युक्तरूपा यतिः | सन्निविष्टा जगत्यास्ततस्सा बुधै- र्नामतश्चापि संकीर्त्यते पद्मिनी ||) ७५ || देहतोयाशया वक्त्रपद्मोज्ज्वला नेत्रशृङ्गाकुला दन्तहंसस्मिता | केशपाशच्छदा चक्रवाकस्तनी पद्मिनीव प्रिये भासि मे सर्वदा || ७६ || फुल्लपद्मानना त्वं द्विरेफेक्षणा केशपत्रच्छदा चक्रवाकस्तनी | पीततोयावली बद्धाकाञ्चीगुणा पद्मिनीव प्रिये भासि नीरे स्थिता ||) ७७ || आदौ षट्दशमं चैव पादे यत्र लघून्यथ | शेषाणि तु गुरूणि स्युर्जागते पुटसंज्ञिता || ७८ || (यदिचरणनिविष्टौ नौ तथा म्यौ यतिविधिरपि युक्त्याष्टाभिरिष्टः | प्. २६६) भवति च जगतीस्थः सर्वदासौ य इह हि पुटवृत्तं नामतस्तु ||) ७९ || यथा - उपवनसलिलानां बालपद्मै- र्भ्रमरपरभृतानां कण्ठनादैः | मदनमदविलासैः कामिनीनां कथयति पुटवृत्तं पुष्पमासः || ८० || द्वितीयान्त्ये चतुर्थं च नवमैकादशे गुरु | विच्छेदोऽतिजगत्यां तु चतुर्भिः सा प्रभावती || ८१ || यथा - कथं न्विदं कमलविशाललोचने गृहं धनैः पिहितकरे दिवाकरे | अचिन्त्ययन्त्यभिनववर्षविद्युत- स्त्वमागता सुतनु यथा प्रभावती || ८२ || त्रीण्यादावष्टमं चैव दशमं नैधनद्वयम् | गुरूण्यतिजगत्यां तु त्रिभिश्छेदैः प्रहर्षिणी || ८३ || (उपवनेति) पुटस्य युगलस्य वृत्तं तथा चोपवनं सलिलं चेति युग्मं एवमन्यत् | प्. २६७) यथा - भावस्थैर्मधुरकथैः सुभाषितैस्त्वं साटोपस्खलितविलम्बितैर्गतैश्च | शोभाढ्यैर्हरसि मनांसि कामुकानां सुव्यक्तं ह्यतिजगती प्रहर्हिणी च || ८४ || षष्ठं च सप्तमं चैव दशमैकादशे लघु | त्रयोदशाक्षरे पादे ज्ञेयं मत्तमयूरकम् || ८५ || यथा - विद्युन्नद्धाः सेन्द्रधनूरञ्जितदेहा वातोद्धूताः श्वेतबलाकाकृतशोभाः | एते मेधा गर्जितनादोज्ज्वलचिह्नाः प्रावृट्कालं मत्तमयूरं कथयन्ति || ८६ || आदौ द्वे च चतुर्थं चाप्यष्टमैकादशे गुरु | अन्त्योपान्त्ये च शक्कर्यां वसन्ततिलका यथा || ८७ || चित्रैर्वसन्तकुसमैः कृतकेशहस्ता स्रग्दाममाल्यरचनासुविभूषिताङ्गी | (चित्रैरिति) वसन्तस्य यस्तिलकस्तस्यास्ति उपमानं त्वनेनेति प्. २६८) नानावतंसकविभूषितकर्णपाशा साक्षाद्वसन्ततिलकेव विभाति नारी || ८८ || पञ्चादौ शक्करी पादे गुरूणि त्रीणि नैधने | पञ्चाक्षरादौ च यतिरसंबाधा तु सा यथा || ८९ || मानी लोकज्ञः श्रुतबलकुलशीलाढ्यो यस्मिन्सम्मानं न सदृशमनु पश्येद्धि | गच्छेत्तं त्यक्त्वा तं द्रुतगातिरपरं देशं कीर्णा नानार्थैरवनिरियमसंबाधा || ९० || चत्वार्यादौ गुरूणि स्युर्दशमैकादशे तथा | अन्त्योपान्त्ये च शक्कर्याः पादे तु शरभा यथा || ९१ || एषा कान्ता व्रजति ललितं वेपमाना गुल्मैश्छन्नं वनमभिनवैः संप्रविद्धम् | हा हा कष्टं किमिदमिति नो वेद्मि मूढो व्यक्तं कान्ते शरभललितात्वं करोषि || ९२ || आदौ षट् दशमं चेव लघु चैव त्रयोदशम् | यत्रातिशाक्करे पादे ज्ञेया नान्दीमुखी तु सा || ९३ || साक्षादिति छन्दानुवर्तिनीत्यर्थः | प्. २६९) यथा - न खलु तव कदाचित्क्रोधताम्रायताक्षं भ्रुकुटिवलितभङ्गं दृष्टपूर्वं मयास्यम् | किमिह बहुभिरुक्तैर्या ममेच्छा हृदिस्था त्वमसि मधुरवाक्या देवि नान्दीमुखीव || ९४ || आद्यं चतुर्थं षष्ठं च नैधनं च यदा गुरु | षोडशाक्षरके पादे यत्रेभललितं तु तत् || ९५ || (भ्रौ यदि नाश्च नित्यमिह विरचितचरणाः गश्च तथा च वै भवति निधनमुपगतः | स्यादपि चाष्टिमेव यदि सततमनुगतं तत्खलु वृत्तमग्रवृषभगजविलसितम् ||) || ९६ || यथा - तोयधरैः सुधीरघनपटुपटहरवैः सर्जकदम्बनीपकुटचकुसुमसुरभिः | कन्दलसेन्द्रगोपकरचितमवनितलं वीक्ष्य करोत्यसौ वृषभगजविलसितकम् || ९७ || आद्यात्पराणि वै पञ्च द्वादशं सत्रयोदशम् | अन्त्योपान्त्ये च दीर्घाणि ललितप्रवरं हि तत् || ९८ || (नान्दीमुखीति) नान्द्यां मङ्गलदुन्दुभेरिव मुखं यस्या | प्. २७०) (यदा यमौ पादस्थौ भवत इह चेत्न्सौ तथा र्गौ तथा षड्भिश्चान्यैर्यतिरपि च वर्णैर्यथा स्यात् | तदप्यष्टौ नित्यं समनुगतमेवोक्तमन्यैः प्रयोगज्ञैर्वृत्तं प्रवरललितं नामतस्तु ||) ९९ || यथा - नखालीढं गात्रं दशनखचितं चोष्ठगण्डं शिरः पुष्पोन्मिश्रं प्रविलुलित केशालकान्तम् | गतिः खिन्ना चेयं वदनमपि संभ्रान्तनेत्रं अहो श्लाघ्यं वृत्तं प्रवरललितं कामचेष्टम् || १०० || आद्यात्पराणि पञ्चाथ द्वादशं सत्रयोदशम् | अन्त्यं सप्तदशे पादे शिखरिण्यां गरुणि च || १०१ || (चतुर्भिंस्तस्यैव प्रवरललितस्य त्रिकगणै- र्यदा लौ गश्चान्ते भवति चरणेऽत्यष्टिगदिते | यदा षड्भिश्छेदो भवति यदि मार्गेण विहित- स्तदा वृत्तेष्वेषा खलु शिखरिणी नाम गदिता ||) यथा - महानद्या भोगं पुलिनमिव ते भाति जघनं तथास्यं नेत्राभ्यां भ्रमरसहितं पङ्कजमिव | असाविति (तोयधरैरिति) गज एव वा गजोचितं विलासं करोति इदमिदं विक्ष्य | प्. २७१) तनुस्पर्शच्छायं सुतनु सुकुमारो न परुषः स्तनाभ्यां तु *?भ्यां शिखरिणि निभाभासि वनिते || यत्र पञ्च लघून्यादौ त्रयोदशचतुर्दशे | षोडशैकादशे चैव तत्स्याद्वृषभचेष्टितम् || १०४ || (यदि हि चरणेन्सौ म्रौ स्लौ गः क्रमाद्विनिवेशिताः यदि खलु यतिः षड्भिर्वर्णैस्तथा दशभिः पुनः | यदि च विहितं स्यादत्यष्टिप्रयोगसुखाश्रयं वृषभललितं वृत्तं ज्ञेयं तथा हरिणीति वा || १०५ || यथा - जलधररवं श्रुत्वा श्रुत्वा मदोच्छ्रयदर्पितो विलिखति महीं शृङ्गाक्षेपैर्वृषः प्रतिनर्द्य च | स्वयुवतिवृतो गोष्ठाद्गोष्ठं प्रयाति च निर्भयो वृषभललितं चित्रं वृत्तं करोति च शाद्वले || १०६ || चत्वार्यादौ च दशमं गुरु यत्र त्रयोदशम् | चतुर्दशम् तथान्ये द्वे चैकादशमथापि च || १०७ || यदा सप्तदशे पादे शेषाणि च लघून्यथ | भवन्ति यस्मिन्सा ज्ञेया श्रीधरा नामतो यथा || १०८ || (मो भ्नौ च स्युश्चरणरचितास्तौ गरू च प्रविष्टा- श्छेदःश्लिष्टो यदि च दशभिः स्यात्तथान्यश्चतुर्भिः | प्. २७२) अत्यष्टौ च प्रतिनियमिता वर्णतः स्पष्टरूपा सा विज्ञेया द्विजमुनिगणैः श्रीधरा नामतस्तु ||) स्नानैश्चूर्णैः सुरवसुरभिभिर्गन्धवासैश्च धूपैः पुष्पैश्चान्यैः शिरसि रचितैर्वस्त्रयोगैश्च तैस्तैः | नानारत्नैः कनकखचितैरङ्गसंभोगसंस्थै- र्व्यक्तं कान्ते कमलनिलया श्रीधरेवाति भासि || आद्यं चतुर्थं षष्ठं च दशमं नैधनं गुरु | तद्वंशपत्रपतितं दशभिः सप्तभिर्यतिः || १११ || यथा - एष गजोऽद्रिमस्तकतटे कलभपरिवृतः क्रीडति वृक्षगुल्पगहने कुसुमभरनते | मेघरवं निशस्य मुदितः पवनजवसमः सुन्दरि वंशपत्रपतितं पुनरपि कुरुते || ११२ || द्वितीयमन्त्यं षष्ठं चाप्यष्टमं द्वादशं तथा | चतुर्दशं पञ्चदशं पादे सप्तदशाक्षरे || ११३ || भवन्ति यत्र दीर्घाणि शेषाणि च लघून्यथ | विलम्बितगतिः सा तु विज्ञेय नामतो यथा || ११४ || (यदा द्विरुदितौ हि पादमभिसंश्रितौ ज्सौ त्रिकौ तथैव च पुनस्तयोर्निधनमाश्रितो यो लर्गौ | प्. २७३) तदाष्टिरतिपूर्विका यतिरपि स्वभावाद्यथा विलम्बितगतिस्तदा निगदिता द्विजैर्नाम्तः ||) विघूर्णितविलोचना पृथुविकीर्णहारा पुनः प्रलम्बरशना चलत्स्खलितपादमन्दक्लमा | न मे प्रियमिदं जनस्य बहुमानरागेण य- न्मदेन विवशा विलम्बितगतिः कृता त्वं प्रिये || पञ्चादौ पञ्चदशकं द्वादशैकादशे गुरु | चतुर्दशं तथान्त्ये द्वे चित्रलेखा धृतौ स्मृता || ११७ || यथा - नानारत्नाढ्यैर्बहुभिरधिकं भूषणैरङ्गसंस्थै- र्नानागन्धाढ्यैर्मदनजननैरङ्गरागैश्च हृद्यैः | केशैः स्नानाढ्यैः कुसुमभरितैर्वस्त्ररागैश्च तैस्तैः कान्ते संक्षेपात् किमिह बहुना चित्रलेखेव भासि || अन्त्यं सप्तदशं चैव षोडशं सचतुर्दशम् | त्रयोदशं द्वादशं च षष्ठमष्टममेव च || ११९ || त्रीण्यादौ च गुरूणि स्युर्यस्मिंस्त्वेकोनविंशके | पादेलभूनि शेषाणि शार्दूलक्रीडितं तु तत् || १२० || (स्मौ ज्सौ तौ गुरु च प्रयोगनित्या यस्मिन्निविष्टास्त्रिका प्. २७४) आद्या चान्त्ययतिश्चतुस्त्रिकयुता ज्ञेयापरा सप्तभिः नित्यं यत्पदमाश्रिता ह्यतिधृतिर्नित्यं कवीनां प्रियं तज्ज्ञेयं खलु वृत्तजातिनिपुणैः शार्दूलविक्रीडितम् ||) यथा - नानाशस्त्रशताघ्नितोमरहताः प्रभ्रष्टसवायुधाः निर्भिन्नोदरपादबाहुवदना निर्णाशिताः शत्रवः | धैर्योत्साहपराक्रमप्रभृतिभिस्तैस्तैर्विचित्रैर्गुणै- र्वृत्तं ते रिपुघाति भाति समरे शार्दूलविक्रीडितम् || (तावत्त्वं विजितेन्द्रियः शुभमते सर्वात्मना प्रत्यहं दाने शीलविधौ च योजय मनः स्वर्गापवर्गावहम् | यावद् व्याधिजराप्रचण्डनखरो व्यायत्सटाभिर्भृशं मृत्युस्ते न करोति जीवितमृगैः शार्दूलविक्रीडितम् ||) चुत्वार्यादौ च षष्ठं च सप्तमं सचतुर्दशम् | तथा पञ्चदशं चैव षोडशं नैधनं तथा || १२४ || एतानि च गुरूणि स्युः शेषाणि तु लघून्यथ | पादे यत्र कृतौ ज्ञेया नाम्ना सुवदना तु सा || १२५ || (म्रौ भ्नौ यभौ ल्गौ च सम्यग्यदि च विरचिता पादे क्रमवशात् विच्छेदः सप्तभिः स्यात्पुनरपि च यतिः सप्ताक्षरकृता | यद्येषा संश्रिता स्यात्कृतिमपि च पुनः श्लिष्टाक्षरपदा विद्वद्भिर्वृत्तजातौ तत इह गदिता नाम्ना सुवदना ||) प्. २७५) यथा - नेत्रे लीलालसान्ते कमलदलनिभे भ्रूचापविनते गण्डोष्ठं पीनमध्यं समसहितघनाः स्निग्धाश्च दशनाः | कर्णावंसप्रलम्बौ चिबुकमपि नतं घोणा सुरुचिरा व्यक्तं त्वं मर्त्यलोके वरतनु विहितास्येका सुवदना || चत्वार्यादौ तथा षष्ठं सप्तमं च चतुर्दशम् | अष्टादशं सप्तदशं तथा पञ्चदशं पुनः || १२८ || अन्त्योपान्त्ये गुरूण्यत्र लघन्यन्यानि सर्वदा | एकविंशतिके पादे स्रग्धरा नाम सा यथा || १२९ || (म्रौ भ्नौ यौ यश्च सम्यग्यदि हि विरचिताः स्युस्त्रिकाः पादयोगे वर्णैः पूर्वोपदिष्टैर्यतिरपि च पुनः सप्तभिः सप्तभिः स्यात् | वृत्तं सम्यग्यदि स्यात्प्रकृतिमनुगतं तत्त्वविद्भिः प्रदिष्टं विज्ञेयं वृत्तजातौ कविजनदयिता स्रग्धरा नामतस्तु ||) चूताशोकारविन्दैः कुरवकतिलकैः कर्णिकारैः शिरीषैः पुन्नागैः पारिजातैर्वकुलकुवलयैः किंशुकैः सातिमुक्तैः | एतैर्नानाप्रकारैः कुसुमसुरभिभिर्विप्रकीर्णैश्च तैस्तै- र्वासन्तैः पुष्पबृन्दैर्नरवरवसुधा स्रग्धरेवाद्य भाति ||) प्. २७६) चतुर्थमाद्यं षष्ठं च दशमं द्वादशं तथा | षोडशाष्टादशे चैव नैधनं च गुरूप्यथ || १३२ || द्वाविंशत्यक्षरे पादे शेषाणि च लघून्यथ | भवन्ति यत्र तज्ज्ञेयं मद्रकं नामतो यथा || १३३ || (भ्रौ चरणे यदा विनियतौ त्रिको क्रमवशादथाकृतिविधौ न्रौ च ततः परं च रुचिरावनन्तरकृतौ नगावपि पुनः | तच्च दशाष्टवर्णरचिता चतुर्ष्वपि तथा यतिश्च सततं मद्रकवृत्तमेव खलु नाट्ययोगकुशलैर्बुधैर्निगदितम् ||) उत्प्लुतमेकहस्तचरणं द्वितीयकररेचितं सुविनतं वंशमृदङ्गवाद्यमधुरं विचित्रकरणानुगं बहुविधम् | मद्रकमेतदद्य सुभगे विदग्धगतिचेष्टितैः सुललितै- र्नृत्यसि विभ्रमाकुलपदं विविक्तरसमावितं शशिमुखि || अन्त्यमेकोनविंशं च सप्तमं सत्रयोदशम् | एकादशं सप्तदशं पञ्चमं च गुरूण्यथ || १३६ || शेषाणि च लघूनि स्युर्विकृत्याश्चरणे छुवैः? | वृत्तं तदश्वललितं विज्ञेयं नामतो यथा || १३७ || (यदि च नकार आदिरचितः पदे विरचितोन्त एव च लगौ यदि च जभौ त्रिधा च निहितौ क्रमेण खलु मध्यमावपि तथा | प्. २७७) यदि च समाश्रितं हि विकृतिं यतिश्च दशभिस्तथैकसहितै- स्तत इह कीर्तितं मुनिगणैर्विशुद्धचरितैस्तदश्वललितम् ||) १३८ || विविधतुरङ्गनागरथयौधसंकुलमलं बलं समुदितं शरशतशक्तिकुन्तपरिधास्यियष्टिविततं बहुप्रहरणम् | रिपुशतमुक्तशस्त्ररवभीत शङ्कितभटं भयाकुलदिशं कृतमभिवीक्ष्य संयुगमुखे समर्पितगुणं त्वयाश्वललितम् || १३९ || षडादावष्टमं चैव ह्येकादशचतुर्दशे | विंशं सप्तदशं चैव त्रयोविंशं तथैव च || १४० || एतानि च लघूनि स्युः शेषाण्यथ गुरूणि च | चतुर्विंशतिके पादे मेघमालेति सा यथा || १४१ || (यदि खलु चरणस्थितौ नौ त्रिकौ कृत्तिकाख्यास्तथा राः स्युः क्रमाद् भवति यदि यतिस्तथा सप्तभिः सप्तभिस्त्रिष्वतोऽन्यायतिःपञ्च विद्यात्तथा | प्. २७८) सततमभिनिविष्टदेहा तथा संकृतौ सूरिभिः सर्वदा दृश्यते तत इह परिभाषिता शास्त्रविद्भिस्त्वियं मेघमाला यथा दण्डकः ||) १४२ || पवनबलसमाहृता तीव्रगम्भीरनादा बलाकावलीमेखला क्षितिधरसदृशोच्चरूपा महानीलधूमाञ्जनाभाम्बुगर्भोद्भवा | सुरपतिधनुरुज्ज्वलाबद्धकक्ष्या तडिद्द्योतसन्नाहपट्टोज्वला गगनतलविसारिणी प्रावृषेण्या दृढं मेघमालाधिकं शोभते || १४३ || आद्यं चैव चतुर्थं च पञ्चमं षष्ठमेव च | नवमं दशमं चैव नैधनं च भवेद्गुरु || १४४ || पञ्चविंशतिके पादे शेषाणि च लघून्यथ | वृत्तज्ञैः सा तु विज्ञेया क्रौञ्चपादीति नामतः || १४५ || (भ्मौ यदि पादे स्भावपि चेष्टावभिकृतिरपि च हि यदि खलु विहिता नाश्च समुद्राः स्युर्विनिविष्ठायदि च खलु गुरु भवति निधनगतम् | पञ्चभिरादौ छेदमुपेता पुनरपि यतिरिह यदि खलु दशभिः क्रोञ्चपदेयं वृत्तविधाने सुरगणपितृगणमुनिगणविहिता || प्. २७९) यथा - यः किल दाक्षं विद्रुतसोमं क्रतुवरमचमसमपगतकलशं पातितयूपं क्षिप्तचषालं विचयनमसमिधमपशुकचरुकम् | कार्मुकमुक्तेनाशु चकार व्यपगतसुरगण पितृगणमिषुणा नित्यमसौ ते दैत्यगणारिः प्रदहतु मखमिव रिपुगणमखिलम् || या कपिलाक्षी पिङ्गलकेशी कलिरुचिरनुदिनमनुनयकठिना दीर्घतराभिः स्थूलसिराभिः परिवृतवपुरतिशयकुटिलगतिः | आयतजङ्घा निम्नकपोला लघुतरकुचयौगपरिगतहृदया सा परिहार्या क्रौञ्चपदा स्त्री ध्रुवमिह निरवधि सुखमभिलषता ||) १४८ || अष्टावादौ गुरूणि स्युस्तथा चैकोनविंशकम् | एकविंशं च विज्ञेयं चतुर्विंशं सनैधनम् || १४९ || एतानि गुरुसंख्यानि शेषाणि च लघून्यथ | प्. २८०) षड्त्रिंशत्यक्षरे पादे तद्भुजङ्गविजृम्भितम् || १५० || (यस्मिन्मौतोनाः र्सौ नित्यं प्रतिचरण- मथगदितास्त्रिका ह्यनुपूर्वशः षड्त्रिंशत्यामेकोनायां च यदि हि खलु यतिरभिधा चतुर्भिरथाष्टभिः | पश्चादन्त्यौ ग्लौ संयोज्यौ यदि भवति मनुजदयिता समाश्रितमुत्कृतिं नाम्ना वृत्तं लोके ख्यातं कविवदन- विकसनपरं भुजङ्गविजृम्भितम् || १५१ || यथा - रूपोपेतां देवैः सृष्टां समदगज- विलसितगतिं निरीक्ष्य तिलोत्तमां प्रादक्षिण्यात्प्राप्तां द्रष्टुं बहुवदन- मचलनयनं शिरं कृतवान्हरिः | दीर्घं निश्वस्यान्तर्गूढं स्तनवदन- जघनरुचिरां निरीक्ष्य तथा पुनः पृष्ठे न्यस्तं देवेन्द्रेण प्रवरमणि- कनकवलयं भुजङ्गविजृम्भितम् || १५२ || (रूपोपेतामिति) भुजङ्गविजृम्भितं कृत्वा भगवतो हस्ते न्यस्तम् | प्. २८१) (दण्डकं नामविज्ञेयमुत्कृतेरधिकाक्षरम् | मेघमालादिकं तत्स्यान्नौ चादौ कागुहार्त्रिकाः || १५३ || यथा - मुदितजनपदाकुला स्फीतसस्याकरा भूतधात्री भवन्तं समभ्यर्चति द्विरदकरविलुप्तहिन्तालतालीवनास्त्वां नमस्यन्ति विन्ध्यादयः पर्वताः | स्फुटितं कलशशुक्तिनिर्गीर्णमुक्ता- फलैरूर्मिहस्तैर्नमस्यन्ति वः सागराः मुदितजलचराकुलाः संप्रकीर्णामलाः कीर्तयन्तीव कीर्तिं महानिम्नगाः ||) १५४ || एतानि समवृत्तानि मयोक्तानि द्विजोत्तमाः | विषमार्धसमानां तु पुनर्वक्ष्यामि लक्षणम् || १५५ || यत्र पादास्तु विषमा नानावृत्तसमुद्भवाः | ग्रथिताः पादयोगेन तद्वृत्तं विषमं स्मृतम् || १५६ || नानावृत्तसमुद्भवा इत्यनेन तुल्यच्छन्दसां वृत्तानां लक्षणं पृथक्पृथक्पादे विरचयय स्वयं विषमा ऊह्या इत्याह | प्. २८२) द्वौ समौ द्वौ च विषमौ वृत्तेऽर्धविषमे तथा | सर्वपादैश्च विषमैर्वृत्तं विषममुच्यते || १५७ || ह्रस्वाद्यमथ दीर्घाद्यं दीर्घं ह्रस्वमथापि वा | युग्मौजविषमैः पादैर्वृत्तमर्धसमं भवेत् || १५८ || पादे सिद्धे समं सिद्धं विषमं सार्वपादिकम् | द्वयोरर्धसमं विद्यादेष छेदस्तु पादशः || १५९ || छेदतस्तु मया प्रोक्तं समवृत्तविकल्पनम् | त्रिकैर्विषमवृत्तानां संप्रवक्ष्यामि लक्षणम् || १६० || (नैधनेऽन्यतरस्यां वै प्रथमे पाद इष्यते | द्वितीये चरणे च स्यादित्यनुष्टुप्समासतः) || १६१ || सौ गौ तु प्रथमे पादे स्रौ ल्गौ चापि द्वितीयके | युग्मेऽर्धविषमे पादे ज्ञेया पथ्या तु सा त्रिकैः || १६२ || यथा - प्रियदैवतमित्रासि प्रियसंबन्धिबान्धवा | प्रियदानरता पथ्या दयिते त्वं प्रियासि मे || १६३ || द्वौ समाविति प्रथमतृतीयौ द्वितीयचतुर्थौ | द्वौ विषमाविति प्रथमद्वितीयौ तृतीयचतुर्थौ वीप्सागर्भमेतत् | द्वाविति सिद्ध इति लक्षिते | सार्वपादिकमिति लक्षणीयमितिशेषः द्वयोरित्यत्रापि | छेद इति पादेषु विभाग इत्यर्थः | (समवृत्तविकल्पनं) समवृत्तेषु विकल्पिता ये चित्राश्छेदाः ते प्रोक्ताः | प्. २८३) म्रौ गौ तु प्रथमेपादे यूसौ ल्गौ च द्वितीयके | पादे र्भौ ल्गौ तृतीये च चतुर्थे तु तसौ लगौ || १६४ || यथा - नैवाचारो न ते मित्रं न संबन्धिगुणप्रिया | सर्वथा सर्वविषमा पथ्या न भवसि प्रिये || १६५ || अयुजोर्लक्षणं ह्येतद्विपरीतं तु यत्र च | पथ्या हि विपरीता सा विज्ञेया नामतो यथा || १६६ || कृतेन रमणस्य किं सरित्र रोषेण तेऽप्यर्थम् | विपरीता न पथ्यासि त्वं जडे केन मोहिता || १६७ || चतुर्थादक्षराद्यत्र त्रिलघु स्यादयुक्ततः | अनुष्टुप्चपला सा तु विज्ञेया नामतो यथा || १६८ || यथा - न खल्वस्याः प्रियतमः श्रोतव्यं व्याहृतं सख्या | नारदस्य प्रतिकृतिः कथ्यते चपला हीयम् || १६९ || प्. २८४) विपुला तु युजि ज्ञेया लघुत्वात्सप्तमस्य तु | सर्वत्र सप्तमस्यैव केषांचिद्विपुला यथा || १७० || संक्षिप्ता वज्रवन्मध्ये हेमकुम्भनिभस्तनी | विपुलासि प्रिये श्रोण्यां पूर्णचन्द्रनिभानने || १७१ || यथा - गङ्गेव मेघोपगमे आप्लावितवसुन्धरा | कूलवृक्षानारुजन्ती स्रवन्ती विपुलाचला || १७२ || (आगता मेघसमेय भीरुभीरुकुलोद्गते | एकरात्रौ परगृहं चोरि बन्धनमर्हसि ||) १७३ || एवं विविधयोगास्तु पथ्यापादा भवन्ति हि | युग्मौजविषमैः पादैः शेषैरन्यैस्त्रिकैरथ || १७४ || सगुर्वन्तः सर्वलघुस्त्रिको नित्यं हि नेष्यते | प्रथमादक्षराद्यत्र चतुर्थात्प्राग्लघुः स्मृतः || १७५ || पथ्यापादं समास्थाय त्रीण्यन्ते तु गुरूण्यथ | भवन्ति पादे सततं बुधैस्तद्वक्त्रमुच्यते || १७६ || यथा - दन्तक्षताधरं सुभ्रु जागरग्लाननेत्रान्तम् | रतिसंभोगखिन्नं ते दर्शनीयतरं वक्त्रम् || १७७ || (सगुर्वन्त इति) गुर्वन्तः सः सर्वलघुः नः त्रिकौ नेष्येते | प्रथमादक्षरादनन्तरः चतुर्थादक्षरादूर्ध्वं तु प्राकूलघुः यकारं तु न प्रयोज्यानि प्. २८५) (इत्येषा सर्वविषमा नामतोऽनुष्टुबुच्यते | तद्विदां मतवैषम्यं त्रिकादक्षरतस्तथा ||) १७८ || पादे षोडशमात्रास्तु गाथांशकविकल्पिताः | चतुर्भिरंशकैर्ज्ञेया वृत्तज्ञैर्वानवासिका || १७९ || असंस्थितपदा सुविह्वलाङ्गी मदस्खलितचेष्टितैर्मनोज्ञा | क्व यास्यसि वरोरु सुरतकाले विषमा किं वानवासिका त्वम् स्जौ स्गौ च प्रथमे पादे तथा चैव तृतीयके | केतुमत्यां गणाः प्रोक्ता भ्रौ न्गौ गश्च सदा बुधैः || १८१ || यथा - स्फुरिताधरं चकितनेत्रं रक्तकपोलमम्बुजदलाक्षम् | किमिदं रुषापहृतशोभं केतुमतीसमं वद मुखं ते || वक्त्रस्यापरपूर्वस्य चादौ नौ रो लगौ त्रिकाः | नजौ जरौ द्वितीये च शेषाग्रं पुनरेव तु || १८३ || (प्रथमे च तृतीये नौ रलौ गश्च प्रकीर्तितः | गणाश्चापरवक्त्रे तु नजौ जौ द्विचतुर्थयोः || १८४ || यथा - सुतनुजलपरीतलोचनं जलदनिरुद्धमिवेन्दुमण्डलम् | किमिदमपरवक्त्रमेव ते शशिवदनेऽद्य मुखं पराङ्मुखम् || प्. २८६) नौ र्यौ तु प्रथमे पादे न्जौ ज्रौ गश्च तथापरे | यत्र तत्पुष्पिताग्रा स्याद्यदि शेषं तु पूर्ववत् || १८६ || यथा - पवनबलविधूतचारुशाखं प्रमुदितकोकिलकण्ठनादरस्यम् | मधुकरपरिगीयमानशब्दं वरतनु पश्य वनं सुपुष्पिताग्रम् || १८७ || स्जौ स्लौ चादौ यथा न्सौ ज्गौ श्नौ ज्लौ गश्च तथा पुनः | स्जौ स्जौ गश्च त्रिका ह्येते उद्गतायाः प्रकीर्तिताः || १८८ || यथा - तव रोमराजिरतिभाति सुतनु मदनस्य मञ्जरी | नाभिकमलविवरोत्पतिता भ्रमरावलीव कुसुमात्समुद्गता || स्जौ स्लौ च ततो न्सौ ज्गौ नौ सौ चेति तृतीयके | स्जौ स्जौ गश्च चतुर्थे तु ललिताया गणाः स्मृताः || यथा - ललिताकुलभ्रमितचारुवसनकरचारुपल्लवा | प्रविकसितकमलकान्तिमुखी प्रविभासि देवि सुरतश्रमातुरा || १९१ || एवमेतानि वृत्तानि समानि विषमाणि च | प्. २८७) नाटकाद्येषु काव्येषु प्रयोक्तव्यानि सूरिभिः || १९२ || सन्त्यन्यान्यपि वृत्तानि यान्युक्तानीह पिण्डशः | न च तानि प्रयोज्यानि हतशोभानि तानि हि || १९३ || यान्यत्र प्रतिषिद्धानि गीतके तानि योजयेत् | ध्रुवायोगे तु वक्ष्यामि तेषामेव विकल्पनम् || १९४ || वृत्तलक्षणमेवं तु समासेन मयोदितम् | अत ऊर्ध्वं प्रवक्ष्यामि ह्यार्याणामपि लक्षणम् || १९५ || पथ्या च विपुला चैव चपला मुखतोऽपरा | जघने चपला चैव आर्याः पञ्च प्रकीर्तिताः || १९६ || (आसां तु संप्रवक्ष्यामि यतिमात्राविकल्पनम् | लक्षणं नियमं चैव विकल्पगुणसंश्रयम् || १९७ || यतिश्छेदस्तु विज्ञेयश्चतुर्मात्रो गणः स्मृतः | द्वितीयान्त्यौ युजौ पादावयुजौ त्वपरौ स्मृतौ || १९८ || गुरुमध्यविहीनस्तु चतुर्गुणसमन्वितः | अयुग्गणो विधातव्यो युग्गणस्तु यथेप्सितः || १९९ || ननु हृतशोभानीति चेत् कथं प्रयोज्यानीत्याह यान्यत्र प्रतिषिद्धानीति गीतं पाठ्यमानत्वाभावात् न वृत्तगता श्रव्यतापेक्षते केवलं तालयोजनार्थसाम्यमवश्यकर्तव्यमिति मात्राणां नियमस्तत्राश्रीअयते | प्. २८८) षष्ठो वै द्विविकल्पस्तु नैधनो ह्येकसंस्थितः | पश्चादर्थे तु षष्ठः स्यादेकमत्रस्तु केवलः || २०० || द्विविकल्पस्तु षष्ठो यो गुरुमध्यो भवेत्तु सः | तथा सर्वलघुश्चैव यतिसंज्ञासमाश्रितः || २०१ || द्वितीयादिलघुर्ज्ञेयः सप्तमे पञ्चमे यतिः | प्रथमादिरथान्त्ये च पञ्चमे वा विधीयते || २०२ || गणेषु त्रिषु पादस्य यस्याः पथ्या तु सा भवेत् | अतश्च विपुलान्या तु विज्ञेया यतिलक्षणा || २०३ || अयुजः सर्वगुरवो गुरुमध्या गणा युजः | यस्याः स्युः पादयोगे तु विज्ञेया चपला हि सा || त्रिंशदाद्यस्तु विज्ञेयः सप्तविंशति चापरे | उभयोरर्धयोर्ज्ञेयो मात्रापिण्डो विभागशः || २०५ || त्रिंशत्तस्याश्च यदि स्युरेतानि द्विगुणानि तु | त्रीण्यक्षराणि चान्यानि न्यस्य संख्याविभागशः || एतानि लघुसंज्ञानि निर्दिष्टानि समासतः | सर्वेषां चैवमार्याणामक्षराणां यथाक्रमम् || २०७ || प्. २८९) अर्धाष्टमगणार्धा च सर्वैवार्या प्रकीर्तिता | षष्ठश्च द्विविकल्पसु नैधने ह्येकसंस्थितः || २०८ || पश्चाद्वा यो गणः षष्ठ एकमात्रः स उच्यते | द्विविकल्पस्तु यः षष्ठो गुरुमध्यो भवेत्तु सः || २०९ || यथा सर्वलघुश्चैव यतिसंख्यासमाश्रिता | सा द्वितीया द्विलघुका सप्तमे प्रथमे यतिः || २१० || गुरुमध्यविहीनस्तु चतुर्गणसमन्वितः | अयुग्गणो विधातव्यः युग्गणस्तु स एव च || २११ || प्रथमतृतीयौ पादौ द्वादशमात्रौ भवेत्तु सा पथ्या | विपुलान्या खलु गदिता पूर्वोदितलक्षणोपेता || २१२ || पथ्या यथा - रक्तमृदुपद्मनेत्रा सितदीर्घबहुलमृदुकेशी | कस्य तु पृथुमृदुजघना तनुबाह्वंसोदरी पथ्या || अर्धोऽष्टमो गणः सान्ताः सप्त गणाश्च | चतुर्मात्रा यस्मात्तादृगर्धं यः स्यात् षष्ठो गणो द्विभेदः एकभेदमाह पश्चादर्धे यः षष्ठो गणस्तमिन् कर्तव्ये लघुरेकः कर्तव्यस्तस्य स्थान इत्यर्थः | गुरुमध्यो जः सर्वलघुः चतुर्लघुस्तत्र च द्वितीयादारभ्य लघ्वोर्यतिरर्धे तदनन्तरं पादारम्भः कर्तव्यः अन्ते च प्रथमादिर्यतिः पञ्चमे च गणे समाप्ते यतिः अयुग्गण इति विषयं प्रथमतृतीयपञ्चमसप्तमरूपं | युग्गणः समःस् अ एव चेति जकारस्तत्र न वर्ज्य इति यावत् | अर्धद्वयेऽपि गणत्रये छेदः कर्तव्यः स चैव पाद उच्यते तदाह प्रथमतृतीयौ पादौ द्वादशमात्राविति | प्रथमेऽर्धे गणत्रयं प्रथमः पादः द्वितीयपादे चान्यं गणत्रयं तृतीयपादम् | पथ्येति पथि साध्वित्यर्थः | प्. २९०) विपुला यथा - विपुलजघनवदनस्तननयनैस्ताम्राधरोष्ठकरचरणैः | आयतनासागण्डिअर्ललाटकर्णैः शुभा कन्या || २१४ || द्वितीयश्च चतुर्थश्च गुरुमध्यगतो भवेत् | उभयोरर्धयोर्यत्र विज्ञेया चपला यथा || २१५ || उद्भटगामिनी परुषभाषिणी कामचिह्नकृतवेपा | जानाति मांसयुक्ता सुराप्रिया सर्वतश्चपला || २१६ || पूर्वार्धे लक्षणं ह्येतदस्याः सा च मुखेन तु | पश्चिमार्धे तु चपला यस्याः सा जघनेन तु || २१७ || मुखचपला यथा - आर्यामुखे तु चपला तथापि चार्या न मे यतः सा तु | दक्षा गृहकृत्येषु तथा दुःखे भवति दुःखार्ता || २१८ || जघनचपला यथा - वरमृगनयने चपलासि वरोरु शशाङ्कदर्पणनिभास्ये | कामस्य सारभूते न पूर्वमदचारुजघनेन || २१९ || उभयोरर्धयोरेतल्लक्षणं दृश्यते यदि | वृत्तज्ञैः सा तु विज्ञेया सर्वतश्चपला तु सा || २२० || कार्यौ द्वादशमात्रौ च पादावाद्यौ तृतीयकौ | अष्टादश द्वितीयं च तथा पञ्चदशोत्तमाः || २२१ || प्. २९१) चतुःपञ्चप्रकाराणां चतुष्काणां विशेषतः | प्रस्तारयोगमासाद्य बाहुल्यं संप्रदर्शयेत् || २२२ || पञ्चपञ्चाशदन्त्या तु त्रिंशदाद्या तथैव च | आर्या त्वक्षरपिण्डेन विज्ञेयात्र प्रयोक्तृभिः || २२३ || त्रिंशतस्त्वथ वर्णेभ्यो लघुवर्णत्रयं भवेत् | शेषाणि गुरुसंख्यानि ह्येवं सर्वत्र निर्दिशेत् || २२४ || सर्वेषामेव चार्याणामक्षराणां यथाक्रमम् | सर्वेषां जातिवृत्तानां पूर्वमुत्तरसंख्यया || २२५ || विकल्पं गणनां कृत्वा संख्यां पिण्डेन निर्दिशेत् | आर्यागीतिरथार्धे च केवलं चाष्टभिर्गणैः || २२६ || आर्याणां भेदं दर्शयितुं तत्प्रस्तारमित्याह | चतुःपश्चप्रकाराणां चतुष्काणां विशेषतः | प्रस्तारयोगमासाद्य बाहुल्यं संप्रदर्शयेत् || इति अयुक्स्थानगतानां चतुष्प्रकाराश्चतुर्गणाः | समस्थानगताः पञ्चप्रकारास्तेषां यो विशेषः परस्परसंकीर्णतातत्कृतमार्याणां प्रस्तारबाहुल्यं निरूपयेत् | अन्त्या सर्वलघु कार्या पञ्चपञ्चाशदक्षराणि प्रथमार्धे एकान्न त्रिंशत् द्वितीये षड्विंशतिः | शिशिरतरकिरणपरिकरसकलकलविरचितकपिशकचनिचय | समहृदय (तनुविनिहितधरणिधरवरसुत जयजय शिव ||) लघुद्वयं द्वितीये षष्ठे स्थाने लघुः तथा च लघुवर्णत्रयमिति | अत्र मात्रावृत्तानां संज्ञाज्ञानार्थमाह | सर्वेषामेवेति | पूर्वं कृत्वा यो विकल्पसंख्याभेदः तस्योत्तरसंख्यया सह गुणसंहननं कृत्वा यो भवति पिण्डस्तेन संख्यां वदेत् | प्. २९२) इतरार्धे तु षष्ठस्तु न लघुर्गण इष्यते | वृत्तैरेवं तु विविधैर्नानाछन्दस्समुद्भवैः || २२७ || काव्यबन्धास्तु कर्तव्याः षट्त्रिंशल्लक्षणान्विताः || इति भारतीये नाट्यशास्त्रे छन्दोविचितिर्नामाध्यायः पञ्चदशः || तत्र समस्तासां पञ्चभेदः विषमश्चतुर्भेदः षष्ठो द्विभेदः द्वितीयेऽर्धे त्वेकभेदः अष्टममेकभेदम् | तदत्र पूर्वाङ्केनोत्तराङ्कस्य गुणनं तेनान्याङ्कस्य षोडश स्थानानि | संख्यालाभः तत्र चतुर्भिः पञ्चानां गुणने विंशतिस्तया चतुर्णां गुणने विंशतिस्तया च गुणानां गुणने विंशतिरित्यादि मन्तव्यम् | तदाह - आर्याः शतसहस्राणि ज्ञेया ह्येकान्नविंशतिः | अष्टौ कोट्यः सहस्राणि विंशतिश्च प्रमाणतः || न लघुरिति | अपि तु प्रथमार्धवदपरार्धेऽपि षष्ठो द्विभेदो गणः आर्यागीतावित्यर्थः | अध्यायार्थमुपसंहरन् भाविनं विषयमासूत्रयति वृत्तैरित्यादि | काव्यवन्या इत्यनेनेदमाह यथा प्रासादकुड्यादिके कर्तव्ये प्रथमं भूमिः तद्वत्काव्ये निर्मातव्ये भूमिकल्पः शब्दच्छन्दोविधिः क्षेत्रपरिग्रहं वृत्तसमाश्रयमित्यादि विरचयन् भित्तिस्थानियं लक्षणयोजनं चित्रकर्मप्रतिममलङ्कारगुणनिवेशनं गवाक्षवातायनादिदेशीयो दशरूपकविभागः उपयोगनिरूपणाप्रख्या काकादिप्लुतिः एवंभूतवाचनिकाभिनयस्वरूपं चतुर्दशादिभिः षड्भिरध्यायैरुच्यते | तत्राध्यायद्वयं वृत्तलक्षणविधानं तु भविष्यति | यद्यपि रूपकविरचनकाले परिपक्वप्रज्ञस्य न क्रमप्रतिभासस्तथाप्यपोद्धारधिया कल्प्यत इत्याहुः | प्रबन्धस्य यो युक्तोऽभ्यासः तन्निष्पत्तिः प्रबन्धाभ्यासः तत्संपत्तिः अभिनयार्थनिर्वर्तनं तदभिनयोपारोहणमिति स एव क्रम इत्युपाध्यायः | यदाहुः - महाकवीनां पदवीमुपात्तामारुरुक्षताम् | नासंस्मृत्य पदस्पर्शान्संपत्सोपानपद्भतिः || इत्यादि | प्. २९३) क्रमोल्लङ्घने हि सति नाटकादिविरचयतां महान्तः प्रमादापभ्रंशा भवन्ति | न हि सर्वो वाल्मीकिर्व्यासः कालिदासो भट्टेन्दुराजो वा तेषामपि प्राग्जन्मार्जितक्रमाभ्याससमुदितसंस्कारपाटवोत्पादितः कुलप्रतिभङ्गज्ञानातिशय इति शिवम् || इति पञ्चदशाध्याये ध्यायिना परमेश्वरम् | कृताभिनवगुप्तेन गुप्तार्थप्रकटीक्रिया || इति श्रीमहामाहेश्वराभिनवगुप्ताचार्यविरचितायां नाट्यवेदविवृतावभिनवभारत्यां वृत्तविधिर्नाम पञ्चदशोऽध्यायः || श्री नाट्यशास्त्रम् षोडशोऽध्यायः विभूषणं चाक्षरसंहतिश्च शोभाभिमानौ गुणकीर्तनं च प्रोत्साहनोदाहरणे निरुक्तं गुणानुवादोऽतिशयः सहेतुः || सारूप्यमिथ्याध्यवसायसिद्धि- पदोच्चयाक्रन्दमनोरथाश्च | आख्यानयाच्ञाप्रतिषेधपृच्छा- दृष्टान्तनिर्भासनसंशयाश्च || २ || विचित्रं रूपकभुवो लक्षणं भूषणं भुवः | भास्यते येन तं वन्दे प्राच्यधीसाधितं शिवम् || (ननु) काव्यबन्धाः षट्त्रिंशल्लक्षणान्वितः कर्तव्या इत्युक्तं तत्र गुणालङ्कारादिरिति वृत्तयश्चेति काव्येषु प्रसिद्धो मार्गो लक्षणानि तु न प्रसिद्धानि किं च पुरुषस्येव काव्यस्य लक्षणगुणालङ्कारव्यवहारो न युक्तः पुरुषस्य शरीरचैतन्यभेदात् कटकादीनां ततोऽपि भेदात् काव्यस्य पुनर्विरचनकाले प्रति- प्. २९५) आशीः प्रियोक्तिः कपटः क्षमा च प्राप्तिश्च पश्चात्तपनं तथैव | अर्थानुवृत्तिर्ह्युपपत्तियुक्ती कार्योऽनुनीतिः परिदेवनं च || ३ || षट्त्रिंशदेतानि तु लक्षणानि प्रोक्तानि वै भूषणसंमितानि | काव्येषु भावार्थगतानि तज्ज्ञैः सम्यक्प्रयोज्यानि यथारसं तु || ४ || पत्तिकाले वा प्रापकसत्तायां तेषामगणितत्वाच्च | दण्डिनापि काव्यशोभाकरान्धर्मानलङ्कारान्प्रचक्षते इति ब्रुवता गुणमध्य एव तत्र प्रसादादीनभिदधता च गुणालङ्कारविभागैऽप्यसंभवीति सूचितं भवति | सत्यमेतत् किं तु विरचनविवेचनसामर्थ्यसमर्थनायावश्यं काल्पनिकोऽपि विभाग आश्रयणीयः | तत्र कल्पनायां विप्रतिपत्तयः केचिदाहुः - इह गुणास्तावदात्मनि चिन्मये शृङ्गारादौ वर्तन्ते शृङ्गारे चावश्यं च लक्ष्यत इति पृथक्सिद्धत्वादलङ्कारः शरीरनिष्ठमेव यत्पदं पृथक्सिद्धं तल्लक्षणम् येन शरीरस्य सौन्दर्यं जायते | तच्च सिद्धरूपं साध्यरूपं वा यथा श्यामेति मदमन्थरगामिनी इति च | एतदेव लक्षणं तच्चालंक्रियते | अलङ्कारैर्युक्तं काव्यं लक्षणैर्विना न शोभते | क्रियावाच्योपमेयभेदेन तदेतल्लक्षणं द्विधेति यथा श्यामा विशालाक्षी मत्तमातङ्गगमिनी इति च | अन्ये मन्यन्ते - इतिवृत्तखण्ड(ल)कान्येव सन्ध्यङ्गकानि लक्षणानीति च व्यपदिश्यन्ते | निमित्तभेदात् पूर्वापरसंबन्धेन वीजोपक्षिप्तेऽर्थे निर्वहणपर्यन्ते प्. २९६) परस्परसन्धायकत्वेन सन्ध्यङ्गतया व्यपदेशः रसविशेषोपयोगितया वृत्त्यङ्गवाचोयुक्तिः काव्यगतख्यातिप्राशस्त्योपयोगितया महापुरुषगतपाशध्वजपादरेखादिवल्लक्षणशब्दवाच्यता | तदुक्तं तत्रैव - लक्षणान्येव बीजार्थक्रमनिर्वाहकानि च | इति प्रतिसन्धितदङ्गानि फलसिद्ध्युपपत्तितः || इति | (काव्ये धीरोदात्तादिगुणाधानं वस्तुवर्णनाभङ्गिर्वेति केचित्) तदत्र प्रथमपक्षे वर्णनीयप्रधानभूताधिकारपुरुषगतगुणादिविभाग एव काव्ये पर्यवसीयते | द्वितीयपक्षे तु वर्णनीयः सकल एवेति | वृत्तिलक्षणोऽर्थः काव्यभेदात् त्रेधा विभज्यते | एकेषां तु दर्शनं - कवेर्यः प्रतिभात्मा प्रथमपरिस्पन्दः तद्व्यापारबलोपनता गुणाः प्रतिभावत एव हि रसाभिव्यञ्चनसामर्थ्यं माधुर्यादेरुपनिबन्धनसामर्थ्यं न सामान्यकवेः | अनेन शब्देनेदं वस्तु वर्णयामीत्येवंभूतवर्णनापरपर्यायद्वितीयव्यापारसंपाद्यास्त्वलङ् काराः | शब्दानमीभिः शब्दैरर्थानमीभिरर्थैः संघटयामीत्येवमात्मकस्तु यस्तृतीयः कवेः परिस्पन्दः तदधीनात्मलाभादिशब्दात्मार्थात्मककाव्यशरीरसंश्रितानि वक्ष्यमाणश्लेषादिगुणदशकसमभिव्यञ्चनव्यापाराणि शब्दार्थोपसंस्कारकल्पानि क्रियारूपाणि लक्षणानीति यदुक्तं तत्रैव - इति शब्दार्थयोर्येयं संश्रिता देहभूतयोः | काव्ये तया दर्शितानि लक्षणानि (विदुर्बुधाः) || इति काव्येऽप्यस्ति तथा कश्चित् स्निग्धः स्पर्शोऽर्थशब्दयोः | यः श्लेषादिगुणव्यक्तिदक्षः स्याल्लक्षणस्थितः || इति चेष्टालङ्कारदृष्टान्तचिह्नंः ....... || इति च अत्र पक्षे कविव्यापारभेदाद्गुणालङ्कारलक्षणविभागः | अपरे संगिरन्ते - अभिनेयानां काव्यबन्धानां वक्ष्यमाणस्वरूपं च रूपकं समभिदध्यात् कवेः स्वसामर्थ्याधानाय तावदभ्यासो निर्माणविधेयो लक्षणं मस्तकासंपूर्णश्चादौ क्रमेण तु तथाभूतोऽभिनेयार्थः काव्यबन्धो (लक्षणोन्नीतः) तेन च लोकोत्तरहृद्यवर्णने योगात् | तथा हि किञ्चित् प्रबन्धजातं गुणालङ्कार निकरप्रधानं यथा मेघदूताख्यं तद्विभूषणम् एवमन्यदपि इति | प्रबन्धधर्मा लक्षणानि इति केचित्तु व्रुवते | कवेरभिप्रायविशेषो लक्षणमितीतरे पुनर्मन्यन्ते | केचिद् यथास्थानविशेषं यद्गुणालङ्कारायोजनं तल्लक्षणमिति | प्. २९७) परे त्वभाषन्त - अलङ्कारादिनिरपेक्षेणैव निसर्गसुन्दरो योऽभिनेयविशेषः काव्येषु दृश्यते अमरुकश्लोकेष्वपि तत्सौन्दर्यहेतुर्यो धर्मः सलक्षणः स एव चार्थः काव्यशरीरविशेषरूपो लक्षणम् | उपमादीपकरूपकाणामानन्त्याद् भेदमाहुः | तुशब्देन अर्थे न चित्रत्वं लक्षणमिति | इतरेषां तु मतं यथा तन्त्रप्रसङ्गवाधातिदेशादि मीमांसाप्रसिद्धं वाक्यंविशेषव्यवच्छेदलक्षणं तथा काव्यविशेषव्यवच्छेदकं भूषणादिलक्षणजातमिति त्वयं पक्षो द्वितीयपक्षान्न भिध्यते | एतेषु तु पक्षेष्वन्यतमग्रहे विशेषणानि न संगच्छन्ते स्पष्टेन पथा | इदं तु दशपक्ष्यां वस्तु | इह काव्यार्था रसा इत्युक्तं प्राक् | उक्तं च वर्णनीयं शब्दनीयं कवेः कर्मेति च व्युत्पत्तित्रयं काव्यमिति | अनेनाभिधेयं अभिधानं अभिधां च स्वीकृत्यावस्थीयते अपि च शब्दव्यापारोऽभिधातृव्यापारः प्रतिपाद्यव्यापारश्चेति त्रिगतः | तत्र शब्दस्य रसाभिव्यक्तिक्षमार्थप्रतिपादकत्वं स्वयं च श्रोत्रे च संक्रान्तिमात्रं नान्तरीयकतया तद्रसदर्शनयोग्यतापादन सामर्थ्याद्गुणशब्दवाच्यम् आवर्तमानो द्वितीयो वर्णः पदं वा प्राक्तनवर्णनादशोभाहेतुरलङ्कारः | एवमर्थस्यापि यद्रसाभिव्यक्तिहेतुत्वं सोऽर्थगुणः यस्तु वस्त्वन्तरं वदनस्येव चन्द्रः सोऽलङ्कारः यस्तु त्रिविधोऽप्यभिधाव्यापारः स लक्षणानां विषयः | तथाहि - इदमनेन शब्देनानयेतिकर्तव्यतयाऽमुनाशयेनेत्थंभूतबुद्धिजननाय ब्रुवे इति कविः प्रवर्तते स तथा भूतं रसवत्काव्यं विधत्ते | तत्र चित्तवृत्त्यात्मकं रसं लक्षयंस्तत्तद्रसोचितविभावाद्वैचित्र्यसम्पादकस्त्रिविधोऽभिधाव्यापारो लक्षणशब्देनोच्यते | इत्येषां सामान्यलक्षणम् | यथा च पीवरत्वं स्तनयोर्लक्षणं मध्यस्य तु कुलक्षणं एवं किञ्चिदभिधीयमानं केनचिद्रूपेण रसोचितेन विभावादिरूपेण तमेव पदार्थक्रमं लक्षयल्लक्षणं अन्यत्र तु तत्कुलक्षणं तेन सर्वेऽलङ्कारा गुणास्तत्समुदायाद्विलक्षणा भवन्ति | तथा स्वार्थोऽपि च क्वचिदर्थमात्रं क्वचिदलङ्कारोऽर्थतः क्वापि चित्रतः क्वचिदलङ्कारादिप्रक्रियाविहीनोऽपि स्वयं सुन्दरस्वभावोऽर्थः कुत्रचिच्छन्द इति त्रिविधव्यापारगामी तद्द्वारेणाभिधानाभिधेयतद्गुणालङ्काराद्यनुग्रहः शब्दानां शब्दैरर्थानामर्थैः शब्दानामर्थैस्तथापरैः संघठनां विचित्रां कारयमाणाभिधाव्यापारवती ह्युक्तिर्निर्वाणप्रधानधुराधिरोही लक्षणाख्य एव | प्. २९८) अत एव पूर्वं काव्यबन्धस्तु कर्तव्याः षट्त्रिंशल्लक्षणान्विताः इति लक्षणान्येव हि प्रधानं तत्प्रसङ्गेन गुणालङ्कारा इति तात्पर्यम् | विशेषलक्षणव्याख्याने चेतत्स्फुटयिष्यामः | तत्र लक्षणान्युद्देष्टुं तावदाह विभूषणमित्यादि यथारसं त्वित्यन्तेन श्लोकचतुष्टयेन | यथारसं ये भावा विभावानुभावव्यभिचारिणः तेषां योऽर्थः (तं) स्थायिभावरसीकरणात्मकं प्रयोजनान्तरं गतानि प्राप्तानि यदभिधाव्यापारोपसंक्रान्ता उद्यानादयोऽर्थास्तद्रसविशेषविभावादिभावं प्रतिपद्यन्ते तानि लक्षणानीति सामान्यलक्षणम् | अत एव काव्ये सम्यक्प्रयोज्यानीति विषयस्तेषामुक्तः | भट्टनायकेनापि त एव(?)शिक्षित्वाभिधाव्यापारप्रधानं काव्यमित्युक्तं - शब्दप्राधान्यमाश्रित्य तत्र शास्त्रं पृथग्विदुः | अर्थे तत्त्वेन युक्ते तु वदन्त्याख्यानमेतयोः | द्वयोर्गुणत्वे व्यापारप्राधान्ये काव्यगीर्भवेत् || इति | भामहेनापि - सैषा सर्वैव वक्तोक्तिरनयार्थो विभाव्यते (२-७५) इत्यादि | तेन च परमार्थे व्यापार एव लक्षणं स तु विषयद्वारेण विशेषलक्षणे तु निरूप्यत इति तत्स्वीकृतत्वादर्थोऽपि लक्षणं व्यापारोऽपिच तद्विदां तु तदभ्यासपराणां च तथाभूतकाव्यात्मकविषयावलोकने झटित्येव प्रतिभाति | तदन्यत्रानुमानेन प्रतिभया स्वसंवेदना - इत्यनेन प्रयोजनम् | कुशलशिक्षित व्यापारो हि तत्काव्यदृशि भात्येव | षट्त्रिंशदिति च नान्यदिति वारणपरं कविहृदयवर्तिनामपराणामपरिसंख्येयत्वात् | किं तु बाहुल्येन तावदियता लक्ष्यव्याप्तं इयति च कविनावधातव्यमिति संख्यानिरूपणम् | तथा च मतान्तरेण भरतमुनिरेवान्यथाप्युद्देशलक्षणेन नामान्तरैरपि च व्यवहारं करोति तत एव पुस्तकेषु भेदो दृश्यते तं च दर्शयिष्यामः | पठितोद्देशक्रमस्त्वस्मदुपाध्यायपरम्परागतः || प्. २९९) अलङ्कारैर्गुणैश्चैव बहुभिर्यदलङ्कृतम् | भूषणैरिव विन्यस्तैस्तद्भूषणमिति स्मृतम् || ५ || तत्र विभूषणं लक्षयितुमाह अलङ्कारैरिति | भूषणैः कटकादिभिः विभज्य स्थानदेशकालदशापुरुषादिविभागं विचार्य न्यस्तैरिव गुणालङ्कारिअर्यदलङ्करणं तद्भूषणं नाम लक्षणम् कविव्यापारः तद्द्वारेण शब्दार्थव्यापारावपि | एतदुक्तं भवति - इह गुणा अलङ्काराश्च विषया इत्यनेन निबद्धाः काव्यार्थीकृतानामभिधेयानां रसविशेषविषयं विभावादिभावं विवरीतुं समर्थाः | तथा हि हास्यरसप्रधाने प्रहसनादौ शुष्कश्रोत्रिये वक्तरि प्रयोक्तरि श्रोतरि वा गुणविनिवेशितं तु लक्षणं भजत्यलङ्कारश्च | तथा हि पादताडितके श्रोत्रियं श्रोतारमभिप्रेत्य विटस्यापि निर्गुणपुरुषस्यैवोक्तिः मा मुसलेनापाकार्षीः मा कुसूलाग्निना धाक्षीः इति शोभां पुष्णाति | अनौचित्यनिबन्धस्तु करुणविप्रलम्भादौ यमकस्य यथा - विना प्रियतमेनाद्य विरहानलतापिता | दह्येच्चूतस्य विच्छेदं किं तु हा नलतापिता || स्थाने निवेशस्तु यथा - लीनेव प्रतिबिम्बितेव लिखितेवान्तर्निखातेव च प्रोत्कीर्णेव च वज्रलेपघटितेव इति | (मालतीमाधवात्) अत्रापि लोके उत्प्रेक्स्.आप्रमपरैव हीयं सातिशयकामावेशावस्थासमुद्द्योतितप्रियतमाविषयविचित्रसंकल्पगर्भस. म्भवौन्मुख्यप्राणत्वाद् विप्रलम्भस्य कामावस्थानां च माधुर्यप्रसादोपेते च काव्ये श्रोत्रपथमवतरत्येवेति प्रतिपाद्यते | सुकुमारचित्तवृत्तिसुभगोऽयमुत्तमश्चेत्येवं समस्तस्य गुणालङ्कारवर्गस्यानुग्राहकमिदं कविव्यापाररूपं तद्वशाच्च शब्दार्थतद्व्यापाराद्यपि स्पृशद्विभूषणाख्यं लक्षणम् | एतमेवार्थं सम्यगानन्दवर्धनाचार्योऽपि विविच्य न्यरूपयत् - ध्वन्यात्मभूते शृङ्गारे समीक्ष्य विनिवेशितः | रूपकादिरलङ्कारवर्ग एति यथार्थताम् || प्. ३००) यत्राल्पैरक्षरैः श्लिष्टैर्विचित्रार्थोपवर्णनम् | तदप्यक्षरसङ्घातं विद्याल्लक्षणसंज्ञितम् || ६ || इत्युक्त्वा क्रमेण - विवक्षातत्परत्वेन नाङ्गित्वेन कदाचन | काले च ग्रहणत्यागौ नातिनिर्वहणैपिता || (ध्वन्यालोके-२) इत्यादिना ग्रन्थसन्दर्भेण सोदाहरणेन | तच्चास्माभिः सहृदयालोकलोचने तद्विवरणे विस्तरतो व्याख्यातमिति तत्कुतूहलन्तदेव गृह्णीयात् | इह तु प्रसक्त्या ग्रन्थभूयस्त्वादुद्विजते लोक इति न विस्तारितम् || अथाक्षरसंतिमाह यत्राल्पैरिति | अक्षरशब्देन यदृच्छाशब्दप्राधान्यं यदृच्छाशब्देषु स्वरूपस्यैव प्रवृत्तिनिमित्तत्वात् तेनाल्पैरेवाक्षरैः श्लिष्टैर्विप्रकृतावित्युक्ताभिरुपलक्षितत्वेनैव विचित्रं तद्रसोचितविभावादिभावं र्पाप्यमाणोऽर्थ उपवर्ण्यते श्रोतृणां हृदयमुपसंक्रामयितुं यत्तस्मिन् कविव्यापारोऽक्षरसङ्घातस्तत्कारणत्वात् | तथाहि मानिनीत्यक्षराणि ईर्ष्याविप्रलम्भे तरुणीत्याभिलाषिके वरतनुरिति संभोगे विभावनां तामेव प्रापयन्ति | अस्तीतिव्युत्पत्तिस्तथापि पर्यन्ते मानादिशब्दानामन्ततो वा धातुप्रत्ययमात्रादेरवश्यं यदृच्छात्वमित्यक्षराणामेव संघातः प्रधानं यदृच्छाशब्दप्राधान्ये उदाहरणं यथा - विस्रम्भादुत्तमाङ्गं प्लवगवलपतेः पादमक्षस्य हन्तुः कृत्वोत्सङ्गे सलीलं त्वचि कनकमृगस्याङ्गमाधाय शेषम् | वाणं रक्षःकुलघ्नं प्रगुणितमनुजेनादरात्तीक्ष्णमक्ष्णोः | कोणेनोद्वीक्षमाणस्त्वदनुजवदने दत्तकर्णोऽयमास्ते || विस्रम्भादित्यादीनां मैत्रीप्रधानवालिहननपूर्वकसाम्राज्यदातृत्ववलाच्चेत्युक्तम् | अक्षस्य यो हन्तेत्येकाकिनापि येनाशोकवनिकाविप्लोषणं राक्षसवलक्षपणं च कृतं सोऽपि यत्र प्रधानप्रकृतिर्भवतीत्युक्तम् | त्वचीति प्रहतमारीचवृत्तान्तः | वाणमित्यादिना तत्रैवास्य बहुमान इत्युक्तम् | राक्षसविषयदैववैगुण्यमित्यु- प्. ३०१) सिद्धैरर्थैः समं कृत्वा ह्यसिद्धोऽर्थः प्रसाध्यते | यत्र श्लक्ष्णा विचित्रार्था सा शोभेत्यभिसंज्ञिता || ७ || क्तम् | अत्र च यत्र यस्य यद्व्यापारस्तत्र प्राधान्यस्य का कथेति | प्रगुणितमिति बहुतररणसंमर्दधुरन्धरतया कुटिलीकृतस्यापि क्षेत्रबहुमाने पुनर्योजनम् | त्वदनुजवदन इति भेदोपायकृता नीतिसंपत् परपक्षे च विपर्ययम् | दत्तकर्ण इति तदाकर्णनमात्रमेतत् न तु हृदये निर्व्याजं तेजोजाज्वल्यमानौजसि भेदं प्रतिकोऽप्यस्य बहुमानः | अयमिति गम्भीरधीराकृतिः प्रत्यासन्नश्चास्त इति | यद्यपि प्रकृते नापि कश्चित्क्षोभोऽत एवोक्तं सलीलमिति | अत्र चार्थस्यालङ्कारघटनाप्रयासमन्तरेणैव सुन्दरत्वं लक्षणकृतमेव | ननु साभिप्रायमात्रत्वं नामार्थस्य तु गुण ओज इत्युक्तम् | शोभाः सहृदयाः अर्थो जडस्तस्याभिप्राय इति कथं भाषावक्तृश्रोत्रोः स इति चेत् तद्गतोऽर्थस्य गुण इति कथम् | अथ वस्त्वन्तराक्षेपकत्वमेव तस्य स गुण इत्युच्यते तद्वस्त्वन्तरमाक्षिप्यं वक्रभिप्रायरूपमेवाक्षेपकत्वमपि कविमनीषाव्यापारवलादेव तथाविनिवेशनात् प्रकारायोगे तथाभावात् | अत एव प्रौढिर्वस्तुतो वक्तृगतैव नान्वर्थे काममुपचर्यतामित्यलं बहुना | एतेषां च लक्षणानां संकीर्णत्वेन लक्ष्यं दृश्यते बाहुल्यापेक्षया तूदाहरणं मन्तव्यम् | अथ शोभा - सिद्धैरर्थैरिति | यथा - मेदश्छेदकृशोदरं लघुभवत्युत्थानयोग्यं वपुः सत्त्वानामपि लक्ष्यते विकृतिमच्चित्तं भयक्रोधयोः | उत्कर्षः स च धन्विनां यदिषवः सिध्यन्ति लक्ष्य चले मिथ्या हि व्यसनं वदन्ति मृगयामीदृग्विनोदः कुतः || (शाकु १.) अत्र पादत्रयेण प्रसिद्धा एवार्था अभ्यसनीयत्वेन शोभमानास्तैः समविकलं मृगयालक्षणमर्थं कृत्वा अप्रसिद्धोऽनुचितोऽपि सोऽर्थ उचितो विचित्रश्च निरूपितः | न चात्रालङ्कारः कश्चिदिति कविव्यापारेण यः प्. ३०२) धार्यमाणस्तु बहुभिर्वचनैः कार्ययुक्तिभिः | न यः पर्यवतिष्ठेत सोऽभिमानस्तु संज्ञितः || ८ || कीर्त्यमानैर्गुणैर्यत्र विविधार्थसमुद्भवैः | दोषा न परिकथ्यन्ते तज्ज्ञेयं गुणकीर्तनम् || ९ || शब्दार्थव्यापारादेवार्थघटनात्मा तत्कृतं हृद्यं लक्षणार्थमेव | अशोभनोऽप्यर्थोऽमुना नयेन शोभत इति शोभेयमुक्ता || अथाभिमानः - धार्यमाणस्तु बहुभिरिति | यथा ममैव - शीतांशोरमृतच्छटा यदि कराः कस्मान्मनो मे भृशं संप्लुष्यन्त्यथ कालकूटपटलीसंवाससंधुक्षिताः | किं प्राणान् न हरन्त्युत प्रियतमासंजल्पमन्त्राक्षरै- र्वार्यन्ते किमु यद्विमोहविवशत्सन्तापतन्त्रा स्थितिः || अत्र हि तादृश्यर्थस्यार्थेन घटना कृता यस्यां कार्ययुक्तिभिः फलयोजनाभिर्धार्यमाणो हृदये स्थाप्यमानो नावतिष्ठत इति | वार्यमाणोऽपि वा न निवर्तते | तवायं वद्धः | तथाभूतोऽर्थोऽलौकिकत्वात्तावानुपायः कविनालङ्कार उपमानोपमेयभावस्य कथंचिदप्यस्वीकारात्केवलं वक्तुरभिमतं वदता किमिव मयाप्येवं तदपि नैवेत्यभिधामभिधानाख्यलक्षणम् | एतदेव सादृश्यनाम्नाप्यन्यैरुक्तम् | दृष्टश्रुतानुभूतार्थकथनादिसमुद्भवम् | सादृश्यं क्षोभजननं सारूप्यमिति संज्ञितम् || इति | अमृतकरत्वं हि चन्द्रस्य श्रुतं कालकूटसहोदरत्वं च मन्त्राणां विषशमनं दृष्टं स्वयमनुभूतं मोहादि तत्समुद्भवं यत्प्रकृते सादृश्यं तेन लोकदृष्टेन तुल्यवृत्तान्तत्वं तत्क्षोभं हृदयेऽन्वस्थानं जनयति - यद्यमृतसदृशश्चन्द्रपादाः तत्किमेवमङ्गं विदध्युरिति | एवमन्यत् | अथ गुणकीर्तनं - कीर्त्यमानैर्गुणैरित्यादि | (यथा) - पृथुरसि गुणैर्मूर्त्या रामो नलो भरतो भवान् महति समरे शत्रुघ्नस्त्वं तथा जनकः स्थितौ | प्. ३०३) उत्साहजननैः स्पष्टैरर्थैरौपम्यसंश्रयैः | प्रसिद्धैरुपगूढं च ज्ञेयं प्रोत्साहनं बुधैः || १० || यत्रैकस्यापि शब्दस्य दर्शनात्सुबहून्यपि | यान्ति सिद्धिमनुक्तानि तदुदाहरणं स्मृतम् || ११ || इति सुचरितैर्मूर्तिं बिभ्रच्चिरन्तनभूभृतां कथमसि न मान्धाता देवस्त्रिलोकविजययपि || अत्र हि विविधा ये हि पृथुरामप्रभृतयो वा समुद्भवैर्गुणैः कीर्त्यमानैस्तद्गता दोषा न परिकल्प्यन्ते | तथा हि पृथुरसीत्युक्ते तथा दोषा अपि केचिद्वलाद्भूमिदोहनप्रभृतयः प्रतीयेरन् नलोऽसीति द्यूतव्यसनितापि | एवमन्यत्र | अत एव न दोषोऽत्र प्रधानम् | गुणैरिति सुचरितैरिति निरूपिते तु चारुत्वमिति गुणकीर्तनं नाम लक्षणम् | श्लेषानुग्राहित्वे स्थिते लक्षणानि ह्यलङ्कारानपि चित्रयन्ति | तदग्र एव वक्ष्यामः | अन्यत्र पाठ - लोके गुणातिरिक्तानां बहूनां यत्र नामभिः | एको हि शब्द्यते तत्तु विज्ञेयं गुणकीर्तनम् || इति | अयं स्पष्टार्थः | अथ प्रोत्साहनं - उत्साहजननैरिति | औपम्यस्य संश्रयणमन्वेषणं यत्रेति अनेन यत्रान्वेषणेऽपि तस्य भाव इति दर्शितम् | यथा भट्टेन्दुराजस्य - हरवृषभ तवैव तस्य माता जयति जगत्यसमानसूतिरेका | निवसति परमेश्वरोऽपि यस्मिन् सहतनयः सगणः सहावरोधः || अप्रस्तुतप्रशंसाप्यत्र तद्वैचित्र्यं प्रोत्साहनत्वलक्षणकृतमेव केवलं त्वियं यथालक्ष्मीरिति स च भवान् मुरारितित्यादि | इदमन्यत्र प्रियवचनमिति पठितम् - यत्प्रसन्नेन मनसा पूज्यान्पूजयितुं वचः | हर्षप्रकाशनार्थं तु सा प्रियोक्तिरुदाहृता || इति | अथोदाहरणं - यत्रैकस्यापीति | यथा - वल्मीकं किमुतोद्भृतो गिरिरयं कस्य स्पृशेदाशयं त्रैलोक्यं तपसा जितं यदि मया दोष्णा किमेतावता | प्. ३०४) निरुक्तं द्विविधं प्रोक्तं तथ्यं चातथ्यमेव च | सिद्धिपूर्वं भवेत्तथ्यमतथ्यं चाप्रसाधितम् || १२ || सर्वं साध्वथवा रुणत्सि विरहक्षामस्य रामस्य चेत् त्वद्दन्ताङ्कितवालिप(क?)क्षरुधिरक्लिन्नाग्रपुमं शरम् || अत्र हि रावणीयदशितिपरिघट्टित (वालिकक्ष)पाटने उदाहृते स स्वावमदाथेनाऽर्थेऽवगते सति तदपजयः तत्कक्षक्षययपरिग्रहस्तथैव चतुरर्णवभ्रमणं पुनः कृपामात्रेण त्यागः तत्राप्रतीकारः पुनरभिमानो दर्प इत्यादि गम्यते | अक्षरसंहतेश्च विशेषः - तत्रावयोपादातव्यशब्दान्तरस्थाने शब्दान्तरोपादानं हनुमत इति वक्तव्येऽक्षस्य हन्तुरिति इह तु त्वद्दन्तेति तदीयाधिकारोदाहरणम् | अन्ये पठन्ति - यत्र तुल्यार्थयुक्तेन वाक्येनाभिप्रदर्शनात् | साध्यन्ते निपुणैरर्थास्तदुदाहरणं स्मृतम् || इति | तुल्यैरर्थिस्तत्समयभाविभिर्यदुक्तं यद्वाक्यमिति स एव फलतोऽर्थः || अथ निरुक्तं - निरुक्तं द्विविधमिति | सिद्धिर्लक्षणेन स्वीकारः | तया प्रसाधितं तथ्यं ततोऽन्यदतथ्यम् | उदाहरणं यथा ममैव - वीरोत्सवे सङ्गरसीम्नि मूढं यः प्रापयत् सत्यपथं कथंचित् | सत्यार्जुनः सोऽपि च नाम कृष्णः प्रसिद्धिरित्थं वितथैव सर्वा || परस्परं नाम्नोरन्यत्र तथ्यत्वं स्वविषये त्वतथ्यतेति | न चायमर्थः श्लेषः स हि तुल्यसंख्ययोः | यथा गावो वः पावनानां इति गोशब्दस्य रम्मिषु सुरभिषु चानादित्वेन प्रसिद्धेः | इह त्वेकत्रान्यत्वे कृतः समय इति | एवं पृथक्तथ्यातथ्ययोरुदाहार्यम् | अन्यत्र पाठः - प्. ३०५) गुणानुवादो हीनानामुत्तमैरुपमाकृतः | निरवद्यस्य वाक्यस्य पूर्वोक्तार्थप्रसिद्धये | यदुच्यते तु वचनं निरुक्तं तदुदाहृतम् || पूर्व यत्प्रोक्तो वाह्यस्य संबन्धी कश्चिदर्थस्तस्य प्रसिद्धयेऽवद्यभावस्य वाचकं यदुच्यते तेन निरुक्तमिति निरर्थकमेवात्र वाच्यम् | यथा सत्यं सराजगतिषु रञ्जनादिति (?) | अथ गुणानुवादः - गुणानुवाद इति परिमितस्यापादितोत्कृष्टगुणेतयोपमा तत्कृतो गुणानामुत्सेकः | यथा - पालिता द्यौरिवेन्द्रेण त्वया राजन्वसुन्धरा || ननूपमेयमलङ्कारः किमतः उक्तं ह्यलङ्काराणां वैचित्र्यं लक्षणकृतमेव | एत एव शिक्षितैरपि दण्डिप्रभृतिभिर्ये निरूपिता उपमाभेदाः तत्र यो भेदकोंऽशः आचिख्यासासंश्रयनिर्णयादिरर्थः स तादृक्पृथगलङ्कारतया गणितः | गणनेऽपि वा संसृष्टिसङ्करापत्तिः | अर्थमात्रं तदिति चेत् तर्हि तदेवलक्षणम् | यथा हि राजता विभज्य विचार्यमाणा इत्थमवतिष्ठते - मकुटाद्यलङ्कारः शौर्यादिगुणो व्यूढोरस्कत्वादिलक्षणसमुदायो राजालङ्कार्यश्च गुणवांश्च लक्षणीयश्च तथा काव्यमपि तेन गुणालङ्कारव्यतिरिक्ताः सर्वे लक्षणमिति मन्तव्यम् | अस्त्युत्तरस्यां इति हि पूर्वार्धे आख्यानं नाम लक्षणम् | नन्वेवं सर्वत्र लक्षणयोगः क आक्षेपार्थः प्रियमेवास्माकमदः तत्सर्वमलङ्कारयुक्तं काव्यम् | ननु गौर्वाहीक इति रूपकयोगेऽपि किं न कार्यं दोषपरिवर्णन गुणवत्त्वरसवत्त्वादिवैकल्यादिति चेत् अस्मास्वापादितो दोषस्त्वयैवोन्मूलित इत्यास्ताम् | अन्यत्र तु पाठः - गुणाभिधानैर्विविधेर्विविधार्थप्रयोजितैः | गुणातिपातो मधुरैर्निष्ठुरैर्वा भवेदिह || इति | प्. ३०६) उत्तमार्थाद्विशिष्टो यः स चाप्यतिशयः स्मृतः || १३ || बहूनां भाषमाणानां त्वेकस्यार्थविनिर्णयम् | मधुरैर्गीतैः (गुणैः) निष्ठुरैर्वा उत्तमैर्वा उपमानभूतैर्ये प्रयोजिता गुणास्तदभिधानैरुपलक्षितो गुणानिपात इत्यर्थः | अथातिशयः - उत्तमार्धाद्विशिष्ट इति उक्तादप्यर्थाद्विशेषो | यथा भट्टेन्दुराजस्य | यावन्त्येव पदान्यलीकपिशुनैरालीजनैः शिक्षिता तावन्त्येव कृतागसो द्रुततरं संपाद्य पत्यूः पुरः | प्रारब्धापरतो यथा मनसिजम्येच्छा तथा वर्तितुं प्रेम्णा मौग्ध्यविभूषितस्य सदृजः कोऽप्येष कान्तः क्रमः | अत्रेर्ष्यात्मा यः प्रेम्ण्युत्तमेऽर्थस्ततोऽपि विशेष उक्तः | प्रतिपदं चाभिप्रायोऽस्ति स विवेचनीयः | न चेयमतिशयोक्तिः संभाव्यमानत्वात् | सोऽपि वा लक्षणेनालङ्कार इति वक्ष्यामः समनन्तरमेव | अन्यत्र तु पठ्यते - बहून् गुणान् कीर्तयित्वा सामान्यजनसंभवान् | विशेषः कीर्त्यते यत्र ज्ञेयः सोऽतिशयो बुधैः || इति | अथ सहेतुः - बहूनां भाषमाणानामिति | बहून् भाषमाणाननादृत्यैकस्यासाधारणस्यार्थस्य निर्णयः कर्तव्यत्वेनावलम्ब्य सिद्धस्य प्रमाणोपमानवचनमुपक्षेपवचनं मम तावदेवं प्रतिभासते इति सहेतुः | यथा भट्टेन्दुराजस्य - एके वारिनिधिप्रवेशमपरे लोकान्तरालोकनं केचित्पावकयोगिनं निजगदुः क्षीणेऽह्नि? चन्द्रार्चिषाम् | मिथ्या चैतदसाक्षिकं प्रियसखि प्रत्यक्षतीव्रातपो मन्येऽहं पुनरध्वनीनरमणीचेतोऽधिशेते रविः || प्. ३०७) सिद्धोपमानवचनं हेतुरित्यभिसंज्ञितः || १४ || अपदेशस्तु परोक्षो यस्मादुत्पद्यतेऽनुकरणेन | लक्षणसमानकरणात्सारूप्यं तत्तु विज्ञेयम् || १५ || अभूतपूर्वैर्यत्रार्थैस्तत्तुल्यार्थस्य निर्णयः | (एकस्येति) एकमसाधारणम् | (सिद्धोपमानेति) डुमिञ् प्रक्षेपणे इत्यस्योपमानम् | अन्यत्र पाठः - यत्प्रयोजनसामर्थ्याद्वाक्यं शिष्टार्थसाधनम् | समासोक्तं मनोग्राहि स हेतुरिति संज्ञितः || इति | सम्यगस्यते हृदि क्षिप्यते येन स समासः उपपत्तिस्तयोक्ता | अथ सारूप्यं - अपदेशस्तु परोक्षे यस्मादुत्पद्यतेऽनुकरणेनेति | यथा ममैव - सैन्दूरिकृतसान्द्रकुङ्कुमरसप्रच्छायमालोच्यते यत्प्राच्यां दिशि वक्रिमा पदमिदं दृग्द्वन्द्वलेह्यं महः | तत्तेजो जरठांशुतां कलयता भाविप्रवासावधिं सन्ध्यामुघ्द्वधूकपोलफलके कीर्णो नखाग्राङ्कुरः || अत्र यदिति निर्देश्यम् परोक्षवस्तु तत्त्वस्यापरिज्ञानात् | अनुकरणेन प्रच्छायमात्रेण अपदेश्यमालोच्यमिति लक्षणेन सैन्दूरीकृतेत्यादिना | समानं सप्रमाणकं करणं दर्शनक्रिया यस्य तादृशे वस्तुनि सारूप्यं लक्षणम् | पौर्णमास्यामपि वक्ररेखेवेन्दोर्भागो लक्ष्यते उदयाचलान्तरितत्वात् सन्ध्यासमये | न चेयमुपमा उपमेयस्याभावादुपमेयमेव हि पूर्वार्धेन लिंग्यते | पुस्तकान्तरेषु तु पाठः - यथादेशं यथाकालं यथारूपं च वर्ण्यते | यत्प्रत्यक्षं परोक्षं वा दृष्टं तद्वर्णतोऽपि च || इति | प्रत्यक्षं वस्तु परोक्षमिव देशकालरूपानुसारेण वर्ण्यते | अथ मिथ्याध्यवसायः - अभूतपूर्वैर्यत्रार्थैरिति | अपारमार्थिकैरेवार्थैस्तत्तुल्यस्यावस्तुभूतस्यार्थान्तरस्य यस्य वक्तृव्यापारे सति निश्चयः सोऽयम् | यथा ममैव - प्. ३०८) स मिथ्याध्यवसायरतु प्रोच्यते काव्यलक्षणम् || १६ || बहूनां च प्रधानानां मध्ये यन्नाम कीर्त्यते | एकार्थसाधनकृतं सा सिद्धिरिति कीर्तिता || १७ || गुणैर्बहुभिरेकार्थैः पदैर्यः संप्रशस्यते | पदोच्चयं तु तं विद्यान्नानार्थग्रथितार्थकम् || १८ || यो दुर्जनाद्वाञ्छितसिद्धिमीहते स नूनमुत्क्रामति तं सुखैधिनम् | जुह्वज्ज्वलाग्नौ विगतार्थमण्डलं प्रसह्य षष्ठं विषयं प्रसाधयेत् (?) || काव्यलक्षणमित्यनेन काव्येषु लोकविपर्यासबाहुल्यमवश्यं भवतीति दर्शयति | अन्ये तु पठन्ति - विचारस्यान्यथाभावस्तथा दृष्टापदृष्टयोः | सन्देहात्कल्प्यते यत्र सविक्षेपो विपर्ययः || विचार्यत इति विचारोऽर्थः अदृष्टमित्यर्थः | सन्देहोऽत्र भ्रमः अथवा अन्यथाभावो विपर्ययः | संशयोऽपि हि वस्तुतो विषयतत्त्वमन्यथाकारं दर्शयन् विपर्यय एव || अथ सिद्धिः - बहूना च प्रधानानामिति | प्रसिद्धानां मध्ये एकमित्यप्रसिद्धं यन्नाम कीर्त्यते तस्यासाधारणत्वस्य प्रयोजनस्य संपत्तये करणं तत्र निवेशनं यस्य तादृक् तत्कीर्तनं सिद्धिहेतुत्वात्सिद्धिः | यथा - भद्रेश्वरः सुरसरित्स भवानहं च त्रैलोक्यसारमिह संप्रति जीवलोके | भद्रेश्वरः सुरवरेषु सरित्सु गङ्गा त्वं पार्थिवेष्वहमतीव सुदुःखितेषु || अत्र भवानहं चेत्यप्रसिद्ध. प्रसिद्धमध्ये उपात्तं साधारण्यसिद्धिं विधत्ते | अथ पदोच्च्यः - गुणैर्बहुभिरेकार्थैरिति | एकतात्पर्यार्थनिष्ठैर्बहुभिः शब्दैर्ये वाच्यत्वेन् स्वीकृता धर्मास्तदुपलक्षितत्वेनैव यद्वस्तुनः प्रशषनम् | कथं प्. ३०९) आत्मभावमुपन्यस्य परसादृश्ययुक्तिभिः | तीव्रार्थभाषणं यत्स्यादाक्रन्दः स तु कीर्तितः || १९ || नानार्थैर्ग्रथितात्मकमुपलम्भितरूपं कृत्वा तत्पदानामुच्चय उत्कर्षेण चयः बाहुल्यं यत्रेति पदोच्चयः | असारं संसारं परिमुषितरत्नं त्रिभुवनं निरालोकं लोकं जननयननिर्माणमफलम् | अदर्पं कन्दर्पं मरणशरणं बान्धवजनं जगज्जीर्णारण्यं कथमसि विधातुं व्यवसितः || अत्र ह्यवान्तरावगमकारिणामवान्तरवाक्यरूपाणां पदानां तात्पर्यमभिन्नं स्वार्थे तु भिन्नम् | पदशब्दन्तु | अन्ये पठन्ति - पादो भाग इति | पूर्वत एवार्थः || अथाक्रन्दना - आत्मभावमुपन्यस्येति | तीव्रः साक्षादवाच्यो योऽर्थस्तस्य परं प्रति सादृश्ययोजनप्रकारैरात्म भिप्रायं प्रमुखे दत्त्वा तत्समन्ततः भाषणं स्फुटकथनं तन्निजभावाविष्करणप्रधानत्वादाक्रन्दो नाम लक्षणम् | यथा ममैव - किं पान्थ त्वरसे विलोकय (निशां या ह्युन्मुखी) पाण्डुरा चन्द्रं चुम्बितुमीहते प्रकटयन्त्यग्रे सरागां स्थितिम् | यद्वा नागरभोगदुर्ललितकैर्न्यस्तापि न ज्ञायते ग्रामेऽग्राम्यजओपभोगसुभगं निर्व्याजरम्यं सुखम् || अत्रोत्तरेणार्धेन ग्रामीणो रम्यतमो भोजनशयनादिसंभोग इति वक्त्र्या मोहप्रायोऽवाच्य आत्माभिप्रायः | तदरोचकत्वं तदुभयं प्रमुखे निधाय निशाकरवृत्तान्तसादृश्येन तीव्रः स्वात्मानुराग आविष्कृतः | अन्ये पठन्ति - रूपकैरुपमाभिर्वा तुल्यार्थाभिः प्रयोजितैः | अप्रत्यक्षार्थसंस्पर्शस्तुल्यतर्कः प्रकीर्तितः || प्रथमार्धेन परसादृश्यमुक्तम् | अप्रत्यक्षस्यात्मभावस्य संस्पर्शनाज्ज्ञापनेत्यर्थः || प्. ३१०) हृदयस्थस्य भावस्य सुश्लिष्टार्थप्रदर्शनम् | अन्यापदेशकथनैर्मनोरथ इति स्मृतः || २० || पृष्टैरपृष्टैरथवा निर्णयः क्रियते तु यः | आख्यानमिति तज्ज्ञेयं लक्षणं नाटकाश्रयम् || २१ || अथ मनोरथः - हृदयस्थस्य भावस्येति | यथा - णिग्गंध दुरारोहिं पुत्त-अ (मा) पाडलिं समारूढ | आरूढणिपडि-आ के इमी ए ण क-आ इद ग्गामो || अत्र पादपमारोहन्नेव वृद्धविदग्धया कश्चिद्दुराशयपुंश्चलीसंगमोत्सुकः स्वाभिप्रायद्योतनेन प्रबोध्यते तत्प्रस्तुतमेवान्यदपदिश्य | अत एवाप्रस्तुप्रशंसा सापि चात्रैवान्तर्भूता | नन्वलंकारे ह्यलंकार्यत्वं द्व्यसत् इति केयं युक्तिः लक्षणं तु भवति लक्षणत्वादेव || अथाख्यानं - पृष्टैरपुष्टैरपि चेत्यादि | प्रश्नपूर्वका यत्र बहवो निर्णीयन्ते यथा | वाले नाथ विमुञ्च मानिनि इत्यादावुक्तिप्रत्युक्तौ प्रश्नसदृशैर्वा शक्याशक्यवस्त्वभिधानैर्यत्र निर्णयः | यथा - रामोऽसौ भुवनेषु विक्रमगुणैर्यातः प्रसिद्धिं परा इत्युक्ते यदि प्रसिद्धः कथं मया न ज्ञायत इत्याशंक्याख्यातं- अस्मद्भाग्यविपर्ययाद्यदि परं देवो न जानाति किम् | किं तस्य प्रसिद्धौ निदानमित्याशंक्य पुनराख्यातं - प्. ३११) आदौ यत्क्रोधजननमन्ते हर्षप्रवर्धनम् | यत्र प्रियं पुनर्वाक्यं सा याच्ञा परिकीर्तिता || २२ || कार्येषु विपरीतेषु यदि किंचित्प्रवर्तते | निवार्यते च कार्यज्ञैः प्रतिषेधः प्रकीर्तितः || २३ || वन्दी वैषयशांसि इत्यादिना | नाटकाश्रयमित्यनेन भूयो लक्ष्यमाणस्येत्याह | अन्य पठन्ति - वाक्यैः सातिशयैर्युक्ता वाक्यार्थस्य प्रसाधकैः | लोकप्रसिद्धैर्वहुभिः प्रसिद्धिरिति कीर्तिता || स्पष्टम् || अथ याच्ञा - आदौ यत्क्रोधजननमिति | प्रथमार्धेन हितं व्याख्यातम् | तेन प्रथमं यत्तदात्वे परुषमायत्यां च सत्फलं वस्तूच्यते ततश्च प्रियम् | पुनः शब्दात्ततो हितं पुनः प्रियमित्येवं प्रबोध्यस्य प्रबोधधिया याचनाद्याच्ञा | यथा ममैव - भूमिः कण्टकीनी पुरो विटपिनः प्रायो बहूपद्रवाः भूयश्चैष दिवाकरो मृगयते सन्ध्याङ्गनासङ्गमम् | तद्विश्रम्य जनोऽयमत्र सदने ग्राम्योचितं सेवतां प्रातः पान्थ विचार्य चेतसि चिरं स्थातासि गन्तासि वा || पाठान्तरं तु - हितैः प्रसन्नवचनैर्यत्परस्यानुवर्तनम् | क्रियते वाक्यचेष्टाभिस्तद्दाक्षिण्यमुदाहृतम् || इति | अथ प्रतिषेधः - कार्येषु विपरीतेष्विति | यथा अमरुकस्य - प्. ३१२) यत्राकारोद्भवैर्वाक्यैरात्मानमथवा परम् | पृच्छन्निवाभिधत्तेऽर्थं सा पृच्छेत्यभिसंज्ञिता || २४ || विद्वान् पूर्वोपलब्धौ यत्समत्वमुपपादयेत् | निदर्शनकृतस्तज्ज्ञैः स दृष्टान्त इति स्मृतः || २५ || लग्ना नांशुकपल्लवे भुजलता न द्वारदेशेऽर्पिता नो वा पादयुगे तया निपतितं तिष्ठेति नोक्तं वचः | काले केवलमम्बुदालिमालिने गन्तुं प्रवृत्तः शठः तन्व्या वाष्पजलोपकल्पितनदीपूरेण रुद्धः प्रियः || अत्र तृतीयपादेन विपरीतकार्यप्रवृत्तिरुक्ता | आद्यार्धेन कार्यज्ञत्वं नायिकायाः तथापि निवारणं तुर्यपादेनोक्तम् | अन्ये त्वधीयते - यद्वाक्यं वाक्यकुशलैरुपायेनाभिधीयते | सदृशार्थाभिनिष्पत्त्या स लेश इति कीर्तितः || इति | वाक्यमिति वाक्यार्थो निषेधो वा नदीपूरश्च वर्षानु रोधको दृष्ट इति सदृशाभिधानेनोपायेन निषेधः कृतः || अथ पृच्छा - यताकारोद्भवैर्वाक्यैरिति | यथा - किं भीमाद्गुरुदक्षिणां गुरुगदाद्भीमप्रियः प्राप्तवान् | इत्यादि अत्राकारेणाभिप्रायसूचकेन काक्वादिनोद्भूतानि द्योतितशक्तिकानि वाक्यानीति भावः | यत्र भावरसोपेतमित्यन्ये प्राच्यं पादमधीयन्ते || अथ दृष्टान्तः - विद्वान्पूर्वोपलब्धौ यत्समत्वमिति | यथा ममैव - हा हालाहललेहने हतमतिः सोऽयं समुत्कण्ठितो गाढाङ्गारगरिम्णि चैष जडधीर्देहं निविक्षेप्स्यति | ग्राम्योऽप्याजगरी गुरुं गलगुहां मोहादयं धावति व्याधुयेतरसङ्गतानि यदयं सार्थ खलैः खेलति || प्. ३१३) अनेकयुक्ति यद्वाक्यमनेकार्थप्रसाधकम् | अनेकवाक्यसंयुक्तं तन्निर्भासनमुच्यते || २६ || अपरिज्ञाततत्त्वार्थं यत्र वाक्यं समाप्यते | सोऽनेकत्वाद्विचाराणां संशयः परिकीर्तितः || २७ || यथाशास्त्रार्थसंपन्नां मनोरथसमुद्भवाम् | यदयमित्यादि कस्य हेतोर्हालाहलकालकूटकबलनादिना येन साम्यं कृतं स दृष्टान्तः | न चेयमुपमा यतो निदर्शनेन प्रत्यक्षीकरणाय कृत इति इदमेवं कर्तुमुद्यत इति न च रूपकं यदेतत्करोति तत् इदमस्य भविष्यतीति भिन्नकालत्वात् तदाह पूर्वोपलब्धौ सत्यामिति | अथ भासनं - अनेकयुक्ति यद्वाक्यमिति | यथा - कर्ता द्यूतच्छलानां जतुमयशरणोद्दीपनः सोऽभिमानी (वेणी)- इत्यादि | भास्यते प्रकृतः क्रोधादिर्येन | पाठान्तरं - ईप्सितार्थप्रसिद्ध्यर्थं कीर्त्यन्ते यत्र सूरिभिः | प्रयोजनान्यनेकानि सा मालेत्यभिसंज्ञिता || इति अथ संशयः - अपरिज्ञाततत्त्वार्थमित्यादि | यथा - तिष्ठेत्कोषवशात्प्रभावपिहिता दीर्घं न सा कुप्यति स्वर्गायोत्पतिता भवेन्मयि पुनर्भावार्द्रमस्या मनः | तां हर्तुं विवुधद्विषोऽपि न च मे शक्तः पुरोवर्तिनी सा चात्यन्तमगोचरं नयनयोर्यातेति कोऽयं विधिः || (विक्र. ४-२) अत्राद्यो भागः संशयोदाहरणं अनन्तरस्तूपपत्त्युदाहरणम् | अथाशीः - यथाशास्त्रार्थसंपन्ना मित्यादि | यथा - प्. ३१४) अप्रार्थनीयामन्यां वा विदुस्तामाशिषं बुधाः || २८ || आदौ यत्क्रोधजननमन्ते हर्षप्रवर्धनम् || तत्प्रियं वचनं ज्ञेयमाशीर्वादसमन्वितम् || २९ || पादाग्रस्थितया (रत्ना - १-१) इत्यादि | सर्वं वचनं न चाशीरलङ्कारः स्तुत्या एव वर्णनीयत्वात् | अन्ये पठन्ति - यत्रार्थानां प्रसिद्धानां क्रियते परिकीर्तनम् | परापेक्षाव्युदासार्थं तन्निदर्शनमुच्यते || इति | प्रसिद्धानां देवतादीनां परापेक्षा साध्याकांक्षा तस्माद् व्युदासस्तत्संपत्त्या | अत एव दृष्टान्तादस्य भेदः इति || अथ प्रियं - आदौ यत्क्रोधजननमिति | यथा - किं वृत्तान्तैः परगृहगतिअः किं तु नाहं समर्थः तूष्णीं स्थातुं प्रकृतिमुखरो दाक्षिणात्यस्वभावः | गेहे गेहे विपणिषु तथा चत्वरे पानगोष्ठ्यां उन्मत्तेव भ्रमति भवतो वल्लभा हन्त कीर्तिः || अत्र भ्रमति वल्लभेत्यादौ क्रोधजननं हन्त कीर्तिरिति हर्षकृत् | अन्ये पठन्ति - वाच्यमर्थं परित्यज्य दृष्ट्यादिभिरनेकधा | अन्यस्मिन्नेव पतनादाशु भ्रंशः स उच्यते || इति दृष्टिर्दर्शनं प्रकृतिमुखरादिवाक्यमिति पूर्वोक्तमित्यर्थः | न चेयं व्याजस्तुतिः निन्दाभागे स्तुतेरभावात् पूर्णतायास्तु निन्दाया अभावात् | यथा वा - प्रद्योतस्य सुता इत्युक्त्वा वसन्तकं विप्रतारयितुं राजा वसन्तशब्दमाचष्टे | मधोश्च समयः प्रसूनसमय इत्यनादृत्य तदाकर्णने निवृत्त्यङ्कुरेण प्. ३१५) छलयुक्त्या त्वन्येषामभिसन्धानाभिभावकं कपटम् | द्वित्रिप्रयोगयुक्तौ विज्ञेयः कपटसङ्घातः || ३० || दुर्जनोद्दहृतै रूक्षैः सतां मध्येऽभिताडितः | अक्रोधः क्रोधजननैर्वाक्यैर्यः सा क्षमा भवेत् || ३१ || हृष्यति विदूषके समय इतिशब्देनान्यत्र पतनात्प्रणयक्रोधत्वं चेति प्रियवचनम् | प्रियकार (?) इति लोक एतत्सिद्धम् | (अथ कपटं - छलयुक्त्येति | व्याजप्रयोगेण अभिसन्धानं वञ्चना अभिभावकं तिरस्कारकं छलोक्त्या कथितस्यार्थस्यान्यथाग्रहणं अपलापो वा कपटं तस्य सङ्घातो लक्षणम् | कपटो वस्तुक्रमाद्दैवाच्छत्रोर्वा समुद्भूतः | वस्तुक्रमोद्भूतस्य मालतीमाधवे मकरन्दस्य मालतीवेषधारणं दैविकस्य नागानन्दे जीमुतवाहनस्य शङ्खचूडच्छलनं शत्रुकृतस्य तु छलितरामे लवणासुरप्रयुक्तयो राक्षयोर्मन्थराकैकेययोर्वेषधारणं सीताया अन्तर्वत्न्या निर्वासनं च कृतम् | यथा वा कृत्यारावणे प्रथमेऽङ्के सीतावेषधारिण्या शूर्पणखया लक्ष्मणो वञ्चितोऽभिभूतश्च ता सव्वहा अण्ण एव्व दे अणिद्वं अभिप्पा-अं लक्खेमि इत्यादिना वचनेन |) अन्ये पठन्ति - यत्र संकीर्तयन्दोषं गुणमर्थेन योजयेत् | गुणातिपाताद्दोषं वा गर्हणं नाम तद्भवेत् || इति तत्रिविधमपि वागुपचारसामान्याच्छलमत्र स्वीकृतम् | अथ क्षमा - दुर्जनोदाह्र्टैरिति | दुर्जनोक्तैर्वचनैः क्रोधजननैः सभायां ताडितोऽपि यः पुरुषोऽक्रोधनः क्रोधहीनः स एव क्षमावान् | तद्वर्णनोचितः प्. ३१६) दृष्ट्वैवावयवं किंचिद्भावो यत्रानुमीयते | प्राप्तिं तामभिजानीयाल्लक्षणं नाटकाश्रयम् || ३२ || अकार्यं सहसा कृत्वाऽकृत्वा कार्यमथापि वा | सन्तापो मनसो यस्तु पश्चात्तापः प्रकीर्तितः || ३३ || कविव्यापारः क्षमेत्यर्थः | अनेन च यथोचिताभिन्नवृत्तिसंचयः सर्वो विभावाद्युचितो निर्वर्त्यमानः काव्यलक्षणत्वेन सूचितः | क्षमा यथा ममैव - श्रोत्राय दुष्टवचनं प्रति किं न कोपः क्षोभं करोति हृदये ननु कोप एव | मित्रं ममैष तु निजात्मनि योऽपकारं कृत्वा ममाशुभकलङ्कविघातहेतुः अन्येषां पाठः - सिद्धान् बहून् प्रधानार्थांस्त्यक्त्वा यत्र प्रयुज्यते | विशेषयुक्तं वचनं विज्ञेयं तद्विशेषणम् || सिद्धानिति लोकप्रसिद्धान्प्रधानभूतानशक्यापजयांस्त्यक्त्वानादृत्यक्रोधाद्यद्वच् अनंविशेषेण युक्तं यथा ममायं परम्परः (परिवादः?)सुहृत्प्रत्ययः स्वात्मनि क्षोभः पुण्यादिकमुररीकृत्यापि ममापुण्यसंचयं दुःखोपभोगदानेन शमयति इति | अथ प्राप्तिः - दृष्ट्वैवावयवं कंचिदिति | यथा - अभ्युन्नता पुरस्तादवगाढा जघनगौरवात्पश्चात् | द्वारेऽस्य पाण्डुसिकते पदपक्तिर्दृश्यतेऽभिनवा || (शाकु ३-५) अत्र पदपङ्क्तिलक्षणमंशं दृष्ट्वानयात्र भवितव्यमिति शकुन्तलायाः सद्भावोऽनुमीयत इति | अथ पश्चात्तापः - अकार्यं सहसा कृत्वेति | सहसेत्यविचार्य अकार्यं कृत्वा यथा - अंगुलिशुकाहमिस इदोसल उप्पन्ना | जस्सकवलजो भूतभूहि भुव ओहिण्णो || कार्यमकृत्वा यथा - मुखमंसविवर्तिपक्ष्मलाक्ष्याः कथमप्युन्नमितं न चुम्बितं तत् | इति | शाकु | प्. ३१७) प्रश्रयेणार्थसंयुक्तं यत्परस्यानुवर्तनम् | स्नेहाद्दाक्षिण्ययोगाद्वा सानुवृत्तिस्तु संज्ञिता || ३४ || अन्ये पठन्ति - अनेकार्थविचारस्तु विचारः परिकीर्तितः || इति | अनेकस्य कार्यरूपस्यार्थस्य (कृता)कृतस्य विचारः किमेतत्कृतमिति | अथानुवृत्तिः - प्रश्रयेणार्थसंयुक्तमिति | यथा भट्टेन्दुराजस्य - राज्ञा यद्यनुरुध्यसे यदि भवेद्वाच्यं पुरो मादृशां तत्संक्रन्दनगोप किंचन मनाक् पृच्छत्यधीरो जनः | अग्रे रोहणचारिणां सरभसं संचूर्यमाणश्चिरं कं प्रत्याययितुं प्रयासरसिको यत्नेन रत्नायसे || अप्रस्तुतप्रशंसातेऽपि हि यदप्रस्तुतस्य शरीरवैचित्र्यं तल्लक्षणकृतमेव लक्षणं हि शरीरमित्युक्तम् | कटकाद्यैरपि हि यद्वैचित्र्यं कुशलसुवर्णकारोत्प्रेक्षितं तल्लक्षणाहिम्नैव | तत्तेनोपमानशरीरस्योपमेयशरीरस्य वा वैचित्र्यं लक्षणानामेव व्यापारह् इत्येवमुपमारूपकदीपकानां त्रयाणामलङ्कारत्वेन वक्ष्यमाणानां प्रत्येकं षट्त्रिंशल्लक्षणयोगात् लक्षणानामपि चेकद्वित्र्याद्यवान्तरविभागभेदादानन्त्यं केन गणयितुं शक्यम् इदानीं शतसहस्राणि वैचित्र्याणि सहृदयैरुत्प्रेक्ष्यन्ताम् | परे त्वधीयते - उभयोः प्रीतिजननो विरुद्धाभिनिवेशयोः | अर्थः प्रसादजनको ज्ञेयस्त्वनुनयो बुधैः || इति | उभयोरत्र वक्तृवाच्ययोस्तयोश्च विरुद्धाभिनिवेशः | एकस्य तत्त्वविश्रान्तता अपरस्य त्विषा रत्नवदाचरितमिति | प्. ३१८) प्राप्तानां यत्र दोषाणां क्रियते शमनं पुनः | सा ज्ञेया ह्यपपत्तिस्तु लक्षणं नाटकाश्रयम् || ३५ || साध्यते योऽर्थसंबन्धो महद्भिः समवायतः | परस्परानुकूल्येन सा युक्तिः परिकीर्तिता || ३६ || अयोपपत्तिः - प्राप्तानां यत्र दोषाणामिति | प्राप्ता नामिति वीप्सागर्भो निर्देशः दोषाणामित्युपपत्त्ययोगदृष्टत्वेनावस्तुभूतानामित्यर्थः | यथा - तिष्ठेत्कोपवशा दित्यादि | यथा वा - क्वकार्यं शशलक्ष्मणः क्व च कुलं भूयोअपि दृश्येत सा दोषाणां प्रशमाय मे श्रुतमहो कोपेऽपि कान्तं मुखम् | किं वक्ष्यन्त्यपकल्मषाः कृतधियः स्वप्नेऽपि सा दुर्लभा चेतः स्वास्थ्यमुपेहि कः खलु युवा धन्योऽधरं पास्यति || (विक्रमो) इति अन्ये त्वधीयते - परिगृह्य तु शास्त्रार्थं यद्वाक्यमभिधीयते | विद्वन्मनोहरं स्वन्तमुपदिष्टं तदुच्यते || इति | शास्त्रार्थशब्दः प्रमाणोपलक्षणम् | स्वन्तमिति शोभनोऽन्तो निश्चयो यत्र | अथ युक्तिः - साध्यते योऽर्थसंबन्ध इति | यथा - लावण्यसिन्धुरपरैव हि केयमत्र यत्रोत्पलानि शशिना सह संप्लवन्ते | उन्मज्जति द्विरदकुम्भतटीव यत्र यत्रापरे कदलकाण्डमृणालदण्डाः || अत्र महद्भिरुत्कृष्टैर्नेत्रवदनादिभिः परस्परशोभात्मकानुकूल्योपलक्षितेन समवायेनैकविश्रान्त्यार्थः संबध्यमान उपपद्यमानोऽपूर्वतरङ्गिणीलक्षणः साधित इति योजनादियं युक्तिः | प्रतीयमानं रूपकमत्रेति चेत् किं ततः शरीरं लक्षण मयमेवेत्युक्तमसकृत् | एकीयः पाठः - प्. ३१९) यत्रापसारयन्दोषं गुणमर्थेन योजयेत् | गुणाभिवादं दोषाद्वा कार्यं तल्लक्षण विदुः || ३७ || अपूर्वक्रोधजनितमपराधं प्रमृज्य यत् | सेवार्थं मधुरं वाक्यं सानुनीतिः प्रकीर्तिता || ३८ || अभूतपूर्वो ह्यर्थो यः *? दृश्यात्परिकल्पितः | लोकस्य हृदयग्राही सोऽभिप्राय इतीरितः || इति | अथ कार्यं - यत्रापसारयन् दोषमिति | दोषमपसार्य गुणं यदात्वेऽर्थनीये नियोजयति गुणाभिवादं वापसार्यं दोषानर्थे योजयति आश्रित्य तेनार्थं योजयतीत्यर्थः | प्रथम उदाहरणं - तावत्स्वात्मनि संश्रितद्रुमलताश्लेषोऽध्वगैर्वर्जनम् | इत्यादि | द्वितीये ममैव - विश्वप्रभो वितरतां कमलां किमन्यद् भूत्यात्स कोऽपि घटितो भवतोपकारः | दूराध्वगेषु पुनरम्बु तथा विकीर्ण- मन्ते यथा त्रिभुवने प्रसृतं यशस्ते || एतकैश्चिद्गहनमित्युक्तम् | अन्ये त्वधीयते - अर्थान्तरस्य कथने यत्रान्योऽर्थः प्रतीयते | वाक्यमाधुर्यसंपन्ना सार्थापत्तिरिति स्मृता || इति | अत्र हि महांस्त्वयास्योपकारः कृतः अध्वगानां च महदम्बु दत्तमित्युक्ते विश्वप्रभो इति पुनरिति पर्यालोचनादर्थान्तरस्यापत्तिः | अथानुनीतिः - अपूर्वक्रोधजनितमिति | अपूर्वस्य सातिशयस्य क्रोधस्य जननाय योऽपराधस्तम् | यथा - प्रसीदेति ब्रूयामिदमसति कोपेन घटते | (रत्ना- २-१९) प्. ३२०) दोषैर्यदन्यनामोक्तैः प्रसिद्धार्थैः प्रयोजितम् | अन्यत्रार्थेन संबद्धं ज्ञेयं तत्परिदेवनम् || ३९ || अन्ये पठन्ति - वाक्यैः सातिशयैर्युक्तो वाक्यार्थः स प्रसाधकैः | लोकप्रसिद्धैर्बहुभिः प्रसिद्धिरिति कीर्तिता || इति || अथ परिदेवनं - दोषैर्यदन्यनामोक्तैमिति | यथा बालरामायणे दशरथनाम्ना ये दोषा उक्ता रामनिर्वासनादयस्तैरेव प्रसिद्धार्थैः सद्भिर्यत्प्रयोजितं वचनं परमार्थेन सम्बन्धो रक्षस एव युक्तो न तु दशरथे तत्परिदेवितं नरेन्द्रवृद्धःस्त्रीवशं न्यस्तमयस | इत्यादिना | अर्थेन प्रयोजनेन येऽन्यनामोक्ता अर्थाः प्रसिद्धार्थैर्यत्प्रयोजितं संवादितमन्यहृदये दोषाः संबन्धं संबन्धनं तच्चार्थेन सम्बन्धं परमार्थत उचितं तत्परिदेवितम् | यथा - एनां पश्य पुरस्तटीमिह किल क्रीडाकि *? नो हरो गाण्डीवेन किरीटिना सरभसं चूडान्तरे ताडितः | इत्याकर्ण्य कथाद्भुतं हिमनिधावद्रौ सुभद्रापते- र्मन्दं मन्दमकारि येन निजयोर्दोर्दण्डयोर्माण्डनम् || तटावलोकनेन प्रयोजनेनात्र धनञ्जयव्यापारो य उक्त *? न राजनि कस्मिश्चिद्दोषसंबन्धो हृदये जनितः किं तुल्यमानुषत्वेऽर्जुनपरा क्रमन्यूनता मम तत्किंमण्डनया अधिकारस्थानां ह्यद इति तत्र परमौचित्यख *? नं प्रयोजनम् | अन्ये पठन्ति - परदोषैर्विचित्रार्थैर्यत्रात्मा परिकीर्त्यते | अनुक्तोऽन्योऽपि वा कश्चित्स तु क्षोभ इतीरितः || इति | परस्य दोषो येभ्यस्तादृशा ये विचित्रा अर्थाः परगुणस्तैर्हेतुभूतैरदृषोऽप्यर्थ आत्मा अन्य इति दृष्टत्वेन कीर्त्यते अन्यो वा कश्चिदात्मव्यतिरिक्त इति क्षोभो हृदयसंचलनात् | इयमेवानुक्तसिद्धिः - प्. ३२१) उपमा दीपकं चैव रूपकं यमकं तथा | काव्यस्यैते ह्यलङ्काराश्चत्वारः परिकीर्तिताः || ४० || यत्किंचित्काव्यबन्धेषु सादृश्येनोपमीयते | उपमा नाम सा ज्ञेया गुणाकृतिसमाश्रया || ४१ || प्रस्तावेनैव शेषोऽर्थः कृत्स्नो यत्र प्रतीयते | वचनेन विना जातु सिद्धिः सा परिकीर्तिता || इति | दोर्दण्डमण्डनाकरणे प्रस्तावादेव गम्यते पौरुषातिशयदर्पादिसर्वम् | एष चोत्कृष्टानामेवाभिप्रायो भवतीति प्राप्यत्वादन्ते लक्षणमिदमुक्तम् | एवं कविव्यापारवलाद्यदर्थजातं लौकिकात्स्वभावाद्विद्यमानं तदेव लक्षणमित्युक्तम् | तत्र शरीरकल्पस्यालङ्कारा अधुना वक्तव्याः | तन्निरूपयितुमुद्दिशति उपमेत्यादि | काव्ये तावल्लक्षणं शरीरं तस्योपमादयस्त्रयोऽर्थभागे यथा हि पृथग्भूतेन हारेण रमणी विभूष्यते तथोपमानेन शशिना तत्सादृश्येन वा कविबुद्धिचञ्चलतया परिवर्तमानत्वात्पृथक्सिद्धेनैव प्रकृतवर्णनीयवनितावदनादि सुन्दरीक्रियत इति तदेवालङ्कारः | तस्य च त्रिधा स्थितिः संपूर्णेन स्फुटेन उपमानोपमेयत्वेन | यत्र च वर्णानां संनिधिरुपमानोपमेयद्योतकसाधारणधर्माणां क्वचिदन्तर्लीनेनोपमानोपमेयमेकीक्रियते तत्र रूपकव्यवहारः | तत्र हि पदार्थे प्रयुज्यमानः शब्द इवार्थं गर्भीकरोतीति न्यायः | क्वचित्तु एकप्रघट्टकावस्थानवलादुपमागतिः यथा दीपके | उपलक्षणंचैतद्वैचित्र्यान्तराणाम् || उपाध्यायमतं तु - लक्षणवलादलङ्काराणां वैचित्र्यमागच्छति तथा हि - गुणानुवादनाम्ना लक्षणेन योगात्प्रशंसोपमा अतिशयनाम्नातिशयोक्तिः मनोरथाख्येनाप्रस्तुतप्रशंसा मिथ्याध्यवसायेनापह्नुतिः सिद्ध्या तुल्ययोगितेति एवमन्यदुत्प्रेक्ष्यम् | लक्षणानां च परस्परवचित्र्यादप्यनन्तो विचित्रभावः यथा प्रतिषेधमनोरथयोः संमेलनादाक्षेप इति | उपमाप्रपञ्चश्च सर्वोऽलङ्कार इति विद्वद्भिः प्रतिपन्नमेव | प्. ३२२) एकस्यैकेन सा कार्या ह्येनेकेनाथवा पुनः | अनेकस्य तथैकेन बहूनां बहुभिस्तथा || ४२ || तुल्यं ते शशिन वाक्त्रमित्येकेनैकसंश्रया | शशङ्कवत्प्रकाशन्ते ज्योतींषीति भवेत्तु या || ४३ || एकस्यानेकविषया सोपमा परिकीर्तिता | श्येनबर्हिणभासानां तुल्यार्थ इति या भवेत् || ४४ || एकस्य बहुभिः सा स्यादुपमा नाटकाश्रया | बहूनां बहुभिर्ज्ञेया घना इव गजा इति || ४५ || तत्रोपमां लक्षयति यत्किंचिदिति | काव्यवन्धेषु काव्यलक्षणेषु सत्स्वित्यनेन गौरिव गवय इति नायमलङ्कार इति दर्शितम् | बन्धो गुम्फो फणितिर्वक्रोक्तिः कविव्यापार इति हि पर्यायाः | लक्षणं त्वलङ्कारशून्यमपि न निरर्थकम् | भूयांश्चात्रोदाहरणमार्गो दर्शितः | गुणशून्यं तु न काव्यं किंचिदपीयति च महापुरुषो दृष्ठान्तः अहेयत्वप्रदर्शनार्थमेवं हि प्रसादादीनां गुणवाचोयुक्त्या व्यवहारः तद्विना काव्यरूपत्वाभावात् | सुन्दरास्पदं तु शरीरमुपलक्षणमुपमाद्यन्तरेण तु भवत्येव काव्यमिति प्रकटीकर्तुमुपमादीनामलङ्कारत्वेन व्यवहारः न तु लोक इव स्फुटात्र पृथक् सिद्धिरस्ति | तथा हि दण्डिना काव्यशोभावहा धर्मा अलङ्कारा सर्व उक्ता इति केचित् | यत्किंचिदित्यनेनोपमीयत इति क्रियार्थः संबध्यते न कर्म | उप समीपे प्रेक्षणनिमित्तन्तरैरपि संभवतीत्यत आह सादृश्येनेति | उपमीयत इत्यनेनोपमेय उक्ते सादृश्येनेति साधारणो धर्मः गुणः संबन्धः आक्रियते द्योत्यते अनेनेति गुणाकृतिः इवादिः शब्दः आश्रीयमाणो यस्यामिति (गुणा- प्. ३२३) प्रशंसा चैव निन्दा च कल्पिता सदृशी तथा | किंचिच्च सदृशी ज्ञेया ह्यपमा पञ्चधा पुनः || ४६ || प्रशंसा यथा - दृष्ट्वा तां तु विशालाक्षीं तुतोष मनुजाधिपः | मुनिभिः साधितां कृच्छ्रात् सिद्धिं मूर्तिमतीमिव || निन्दा यथा - सा तं सर्वगुणैर्हीनं सस्वजे कर्कशच्छविम् | वने कण्टकिनं वल्ली दावदग्धमिव द्रुमम् || ४८ || कल्पिता यथा - क्षरन्तो दानसलिलं लीला मन्थरगामिनः | मतङ्गजा विराजन्ते जङ्गमा इव पर्वताः || ४९ || सदृशी यथा - यत्त्वयाद्य कृतं कर्म परचित्तानुरोधिना | सदृशं तत्तवैव स्यादिति मानुषकर्मणः || ५० || कृतिसमाश्रया) | अत्रोदाहरणानि क्रमेण दर्शयति तेषु लक्षणयोजनं तुल्यं ते इत्यादिना | एवमुपमानोपमेयसंख्याभेदेन तद्भेदानुक्त्वा तद्गतशरीरभेदेन शरीरभेदानाह प्रशंसा चैवेत्यादिना | उपमानस्य प्राशस्त्यात्प्रशंसोपमा | एवं सर्वत्र | जङ्गमाः पर्वताः उपमानाभिमताः कल्पिताः अन्यस्य सादृश्याभावात् | एवमत्र सदृशेन कल्पितः सः | असदृशीत्यन्ये पठन्ति व्याचक्षते च सदृश- प्. ३२४) किंचित्सदृशी यथा - संपूर्णचन्द्रवदना नीलोत्पलदलेक्षणा | मत्तमातङ्गगमना संप्राप्तेयं सखी मम || ५१ || उपमाया बुधैरेते ज्ञेया भेदाः समासतः | ये शेषा लक्षणैर्नोक्तास्ते ग्राह्या लोककाव्यतः || ५२ || नानाधिकरणार्थानां शब्दानां संप्रदीपकम् | एकवाक्येन संयुक्तं तद्दीपकमिहोच्यते || ५३ || (प्रसृतं मधुरं चापि गुणैः सर्वैरलङ्कृतम् | काव्ये यन्नाटके विप्रास्तद्दीपकमिति स्मृतम्) || ५४ || इहोपमेय उच्यते तथा च व्युत्पत्तिः समान इव दृश्यमानस्तमिवात्मानं पश्यतीति | यत्रोपमेयस्यैवोपमानता सेयं सदृशी किंचित्सदृशमित्थमुपमानं भवति | यत्र सादृश्यगमकं स्फुटं पदं नास्ति न च सर्वात्मना रूपक इव वस्तुद्वयमीलनं तेन समसव्यंग्या किंचित्सदृशीत्युक्ता | तदुदाहरति संपूर्णेति | सप्तमी उपमानपूर्वपदस्येति समासबलादुपमानताप्रतिपत्तिः तत्र ह्युत्तरपदलोपः सन्नियोगशिष्टत्वात् क्यङि सलोप इव मत्तमातङ्गगमनमिवगमनमस्या इत्युत्तरपदलोपोऽपि स एष लोके काव्ये च तद्भेदाः दृश्यन्ते | ते लक्षणद्वारेणोक्ता इति ग्राह्याः स्वयं स्वीकर्तुं शक्याः | अस्मिन्ये नोक्तास्ते लोकात्काव्याच्च ग्राह्या इत्यन्ये शेषा इत्यत्र पुनरुक्तम् | अथ दीपकं - नानाधिकरणार्थानामिति | नाना ये शब्दान्तरवाक्यपदात्मानस्तेषां अधिकरणार्थानामाश्रये अर्थोऽर्थता येषां तथाभूतानां साकां- प्. ३२५) यथा - सरांसि हंसैः कुसुमैश्च वृक्षाः मत्तैर्द्विरेफैश्च सरोरुहाणि | गोष्ठीभिरुद्यानवनानि चैव तस्मिन्न शून्यानि सदा क्रियन्ते स्वविकल्पेन रचितं तुल्यावयवलक्षणम् | किंचित्सादृश्यसंपन्नं यद्रूपं रूपकं तु तत् || ५६ | नानाद्रव्यानुरागाद्यैर्यदौपम्य गुणाश्रयम् | रूपनिर्वर्णनायुक्तं तद्रूपकमिति स्मृतम् ||) ५७ || यथा - पद्माननास्ताः कुमुदप्रभासा विकोशनीलोत्पलचारुनेत्राः | वापीस्त्रियो हंसकुलैः स्वनद्भि- र्विरेजुरन्योन्यमिहालपन्त्यः || ५८ || क्षाणामिति तेषां यत्सम्यक् र्पकर्षेण दीपकमाकांक्षापूरकं क्रियागुणजात्यादि तद्दीपकं यत एकेनावान्तरवाक्येनासंयुक्तं सत्तथाकरोति ततो दीपप्रकृतित्वात्तथोक्तमित्यर्थः | अथ रूपकं - स्वविकल्पेन रचितमिति | स्वविकल्पेन यद्रूपं वदनस्य रचितं चन्द्रात्मकं तद्रूपयति परमिति रूपकम् | तस्य द्वौ भेदौ तुल्यैरवयवैः सर्वैरेवान्यरूपीकृतिअर्युक्तं यदि वा किंचित्सादृश्ययुक्तं रूपितम् | अत्रापि किंचिदन्ये रूपसादृश्याद्युक्तं रूपान्तररूपितं यत्रैकदेशविवर्ति प्रसिद्धं द्रव्याद्यस्ति | य इति युक्तः पाठः | ततो हि समासोपमात्वं पद्मानना इत्यादेर्निवार्यते | प्. ३२६) शब्दाभ्यासस्तु यमकं पादादिषु विकल्पितम् | विशेषदर्शनं चास्य गदतो मे निबोधत || ५९ || पादान्तयमकं चैव काञ्चीयमकमेव च | समुद्गयमकं चैव विक्रान्तयमकं तथा || ६० || यमकं चक्रवालं च संदष्टयमकं तथा | हंसकुलानां नर्मसचिवत्वमरूषितमपि गम्यत इत्ययमंशो द्वितीयस्योदाह्रणम् | अन्योन्यमिहेति पाठः इवशब्दे तूपमाशंज्योत्प्रेक्षो वा | सा त्विह कल्पितोपमा |उपमांशस्यास्फुरणा याभिमानाख्यं लक्षणं सैवं यस्यालङ्कारकारैरलङ्कारतयोक्ता तत्रोपओद्भेदश्च तद्युक्तालङ्कारता भूष्यभूषकयोः पृथगभावात् | नोचेत्तल्लक्षणमेव | तत्केचित्पठन्ति - नानाद्रव्यानुरागाद्यैर्यदौपम्यगुणाश्रयम् | रूपनिर्माण (र्वर्णना?) युक्तं तद्रूपक(मिति स्मृतम्) || इति व्याकुर्वते च - रूपकशब्दस्यान्वर्थाख्यायकमेतत् औपम्यस्य गुणत्वेन प्रधानतया संश्रयो यत्र तथा कृत्वा रूपस्य यान्यरूपेण निश्चित्य वर्णना तद्रूपकम् | कथं तन्निश्चय इत्याह नानाभूतेन पृथग्भूतेनापि द्रव्येण योऽनुरागः स्फटिकस्येव लाक्षया तत आदिग्रहणाद् भ्रान्तिगौणलाक्षणिकादिभेदानां ग्रहणम् (इति) | एवमर्थविषयलक्षणप्रसङ्गेनार्थालङ्कारान् प्रदर्श्य शब्दालङ्कारस्वरूपमाह शब्दाभ्यासस्तु यमकमिति | तुरर्थालङ्कारेभ्यो व्यतिरेकमाह | शब्दशब्देनवर्णः पदं तदेकदेश इति सर्वं गृह्यते | तेनानुप्रासः लोटीयादेरनेनैवोपसंग्रहः | यमै द्वौ समजातावुच्येते तत्प्रकृतित्वाद्यमकम् | तेनैकस्याक्षरस्य पदस्य वा द्वितीयं सदृशं निरन्तरं सान्तरं वा शोभाजनकमलङ्कारः | यथा मुक्ताफलस्योचितमुक्ताफलान्तरपद्मरागादेर्वोपाश्रयविशेषः समुचितसहासीन सत्पुरुषमध्यपतनं वा सत्पुरुषान्तरस्य | पादे आदिग्रहणं तदा मध्यान्तादिषु विकल्पितवचनान्नस्त्यपि स्थापननियमोऽनुप्रासलाटीयादिसंग्रहायेत्याह | विशेषदर्शनमिति प्. ३२७) पादादियमकं चैव तथाम्रेडितमेव च || ६१ || चतुर्व्यवसितं चैव मालायमकमेव च | एतद्दशविधं ज्ञेयं यमकं नाटकाश्रयम् || ६२ || चतुर्णां यत्र पादानामन्ते स्यात्सममक्षरम् | तद्वै पादान्तयमकं विज्ञेयं नामतो यथा || ६३ || दिनक्षयात्संहृतरश्मिमण्डलं दिवीव लग्नं तपनीयमण्डलम् | विभाति ताम्रं दिवि सूर्यमण्डलं यथा तरुण्याः स्तनभारमण्डलम् || ६४ || (लोकानां प्रभविष्णुर्दैत्येन्द्रगदानिपातनसहिष्णुः | जयति सुरदैत्यजिष्णुर्भगवानसुरवरमथनकारी विष्णुः ||) पादस्यादौ तथान्ते च यत्र स्यातां पदे समे | तत्काञ्चीयमकं नाम विज्ञेयं सूरिभिर्यथा || ६६ || यामं यामं चन्द्रवतीनां द्रवतीनां व्यक्ताव्यक्ता सारजनीनां रजनीनाम् | विशेषाणामुद्देशलक्षणानामित्यर्थः | अक्षरमिति एकमनेकं च संहृतम् | रश्मीनां मण्डलमोघो यस्य | तपनीयमण्डलं सौवर्णं चक्रम् | प्. ३२८) फुल्ले फुल्ले सभ्रमरे वा भ्रमरे वा रामा रामा विस्मयते च स्मयते च || ६७ || अर्धेनैकेन यद्वृत्तं सर्वमेव समाप्यते | समुद्गयमकं तत्तु विज्ञेयं नामतो यथा || ६८ || केतकी कुसुमपाण्डुरदन्तः शोभते प्रवरकाननहस्ती | केतकीकुसुमपाण्डुरदन्तः शोभते प्रवरकाननहस्ती || ६९ || एकैकं पादमुत्क्रम्य द्वौ पादौ सदृशौ यदा | विक्रान्तयमकं नाम विज्ञेयं नामतो यथा || ७० || स पूर्वं वारणो भूत्वा द्विशृङ्ग इव पर्वतः | अभवद्दन्तवैकल्याद्विशृङ्ग इव पर्वतः || ७१ || पूर्वस्यान्तेन पादस्य परस्यादिर्यदा समः | चक्रवच्चक्रवालं तद्विज्ञेयं नामतो यथा || ७२ || सारभूतानां जातीनां वधुनां युवतीनां संबन्धिनी | परिवारत्वेन स्थिता रामारामा सर्वैव स्त्रीव्यक्ता ईषत् स्फुटाकारा | चन्द्रवतीनां रजनीनां रात्रीणां संबन्धिनी यामंयामं सर्वप्रहरम् | स्मयते यतः पुष्पे विकसिते सभ्रमरके तद्विना वा विस्मयते | केतकीकुसुमवद्भासुरौ दन्तावस्य सोऽयं प्रकारकमाननं यस्य तादृक् शोभते हस्ती | तथा केतकीकुसुमात्मकौ पाण्डुरौ दन्तौ यस्य तत्प्रवरकाननं हस्तिरूपं शोभते | अत्र चार्थभेदो मुनिना नादृत इति तदप्रसिद्धम् | व्युत्पत्त्यादिना परहृदयं वेदितमस्माभिः | द्वे शृङ्गे यस्य तथा विगतं शृङ्गं यस्य | एते युधि संचिताः सङ्घीभूताः चितमधिरूढाः | शत्रुभिः कर्तृभिः खगैः शरैः अनुपुङ्गगैः पुद्गान्तमगनिः आहताः प्. ३२९) तुल्यात्पादद्वयादन्त्यादेकेनादिर्यदा समः | सर्वत्र चक्रवालं तद्विज्ञेयं नामतो यथा ||) ७३ || शैलास्तथा शत्रुभिराहताहता हताश्च भूयस्त्वनुपुंखगैः खगैः | खगैश्च सर्वैर्युधि संचिताश्चिता- शिच्ताधिरूढा निहतास्तलैस्तलैः || ७४ || आदौ द्वे यत्र पादे तु भवेतामक्षरे समे | संदष्टयमकं नाम विज्ञेयं नामतो यथा || ७५ || पश्य पश्य रणमस्य मे गुणान्येन येन वशगां करोति माम् येन येनहि ममैति दर्शनं तेन तेन वशगां करोति माम् || आदौ पादे तु यत्र स्यात्समावेशसमाक्षरः | पादादियमकं नाम विज्ञेयं नामतो यथा || ७७ || विष्णुः सृजति भूतानि विष्णुः संहरते प्रजाः | विष्णुः प्रसूते त्रैलोक्यं विष्णुर्लोकाधिदैवतम् || ७८ || पादस्यान्त्यं पदं यत्र द्विर्द्विरेकमिहोच्यते | ज्ञेयमाम्रेडितं नाम यमकं तत्तु सूरिभिः || ७९ || हताः | आहतप्रकारमाह - ताः छिन्नपक्षाः शैला इव खगैः गृध्रादिभिः तलैः पक्षवाहुभिः निहताः भूयः | एतैरेव चिताः व्याप्ताः | निहतानामस्तं मरणं लान्ति तैर्निहतास्तलैः इति क्लिष्टत्वादुपेक्ष्यम् | प्. ३३०) विजृम्भितं निःश्वसितं मुहुर्मुहुः कथं विधेयस्मरणं पदे पदे यथा च ते ध्यानमिदं पुनः पुनर्ध्रुवं गताते रजनी विनाविना सर्वे पादाः समा यत्र भवन्ति नियताक्षराः | चतुर्व्यवसितं नाम तद्विज्ञेयं बुधैर्यथा || ८१ || वारणानामयमेव कालो वारणानामयमेव कालः | वारणानामयमेवकालो वा रणानामयमेव कालः || ८२ || नानारूपैः स्वरैर्युक्तं यत्रैकं व्यञ्जनं भवेत् | तन्मालायमकं नाम विज्ञेयं काव्यकोविदैः || ८३ || यथा - हली बली हली माली खेली माली सली जली | खलो बलो बलो मालो मुसली त्वभिरक्षतु || ८४ || असौ हि रामा रतिविग्रहप्रिया रहःप्रगल्भा रमणं मनोयतम् | रतेन रात्रौ रमयेत्परेण वा न चेदुदेष्यत्यरुणः पुरोरिपुः || ८५ || वारणपुष्पाणामयं संबन्ध्ययं कालः शरल्ल *? णः | वारणानां हस्तिनां अनामयं आगयाभाने सति सगदत्वे(?) सति वारणानां वारणं निवारणं विद्यते येषां तेषां शतॄणामयं कालः कृतान्तोऽथवा | रणानां संग्रामाणां कालः क्षेपः चिन्ताप्रवर्तयितेत्यर्थः | प्. ३३१) सपुष्कराक्षः क्षतजोक्षिताक्षः क्षरत्क्षतेभ्यः क्षतजं दुरीक्षम् | क्षतैर्गवाक्षैरिव संवृताङ्गः साक्षात्सहस्राक्ष इवावभाति || ८६ || एभिरर्थक्रियापेक्षैः काव्यं कुर्यात्तु लक्षणैः | अतःपरं प्रवक्ष्यामि काव्यदोषान् गुणांस्तथा || ८७ || गूढार्थमर्थान्तरमर्थहीनं भिन्नार्थमेकार्थमभिप्लुतार्थम् | न्यायादपेतं विषयंविसन्धि शब्दच्युतं वै दश काव्यदोषाः पर्यायशब्दाभिहितं गूढार्थमिति संज्ञितम् | अवर्ण्यं वर्ण्यते यत्र तदर्थान्तरमिष्यते || ८९ || लक्षणानां प्राधान्यमित्युक्तपूर्व तत्तथैवोपसंहरति एभिर्लक्षणैरिति अर्थः क्रियायां रसचर्वणायां युक्तं योगं येषां विभावादित्वं ह्येतत् प्रसादादीत्युक्तमधस्तात् | अतःपरमिति वक्तव्यान्तरमाह | केषुचित्पुस्तकेषु चैतद्ग्रन्थः पश्चाद्दृश्यते बाहुल्येन प्रथां दृश्यत इति तथैव व्याचक्ष्महे | तत्र पादानां वाक्यस्य तदर्थानां च यथा दशरथ इति वक्तव्ये वलात्परिकल्पितेन वस्तुतो पर्यायशब्देनाभिधानं अधिकनवविमान इति | न हि यदृच्छाशब्दाः पर्यायभाजः | अर्थान्तरं यथा - चिन्तामोहमनङ्गमङ्ग तनुते विप्रेक्षितं सुभ्रुवः इति अत्र कामः स्वीकृतः चिन्तादिशब्देनावर्णनीयमपि वर्णितम् | यत्तु प्रसक्तानुप्रसक्तिकया बहुतराप्रकृतवर्णनं तत्प्रबन्धदोषरूपं सन्धितदङ्गविधानेन पराकृतमिति नेह निरूपणार्हम् | प्. ३३२) अर्थहीनं त्वसंबद्धं सावशेषार्थमेव च | भिन्नार्थमभिविज्ञेयमसभ्यं ग्राम्यमेव च || ९० || विवक्षितोऽन्य एवार्थो यत्रान्यार्थेन विद्यते | भिन्नार्थं तदपि प्राहुः काव्यं काव्यविचक्षणाः || ९१ || अविशेषाभिधानं यत्तदेकार्थमिति स्मृतम् | अभिप्लुतार्थं विज्ञेयं यत्पदेन समस्यते || ९२ || अर्थहीनं यथा - अद्यापि स्मरसि रसालसं मनो मे भुग्वायाः स्मरचतुराणि | मत्रपूर्वापरव्याघातादसंबन्धता | यथा वा स महात्मा भाग्यवशान्महापथमुपागतः इति | अत्र हि सविशेषः प्रकरणापेक्षो वस्तुनिश्चयः अभाग्यवशादित्यपि संभाव्यत्वात् | भिन्नार्थं त्रिधा - तत्र मृष्यो दूरसंबन्धव्यवधाने सति यत्रार्थो यथा - ज्वरं भुञ्जीतराज्जातमलपाकं चिरस्थितम् | अजादुग्धीदयं हन्यात् त्रिदोषोत्कोपसंभवम् || इति ग्राम्यं यथा - भद्रे भजस्य मामिदं ते दास्यामि इति | तृतीयं भिन्नार्थं यथा - स्याच्चेदेष न रावणः इत्युक्त्वा क्व नु पुनः सर्वत्र सर्वेगुणाः इति | उद्दिष्टं ह्यत्र रावणस्यानुपादेयत्वं *? नु पुनीरत्येननान्यथाकरणाद्भेदितम् | एकार्थं यथा - कुन्देन्दुहारहरहाससितं इति | एकप्रयोजनं हि सर्वमेतत् | न हि काव्यं शास्त्रवदुपदेश्यं कश्चित्किंचिज्जानीयादिति प्रवर्तते | अभिप्लुतार्थं यथा - स राजा नीतिकुशलः सरः कुमुदशोभितम् | सर्वप्रिया वसन्तश्रीर्ग्रीष्मे मालतिकागमः || अत्र प्रतिपादमर्थस्य परिसमाप्तत्वादभिप्लुतत्वं एकवाक्यत्वेन निमज्जनाभावात् | प्. ३३३) न्यायादपेतं विज्ञेयं प्रमाणपरिवर्जितम् | वृत्तभेदो भवेद्यत्र विषमं नाम तद्भवेत् || ९३ || अनुपश्लिष्टशब्दं यत्तद्विसन्धीति कीर्तितम् | शब्दच्युतं च विज्ञेयमवर्णस्वरयोजनात् || ९४ || एते दोषा हि काव्यस्य मया सम्यक् प्रकीर्तिताः | गुणा विपर्ययादेषां माधुर्यौदार्यलक्षणाः || ९५ || न्यायादपेतं देशकालविरुद्धं कलाशास्त्रादिविरुद्धं च यथा - सुवीरेष्वस्ति नगरी मथुरा नाम विश्रुता | अक्षोटनालिकेराढ्या यस्याः पर्यन्तभूमयः || इत्यादि | विषमं यथा - अयि पश्यसि सौधमाश्रितामविरलसुमनोमालभारिणीम् इत्यादि | यदि दोषोऽनेनैव संगृहीतः सन्धानं द्वयोर्नैरन्तर्यं विचारयोगः अन्योन्यलयो वेति त्रिधा तदनुपारूढमयुक्तं पारुष्याद्युत्पादकं वा यत्रापशब्दः स्मृतो मुन्त्रयेणादृतः | एतन्मध्ये तु केचित् नित्यदोषाः यथा अपशब्दः केचिदनित्या यथा - ग्राम्यं हास्यादौ तस्येष्टतमत्वात् | एतदाह यथास्थूलमिति | आनुपूर्व्यं अव्ययेनाव्ययीभावः तेनोत्तरोत्तरम् | एते दोषाः स्थूलाः यथा च गूढार्थं गूढलेखप्रहेलिका(दि) पताकास्थानकादिषु प्रयोज्यम् अर्थान्तरमनुवादे अर्थईनादि हास्ये भिन्नार्थं श्रोत्रियादौ वक्तरि एकार्थं परप्रत्यायने अभिप्लुतार्थमुन्मादादौ भिन्नवृत्तं च विसन्धि स्वविषये | एव मेते दोषाः क्रमेणापातविषयाः | इह यतोऽर्थप्रतीतिस्तावदस्ति अपशब्दस्तु दोष एव ततः कस्याश्चिदर्थप्रतीतेरभावात् स हि न कांचिद्भाषामनुपतति सङ्कताभावात्तमर्थं प्रतिपादयेत् | अथ गुणेषु प्रतिजानीते - एषां विषयेयाद्गुणा भवन्ति एतद्दोषविघात एव गुणो भवतीत्यर्थः | किं अविशेषेण नेत्याह माधुर्यौदार्यलक्षण- प्. ३३४) श्लेषः प्रसादः समता समाधि- र्माधुर्यमोजः पदसौकुमार्यम् | अर्थस्य च व्यक्तिरुदारता च कान्तिश्च काव्यस्य गुणा दशैते || ९६ || ईप्सितेनार्थजातेन संबद्धानां परस्परम् | श्लिष्टता या पदानां स श्लेष इत्यभिधीयते || ९७ || मङ्को येषाम् | एतदुक्तं भवति - एतद्दोषविहीनं श्रुतिमुखं दीप्तररां च यदि भवति तावता गुणान्तरैरलङ्कारैश्च हीनमपि काव्यं लक्षणयोगाव्यभिचारित्युक्तम् | अन्येऽपि गुणाः सन्तीति दर्शयति श्लेषः प्रसाद इत्यादि | काव्यस्येति पदस्य वाक्यस्य तदुभयगतस्यार्थस्य वेत्यर्थः | ततश्लेषमाह ईप्सितेनार्थजातेनेति | अर्थभागाना कविसमुत्प्रेक्षितया परस्परसंबद्धया योजनया संपन्नं यदीप्सितमर्थजातं तेनोपलक्षितार्थस्पोपपद्यमानस्योपपद्यमानतात्मा गुणः श्लेषः | यथोदाहृतं वामनेन - दृष्ट्वैकासनसंस्थिते प्रियतमे पश्चादुपेत्यादरा- देकस्या नयने निमील्य पिहितक्रीडानुबन्धच्छलः | ईषद्वक्रितकन्धरः सपुलकप्रेमोल्लसन्मानसा- मन्तर्हासलसत्कपोलफलकां धूर्तोऽपरां चुम्बनि || अत्र मनोरथातीतोऽप्येककालनायिकायुगलहृदयग्रहणलक्षणार्थस्तथोपपादितो येनासंभावनास्पदं न भवति तेन कुटिलोऽप्ययं क्रमो न हृदये उल्बणत्वं भजते मज्जति हृदये यतः सर्वस्येति | प्. ३३५) (विचारगहनं यत्स्यात्स्फुटं चैव स्वभावतः | स्वतः सुप्रतिबद्धं च श्लिष्टं तत्परिकीर्तितम् ||) ९८ || अप्यनुक्तो बुधैर्यत्र शब्दोऽर्थो वा प्रतीयते | सुखशब्दार्थसंयोगात्प्रसादः स तु कीर्त्यते || ९९ || अथ शब्दगुणमाह नित्यार्थे पदानां श्लिष्टता परस्परं योनिः सन्धिबन्धनतयानेकमेकपदमिव भाति तदेव मासृण्यमुच्यते | अतश्च पदान्तरपाठस्यावश्यापेक्षतायां यथा ब्रह्मसूत्रमिति | उक्तं चैतच्छन्दोऽध्याये | तथा सन्धीयमानयोस्तथासन्धेः साजात्यं सावर्ण्यं च संपद्यते वस्त्रखण्डयोरिव सूत्रस्येव च | यथा - अस्त्युत्तरस्यां दिशि देवतात्मा (कुमा १-१) अस्ति शब्दस्योत्तरशब्दस्य सन्धीयमानयोस्तकारेण तकारेण संयोगे तयोश्च साजात्यं स्यान्दिशि इत्यनयोः सन्धेर्नकारस्य वर्ग्यत्वाद्दकारेण सावर्ण्यं दिशि देवता इति नरन्तर्यसन्धौ दकारेण साजात्यं इकारैकारयोस्तालव्यांशत्वेन सादृश्यं देवतात्मा इत्यत्र तकारेणाकारेण च | न चानुप्रासमात्रमेतत् एकपदानुप्रासेऽपि प्रामाण्यभावात् - इन्दिन्दिराणां ललितो निनादः इत्यनुप्रासे च सावर्ण्येनोपयोगीति | अन्ये पठन्ति - विचारगहनं यत्स्यात् स्फुटं चैव स्वभावतः | इत्यर्थश्लेषः वक्रघटमानं वेत्यर्थः सुप्रतिबद्धश्च श्लेष इति पदश्लेषः | प्रसादमाह - अप्यनुक्तो बुधैरिति | यत्रार्थे अनुक्तेऽपि बुधैः कष्टकल्पनया अव्याखतोऽप्यर्थः प्रयोजनं स्वयं जायते सोऽर्थो वैमल्याश्रयोऽपि वैमल्यमुपचारात् सोऽर्थो वा काव्यस्य वैमल्यं स्वयं जानंश्चानुपयोगिपरिवर्जनात् | वैमल्यशब्दवाच्याज्जलस्येव पांसुभिरसंपर्काद्भवतीति वैमल्यमर्थस्य प्रसादः | यथा - सवर्णा कन्यका रूपयौवनारम्भशालिनी इति विवाह्यत्वं प्रापणीयताहृद्यत्वं संभोगयोग्यता गृहस्थसहधर्मचारिणीत्वमित्युपयोगी सर्वोऽयमर्थः | तेनाबुध्वैतदुदाहरणान्तरं वृथा भ्रमणम् - आविलपयोधराग्र मिति (विक्रमो ५-८) एतदपि तूदाहरणं पददूषणं तु सम्यगज्ञाने प्रयुक्तम् (?) | अप्रसादस्तु उपास्तां हस्तो मे विमलमणिकाञ्चीपदमिदम् अत्र विमलंमन्यतोपयोगात् पांसुरिव जलेऽत्राप्रसन्नतां करोति | सुख इति न प्रयत्नमपेक्षते | प्. ३३६) नातिचूर्णपदैर्युक्ता न च व्यर्थाभिधायिभिः | दुर्बोधनैश्च न कृता समत्वात्समता मता || १०० || यः शब्दार्थो यः संयोगः शब्दविषय इत्यर्थः कलामात्ररूप एव यत सन्धिः अत एव शैथिल्यात्मा स शब्दगुणः प्रसादः | प्रसन्नता स्फुटत्वं लक्षणीयविभागता पदानाम् | यथा - अथ सविषयव्यावृत्तात्मा यथाविधि सूनवे नृपतिककुदं दत्त्वा यूने सितातपवारणम् | इत्यादि | अत्र निरन्तरतां मुक्त्वा नान्योन्यलयो नान्योन्यापत्तिसन्धिरस्तीति शिथिलता | एकश्च गुणः कोऽपि शोभत इति स्वानुभवसिद्धः तेन व्यावृत्तात्मेति गाढता कृता ककुदं दत्त्वेति चापरः सवर्णपक्षे | समतामाह - नातिचूर्णपदैरिति | शब्दानां समत्वात्समः चूर्णपदैरसमासरचना यत्र सातिशया न भवति अतिशयश्च प्रतियोगिनमपेक्षते इति | दीर्घसमासोऽत्यन्तसमासश्च विषमता तद्विपर्ययेण समता उपक्रान्तमार्गापरित्यागरूपेत्युक्तं भवति | यथा - गाहन्तां गहिषा निपानसलिलैः शुद्धैर्मुहुस्ताडितं छायाबद्धकदम्बकं मृगकुलं रोमन्धमभ्यस्यतु | विस्रब्धैः क्रियतां वराहपतिभिर्मुस्ताक्षतिः पल्वले विश्रान्तिं लभतामिदं च शिथिलज्याबन्धमस्मद्धनुः | इति (अत्र) अवान्तरवाक्ये समस्तद्विपदा हि नातिदीर्घा वृत्तिः | प्रसीद चण्डि त्यज मन्युमज्जसा जनस्तवावं पुरतः कृताञ्जलिः | किमित्थं - इति चूर्णपदैरुपक्रम्यासमाप्त एव वाक्यान्तरे वाक्यार्थेऽपि दीर्घः समासः कृतः - उत्कम्पितपीवरस्तनद्वयोन्मिषत्सुप्तविलासमास्यते || पूर्वत्र (गाहन्ता भित्यत्र) त्ववान्तरार्थसमाप्तावर्थान्ततोषक्रम एव समासेन छायाबद्धकदम्बक मित्युपक्रान्तोऽपि न चैत्यात्कूपपतनमिव चूर्णपदं प्रयुक्तं मृगकुल मिति | सेयं समता जाता शब्दगुणा अर्थोऽपि समत्वात् किं तत्समत्वं आह व्यर्थाभिधायिभिरिति निष्प्रयोजनमर्थं येऽभिदधति शब्दानां प्. ३३७) अन्योन्यसदृशा यत्र तथा ह्यन्योन्यभूषणाः | अलङ्कारा गुणाश्चैव समाः स्युः समतामताः ||) १०१ || अभियुक्तैर्विशेषस्तु योऽर्थस्येहोपलक्ष्यते | तेन चार्थेन संपन्नः समाधिः परिकीर्तितः || १०२ || न त्वेतदवैमल्पमिति प्रसादेन निरस्तम् | नैतत् नहि सर्वथा निष्प्रयोजनता अपि तु सदपि प्रयोजनं दुर्बोधं तदाह - दुर्बोधनैरिति | अभिधीयतेऽस्मै इत्यभिधानं प्रयोजनम् | यथा - च्युतसुमनसः कुन्दाः पुष्पोद्गमेष्वलसा द्रुमाः मलयमरुतः सर्पन्तीमे वियुक्तधृतिच्छिदः | अथ च सवितुः शीतोल्लासं लुनन्ति मरीचयो न च जरठतामालम्बन्ते क्लमोदयदायिनीम् || इत्यत्र ऋतुसन्धिवर्णनप्रक्रमे मलयमरुतः प्रक्रमं भिनत्ति न च सर्वथा निरर्थको विप्रलम्भोद्दीपनत्वात् | किं तु प्रक्रमं स्फुटं न पुष्णातीति विषमता | समता तु मनसि च गिरं गृह्णन्तीमे किरन्ति न कोकिलाः इति (द्वितीयपादस्थाने यदि पठेत्) | समाधिमाह - अभियुक्तैर्विशेषस्त्विति | यस्यार्थस्य द्वितीयस्यार्थस्य अभियुक्तियुक्तैः प्रतिभातिशयवद्भिः विशेषो अपूर्वः स्वोल्लिखित उपपद्यते ससमाहितमनःसंपाद्यविशेषत्वादर्थो विशिष्टः समाधिः यत्र कवेस्तत्पूर्विकयोल्लेखस्तत्सर्वमोहोदाहरणम् | यथा - आश्वपैहि मम सीधुभाजनाद्यावदग्रदशनैर्न दश्यसे | चन्द्र मद्दशनमण्डलाङ्कितः खं न यास्यसि हि रोहिणीभयात् || इति | अयोनिरन्यच्छायायोनिश्चेति एतत्तदेवज्ञानं विषयः न चानेकं किंचित् सारस्वतस्य हि सर्वोर्थमनिमित्तत एव | तदन्यस्य सर्वोऽन्यच्छायायोनि | व्यक्तभाव्यवास्यत्वादपि कविहृदयगतप्रतिभातिशयतारतम्यादनवस्थितम् (?) | शब्दगुणश्च समाधिः तमाह तेन चेति | समाधिशब्दस्य योऽर्थः परि- प्. ३३८) उपमाद्युपदिष्टानामर्थानां यत्नतस्तथा | प्राप्तानां चापि संक्षेपात्समाधिर्निर्णयो यतः) || हारलक्षणस्तेन यः परिकीर्तितः परितः समन्तादाक्रान्त्या उच्चारणे संपन्नः स च समाधिः | आक्रान्त्या उच्चारणे आरोहावरोहक्रममेव आक्रमणेन गतितुल्यम् | आरोहश्चोर्ध्वगमनद्वारः प्राणमारुतरूपाया उच्चरूपः अपक्रमणमवरोहो विपर्ययः | उच्चत्वं स्थानकरणवशात् बाह्याभ्यन्तरप्रयत्नवशाच्च | तथा हि - निरानन्दः कौन्दे मधुनि परिभुक्तोज्झितरसे (न साले सालम्बो लवमपि लवङ्गे न रमते | प्रियङ्गौ नासङ्गं रचयति न चूतेऽपि चरति स्मरल्लक्ष्मीलीलाकमलमधुपानं मधुकरः) || तत्र नकाराद्दन्त्यान्मूर्धन्यो रेफ उच्चस्थानस्थितो यद्यपि दन्त्यः तथापि संयोगो निरन्तरप्रयत्नाधिक्येन विवृततमेन चाकार द्वयेन द्विवारप्रयत्नकेन च जिह्वामूलीयेन चोच्चत्वभाजा आरोहणमस्फुटीकरणमिति नशब्दोऽवरोहणं संपन्नमप्यसंपन्नकल्पम् | आरोहणसौकर्यायैव प्रत्युत मध्ये ह्यत्र का विश्रान्तिः | अभावे उच्चतमसङ्कलनसोपानारोहखेदायैव भवति निरास्वाद्यः कौन्द इति यथा एव निरानन्द इत्यत्र यावन्महाप्राणो जिह्वामूलीयश्च श्वासानुप्रदानो द्विवारयुक्तस्तावदारोहयत औकार आकारमवेक्ष्य रूपविवृत औकारतोऽपि नकारः ततोऽपीकारोकारयोः ऊनं विवृतत्वं अकारस्तु संवृतः इत्यवरोहः | औकारस्तु मध्येऽवरोहसौकर्यायैव दूरारोहाद्धि दूरावरोहणं चेति चूलिकायाः कूपपतनकल्पम् | खेदो यथा - कुर्वाणाः परमं महच्च मनस इति आकारोपध्मानीयेभ्यो झटिति संवृतेऽकारे निपातनात् | निवेशः स्वःसिन्धोः - इत्यत्र क्रमेण विवृततरः स्पर्श इति क्रमेणारोहः | तुहिनगिरिवीथीषु जयति - अत्र विवृतेभ्यः उकारादिभ्यः संवृतेऽकारद्वये पातः इकारस्त्वन्यत्वान्न च विश्रान्तिस्थानमिति नारोहः | यदि वा (सि)न्धोरिति विवृततरापेक्षया आरोह- प्. ३३९) बहुशो यच्छ्रुतं वाक्यमुक्तं वापि पुनः पुनः | नोद्वेजयति यस्माद्धि तन्माधुर्यमिति स्मृतम् || १०४ || संस्कारे उकारेऽवरोहबुद्धिरेव स्फुटत्वेऽवरोहः | जयतिमपास्यं तदयमिति पाठः (?) अनुस्वारो हि संवारप्रयत्नः | नराः शीलभ्रष्टाः व्यसन इवमज्जन्ति तरवः इति अकार इकार अकारेभ्योऽवरोहमयेभ्यो विवृते इकारे आरोहः अन्ते च विसर्जनीये आरोह एव | तेन स्वभावप्रतिभादर्शनानुविद्धा भगवति वाणी स्वरसोपनिपतिता स्वरसंभारप्रभावानुरोधेनैवारोहावरोहक्रमं भजते | प्रतिभादृष्टिशून्यत्वात् अन्ध पदवदारोहादि न भजेत् | नन्वियता पाठसौकर्य स्यात् श्रोतुस्तु किमायातम् अनभिज्ञो देवानाम् प्रियः यथा हि कर्कशशर्करानिकरकण्टकिते देशे दुस्सञ्चरे संचरज्जनं पश्यन्त्या अपि सुकुमारहृदयायाः प्रमदायास्तदात्मानुप्रवेश इव जायमानं खेदमतितरामादत्ते प्रहारपातादौ वा तथा सहृदस्यस्य स एव मार्गः सुकुमारता हि वैमल्यापरपर्याया सहृदयत्वं हृदयस्य हि कविहृदयतादात्म्यापत्तियोग्यतैव उत्कर्षः | तत एवोक्तं - शब्दार्थशासनज्ञानमात्रेणैव न वेद्यते | वेद्यते स हि काव्यार्थतत्त्वज्ञैरेव केवलम् || (ध्वन्या - १-७) इति | अभिधानकोशमपि हि पठता सुप्तिड्विभक्तीश्च विदुषामपि न काव्यतत्त्वावबोधः तस्माद्वर्णोच्चारणप्रयत्नेन परुषपठनस्पर्शजनितो यः खेद उच्चारयितुः स एव श्रोतुरपि पारुष्यमाधत्ते | नीरन्ध्यध्ववधूनिवन्ध्यनुगतप्राणैकबन्धक्रमः (?) इत्यादौ | वर्णगतं च लालित्यपारुष्यादि पुष्कराध्यायेऽपि (अ-३४) वक्ष्यते | अन्यैरप्युक्तं तेन वर्णा रसच्युतः इत्यादि | स्वभावतो हि केचन वर्णाः सन्तापयन्तीव निकृन्तन्तीव रेफककारादय इव परुषवृत्तिपूर्वकाः अन्ये तु निर्वापयन्तीवोपनागरिकोचिताः | लोकगोचर एवायमर्थः स्वसंवेद्योऽपीति न वितत इत्यास्तां तावत् | माधुर्यमाह - वहुशो यच्छ्रुतमित्यादि | यदिति यस्माद्धेतोर्वाक्यं श्रुतं संशयविपर्यययोरास्पदं न भवतीति तन्माधुर्यम् | द्राघीयसि समासे ताववश्यं भवत इति तद्विरह एव माधुर्य शब्दगुण इत्युक्तं भवति | यथा - गाहन्तां प्. ३४०) समासवद्भिर्बहुभिर्विचित्रैश्च पदैर्युतम् | सानुरागैरुदारैश्च तदोजः परिकीर्त्यते || १०५ || (अवगीतोऽपि हीनोऽपि स्याददात्तावभासकः | यत्र शब्दार्थसंपत्त्या तदोजः परिकीर्तितम् ||) १०६ || महिषा निपानसलिलं (शाकु २-६) इत्यादि | पुनः पुनरप्युक्तमर्थजातं यस्माद्धेतोरपनीतमवगाहनेन वैरस्येन तद्वचनवैचित्र्यात्मकं माधुर्यमर्थगुणः वचनान्तराभिधेयतया हि स एवार्थो विचित्रो भवति | यथा - रसवदमृतं कः सन्देहो मधून्यपि नान्यथा मधुरमथ किं चूतस्यापि र्पसन्नरसं फलम् | (सकृदपि पुनर्मध्यस्थः सन्र्सान्तरविज्जनो वदतु यदिहान्यत्स्वादु स्यात्प्रियादशनच्छदात् ||) अत्र रसवदमृतमिति य एवार्थः स एव कः सन्देह इत्युक्तया विचित्रया परिनिश्चयस्थैर्याभिधायिन्या निश्चयीकृतः | निश्चयस्थैर्यमेव च नान्यथेतिवचनान्तरेण विपर्ययनिराकरणसंबहवनान्तरनिरासं च क्रमेण विदधता विचित्रीकृतमिति मधुरोऽयमर्थः | ओजो लक्षयति - समासवद्भिर्बहुभिरिति | बहुभिरेकसमाससंज्ञायुक्तैरथ च विचित्रैर्यमकैः पदैर्यदुक्तं यो बन्धस्तदोजः | यथा - मथायस्तार्णवाम्भःप्लुतिकुहरवलन्मन्दरध्वानधीरः कोणाघातेषु गर्जत्प्रलयघनघटान्योन्यसंघट्टचण्डः | कृष्णाक्रोधाग्रदूतः कुरुकुलनिधनोत्पातनिर्घातवातः केनास्मत्सिंहनदप्रतिरसितनभोदुन्दुभिस्ताडितोऽसौ || (वेणी) इति यथा सानुरागैर्यत्र वर्णो वर्णान्तरमपेक्षते तत सानुरागत्वम् | प्. ३४१) सुखप्रयोज्यैर्यच्छबदैर्युक्तं सुश्लिष्टसन्धिभिः | सुकुमारार्थसंयुक्तं सौकुमार्यं तदुच्यते || १०७ || विलुलितमकरन्दा मम्जरीर्नर्तयन्तो अत्र र इति शब्दो न्दशब्दं स्वगुरुत्वायापेक्षते न इत्ययंशब्दो य इत्ययं च न्ते शब्दं च नो इत्ययं च न्ते गुरुत्वात् | स्वविश्रान्तिजनितकालोपचयलभ्यं गुरुत्वं नाकांक्षतीति द्वितीयपादपाठं समनन्तरमेवापेक्षते | विलुलितमधुधारा मञ्चरीर्लोलयतः | इति पाठे धाशब्दो लोशब्दो तिशब्दश्च जात्यापेक्षत इति | स तदेव गाढत्वमुच्यते निविडावयवतैव समासेन संक्षेपेण युक्तानि पदानि यत्रार्थभूयानिति संक्षेपो नामार्थगुण ओजः | ओजस्वी किमतोऽपि भूयः समाक्षिपति तथा एकमपि वस्तु उदारैर्बहुभिः पदैरुपनिबध्यते विस्तरात्मकत्वमप्योजोऽर्थगुणः | संक्षेपो यथा - ते हिमालयमामन्त्र्य पुनः प्रेक्ष्य च शूलिनम् | सिद्धं चास्मै निवेद्यार्थं तद्विसृष्टाः खमुद्ययुः || (कुमा - ६-९३) विस्तरस्तु - अथ नयनसमुत्थं ज्योतिरत्रेरिव द्यौः सुरसरिदिव तेजो वह्निनिष्ट्यूतमैशम् | (रघु २-७५) सौकुमार्यमाह - सुखप्रयोज्यैरिति | क्वचित्पदस्य स्वयं पारुष्यं भवति यथा द्राढा अजड्ढा निर्द्वैतं सदृक्त्वव्यवसितिः इति | क्वचित्संहिता - दर्व्याख्यार्वीविधूयते | तदुभयरहित्वं सौकुमार्यं शब्दगुणः | यथा - गाहन्तामित्यादि | अत्र च यद्वक्तव्यं तत्समाधिलक्षणे निर्णीतम् | परुषेऽपि चार्थे सुकुमारेणार्थेन या संपत्तिस्तदर्थगुणः सौकुमार्यमपारुष्यरूपम् एकाकिनि देवतासहाय इति मृते यशःशेष इति जडे देवानांप्रिय इति | प्. ३४२) सुप्रसिद्धाभिधाना तु लोककर्मव्यवस्थिता | या क्रिया क्रियते काव्ये सार्थव्यक्तिः प्रकीर्त्यते || (यस्यार्थानुप्रवेशेन मनसा परिकल्प्यते | अनन्तरप्रयोगस्तु सार्थव्यक्तिरुदाहृता ||) १०९ || दिव्यभावपरीतं यच्छृङ्गाराद्भुतयोजितम् | अनेकभावसंयुक्तमुदारत्वं प्रकीर्तितम् || ११० || अर्थव्यक्तिमाह - सुप्रसिद्धाभिधानेति प्रसिद्धमभिधानमभिधाव्यापारो यस्यां काव्यक्रियायां सार्थव्यक्तिः शब्दगुणः | यथा गाहन्तामिति | विपर्यये तु किरातादिनिदर्शनं यच्चार्थे वर्ण्यते स तथैव लोके प्रसिद्ध इत्यर्थस्य गुणोऽर्थव्यक्तिः | यथा - पृष्ठेषु श *?शकलच्छविषु च्छदानां राजीभिरञ्जितमलक्तकलोहिनीभिः | गोरोचनाहरितवभ्रुवहिःपलाश- मामोदते कुमुदमम्भसि पल्वलस्य || उदारतामाह - दिव्यभावपरीतं यदिति | यत्र मानुषोचितमपि दिव्यतया करुणादियुक्तमपि शृङ्गारेण विस्मयस्थानमप्यद्भुतेन युक्तं वर्ण्यते तद्गतैर्वा विभावानुभावादिभिः तदुदीर्य तत्रौदार्यमर्थगुणः | एतदेवाग्राम्यत्वमित्यन्यैरुक्तम् | ग्राम्यं हि वस्तु यथास्थितमयोजितरचनाविशेषं प्रसिद्धिमात्रप्रमाणमुच्यते ततोऽन्यदग्राम्यम् | यथा - त्वमेवंसौन्दर्या स च रुचिरतायाः परिचितः कलानां सीमानं परमिह युवामेव भजथह् | अपि द्वन्द्वं दिष्ट्या तदिति सुभगे संवदति वां अतः शेषं चेत्स्याज्जितमथ तदानीं गुणितया || इति | यत्रद्भुतेन यत्कृतोऽर्थः अनेकभावसंयुक्तमिति शब्दगुणस्य लक्षणम् एकभाषा चित्रत्वादनेकताचित्रत्वं पदान्तस्यैकस्यानेकव्यक्तिरक्षरसंख्यावैचित्र्यं सन्धा- प्. ३४३) अनेकार्थविशेषैर्यत्सूक्तैः सौष्ठवसंयुतैः | उपेतमतिचित्रार्थैरुदात्तं तच्च किर्त्यते) || १११ || यन्मनः श्रोत्रविषयमाह्लादयति हीन्दुवत् | लीलाद्यर्थोपपन्नां वा तां कान्तिं कवयो विदुः || ११२ || नसाजात्यं च पिण्डीवन्धनृत्तसादृश्येन तत्र हि गुल्मजातशृङ्खलिकादिभेदेनेत्थंभूतो नर्कतीसंनिवेशो भरते तदुक्तं विकटत्वं नरीनृत्यमानत्वमिति पदानामौदार्यमिति | यथा - स्वचरणविनिविष्टैर्नूपुरैर्नर्तकीनां झटिति रणितमासीत्तत्र चित्रं कलं च || अत्र प्रथमपादे एकाक्षरत्र्यक्षरचतुरक्षरमिति विचित्राणि पदानि रेफे तद्द्वितीयपदाक्रमणाद्व्याप्तिः तकारयोः सन्धानात्सन्धिसाजात्यं तकारसकारयोः संस्थाननयैर्नैकट्यं च | विपर्ययस्तु - चरणकमललग्नैर्नूपुरैर्नर्तकीनां झटिति रणितमासीन्मञ्जु चित्रं च तत्र अत्र द्वे अपि पदे त्र्यक्षरे | तावेवेदं भाषितविचित्रत्वम् | यथा - अथ यदि तव वक्त्रं चण्डि भूयोऽपि नाम इति न हृद्यं रणितमासीन्मञ्जु चित्रं च तत्र इति तकारमकारयोरसाजात्यं सकारमकारयोश्च संस्थानत्वमिति | कान्तिमाह - यन्मनः श्रोत्रविषयमिति | यन्मनोविषयमाह्लादयति यथा शृङ्गारविभावरूपं लीलादिचेष्टालङ्कारसुन्दरं काव्यार्थरूपं तत्कान्तिगुणयुक्तं तदेव दीप्तरसत्वमित्युक्तमन्यैः | विभावादीनां दीप्तत्वमिति यावत् | यथा - प्. ३४४) एवमेते ह्यलङ्कारा गुणा दोषाश्च कीर्तिताः | प्रयोगमेषां च पुनर्वक्ष्यामि रससंश्रयम् || ११३ || लघ्वक्षरप्रायकृतमुपमारूपकाश्रयम् | काव्यं कार्यं तु नाट्यज्ञैर्वीररौद्राद्भुताश्रयम् || ११४ || गुर्वक्षरप्रायकृतं बीभत्से करुणे तथा | कदाचिद्वीररौद्राभ्यां यदाघर्षणजं भवेत् || ११५ || रूपदीपकसंयुक्तमार्यावृत्तसमाश्रयम् | शृङ्गारे तु रसे कार्यं मृदुवृत्तं तथैव च || ११६ || प्रेयान् सायमपाकृतः सशपथं पादानतः कान्तया द्वित्राण्येव पदानि वासभवनाद्यावन्न यात्यात्मना | तावत्प्रत्युत पाणिसंपुटलसन्निवीनिबन्धं धृतो धारित्वैव कृतप्रणामकमहो प्रेम्णो विचित्रा गतिः || अत्र हीर्ष्यानुभावस्य रत्यनुभावस्य औत्सुक्यानुभावस्य दीप्तत्वमित्यर्थगुणः श्रोत्रविषयीभूतमिव यदाहादि काव्यं तत्कान्तिर्नाम शब्दगुणः | कुरङ्गीनेत्रालीस्तवकितवनालीपरिसरः - अत्र हि समासवत्यपि रचना (न) श्रोत्रेन्द्रियैकतानतागावहति | तदेतल्लोके मधुरकाव्यमिति प्रसिद्धम् | माधुर्यमभ्यस्तपदत्वमुक्तम् | अन्ये त्वौदार्यकान्त्योर्लक्षणद्वयं विपर्यासेन पठन्ति | एतदुपसंहरति - एवमेत इति | चकाराच्छन्दांसि वृत्तानि जातयश्च | एषामिति (नि) वृत्तच्छन्दः प्रभृतीनां दोषान्तानाम् | अनित्यदोषा हि विनियुज्यन्तेऽपीत्युक्तम् | लघ्वक्षरप्रायेति यत्र अतनुवाही चितवृत्तिपरिस्पन्दः तत्र लघ्वक्षरप्रधानं वृत्तं वीरादावुपमारूपके मसृणवाहिनि तु हृदयस्पन्दे गुर्वक्षरप्रायं करुणादौ | रौद्रादावापि कदाचित्तद्भवति | यदा विलम्ब्य परखलीकारं प्. ३४५) उत्तरोत्तरसंयुक्तं वीरे पाठ्यं तु यद्भवेत् | जगत्यातिजगत्या तु संकृत्या चैव योजयेत् || ११७ || युद्धसंफेटयोस्तज्ज्ञैरुत्कृतिः संप्रकीर्तिता | करुणे शक्करी चैव तथा चातिधृतिर्भवेत् || ११८ || यद्वीरे कीर्तितं छन्दस्तद्रौद्रेऽपि प्रयोजयेत् | शेषाणामर्थयोगेन छन्दः कार्यं प्रयोक्तृभिः || ११९ || यच्छन्दः पूर्वमेवोक्तं विषमार्धसमे समम् | उदारमधुरैः शब्दैस्तत्कार्यं तु रसानुगम् || १२० || शब्दानुदारमधुरान् प्रमदाभिधेयान् नाट्याश्रयासु कृतिषु प्रयतेत कर्तुम् | तैर्भषिता भुवि विभान्ति हि काव्यबन्धाः पद्माकरा विकसिता इव राजहंसैः || १२१ || स्मृत्वा ब्रवीति कर्ता द्यूतच्छलानां इति तथा यो यः शस्त्रम् विभर्ति इत्यादौ | अत एव भयानके हास्ये शान्ते वा यथायोगं संवेदनरपन्दताचर्व्यमाणस्वाद्यताश्चर्यकृतो विभागो वृत्तानां मन्तव्यः | उदारमधुरैरिति | औदार्यं शब्दगुणो दीप्तेषु प्राधान्येन तदनुयायि च गुणान्तरं माधुर्यं स्वानुयायिगुणसंहितमसृणेषु रमेषु | अर्थगुणास्तु यथायोगं सर्वत्र तदाह प्रमदाभिधेयै- प्. ३४६) त्रिविधं ह्यक्षरं कार्यं कविभिर्नाटकाश्रयम् | ह्रस्वं दीर्घं प्लुतं चैव पदबन्धसमाश्रयम् || १२२ || एकमात्रं भवेद्ध्रस्वं द्विमात्रं दीर्घमुच्यते | प्लुतं चैव त्रिमात्रं स्यादक्षरं वर्णसंश्रयम् || १२३ || स्मृते चासूयिते चैव तथा च परिदेविते | पठतां ब्राह्मणानां च प्लुतमक्षरमिष्यते || १२४ || आकारस्तु स्मृते कार्य ऊकारश्चाभ्यसूयिते | परिदेविते च हाकार ओंकारोऽध्ययने तथा || १२५ || ह्रस्वदीर्घप्लुतानीह यथाभावं यथारसम् | काव्यबन्धेष्वशेषेषु ह्यक्षराणि प्रयोजयेत् || १२६ || चेक्रीडितप्रभृतिभिर्विकृतैश्च शब्दै- र्युक्ता न भान्ति ललिता भरतप्रयोगाः | यज्ञक्रियेव रुरुचर्मधरैर्घृताक्तै- र्वेश्या द्विजैरिव कमण्डलुदण्डहस्तैः || १२७ || रिति | प्रमदो हर्षः हर्षजनको गुणसाकल्यवानभिधेयोऽर्थो येषां भावार्यो हृदयगतोऽभिप्रायः क्रियाविशेषश्च तं दर्शयति स्मृते चेत्यादि | एतदेव च क्रमेण विभजति आकार इत्यादि | द्वावेतावनुस्वारेणानुनासिक्येन वा युक्तौ कार्यौ आण्डदण्डादि | ह्रस्वदीर्घप्लुतानीह यथाभावं यथारसम् | काव्यबन्धेष्वपेशेष्विति वचनादन्यत्र विषये दूराहूत्यादिषु प्लुत उक्तः ततासौ प्रयोज्य एवेति दर्शितम् | चेक्रीडितं यङन्तम् | आदिग्रहणेन ण्यन्तसमन्ताः (सन्नन्ताः?) | प्. ३४७) मृदुललितपदार्थं गूढशब्दार्थहीनं जनपदसुखभोग्यं युक्तिमन्नृत्तयोज्यम् | बहुकृतरसमार्गं सन्धिसन्धानयुक्तं भवति जगतियोग्यं नाटकं प्रेक्षकाणाम् ||) १२८ || इति भारतीये नाट्यशास्त्रे वागभिनये काव्यलक्षणो नाम षोडशोऽध्यायः || एते नटोचिताः प्रयोगाः न भान्ति | ते यतो ललिता यथा वेश्यापरिग्रहे द्विजैर्यज्ञक्रिया मृगाजिनदण्डकमण्डलुघृताभ्यङ्गादि संभवद्भिरपि न भाति | एवं तद्व्याख्याने रौद्रादिस्वविषये यत्पुरुषस्याभ्यनुज्ञानं तद्वियुक्तं स्यादितीत्थं व्याख्या- ललिताः सुकुमारप्रयोगास्ते परुषैः पदैर्न भान्तीति विशेषनिषेधः शेषाभ्यनुज्ञापक इति न्यायादन्यत्र तत्प्रयोग इत्युक्तं भवति | तथा हि - वयोद्वितीयाः सरिति सगेश्चम (?) इत्येवमादिरपि विधिप्रयोज्य एव आख्यातामर्पतर्ष्य इत्यादौ | एतदेव साधर्म्यवैधर्म्यद्वारेणोपपादयति वेश्या यथा मृगचर्मघृताभ्यङ्गदण्डादियुक्तैर्द्विजैर्न शोभते | वैधर्म्येण दृष्टान्तमाह यथा तैरेव यज्ञक्रिया भाति न तथा वेश्या तदङ्गत्वात् | बहुव्रीहेर्वा यज्ञक्रियापत्न्यप्युच्यत इति शिवम् || इति षोडशमध्यायं ग्रन्थनिर्ग्रन्थिकं व्यधात् | यशोराशेर्यशोरागनाम्नो दौहित्रदेहजः || इति श्रीमहामाहेश्वराभिनवगुप्ताचार्यविरचितायाम् नाट्यवेदविवृतावभिनवभारत्यां लक्षणालङ्कारदोषगुणाध्यायः षोडशः समाप्तः || नाट्यशास्त्रम् षोडशोऽध्यायः | अनुबन्धः | भूषणाक्षरसङ्घातौ शोभोदाहरणे तथा | हेतुसंशयदृष्टान्ताः प्राप्त्यभिप्राय एव च || १ || समस्तार्थालङ्कारवर्गस्य बीजभूतश्चमत्काराः कथाशरीरवैचित्र्यदायिनो वक्रोक्तिरूपा लक्षणशब्देन व्यवह्रियन्ते | लक्षणानि गुणालयाग्गहिमानमनपेक्ष्य स्वसौभाग्येनैव शोभन्ते | लक्षणं महापुरुषस्य पद्मादिरेखादिवत्काव्यशरीरस्य सौन्दर्यदायि | अलङ्कारस्तु रयाभरणादिवदेव येन विनापि स्वसौन्दर्येणैव पुरुषः प्रविभासते | गुणस्तु प्रवृत्तिद्योनितो धैर्यादिवत्काव्यस्य शब्दार्थरचनामाश्रयति | यथा लक्षणरहितः पुरुषो न सुन्दरशब्दवाच्यस्तथालक्षणवर्जं कथाशरीरं गुणालङ्कारोज्ज्वलमपि नीरसत्वं भजत्प्रौढकाव्याभिधानं नार्हति | कथाशरीरसंपन्नेषु काव्येष्वेत लक्षणानि निर्वत्यन्ते न तु मुक्तकादिषु खण्डकाव्येषु अत एव काव्यबन्धास्तु कर्तव्या इति मुनिनैव *? क्तकादिवारणपरमुक्तम् | लक्षणान्यसंख्येयानि तेषां चमत्कृतिविशेषगरि *? णि षट्त्रिंशदेव मुनिना संगृहीतानि | कोहलादिभिस्तच्छिष्यैः प्रकीर्तितान्यपराणि कानिचिल्लक्षणत्वेन प्रसिद्धिमुपगतानि कालप्रवाहे भरतग्रन्थ एव पाठान्तरनिबन्धरूपेण प्रक्षिप्तानि स्युः | सौन्दर्यजनकत्वकारणेन भोजादिभिरुभयपाठगतान्यपि लक्सणानि स्वीकृत्यान्यैरपि कैश्चिच्चमत्कृतिभूतैर्लक्षणैः सह चतुःषष्टित्वेन प्रकटितानि | यद्विवेचितमतिगम्भीरप्रौढवाचा भगवता वृत्तिकारेण लक्षणान्यसंख्यानीति तदुपष्टभ्यैव भिन्नपाठोऽपि बालानां समुपतेद्य इत्यभ्युह्य तन्मध्य एव संक्षेपेण प्रकाशितः | भूषणं लक्षयति - लङ्कारैरिति भरतोक्तैरुपमादिभिर्गुणैश्च यत्र कथाशरीररचना समुल्लासिता तद्भूषणं नाम लक्षणम् | चित्रार्थैरिति विभावादि- प्. ३४९) निदर्शनं निरुक्तं च सिद्धिश्चाथ विशेषणम् | गुणातिपातातिशयौ तुल्यतर्कः पदोच्चयः || २ || दिष्टं चैवोपदिष्ट च विचारोऽथ विपर्ययः | भ्रंशश्चानुनयो माला दाक्षिण्यं गर्हणं तथा || ३ || अर्थापत्तिः प्रसिद्धिश्च पृच्छा सारूप्यमेव च | मनोरथश्च लेशश्च संक्षोभो गुणकीर्तनम् || ४ || सामग्रीप्रत्यायकतया रसोद्द्योतकैरर्थविशेषैः मतान्तरे वक्रोक्तिरूपैः | यथा कृत्यारावणे सप्तमेऽङ्के कञ्चुकिनं दृष्ट्वा लक्ष्मणविभीषणौ - आर्य कथय कथय | काञ्चु - का गतिः श्रूयतां - आर्या खलु सीता रावणाज्ञया किङ्करोपनीतं भर्तुर्मायाशिरोऽवलोक्य सखीभिराश्वास्यमानापि निवृत्तप्रयोजनापि नाहमात्मानं क्लेशयामि इति (इत्यर्धोक्तौ तिष्ठति) | सर्वे किं कृतवती काञ्चु - यन्न शक्यते वक्तुम् | शशिन इव कला दिनावसाने कमलवनोदरमुत्सुकेव हंसी | पतिमरणरसेन राजपुत्री स्फुरितकरालशिखं विवेश वह्निम् || इति | यथा वा रत्नावल्यां प्रथमेऽङ्के यौगन्धरायणस्य वचनं विश्रान्तविग्रहेति श्लोकः | भूषणाख्यलक्षणेन काव्यं सामान्यवचसो भिद्यते तात्पर्यमेव वचसि ध्वनिरेव काव्ये यत्रालङ्कारवर्गोअयं सर्वोऽप्यन्तर्भविस्यति शब्दप्राधान्यमाश्रित्य तत्र शास्त्रं पृथग्विदुः | द्वयोर्गुणत्वे व्यापारप्राधान्येकाव्यगीर्भवेत् द्वे वर्त्मनी गिरो देव्याः शास्त्रं च कविकर्म च | प्रज्ञोपज्ञन्तयोराद्यं प्रतिभोद्भवमन्तिमम् इत्यादिना भोजकुन्तलक भट्टनायकतोतादिभिरुक्तरीत्या गुणालङ्कारवर्गः सर्व एव लक्षणशब्देन परिगृहीतः | गुणालङ्कारैरेव यत्र कथारूपा वक्रोक्तिरतिशयिता तत्र भूषणम् | अक्षरसंघातो विविधश्लेषोक्त्या वा अक्षरविपर्यासेन वोक्तिप्रत्युक्तिवैचित्र्यं यथा उभयाभिसारिकायां विटः - भगवति वैशिकाचलोऽहमभिवादये | प्. ३५०) ज्ञेयाभ्यनुक्तसिद्धिश्च प्रियं वचनमेव च | षट्त्रिंशल्लक्षणान्येवं काव्यबन्धेषु निर्दिशेत् || ५ || अलङ्कारैर्गुणैश्चैव बहुभिः समलङ्कृतम् | भूषणैरिव चित्रार्थैस्तद्भूषणमिति स्मृतम् || ६ || यत्राल्पैरक्षरैः श्लिष्टैर्विचित्रमुपवर्ण्यते | तमप्यक्षरसङ्घातं विद्याल्लक्षणसंज्ञितम् || ७ || सिद्धैरर्थेः समं कृत्वा ह्यसिद्धोऽर्थः प्रयुज्यते | यत्र श्लिष्टा विचित्रार्था सा शोभेति विधीयते || ८ || परिव्राजिका - न वैशिकाचलेन प्रयोजनं भवेद्वैशेषिकाचलेन | विटः - अस्त्येतत्कारणं परि - षट्पदार्थबहिष्कृतैः सह संभाषणमस्मद्गुरुभिर्निरुद्धम् | विटः - युक्तमेवैतत् | कुतः - द्रव्यं ते तनुरायताक्षि दयिता रुपादयस्ते गुणाः सामान्यं तव यौवनं युवजनः संस्तौति कर्माणि ते | त्वययार्ये समवायमिच्छति जनो यस्माद्विशेषोऽस्ति ते योगस्ते तरुणैर्मनोऽभिलषितैर्मोक्षोऽप्यनिष्टाज्जनात् || परि - साख्यमस्माभिर्जायते अलेपको निर्गुणः क्षेत्रज्ञः पुरुषः | विटः - हन्त निरुत्तराः स्मः | यथा वा शाकुन्तले सप्तमेऽङ्के तापसी - सर्वदमन शकुन्तलावण्यं पश्य इत्यत्र शकुन्तलाशब्दः सूचितः || शोभा - सिद्धैः प्रयोजनैरसिद्धस्य शुभसंघटनं यत्र निर्णीयते सूच्यते वा श्लेषवक्रोक्तिध्वनिनिवेशषमहिम्ना चमत्कृतोऽर्थः | केचित्स्वभावस्य प्रकटनमित्याहुः अपरे तु यूनोः प्रभावप्रकटनमित्याचक्षते | अर्थप्रधाने वस्तुन्येषापरं शोभते | यथा रत्नावल्यां प्रथमेऽङ्के यौगन्धरायणः (द्वीपादि त्यादिपठित्वा) कः सन्देहः | प्. ३५१) यत्र तुल्यार्थयुक्तेन वाक्येनाभिप्रदर्शनात् | साध्यते निपुणैरर्थस्तदुदाहरणं स्मृतम् || ९ || प्रारम्भेऽस्मिन् स्वामिना वृद्धिहेतौ दैवेनेत्थं दत्तहस्तावलम्बे | सिद्धे भ्रान्तिर्नास्ति सत्यं तथापि स्वेच्छारी भीत एवास्मिभर्तुः || यथा वा कथाशरीरसंघटनवैचित्र्यरूपशोभाया अभिज्ञानशकुन्तलायां मधुररप्रसक्तिः | परेषां दुर्भेद्यपरमार्थेन तुल्यार्थप्रयुक्तेन वाक्येन निगूढाशय कस्मैचिन्निपुणैर्यत्र प्रकाश्यते तदुदाहरणं यथा देवीचन्द्रगुप्ते प्रावेशिकी ध्रुवा कुमारचन्द्रगुप्तस्य संशयाकुलमानसस्य प्रवेशावसरसूचकमर्थमुद्द्योतयति - एसो सि अकरवित्थरपणासि आसेसवेरितिमिरोहो | नि अविहवरोणचन्दो ग अणगिहं लंघि उं विस इ || यथा वा प्रद्युम्नाभ्युदये तृतीयेऽङ्केऽन्तर्नाटिकायं सूत्रधारवचनं - देव दनुजाधिप त्वां त्रिभुवनलक्ष्मीरिव स्वयंरागात् | अभिरूपमभिसृतवती नलकूवरमत्र नाटके रम्भा || सामाजिकीभूतयोः सखीप्रभावत्योः सखी पि असहि एसो एव्व मग्गो म अणपरवसाणं इत्थि आणं इत्युपदिशति | अत्राभिसरणमेव प्रद्युम्नसङ्गमोपाय इत्यर्थः साध्यते | हेतुः - फलसाधनशक्तियुक्तं मितशब्दार्थं विचित्रभङ्ग्युक्तं वचनम् | यथा तापसवत्सराजे षष्ठेऽङ्के कृतमरणनिश्चयां वासवदत्तं परिबोधयन्यौगन्धरायण आह - देवि प्रसीद आसृष्टेः प्रतिपार्थिवं युवतयो जाता मनोवल्लभाः मग्नास्ते व्यसनार्णवे च बहवस्ताभिः सहैवेश्वराः | देव्या यत्तु कृतं तदाविकलतामुत्सृज्य लोकोत्तरं तस्यैषा कृपणोचितेन विधिना किं ग्लानिरुत्पद्यते || इति | देव्यायत्कृतं तदिष्टार्थसाधनमेव अचिरेणैव शुभफलमनुभवसीति | संशयोऽसमाप्तवाक्यत्वात्साधनीयविषयस्वरूपे सन्दिग्धावस्था | एषोऽर्थकामप्रधानेषु रूपकेषु निपुणं प्रयुज्यते | यथा कुन्दमालायां षष्ठेऽङ्के रामायणकथावाचकौ कुशलवौ सीतावृत्तन्तं पठन्तौ - प्. ३५२) यत्प्रयोजनसामर्थ्याद्वाक्यमिष्टार्थसाधनम् | समासोक्तं मनोग्राहि स हेतुरिति संज्ञितः || १० || अपरिज्ञाततत्त्वार्थं वाक्यं यत्र समाप्यते | अनेकत्वाद्विचाराणां ससंशय इति स्मृतः || ११ || सर्वलोकमनोग्राही यस्तु पक्षार्थसाधकः | हेतोर्निदर्शनकृतः स दृष्टान्त इति स्मृतः || १२ || सीतां निर्जनसंपाते चण्डश्वापदसङ्कुले | परित्यज्य महारण्ये लक्स्मणोऽपि न्यवर्तत || ततः प्राणैः परित्यक्ता निराशा जनकात्मजा | इति तूष्णीभवतः | रामलक्ष्मणौ - अप्रियाख्यानभीतेन कविना संहता कथा | किमितः कल्याणमावेदयति | एवं तावदनुयोक्ष्ये (इति पृच्छतः) | संशयालङ्कारस्तु संशयाख्यलक्षणाद्भिन्नचमत्कारतया भिद्यते | संक्रुद्धस्य ललाटलोचनभुवा सप्तार्चिषा धूर्जटे- र्निर्दग्धे मकरध्वजे रतिरसौ किं स्याद्गृहीतव्रता | संवादाद्वनदेवता मुनिवधुवेषप्रपञ्चे मनः कृत्वेत्थं रमतेऽत्र विग्रहवती किं वा तपश्श्रीरियम् || इत्यादिषु संशयोऽलङ्कार एव न तु संशयाख्यलक्षणम् || धर्माविरुद्धतया सर्वलोकमनोग्राहि वचनं निदर्शनोषष्ठम्भं दृष्टान्तसंज्ञकं लक्षणम् | यथा धूर्तविटे - स्त्रीषु प्रसङ्गो न कर्तव्यः इत्यत्र भावः किं पश्यतीत्युक्ते विटः - भोः उपदेशमात्रं खल्वेतत् | तमहं न पश्यामि यः स्त्रीषु प्रसङ्गं न गच्छेत् श्रूयन्ते हि महेन्द्रादयोऽप्यहल्याद्यासु विकृतिमापन्नाः इति | यथा वा पद्मप्राभृतके स्वसोदरीप्रेयसोऽनुयोगे संदिग्धमानसां देवसेनामाह शशः - प्. ३५३) दृष्ट्वैवावयवान् कांश्चिद्भावो यत्रानुमीयते | प्राप्तिं तामभिजानीयाल्लक्षणं नाटकाश्रयम् || १३ || अभूतपूर्वो यो ह्यर्थः सादृश्यात्परिकल्पितः | लोकस्य हृदयग्राही सोऽभिप्राय इति स्मृतः || १४ || दक्षात्मजाः सुन्दरि योगताराः किं नैकजाताः शशिनं भजन्ते | आरुह्यते वा सहकारवृक्षः किं नैकमूलेन लताद्वेयेन || इति | प्राप्तिर्यथाकुन्दमालायां तृतीयेऽङ्के लक्ष्मणः कानिचित्पदाचिह्नानि सैकते दृष्ट्वा राममाह - विलासयोगेन परिश्रमेण वा स्वभावतो वा निभृतानि मन्थरम् | पदानि कस्याश्चिदिमानि सैकते प्रयान्ति तुल्यं कलहंसविभ्रमम् || रामः - (निर्वर्ण्य सहर्ष) किमुच्यते कस्याश्चिदिति ननु वक्तव्यं सीतायाः पदानीति | पश्य - समानं संस्थानं निभृतललिता सैव रचना तदेवैतद्रेखा कमलरचितं चारुतिलकम् | यथा चेयं दृष्ट्वा हरति हृदयं शोकविधुरं तथा ह्यस्मिन् देव्या सपदि पदपङ्क्तिर्विनिहिता || इति | अभिप्रायः - अभूतपूर्व इत्यसत्पदार्थः केवलकल्पितः | केचित्स्वाद्यवस्तुन्यभिमान इत्याहुः तद्वैचित्र्यरहितत्वादुपेक्ष्यम् | यथा तापसवत्सराजे चतुर्थेऽङ्के सांकृत्यायनी यौगन्धरायणोद्योगं विमृश्य प्रणिधिं प्राह - दूरमुदीर्णे च रिपा वेवमकिञ्चित्करे च विजिगीषौ | भवता तु नयगुणशतिअः सोऽयमसूत्रः पटः क्रियते || इति | यथा वा वत्सराजचरिते द्वितीयेऽङ्के चोरः - भूमिः कराग्रेण विपर्तिताद्य श्वासेन भग्नो हिमवान्महाद्रिः | आसारवृष्ट्या शमितोऽग्निरौर्वो विनिर्हतः कीटशतैरनन्तः || इति | प्. ३५४) यत्रार्थानां प्रसिद्धानां क्रियते परिकीर्तनम् | परापेक्षाव्युदासार्थं तन्निदर्शनमुच्यते || १५ || निरवद्यस्य वाक्यस्य पूर्वोक्तार्थप्रसिद्धये | यदुच्यते तु वचनं निरुक्तं तदुदाहृतम् || १६ || बहूनां तु प्रधानानां नाम यत्राभिकीर्त्यते | अभिप्रेतार्थसिद्ध्यर्थं सा सिद्धिरभिधीयते || १७ || निदर्शनं - यथा उभयाभिसारिकायां - शान्तिं याति शनेर्महौषधिवलादाशीविषाणां विषं शक्यो मोचयितुं मदोत्कटकटादात्मा गजेन्द्राद्वने | ग्राहस्यापि मुखान्महार्णवजले मोक्षः कदाचिद्भवेद् वेशस्त्रीवडवामुखानलगतो नैवोत्थितो दृश्यते || निरुक्तं - यथा वत्सराजचरिते प्रथमेऽङ्के भरतरोहकः राजानमाह - प्रसह्य हरणे केवलं प्रमादिता ख्यातिः | राजा - किमेतत् | भर - सदोषेषु कार्येषु यदल्पदोषं तत्प्रारब्धव्यम् | वसुवर्मा - स्वामिन तत्राप्यहं वाच्यदोषं न पश्यामि | कुतः - नीता बलात्प्रकृतिभद्रतरा सुभद्रा यद्वासुभद्रभगिनी कपिकेतनेन | देवस्य तेन रामभूद्वचनीयता किं तेजःप्रकाशयशसा यदुदन्तिनां वा || शालं - साधु निरुक्तमभिहितं वसुवर्मणा | सिद्धिः - प्रधानानां स्पृहणीयानां प्रयोजनान्तराणामतर्कितोपलब्धानां परिकीर्तनम् | यथा कौमुदीमहोत्सवे चतुर्थेऽङ्के मन्त्रगुप्तवचनं - सङ्गतिशिच्रमचिन्तितपूर्वा निर्वृतप्रणयिनी मिथुनानाम् | आधिराज्यमधिरोहति तस्याः षोडशीमपि कलां न मघोनः || इति | प्. ३५५) सिद्धान् बहून् प्रधानार्थानुक्त्वा यत्र प्रयुज्यते | विशेषयुक्तं वचनं विज्ञेयं तद्विशेषणम् || १८ || गुणाभिधानैर्विविधैर्विपरीतार्थयोजितैः | गुणातिपातो मधुरैर्निष्ठुरार्थैर्भवेद्यथा || १९ || बहून् गुणान् कीर्तयित्वा सामान्यजनसम्भवान् | विशेषः कीर्त्यते यस्तु ज्ञेयः सोऽतिशयो बुधैः || २० || विशेषणं - यथा तापसवत्सराजे तृतीयेऽङ्के राजा विदूषकमाह - अयि मूढ - वृत्तिरूलफलादिभिः क्षितितले शयया जटाधारणं वासो वल्कलमीदृशं कृतमिदं सामान्यमन्यैरपि | संवेगाभिभवे विमूढमनसा यन्नानुयाता प्रिया तन्मिथ्यापरिबोधितेन न कृत स्नेहानुरूपं मया || इति | गुणातिपातो - यथा धूर्तविटे विटः - जात्यन्धां सुरतेषु दीनवदनामन्तर्मुखाभाषिणीं हृष्टस्यापि जनस्य शोकजननी लज्जापटेनावृताम् | निर्व्याजं स्वयमप्यदृष्टजघनां स्त्रीरूपबद्धां पशुं कर्तव्यं खलु नैव भोः कुलवधूकारां प्रवेष्टुं मनः || अत्र कुलस्त्रीसमुचिता विनयलज्जादयो गुणा विपरीतार्थयोजिताः | अतिशयो विलक्षकुरुपतौ धृतराष्ट्रं प्रति भीष्मः - एतत्ते हृदयं स्पृशामि यदि वा साक्षी तवैवात्मजः संप्रत्येव तु गोग्रहे यदभवत्तत्तावदाकर्ण्यताम् | एकः पूर्वमुदायुधैः स बहुभिर्दृष्टस्ततोऽनन्तरं यावन्तो वयमाहवप्रणयिनस्तावन्त एवार्जुनाः || इति | तुल्यतर्को - यथा वत्सराजचरितेऽष्टमेऽङ्के राजा - नवार्कभापल्लवितामलोदरे सुगन्धिरे.ऊत्करकेसरोज्ज्वले | रसामृतज्ञो भ्रमरः सरोरुहे किमर्कपुष्पे प्रणयं करिष्यति || इति | प्. ३५६) रूपकैरुपमाभिर्वा तुल्यार्थाभिः प्रयोजितः | अप्रत्यक्षार्थसंस्पर्शरतुल्यतर्कः प्रकीर्तितः || २१ || बहूनां तु प्रयुक्तानां पदानां बहुभिः पदैः | उच्चयः सदृशार्थो यः स विज्ञेयः पदोच्चयः || २२ || यथादेशं यथाकालं यथारूपं च वर्ण्यते | यत्प्रत्यक्षं परोक्षं वा दृष्टं तद्वर्णतोऽपि वा || २३ || पदोच्चयो यथा वत्सराजचरिते षष्ठेऽङ्के राजोत्तमसचिवं वर्णयति - खड्गो रक्षान्धकारे रविररितिभिरे कार्यभारेषु धुर्यः दीपो मन्त्रान्धकारे सुरगुरुरनये सङ्कृगो व्यापदोघे | उत्कण्ठायां सभागी गतिरनवसरे चन्दनं शोकनाषे संक्षेपान्मानुषाभो हितशिववसुखदो भव्यचिन्तामणिर्मे || दृष्टं प्रत्यक्षंयथा मालविकाग्निमित्रे - वामं सन्धिस्तिमितवलयं न्यस्य हस्तं नितम्बे कृत्वा श्यामाविटपसदृशं सस्तमुक्तं द्वितीयम् | पादाङ्गुष्ठालुलितकुसुमे कुट्टिमे पानिताक्षं नृत्तादस्याः स्थितमतितरां कान्तमृज्यायताक्षम् || इति | परोक्षं यथा पादताडितके मदनसेनाया वर्णनं - उत्क्षिप्तालकमीक्षणान्तगलितं कोपाञ्चितान्तभ्रुवा दष्टार्धोष्ठमधीरदन्तकिरणं प्रोत्कम्पयन्त्या मुखम् | शिञ्जन्नूपुरया विकृष्य विगलद्रक्तांशुकं पाणिना मूर्धन्यस्य सनूपुरः स मदया पादोऽर्पितः कान्तया || इति | प्. ३५७) परिगृह्य तु शास्त्रार्थं यद्वाक्यमभिधीयते | विद्वन्मनोहरं स्वन्तमुपदिष्टं तदुच्यते || २४ || पूर्वाशयसमानार्थैरप्रत्यक्षार्थसाधनैः | अनेकोपाधिसंयुक्तो विचारः परिकीर्तितः || २५ || विचारस्यान्यथाभावस्तथादृष्टोपदिष्टयोः | सन्देहाज्जायते यत्र स विज्ञेयो विपर्ययः || २६ || उपदिष्टं यथाविमारके प्रथमेऽङ्के राजा - धर्मः प्रागेव चिन्त्यः सचिवमतिगतिः प्रेक्षितव्या स्वबुध्या प्रच्छाद्यौ रागरोषौ मृदुपरुपगुणौ कालयोगेन कार्यौ | ज्ञेयं लोकानुवृत्तं परचरनयनैर्मण्डलं प्रेक्षितव्यं रक्ष्यो यत्रादिहात्मा रणशिरसि पुनः सोऽपि नावेक्षितव्यः || इति | यथा वा तन्त्रान्तरविषये धूर्तविटे - शून्ये वासं प्रमर्द्य द्विरद इव लता यो हरत्याशु नारीं मत्तां वा यो विदित्वा ह्यभिभवति शनै रञ्जयन्वाक्यलेशैः | अन्यं कृत्वोपधिं वा छलयति कुरुते भावसङ्गूहनं वा तस्यैतच्चेष्टितं भो न भवति विफलं वामशीला हि नार्यः || इति | प्रवृत्तार्थानुसारि परोक्षार्थसाधकं बहूपायोपाधिदर्शनं वाक्यं विचारः - यथा मुद्राराक्षसे पञ्चमेऽङ्के राक्षसवाक्यं - साध्ये निश्चितमन्वयेन घटितं विभ्रत्सपक्षे स्थितिं व्यावृत्तं च विपक्षतो भवति यत्तत्साधनं सिद्धये | यत्साध्यं स्वयमेव तुल्यमुभयोः पक्षे विरुद्धं च य- त्तस्याङ्गीकरणेन वादिन इव स्यात्स्वामिनो निग्रहः || अथवा विज्ञातापरागहेतुभिः प्राक्परिगृहीतोपजापैरापूर्णमिति न विकल्पितुमर्हामि || इति | प्. ३५८) वाच्यमर्थं परित्यज्य दृष्टादिभिरनेकधा | अन्यस्मिन्नेव पतनादाशुभ्रंशः स इष्यते || २७ || उभयोः प्रीतिजननो विरुद्धाभिनिवेशयोः | अर्थस्य साधकश्चैव विज्ञेयोऽनुनयो बुधैः || २८ || विपर्ययो यथा रावणं प्रति सचिवः - उदकसिद्धिमिच्छद्भिः सद्भिर्न खलु दृश्यते | चतुर्थीचन्द्रलेखेव परस्त्रीफालपट्टिका || रावणः - परस्त्रीकुचकुम्भेषु कुम्भेषु वरदन्तिनाम् | निपतन्ति न भीरूणां दृष्टयः शरवृष्टयः || यथा वा मत्तविलासे शाक्यभिक्षुः - परमकारुणि एण भ अवदा तहाग एण पासादेसु वासो पज्जंकेषु स अणं पुव्वण्हे भो अणं एदेद्दिं उवदेसेहिं भिक्सुसतस्स अणुग्गहं करन्तेण किं णु हु इत्थि आपरिग्गहो सुरापाणविहाणं अणादिहं | अहवा सव्वञ्चो एदं उणपेक्खदि | अवस्सं एदेहि दुट्टबुद्धत्थविरेहि णिरुच्छा एहि अह्माणं तरुणजणाणं मच्छरेण पिड अपुत्थ एसु इत्थि आसुरापाणविहाणाणि पलामुद्वाणि इति तक्केमि || भ्रंशो यथा वेणीसंहारे द्वितीयेऽङ्के कञ्चुकिनमाह दुर्योधन - सहभृत्यगणं सबान्धवं सहमितं ससुतं सहानुजम् | स्वबलेन निहन्ति संयुगे न चिरात्पाण्डुसुतह् सुयोधनम् || कञ्चु - (कर्णौ पिधाय सभयं) शान्तं पापं प्रतिहतममङ्गलम् || इति | अनुनयो यथा रामाभ्युदये द्वितीयेऽङ्के रामपराक्रमस्तुतिव्यग्रं मारीचमाह रावणः - आप्रतिपक्षपक्षपातिन् क्षुद्र राक्स्ऽसापशद ! किं बहुना - तवैव रुधिराम्बुभिः क्षतकठोरकण्ठस्तुतैः रिपुस्तुतिभवो मम प्रशममेतु कोपानलः | सुरद्विपशिरस्स्थलीदलनदष्टमुक्ताफलः स्वसुः परिभवोचितं पुनरसौ विधास्यत्यसिः || प्. ३५९) अभिप्रेतार्थसिद्ध्यर्थं कीर्त्यन्ते यत्र सूरिभिः | प्रयोजनान्यनेकानि सा मालेत्यभिसंज्ञिता || २९ || हृष्टैः प्रसन्नवदनैर्यत्परस्यानुवर्तनम् | क्रियते वाक्यचेष्टाभिस्तद्दाक्षिण्यमुदाहृतम् || ३० || यत्र संकीर्तयन्दोषं गुणमर्थेन दर्शयेत् | गुणातिपाताद्दोषान्वा गर्हणं नाम तद्भवेत् || ३१ || इति खड्गमाकर्षति | तदा प्रहस्तः (उभयोर्मध्ये निपत्य) - प्रसीदतु प्रसीदतु महाराजः नेदमनुरूपं स्वामिनः | देव - लोकत्रयक्षयोद्वृत्तप्रकोपाग्रेसरस्य ते | ईदृशश्चन्द्रहासस्य भृत्येष्वनुचितः क्रमः || इति | माला यथा तापसवत्सराजे राजा - दृष्टा यूयं निर्जिता विद्विषन्तः प्राप्ता देवी भूतधात्री च भूयः | संबन्धोऽभूद्दर्शकेनापि सार्थं किं दुष्प्रापं यन्न लब्धं भवद्भ्यः || इति | दाक्षिण्यं यथा रत्नावल्यां द्वितीयेऽङ्के शीर्षवेदनव्याजेन गन्तुमुद्यतां वासवदत्तां पटान्तेन गृहीत्वा निरुन्धन् वत्सराजः प्रिये प्रसीदेति व्रूयाम् इत्यादि वदन्निष्क्रान्तायां प्रेयस्यां अलमरण्यरुदितेन इति व्रुवन्तं विदूषकमाह - मूढ ! न लक्षितस्त्वया देव्याः कोपः तत्सर्वथा देवीप्रसादनं मुक्त्वा नान्यमत्रोपायकलयामि | तदेहि देवीं प्रसादयितुमभ्यन्तरमेवप्रविशावः इति | अत्र राज्ञोऽनुवर्तनं दाक्षिण्यम् | गर्हणं दोषस्य गुणीकृतत्वं यथा धूर्तविटे - प्रणष्टा न व्यक्तिर्भवति वचसः सैव मृदुता न रागो नेत्राब्जे त्यजति न च लज्जा व्यपगता | स्मृतिः प्रत्यायाता परिहृषितमद्यापि च मुखं मदो दोषांस्त्यक्त्वा त्वयि परिणतस्तिष्ठति गुणैः || प्. ३६०) अर्थान्तरस्य कथने यत्रान्योऽर्थः प्रतीयते | वाक्यमाधुर्यसंपन्ना सार्थापत्तिरुदाहृता || ३२ || वाक्यैः सातिशयैरुक्ता वाक्यार्थस्य प्रसाधकैः | लोकप्रसिद्धैर्बहुभिः प्रसिद्धिरिति कीर्तिता || ३३ || गुणातिपाते दोषो यथा वत्सराजचरिते द्वितीयेऽङ्के विष्णुतातः - नृपाः प्रभुत्वात्प्रतिषेधवामा जिभो विधिस्तद्रशवर्ति कार्यम् | साचिव्यतो नापरमस्ति पुंसा विषाददुःखायशसां निदानम् || यथा वा तापसवत्सराजे तृतीयेऽङ्के लाभकायनः - पूर्वाह्ने कृतभोजनव्यतिकरान्नित्यैव निरोगता कण्डुतिर्वपनादपैति शिरः स्नानं यदा रोचते | जात्याचारकदर्थनाविरहितं ब्राह्मण्यमात्मेच्छया धूर्तैः सत्त्वहिताय कैरपि कृतं साधुव्रतं सौगतम् || अर्थापत्तिर्यथा धूर्तविटे - आदष्टस्फुरिताधरे भवति यो वक्तारविन्दे रसः प्रीतिर्या च हृतांशुके च जघने काञ्चीप्रभोद्यो?तिते | लक्ष्मीर्या च नखक्षताकुरधरे पीने कपोले स्त्रियो रक्तं तेन विरज्यते न हृदयं जालन्तरेऽपि ध्रुवम् || अत्र जन्मान्तरेऽपि तस्या अनुरक्तिरनुर्वतत एवेत्युक्ते जन्मान्तरेष्वपि विरागो न प्रभवति तस्माद्भवबन्धविमुक्तिर्न स्यादित्यर्थापत्तिर्नाम लक्षणम् | प्रसिद्धिः - प्रसाधकैः प्रकृष्टसाधकैः प्रसिद्धैः पूर्वमेव सिद्धैः | यथा गदायुद्धे बलदेवः दुर्योधनमाह - भीमसेन इदानीं तव युद्धवञ्चनामुत्पाद्य स्थास्यति | दुर्यो - किं चाहं भीमसेनेन वञ्चितः | वल - अथ केन भवानेन्वंविधः कृतः | प्. ३६१) यत्राकारोद्भवैर्वाक्यैरात्मानमथवा परम् | पृच्छन्निवाभिधत्तेऽर्थं सा पृच्छेत्यभिसंज्ञिता || ३४ || दृष्टश्रुतानुभूतार्थ कथनादि समुद्भवम् | सादृश्यं क्षोभजननं सारूप्यमिति संज्ञितम् || ३५ || दुर्यो - श्रूयतां येनेन्द्रस्य च पारिजातकतरुर्मानेन तुल्यं हृतो दिव्यं वर्षसहस्रमर्णवजले सुप्तश्च यो लीलया | दीप्त्या भीमगदां प्रविश्य सहसा निर्व्याजयुद्धप्रियः तेनाहं जगतां प्रियेण हरिणा मृत्योः प्रतिग्राहितः || अत्र वाक्यार्थस्य साधका एव भगवतो विष्णोः पारिजाताहरणलीलावटपत्रशयनादयः | अन्ये तु प्रसादकैरलङ्कारिभिरिति गृह्णन्ति | पृच्छा शोकादिपरवशतयात्मानं वा परं वा परोक्षे संबोध्य पृच्छन्निवाभिधानम् | तन्नोत्तरमपेक्षते तस्यैव प्रत्यायकत्वात् | यथा रामचरिते हनुमान् सीतां दृट्वाह - स्थानेऽवसीदसि रघूद्वह किं विधातः अस्यास्त्वयेक्षितमलक्षणमङ्गकेषु | अद्यापि जीवसि दशानन हे हनूमन् केयं तवाभिमुखवर्ति रिपोः प्रतीक्षा || इति | सारूप्यं - आदिशब्देन दर्शनश्रवणानुभवनान्युपलक्षितानि | अत्र रूपविभ्रान्त्या न क्षोभजननमेव लक्षणस्य चमत्कृतिः | यथा छलितरामे लक्ष्मणेन बध्वानीतो लवो रामयज्ञशालायां हिरण्मयीं सीतां दृष्ट्वाह - अये कथमियमम्बा राजद्वारमागता इति सहसोत्थाय प्रणम्य तदनन्तरं काञ्चनमयीति निर्वर्ण्योपसृत्योपविशति || यथा वा वेणीसंहारे - दुर्योधनं हत्वागच्छन्तं भीमसेनं दुर्योधनमिति चार्वाकवार्तयैव भ्रान्त्वा धर्मसूनुस्तं गाढं गृहीत्वाह आशैशवादनुदिनं जनितापराधो मत्तो बलेन भुजयोर्हतराजपुत्रः | आसाद्य मेऽन्तरमिदं भुजपञ्जरस्य जीवन्प्रयासि न पदात्पदमद्य पापः || इति प्. ३६२) हृदयस्थस्य वाक्यस्य गूढार्थस्य विभावकम् | अन्यापदेशैः कथनं मनोरथ इति स्मृतः || ३६ || यद्वाक्यं वाक्यकुशलैरुपायेनाभिधीयते | सदृशार्थाभिनिष्पत्त्या स लेश इति कीर्तितः || ३७ || मनोरथओ यथा विकटनितम्माप्रहसने विकटनितम्बाह अन्यासु तावदुपमर्दसहासु भृङ्ग लोलं विनोदय मनः सुमनोलतासु | मुग्धाननामरजसं कलिकामकाले वालां कदर्थयसि किं नवमालिकायाः || अत्रात्मानमेव सुमनोलतात्वेनापदिशति || लेशो यथाविमारके द्वितीयेऽङ्के धात्री नायकमाह - अयय किं चिंती अदि अविमारकः - भवति शास्त्रं चिन्त्यते | धात्री - किं णाम एदं रमणिज्जं सत्थं चिंती अदि | अवि - भवति योगशास्त्रं चिन्त्यते | धात्री - (सस्मितं) पडिग्गहीदं मंगलव-अणं जो-असत्थं एव्व होदु | अवि - को नु खलु वाक्यार्थः | अन्यदप्यभिलापवशादन्यथा संकल्पयामि | इत्यादि | अन्ये तु लेख इति पठन्निङ्गितज्ञानाभिधानमिति च लक्षयन्ति | क्षोभो यथा रत्नावल्यां तृतीयेऽङ्के सागरिकैवेति मत्वा वासवदत्तमुपलालयतो राज्ञः सा स्वावकुण्ठनमपनीय वैलक्ष्यमुत्पादितवती | राजा (अञ्जलिं बध्वा) - प्रिये वासवदत्ते प्रसीद प्रसीद | प्. ३६३) परदोषैर्विचित्रार्थैर्यत्रात्मा परिकीर्त्यते | अदृष्टोऽन्योऽपि वा कश्चित्स तु क्षोभ इति स्मृतः || लोके गुणातिरिक्तानां गुणानां यत्र नामभिः | एको हि शब्द्यते तत्तु विज्ञेयं गुणकीर्तनम् || ३९ || प्रस्तावेनैव शेषोऽर्थः कृत्स्नो यत्र प्रतीयते | वास (अश्रु निपातयन्ती) मा एव्वं भण | अण्नगदा इ एदा इ अक्खरा इ | विदू - भोदि महाणुभावा खु तुमं ता क्खमी अदु दाव एक्को अवराहो पि अव अस्सस्स | वास - णं पुढमसंगमे विग्घं करन्ती ए म ए जेव्व एदस्स अवरद्धं ण अज्जपुत्तस्स | अन्ये तु आत्मन्यभूत तद्भावभावन मिति परे त्वन्यगते हेतावन्यस्मिन् कार्यकल्पन मिति च लक्षयन्ति || गुणकीर्तनं यथा वत्सराजचरिते चतुर्थेऽङ्के शालङ्कायनः - नीलनागव्यपदेशेन समन्ततः शस्त्रप्रभाभासुरैरस्मद्योधैः परीतेन महति भयस्थाने विगतसंभ्रमं - तेन प्रोक्तं धैर्यगाम्भीर्यशौर्यप्रज्ञातेजोनीतिदाक्षिण्यगर्भम् | वाक्यं सामाद्यं सोर्जितं श्रोत्ररम्यं शास्त्रीकर्तव्यं तद्बुधैः स्वार्थकामैः || भरतरोहकः - एष संक्षिप्तविस्तरो नाम | राजा - ततस्ततः - शाल - देव यस्तस्य युद्धे महति प्रवृत्ते पराक्रमः साहसलाञ्चनः सः प्रद्युम्नरामार्जुनभीमकर्णसाम्बाभिमन्युष्वविचिन्त्य एव || इत्यादि राजा - अहो तु खलु स्वभावसिद्धानां गुणानामव्यभिचारिता | कुतः - अविदित इति नैकधा प्रयत्नाद्बहुदिवसं बहुधापरीक्षमाणः | द्विगुणमभिविराजते गुणैः स्वैर्मणिरिव जातिविशेषवान्महार्हः || प्. ३६४) वचनेन विनानुक्तसिद्धिः सा परिकीर्तिता || ४० || यत्प्रसन्नेन मनसा पूज्यं पूजयितुं वचः | हर्षप्रकाशनार्थं तु सा प्रियोक्तिरुदाहृता || ४१ || एतानि काव्यस्य च लक्षणानि षट्त्रिंशदुद्देशनिदर्शनानि प्रबन्धशोभाकरणानि तज्ज्ञैः सम्यक्प्रयोज्यानियथारसानि सिद्धिर्थथा तापसवत्सराजे यौगन्धरायणो डोलायितचित्तां वासवदत्तामाह - कौशाम्बीं परिभूय नः कृपणकैर्विद्वेषिभिः स्वीकृता जानास्येव तथा र्पमादपरतां पत्युर्नयद्वेषिणः | स्त्रीणां च प्रियविप्रयोगविधुरं चेतः सदैवात्र मे वक्तुं नोत्सहते मनः परमतो जानातु देवी स्वयम् || यथा वा तत्रैव द्वितीयेऽङ्के विनीतभद्रो देवीप्रस्थानं वर्णयन्नाह - मामुद्धिश्य तथा देव्या वाष्पसंरुद्धकण्ठया | आर्यपुत्रं प्रतीत्युक्तं वक्तव्यं न समाहितम् || प्रियोक्तिर्यथा वत्सराजचरिते सप्तमेऽङ्के भरतरोहको वत्सराजाय वासवदत्तां वीणाभ्यासार्थमर्पयितुकामस्तं दृष्ट्वाह - या शेते कौस्तुभस्य द्युतिकिसलयिते शारदव्योमनीले विष्णोर्वक्षस्युदारे रजनिकरकराकारहारोपहारे | साभ्येत्यालिङ्गतु त्वां प्रशिथिलगलितेनोत्तरीयेण लक्ष्मी- र्हर्पादापीडयन्ती नवकमलरजोरोचनाभ्यां स्तनाभ्याम् || इति (एवमेव श्रव्यप्रबन्धेष्वपि कथाशरीरसंविधानसंभाषणवैदग्ध्यरूपः कविव्यापारो लक्षणाख्यो द्रष्टव्यः |) इति षोडशाध्यायानुबन्धः समाप्तः | श्री नाट्यशास्त्रम् सप्तदशोऽध्यायः एवं तु संस्कृतं पाठ्यं मया प्रोक्तं समासतः | प्राकृतस्य तु पाठ्यस्य संप्रवक्ष्यामि लक्षणम् || १ || चतुर्दशाध्याये वाचिकोक्तक्रमे संस्कृतं प्राकृतं च वाक्यमित्युक्तम् | तत्र संस्कृतप्रसङ्गेन छन्दोवृत्तलक्षणादि निरूपितम् | अनेन त्वध्यायेन प्राकुतस्य स्वरूपं निरूप्यते | शास्त्रप्रसिद्धसंकृतविपरीतप्राकृतप्रसङ्गेन नामधेयिभागरूपरूपणं शास्त्राविहितानां विपरीतरूपत्वात् नाट्यसमयपातिनो भावमारिस्.आदिनामसमूहस्य पठनधर्माश्च प्राकृतेऽपि किमन्यथा संस्कृतवद्वेति चिन्तायां प्रसङ्गेन कार्यस्वरूपं निरूपितम् | दशरूपकनिर्णयानन्तरं समुचितनिर्णयमपि तथा - अलङ्कारा विरामाश्च ये पाठ्ये संस्कृते मताः | त एव यत्नतः कार्याः स्त्रीपाठ्येऽपि च संस्कृते || (१७-१३३) इत्यध्यायोपान्ते प्राकृतपाठ्यमेवोपसंहरिष्यामीत्यध्यायसङ्गतिः | एतामवे दर्शयति एवं तु संस्कृतमित्यादि | पाठविशेषमर्हति यत्नेन वा पठनीयं विशिष्टेन रूपेण वा पठनार्हं आन्तरचित्तवृत्तिवशादेव वा तथा पठितुं शक्यं प्. ३६६) एतदेव विपर्यस्तं संस्कारगुणवर्जितम् | विज्ञेयं प्राकृतं पाठ्यं नानावस्थान्तरात्मकम् || २ || त्रिविधं तच्च विज्ञेयं नाट्ययोगे समासतः | समानशब्दं विभ्रष्टं देशीगतमथापि च || ३ || पाठ्यमेकं तु विज्ञेयं संस्कृतं प्राकृतं यथा | कमलामलरे.उतरङ्गलोलसलिलादिवाक्यसंपन्नम् || प्राकृतबन्धेष्वेवं संस्कृतमपि योगमुपयाति | ये वर्णाः संयोगस्वरवर्णान्यत्वमूनतां चापि || ५ || आचार्ययत्नेन वा पठनीयमिति पाठ्यम् | तत्र प्राकृतस्य सामान्यलक्षणमाह (संस्कारेति) संस्कृतमेव संस्कारगुणेन यत्नेन परिरक्षारूपेण वर्जितं प्राकृतं प्रकृतेसंस्काररूपाया आगतम् | नन्वपभ्रंशानां को नियम इत्याह नाना यान्यवस्थान्तराणि देशविशेषास्तेष्वात्मा नियतसभावो यस्यां देशविशेषेषु प्रसिद्ध्या नियमितमित्येव संस्कृता एव वाचकाः अनुमानात्त्वन्ये ते त्वन्यत्वे प्रसिद्धिं गता इत्युक्तम् | अवतिष्ठन्तेऽन्यस्मिन्नित्यवस्थाः देशाः | संस्कृते समेऽपि प्रातिपदिके विभक्तौ भवितव्यं विपर्यासेन स्वरेण वा देशीपदमपि स्वरस्यैव प्रयोगावसरे प्रयुज्यत इति तदपि प्राकृतमेव अव्युत्पादितप्रकृतेस्तज्जनप्रयोज्यत्वात् प्राक्र्तमिति केचित् | संस्कृतेन समानशब्दानुदाहरति कमलामलेति | विभक्तौ लिङ्गस्य प्राकृते स्वातन्त्र्यादवश्यं भेदेन भाव्यमित्याह वाक्ये समासोपपन्नं योजितम् | एतत्परिज्ञानस्य फलमाह एवं संस्कृतमपि योगमिति | भाषाश्लेषे पताकास्थानकादौ चास्य पयोग उक्तः | अपि शब्देनेदमाह प्राकृतप्रयोगे समासेऽपि न संस्कृतसमतेति कमल अमल इन्दु इत्यादौ | प्. ३६७) यान्त्यपदादौ प्रायो विभ्रष्टांस्तान् विदुर्विप्राः | ये वर्णा वर्णगता व्यञ्जनयुक्ताश्च ये स्वरा नियताः || ६ || तानपरस्परवृत्ते प्राकृतयुक्त्या प्रवक्ष्यामि | यथा - ए ओ आरपराणि अ अं आरपरं अ प अ ए णत्थि | वस आरमज्झिमा इ अ कचवग्गतवग्गणिहणा इं || विभ्रष्टमाह ये वर्णा इत्यादि | एतदेव प्रपञ्च्यते ए ओ आरपराणि अ इत्यादिना | एकारात्परः ऐ ओकारात्पराः औ ऐकारैकारौ च येभ्यस्तानि (च) | कियन्ति आह पा अ ए पादसंख्यया चत्वारीत्यर्थः ऋ ॠ ऌ ॡ | अंकारपरो विसर्जनीयः | वसकारयोर्मध्ये शषौ | (कचवग्गोति) कचतवर्गाणां प्. ३६८) वच्चंति कगतदयवा लोपं अत्थं च से वहंति सरा | खघथधभा उण हत्तं उवेंति अत्थं अ मुंचंता || ८ || उप्परहुत्तर आरो हेटाहुत्तौ अ पा अ ए णत्थि | मोत्तूण भद्रवोद्रह पद्रह्रदचन्द्रजा ईसु || ९ || अन्त्यवर्णाः ङ ञ न इति द्वादशवर्णा न सन्ति | (कगेति) कगादयो लुप्यन्ते तदीयश्चार्धंः स्वराणामेव | (खघेति) खादीनां हत्वं खेट परिघ अथ धान्य (भाव्यादीनां) व्यञ्जनस्य न भवति | ए ओ आर इत्यादिगाथानां छाया - अ ओकारपगणि च अंकारपर च पादसंख्यया प्राकृते ? नास्ति | वसकारमध्ये च कचवर्ग तवर्ग निधनानि || प्राप्नुवन्ति कगतदयवा लोप अर्धं च तेषां वहन्तिं स्वराः | खघथधभाः पुनः हत्वमुपेयन्ति अर्धं च मुञ्चमाना || प्. ३६९) खघथधभाण ह-आरो मुहमेहकहावहूपहू-एसु | कगतदयवाण णिच्चं वीयम्मि ठि-ओ सरो हो इ || १० || छ इति षकारो नित्यं बोद्धव्यः षट्पदादियोगेषु | किलशब्दान्त्यो रेफो भवति तथा खुत्ति खलुशब्दः || ड इति च भवति टकारो भटकटककुटीतटाद्येषु | सत्वं च भवति शषयोः सर्वत्र यथा विसं संका || १२ || उपरिस्थोऽधःस्थो वा रकारः प्राकृते नास्ति (?) | मुक्त्वा भद्र चाद्रेह ह्रद द्रह चन्द्र धात्री शब्देषु | खघथधभानां हकारो (यथा) मुख मेघ कथा वधू प्रभूतेषु | कगतदयवानां नित्यं द्वितीये स्थितः स्वरो भवति || प्. ३७०) अस्पष्टश्च दकारो भवत्यनादौ तकार इतराद्यः | बडबातडागतुल्यो भवति डकारोऽपि च ककारः || १३ || वर्धनगते च भावे धकारवर्णोऽपि ढत्वमुपयाति | सर्वत्र च प्रयोगे भवति नकारोऽपि च णकारः || १४ || आपानं आवाणं भवति पकारेण वत्वयुक्तेन | अयथातथादिकेषु तु भकारवर्णो व्रजति धत्वम् || १५ || परुषं फरुसं विद्यात्पकारवर्णोऽपि फत्वमुपयाति | यस्तु मृतः सोऽपि म ओ यश्च मृगः सोऽपि हि तथैव ओकारत्वं गच्छेदौकारश्चौषधादिषु नियुक्तः | प्रचलाचिराचलादिषु भवति चकारोऽपि तु यकारः || भद्रादिषु न भवति | अपिच चोद्रहहृददुःखादीनामिति | अत्रोदाहर णानि मुखं मुहं इत्यादिकानि | अनादौ स्थाने टकारो डकारश्च अस्पष्टो लघुप्रयत्न उच्चार्यः येन क्रमाद्दकारश्च लकाराच्छयौ भवतः | यथा उदरं उदलं तथैवेति | प्. ३७१) अपरस्परनिष्पन्ना ह्येवं प्राकृतसमाश्रया वर्णाः | संयज्तानां तु पुनर्वक्ष्ये परिवृत्तिसंयोगम् || १८ || श्चप्सत्सथ्याः छ इति तथा भ्यह्यध्या भवन्ति तु झकाराः | ष्टः ट्थः स्तः त्थः स्ंओ म्ह क्ष्णो ह्णः ष्नो ण्हः क्षः खकाररूपोऽपि || १९ || आश्चर्यं अच्छरियं निश्चयमिच्छन्ति णिच्छयं च यथा वत्सं वच्छं च यथा अप्सरसं तद्वदच्छर-अं || २० || उत्साहो उच्छाहो पथ्यं पच्छं च विज्ञेयम् | तुभ्यं तुज्झं मह्यं मज्झं विन्ध्यश्च भवति विंज्झोत्ति || २१ || दष्टो दट्ठोत्ति तहा हस्तोऽपि च भवति हत्थोत्ति | ग्रीष्मो गिम्होत्ति तथा श्लक्ष्णं सह्णं सदा तु विज्ञेयम् || अपरस्परनिष्पन्ना इत्यन्योन्यमाश्लिष्टा असंयोगरूपा इत्यर्थः | यत्रसंयुक्तास्तेषामिति षष्ठीबहुवचनम् | क्रमेण स्वयमुदाहरति वच्छो इत्यादि | (विपरीत इति) ब्रह्मा वम्हावत् हत्वमिति उपरिगतोऽधस्तादिति शक्रं अर्कः (इति) द्वितीयं संयुज्यमानमपास्य स उपरिगत एव चादेशः क्रियते सक्को अक्को | मुनिना च दिग्दर्शिता विस्तारविजिज्ञासुः प्राकृतदीपिकादिकमव- प्. ३७२) उष्णं उह्णं यक्षो जक्खो पल्लंकु भवति पर्यङ्को | विपरीतं हमयोगे ब्रह्मादौ स्याद् बृहस्पतौ फत्वम् || यज्ञो भवति च जन्नो भीष्मो भिम्होत्ति विज्ञेयः | उपरिगतोऽधस्ताद्वा भवेत्ककारादिकस्तु यो वर्णः || २४ || स हि संयोगविहीनः शुद्धः कार्यः प्रयोगेऽस्मिन् | एममेतत्तु विज्ञेयं प्राकृतं संस्कृतं तथा || २५ || अत ऊर्ध्वं प्रवक्ष्यामि देशभाषाविकल्पनम् | भाषाचतुर्विधा ज्ञेया दशरूपे प्रयोगतः || २६ || संस्कृतं प्राकृतं चैव यत्र पाठ्यं प्रयुज्यते | अतिभाषार्यभाषा च जातिभाषा तथैव च || २७ || तथा योन्यन्तरी चैव भाषा नाट्ये प्रकीर्तिता | लोकयेत् | उत्पलविरचिताया च मूलवृत्तौ पद्धतौ च स्फुटं पूर्ण च सर्वमस्तीति तत्रादरः कार्यः | संस्कृतप्राकृतरूपैव भाषा वक्तुभेदाच्चतुर्धा संपन्नेति दर्शयति संस्कृतं प्राकृतं च पाठ्यमिति | संस्कृतैव भाषा स्वरभेदादिपूर्णसंस्कारोपेता संस्कृतभाषा भाषाभेदानामुक्ता वैदिकशब्दबाहुल्यादार्यभाषातो विलक्षणत्वमस्या इत्यन्ये | प्. ३७३) अतिभाषा तु देवानामार्यभाषा तु भूभुजाम् || २८ || संस्कारपाठ्यसंयुक्ता सम्यङ्न्याययप्रतिष्ठिता | द्विविधा जातिभाषा च प्रयोगे समुदाहृता || २९ || म्लेच्छशब्दोपचारा च भारतं वर्षमाश्रिता | अथ योन्यन्तरीभाषा ग्राम्यारण्यपशूद्भवा || ३० || नानाविहङ्गजा चैव नाट्यधर्मीप्रतिष्ठिता | जातिभाषाश्रयं पाठ्यं द्विविधं समुदाहृतम् || ३१ || प्राकृतं संस्कृतं चैव चातुर्वर्ण्यसमाश्रयम् | धीरोद्धते सललिते धीरोदात्ते तथैव च || ३२ || धीरप्रशान्ते च तथा पाठ्यं योज्यं तु संस्कृतम् | एतेषामपि सर्वेषां नायकाना प्रयोगजम् || ३३ || कारणव्यपदेशेन प्राकृतं संप्रयोजयेत् | पशुपक्षिप्रभृतीनां यद्रुतं तत् नाट्यप्रयोगे कुत्राप्यवसरे संभाव्यमित्याह नाट्यधर्मीति | उपचारो व्यवहारः | कारणव्यपदेशेनेति अवस्थादिवशात् यथा - अर्जुनस्य बृहन्नलारूपेण प्रच्छन्नस्य कारणान्याहरते | प्. ३७४) दारिद्र्याध्ययनाभावयदृच्छादिभिरेव च || ३४ || ऐश्वर्येण प्रमत्तानां दारिद्र्येण प्लुतात्मनाम् | अनधीतोत्तमानां च संस्कृतं न प्रयोजयेत् || ३५ || व्याजलिङ्गप्रविष्टानां श्रमणानां तपस्विनाम् | भिक्षुचक्रचराणां च प्राकृतं संप्रयोजयेत् || ३६ || भागवततापसोन्मत्तबालनीचग्रहोपसृष्टेषु | स्त्रीनीचजातिषु तथा नपुंसके प्राकृतं योज्यम् || ३७ || परिव्राण्मुनिशाक्येषु चोक्षेषु श्रोत्रियेषु च | शिष्टा ये चैव लिङ्गस्थाः संस्कृतं तेषु योजयेत् || ३८ || राज्ञ्याश्च गणिकायाश्च शिल्पकार्यास्तथैव च | कलावस्थान्तरकृतं योज्यं पाठ्यं तु संस्कृतम् || ३९ || ऐश्वर्येणेति श्रुताध्ययनशून्यत्वमनेन लक्ष्यते | क्रीडापीत्यन्ये | व्याजलिङ्गं ये प्रविष्टा जीविकाद्यर्थम् | चक्रचरा ये चक्रेण जीवन्ति | भागवता इह देवलकाः | उत्तमग्रहैः देवगन्धर्वादिभिराक्रान्तानां संस्कृतभाषेत्यभिप्रायेणाह नीचग्नहेति | नीचग्रहैः पिशाचादिभिरुपसृष्टेषु स्वीकृतेष्विति | नीचजातयश्चण्डालाद्याः | चोक्षा भागवतविशेषा ये एकायना इति प्रसिद्धाः | लिङ्गस्था यतिप्रभृतयः | शिल्पकारिकाः कलासु विदग्धाः | राज्ञः स्त्री म *? देवीरूपा उपचाराद्राजशब्दवाच्येति अन उपधा लोपिन इति डीपि राज्ञी प्. ३७५) सन्धिविग्रहसंबन्धं तथा च प्राप्तवाग्गतिम् | ग्रहनक्षत्रचरितं खगानां रुतमेव च || ४० || सर्वमेतत्तु विज्ञेयं काव्यबन्धे शुभाशुभम् | नृपपत्न्या स्मृतं तस्मात्काले पाठ्यं तु संस्कृतम् || ४१ || क्रीडार्थं सर्वलोकस्य प्रयोगे च सुखाश्रयम् | कलाभ्यासाश्रयं चैव पाठ्यं वेश्यासु संस्कृतम् || ४२ || कलोपचारज्ञानार्थं क्रीडार्थं पार्थिवस्य च | निर्दिष्टं शिल्पकार्यास्तु नाटके संस्कृतं वचः || ४३ || आम्नायसिद्धं सर्वासां शुभमप्सरसां वचः | संसर्गाद्देवतानां च तद्धि लोकोऽनुवर्तते || ४४ || छन्दतः प्राकृतं पाठ्यं स्मृतमप्सरसां भुवि | मानुषाणां च कर्तव्यं कारणार्थव्यपेक्षया || ४५ || यदि पुंयोगादित्यत्र अत इति वर्तते | राज्ञ्याः संस्कृते निमित्तं दर्शयति सन्धिविग्रहेति यस्माद्राज्ञः सन्धिविग्रहसंबन्धं षाड्गुण्यादि तथाग्रहनक्षत्रचेष्टितं शुभाशुभरूपं पक्षिरुतं च शुभाशुभमितीयत्सर्वं नृपपत्न्या ज्ञेयं तस्माद्राज्ञः सा प्रतिशरीरकल्पा कदाचित्संस्कृतयोग्यापि भवति | सुखाश्रयमिति | अनेन विशेषलक्षणप्रयोगादि निरस्यति | आम्नायः पुराणादिः लोकोऽनुवर्तते अनुमन्यत इति यावत् | भुवीति अवतीर्णानामिति प्. ३७६) न बर्बरकिरातान्घ्र द्रमिलाद्यासु जातिषु | नाट्यप्रयोगे कर्तव्यं पाठ्यं भाषासमाश्रयम् || ४६ || सर्वास्वेव हि शुद्धासु जातिषु द्विजसत्तमाः | शौरसेनीं समाश्रित्य भाषां काव्येषु योजयेत् || ४७ || अथवा छन्दतः कार्या देशभाषा प्रयोक्तृभिः | नानादेशसमुत्थं हि काव्यं भवति नाटके || ४८ || मागध्यवन्तिजा प्राच्या शौरसेन्यर्धमागधी | बाह्लिका दाक्षिणात्या च सप्त भाषाः प्रकीर्तिताः || ४९ || शकाराभीरचण्डाल शबरद्रमिलान्घ्रजाः | हीना वनेचराणां च विभाषा नाटके स्मृता || ५० || मागधी तु नरेन्द्राणामन्तःपुरसमाश्रया | चेटानां राजपुत्राणां श्रेष्ठिनां चार्धमागधी || ५१ || प्राच्या विदूषकादीनां धूर्तानामप्यवन्तिजा | नायिकानां सखीनां च शूरसेन्यविरोधिनी || ५२ || शेषः | शुद्धास्विति अनुलोमवशेन संस्कारवत्सु जातिष्वपीति पाठः | देशभाषां संक्षिप्याह मागधीत्यादि | भाषा संस्कृतापभ्रंशः भाषापभ्रंशस्तु विभाषा सा तत्तद्देश एव गह्वरवासिनां प्राकृतवासिनांच एता प्. ३७७) यौधनागरकादीनां दाक्षिणात्याथ दीव्यताम् | बाह्लीकभाषोदीच्यानां खसानां च स्वदेशजा || ५३ || शकारघोषकादीनां तत्स्वभावश्च यो गणः | शकारभाषा योक्तव्या चाण्डाली पुल्कसादिषु || ५४ || अङ्गारकारकव्याधकाष्ठ यन्त्रोपजीविनाम् | योज्या शकारभाषा तु किंचिद्वानौकसी तथा || ५५ || जगाश्वाजाविकोष्ट्रादिघोषस्थाननिवासिनाम् | आभीरोक्तिः शाबरी वा द्रामिडी वनचारिषु || ५६ || सुरङ्गाखनकादीनां सन्धिकाराश्वरक्षताम् | व्यसने नायकानां चाप्यात्मरक्षासु मागधी || ५७ || एव नाट्ये तु | अन्ये तु निदर्शनार्थत्वादस्य पैशाच्यादयोऽपि प्रयोज्या इत्याहुः | नरेन्द्राणां यदन्तःपुरं तन्निवासिनामिति संबन्धः | दीव्यतामिति कितवानाम् | शकारा नीचाभिजनाः आर्थीभूतत्वेन सदर्पाः | शकाराबहुला भाषा शकारभाषा | पुल्कसो डोम्बः मृतप इत्यन्ये | वनौकसामियं वनेचरीत्यर्थः | सुरङ्गाखनकाः सन्धिच्छेदकृतः | कारा बन्धनगृहम् | व्यसनं कस्यांचिदापदि जातायां मा मां लोको ज्ञास्यतीतित्यभिप्रायेणात्मनो रक्षार्थं नायकोऽपि मागध्या व्यवहरेत् | द्रमिडकादि पूर्वविधानादिनिषेधो विशिष्टेष्विति पर्यन्तवा- प्. ३७८) न बर्बरकिरातान्द्घ्र द्रमिलाद्यासु जातिषु | नाट्यप्रयोगे कर्तव्यं काव्यं भाषासमाश्रितम् || ५८ || गङ्गासागरमध्ये तु ये देशाः संप्रकीर्तिताः | एकारबहुलां भाषां तेषु तज्ज्ञः प्रयोजयेत् || ५९ || विन्ध्यसागरमध्ये तु ये देशाः श्रुतिमागताः | नकारबहुलां तेषु भाषां तज्ज्ञः प्रयोजयेत् || ६० || सुराष्ट्रावन्तिदेशेषु वेत्रवत्युत्तरेषु च | ये देशास्तेषु कुर्वीत चकारप्रायसंश्रयाम् || ६१ || हिमवत्सिन्दुसौवीरान्ये जनाः समुपाश्रिताः | उकारबहुला तज्ज्ञस्तेषु भाषां प्रयोजयेत् || ६२ || चर्मण्वतीनदीतीरे ये चार्बुदसमाश्रयाः | ओकारबहुलां नित्यं तेषु भाषां प्रयोजयेत् || ६३ || एवं भाषाविधानं तु कर्तव्यं नाटकाश्रयम् | अत्र नोक्तं मया यत्तु लोकाद् ग्राह्यं बुधैस्तु तत् || ६४ || सिपु द्रमिडेषु द्रष्टव्यो बर्बरान्द्र्हादिसाहचर्याद् भाङ्गेलदेशादिगतेषु | गङ्गासागरमध्य इति पूर्वदेश उपलक्षितः | विन्ध्यसागरमध्य इति दक्षिणसौराष्ट्राः | सुराष्ट्रावन्तिदेशेष्विति पश्चिमः वेत्रवत्यादिनोत्तरः | वाक्यविधानमित्येकेनापि पदेन सकलो वाक्यार्थः स्फुटी- प्. ३७९) एवं भाषाविधानं तु मया प्रोक्तं द्विजोत्तमाः | पुनर्वाक्यविधानं तु लौकिकं संनिबोधत || ६५ || उत्तमैर्मध्यमैर्नीचैर्ये संभाष्या यथा नराः | समानोत्कृष्टहीनाश्च नाटके तान्निबोधत || ६६ || देवानामपि ये देवा महात्मानो महर्षयः | भगवन्निति ते वाच्या यास्तेषां योषितस्तथा || ६७ || देवाश्च लिङ्गिनश्चैव नानाश्रुतधराश्च ये | भगवन्निति ते वाच्याः पुरुषैः स्त्रीभिरेव च || ६८ || आर्येति ब्राह्मणं ब्रूयान्महाराजेति पार्थिवम् | उपाध्यायेति चाचार्यं वृद्धं तातेति चैव हि || ६९ || नाम्ना राजेति वा वाच्या ब्राह्मणैस्तु नराधिपाः | तत्क्षाम्यं हि महीपालैर्यस्मात्पूज्या द्विजाः स्मृताः || ब्राह्मणैः सचिवो वाच्यो ह्यमात्य सचिवेति वा | शेषैरन्यैर्जनैर्वाच्यो हीनरार्येति नित्यशः || ७१ || क्रियते अन्योन्यरूपता नीयत इत्यभिप्रायेण वाक्यग्रहणं पदविधानं हि भविष्यति | देवानां देवाः स्तुत्याः | तथेति स्त्रीत्वेन भगवतीति | नानश्रुतधराः बहुश्रुताः | क्षाम्यमित्यङ्गिकर्तव्यम् | सचिव इति राज्ञो मन्त्री | प्. ३८०) समैः संभाषणं कार्यं येन नाम्ना स संज्ञितः | हीनैः सपरिवारं तु नाम्ना संभाष्य उत्तमः || ७२ || नियोगाधिकृताश्चैव पुरुषा योषितस्तथा | कारुकाः शिल्पिनश्चैव संभाष्यास्ते तथैव हि || ७३ || मार्षो भावेति वक्तव्यः किंचिदूनस्तु मार्षकः | समानोऽथ वयस्येति हं हो हण्डेति वाधमः || ७४ || आयुष्मन्निति वाच्यस्तु रथी सूतेन सर्वदा | तपस्वीति प्रशान्तस्तु साधो इति च शब्द्यते || ७५ || स्वामीति युवराजस्तु कुमारो भर्तृदारकः | सोम्य भद्रमुखेत्येवं हे पूर्वं चाधमं वदेत् || ७६ || सपरिवारं नाम्नेति उत्तमो राजा हीनैः स्वनाम परिगृह्य यद्यन्नाम वत्सराज सोमवंशमौक्तिकमणे इत्यादि तेन भाष्यः | सपरिहासमिति वा पाठः परिहासः परितोषोपलक्षणं तेन चाटुकारादि परितोषावसरे हीनैरपि राजा नाम्ना संभाष्य | उदयने महीं शासति को विपदामवकाशः इत्यादौ | कारुकाः स्तूपकारादयः शिल्पिनश्चित्रकारादयः | भावेत्यामन्त्रणं विवक्षितमित्यन्यविभक्त्यन्तो न प्रयोज्य इत्येतत्त्वयुक्तम् | वयस्येत्येवमादावपि प्रसङ्गात्संभाषणापक्रमकृताद्यामन्त्रणविभक्तिः सर्वत्र विवक्षितैव | अधमैर्जनैः समानोऽधम एव हंहो हण्डे इति वा संभाष्यः | चकाराद् विनापि प्. ३८१) यद्यस्य कर्म शिल्पं वा विद्या वा जातिरेववा | स तेन नाम्ना भाष्यो हि नाटकादौ प्रयोक्तृभिः || ७७ || वत्स पुत्रक तातेति नाम्ना गोत्रेण वा पुनः | वाच्यः शिष्यः सुतो वापि पित्रा वा गुरुणापि वा || ७८ || संभाष्या शाक्यनिर्ग्रन्था भदन्तेति प्रयोक्तृभिः | आमन्त्रणैस्तु पाषण्डाः शेषाः स्वसमयाश्रितैः || ७९ || देवेति नृपतिर्वाच्यो भृत्यैः प्रकृतिभिस्तथा | भट्टेति सार्वभौमस्तु नित्यं परिजनेन तु || ८० || राजन्नित्यृषिभिर्वाच्यो ह्यपत्यप्रत्ययेन वा | वयस्य राजन्निति वा भवेद्वाच्यो महीपतिः || ८१ || विदूषकेण राज्ञी च चेटी च भवतीत्यपि | नाम्ना वयस्येत्यपि वा राज्ञा वाच्यो विदूषकः || ८२ || सर्वस्त्रीभिः पतिर्वाच्य आर्यपुत्र्ति यौवने | अन्यदा पुनरार्येति महाराजेति भूपतिः || ८३ || हेशब्देन | कर्म पाकादि विद्या त्रययादि | जातिर्गोत्रं देशो वा | शाक्याः सौगताः निर्ग्रन्थाः क्षपणकाः | शेषाः पाषण्डा इति पाशुपतादयः | स्वसमयो यथा पाशुपतानां भापुषन् भासर्वज्ञ इत्यादि संभाषणम् तथा क्वचिद्वाक्यादिशब्देन | अपत्यप्रत्ययेनेति कौरवेत्यादिना महाराजेति | यौवनादन्यत्रार्यपुत्रेति श्वशुरेण व्यपदेशः तस्य यौवनं शृङ्गारोचितमुक्तं भवति | प्. ३८२) आर्येति पूर्वजो भ्राता वाच्यः पुत्र इवानुजः | (योपिद्भिरथ काम्येति राजपुत्रेति योधनैः ||) ८४ || पुरुषाभाषणं ह्येवं कार्यं नाट्ये प्रयोक्तृभिः | पुनः स्त्रीणा प्रवक्ष्यामि यथाभाष्यास्तु नाटके || ८५ || तपस्विन्यो देवताश्च वाच्या भगवतीति च | गुरुभार्या तु वक्तव्या स्थानीया भवतीति च || ८६ || गम्या भद्रेति वाच्या वै वृद्धाम्वेति च नाटके | राजपत्न्यस्तु संभाष्याः सर्वाः परिजनेन वै || ८७ || भट्टिनी स्वामिनी देवी त्येवं वै नाटके बुधैः | देवीति महिषी वाच्या राज्ञा परिजनेन वा || ८८ || भोगिन्यः परिशिष्टास्तु स्वामिन्य इति वा पुनः | कुमार्यश्चैव वक्तव्याः प्रेष्याभिर्भर्तृदारिकाः || ८९ || स्वसेति भगिनी वाच्या वत्सेति च यवीयसी | ब्राह्मण्यार्येति वक्तव्या लिङ्गस्था व्रतिनी च या || ९० || अनुजो ज्येष्ठेन पुत्रवत् वत्स तात पुत्रकेति संभाष्यः | पुरुषाभाषणमिति भूयस्त्वाक्षेप उपसंहारः | स्त्रीसंभाषण. त्वपि मध्ये निरूपितं तपस्विन्य इति पूर्वं तेषां योषित इति अत्र स्वयमतपस्विन्योऽपीत्युक्तमिति न पुनरुक्तम् | गुरुभार्या मान्या अन्या वा स्त्री स्थानीया पूज्या ईषद्धृद्धा | पत्नीति सहधर्म- प्. ३८३) पत्नी चार्येति संभाष्या पितृनाम्ना सुतस्य वा | समानाभिस्तथा सख्यः हलेति स्यात्परस्परम् || ९१ || प्रेष्या हञ्जेति वक्तव्या स्त्रिया यतूत्तमा भवेत् | अज्जुकेति च वक्तव्या वेश्या परिजनेन च || ९२ || अत्तेति गणिकामाता वाच्या परिजनेन हि | प्रियेति भार्या शृङ्गारे वाच्या राज्ञेतरेण वा || ९३ || पुरोधःसार्थवाहानां भार्यास्त्वार्येति सर्वदा | तल्लिङ्गार्थानि नामानि कार्याणि कविभिः सदा || ९४ || औत्पत्तिकानि यानि स्युरप्रख्यातानि नाटके | ब्रह्मक्षत्रस्यनामानि गोत्र कर्मानुरूपतः || ९५ || काव्ये कार्याणि कविभिः शर्मवर्मकृतानि हि | दत्तप्रायाणि नामानि वणिजां संप्रयोजयेत् || ९६ || (कापालिकास्तु घण्टान्तनामानः समुदाहृताः) | चारिणी अत एव नटी नाट्यवेदमहासत्रदीक्षितेन सूत्रधारेणार्येणार्ये इत्यामन्त्यते | पितृनाम्नेति माठरपुत्री | सुतस्येति सोमशर्मजननी | वेश्या स्वेन परिजनेन अज्जुके इति संभाष्या | सर्वदेति यौवनेऽपि पुरोहितादिभिरार्येति भार्या वाच्या | औत्पत्तिकानीति स्वयं वा येन कल्प्यन्ते अत एवाख्यातानि तल्लिङ्गार्थानि प्रकृतार्थसूचकाभिधेययुक्तानि कार्याणि | एतदेव निदर्शनेन स्फुटयति ब्रह्मक्षत्रस्येत्यादिना | प्. ३८४) शौर्यादात्तानि नामानि तथा शूरेषु योजयेत् || ९७ || विजयार्थानि नामानि राजस्त्रीणां तु नित्यशः | दत्ता मित्रा च सेना च वेश्यानामानि योजयेत् || ९८ || नानाकुसुमनामानः प्रेष्याः कार्यास्तु नाटके | मङ्गलार्थानि नामानि चेटानामपि योजयेत् || ९९ || गम्भीरार्थानि नामानि ह्युत्तमानां प्रयोजयेत् | यस्मान्नामानुसदृशं कर्म तेषां भविष्यति || १०० || जातिचेष्टानुरूपाणि शेषाणामपि योजयेत् | नामानि पुरुषाणां तु स्त्रीणां चोक्तानि तत्त्वतः || १०१ || एवं नामविधानं तु कर्तव्यं कविभिः सदा | शौर्योदात्तानीति भीमपराक्रम इति यथा | विजयार्थानीति शुभलक्षणविजयवतीत्यादीनि | देवदत्तावसन्तसेनाविदग्धमित्रेत्यादि वेश्यानाम् | नानाकुसुमनामानीति मालतीमल्लिकेत्यादि कुसुमग्रहणं तन्मञ्जर्याषुपलक्षणं चूतलतिकेत्याद्यपि हि दृश्यते नाम | मङ्गलार्थानीति सिद्धार्थका इत्यादीनि | गम्भीरार्थानि अक्षोभ्य इत्यादीनि | नास्ति संकेतको भार इत्याशयेन पृच्छति अत्रोत्तरं नामानुरूपमिति | नाम किलेश्वरेच्छावशात्स्वरूपक्रोडीकारेणैव जायते | तथा हि नामाक्षरे ग्रहाभिचारयन्त्रकर्मादिपीडिते शान्तिकपौष्टिकाद्युपचारभाजि वा तहैव पुरुषस्य फलोदय इत्यभिप्रायः | कवित्वयुक्तो नट प्. ३८५) एवं भाषाविधानं तु ज्ञात्वा कर्माण्यशेषतः || ततः पाठ्यं प्रयुञ्जीत षडलङ्कारसंयुतम् | पाठ्यगुणानिदानीं वक्ष्यामः | तद्यथा सप्तस्वराः त्रीणि स्थानानि चत्वारो वर्णाः द्विविधा काकुः षडलङ्काराः षडङ्गानीति | एषामिदानीं लक्षणमभिव्याख्यास्यामः तत्र इत्येभिप्रायेणाह भाषाविधानं ज्ञात्वा तत इति तत्परिज्ञातपूर्वकं काव्यं कृत्वा प्रयोगे पाठ्यं प्रयुञ्जीतेत्यर्थः | यदि त्वन्यः कविस्तदा पाठ्यस्य संज्ञा च मूलभूतत्वात् प्रयोक्तृत्वेनोक्तो द्रष्टव्यः | षडलङ्कारसंयुतमिति स्वरस्थानवर्णकाकलङ्काराङ्गानि षट् अत्रालङ्कारशब्देन विवक्षितानि एतैर्हि भूषितं काव्यं पाठ्यमुच्यते | एवं हि वक्तव्यत्वमुपादानस्य यदि सकलस्वविवक्षाविशिष्टार्थप्रतिपादकत्वं पठनार्हं च पाठ्यं तत्स्वराद्यायत्तं सर्वमिति | अत एवाह पाठ्यगुणानिति गुणाः उपकारकाः यदुपकृतं पाठ्यं भवतीत्यर्थः | उद्देशक्रमेण व्याचष्टे तत्रेत्यादि | स्वरगतं वितत्य गेयाधिकारे प्रकटयिष्यामः | इह काकुषु स्वरा एव वस्तुत उपकारिणः | तत्परिकरभूतं तु स्थानादि स्वरेषु प्रकृतिभूतेषु काकुरूपता जन्यते | तत्र स्थानशब्देनैषां स्वरूपनिष्पत्तेराश्रयो दर्शितः | उदात्तानुदात्तस्वरितकम्पितरूअपतया स्वराणां यद्रक्तिप्रधानत्वमनुरणनमयं तत्त्यागेनोच्चनीचमध्यमस्थानस्पर्शित्वमात्रं पाठ्योपयोगीति दर्शितम् | यदि हि स्वरगता रक्तिः पाठ्ये प्राधान्येनावलम्ब्येत तदा गानक्रियासौ स्यात् न पाठः | पूर्णस्वरत्वाभावादङ्गानां भेद इति चेत् प्. ३८६) सप्तस्वरा नाम - षड्जर्षभगान्धारमध्यमपञ्चमधैवतनिषादाः | त एते रसेषूपपाद्याः | यथा - न अपूर्णस्वरत्वेऽपि गानत्वप्रतिज्ञानात् षाडवौडुवितयोः त्रिचतुरस्वरत्वेऽपि गानप्रतीतिर्भवत्येव यथा कृत्रिमवंशिकायां त्रैस्वर्ये भिन्नषड्रजभाषायां च कालिन्द्यां चातुस्स्वर्ये | तस्माद्गानवैलक्षण्याय रक्तिलक्षणं धर्ममनादृत्योच्चादिस्थानस्पर्श एवात्र प्रधानमिति वक्तुं वर्णोपादानम् | अन्यथा स्वरसप्तकातिरिक्तस्योदात्तादेर्भावादनर्थकं तदुपादानम् | यत्तु किंचिदुदात्तादिधर्माणां गात्रस्य निग्रहः कण्ठविवरस्य संवृतेत्यादिशिक्षापठितोदात्तादिधर्मप्राप्तेरुच्चाद्यलङ्कारेषु यथा स्यादिति प्रयोजनमुक्तं तत्राप्यस्मदुक्तं चेन्न प्रयोजनं किं तद्धर्मप्राप्त्या कृत्यमिति न विद्मः || नन्वेवं स्वराभिधाने किं प्रयोजनं उच्यते - प्राणभूतं तावद्धुवागानं प्रयोगस्य तत्र जात्यंशकविनियोगो भविष्यति तदिदानां पाठावसरे किं सर्वथैव त्यक्तव्यमित्याशङ्काशमनाय तत्स्थायिस्वराश्रयणं प्रमुखीकृत्य पाठः कर्तव्य इत्येतत्स्वराभिधानस्येह प्रयोजनम् | एवमुपगानवैलक्षण्ये संपन्ने वाह्यार्थसमर्पणेन चित्तवृत्तिसमर्पणया वाभिनयानुभावरूपतालाभाय काकुरर्थरसभेदेनाभिधीयते | तत एव काकुरूपत्वमेव सर्वत्रानुयायि अतिशायित्वे मुख्योपयोगात् | तथा चोच्चदीप्ताद्यलङ्कारेष्वप्युत्तरत्र काकुशब्देनैव मुनिर्व्यवहरिष्यति | काकोरेवोपकारसंपादकाः परिपूर्णतायायिनोऽलङ्काराः अलमिति पर्याप्त्यर्थः इह न भूषणार्थः | अङ्गानि तु विच्छेदादीनि रसमर्थं शोभादि कर्म च पोषयितुं काकोरेवोपकारीणीति एवं परमार्थतः काकुरेवायं पञ्चमी रूपान्तरै पूर्णीक्रियते | काका च पठ्यमानस्य स्वोचितचिज्जडस्वरूपार्थाभिमुख्येन नयनेनाभिनयता नीयत इति काकुरेवात्र प्रधानम् | तथा चैतदध्यायान्ते चोपसंहरिष्यति उक्तं काकुविधानमिति | अन्यथाङ्गषट्कमध्यपतितस्योपसंहारोऽन्याङ्गनिरूपणं चाभिधानमिति सर्वमसमञ्जसं स्यात् | तस्मात्काकुरेवात्र प्रधानमिति उपाध्याया हि वचनस्य सङ्केतितमर्थमनथाकारं समर्थयन्ति | ननु श्रुतमर्थमनादृत्य कथं काकुरेवं कुर्यात् | तत्रोक्तमन्यैः वस्तुस्वभावोऽत्र द्रष्टव्यो न हि दृष्टेऽनुपपन्नं नामेति | वयं तु ब्रूमः - इह येयं प्रथमेन प्. ३८७) हास्यशृङ्गारयोः कार्यौ स्वरौ मध्यमपञ्चमौ || १०३ || षड्जर्षभौ तथा चैव वीररौद्राद्भुतेष्वथ | गान्धारश्च निषादश्च कर्तव्यौ करुणे रसे || १०४ || धैवतश्चैव कर्तव्यो बीभत्से सभयानके | त्रीणि स्थानानि - उरः कण्ठः शिर इति | भवत्यपि च - संवित्स्पन्देन प्राणोल्लासनया वर्णादिरूपविशेषहीना वाग् जन्यते सा नादरूपा सती हर्षशोकादिचित्तवृत्तिं विधिनिषेधाद्यभिप्रायं वा तत्कार्यलिङ्गतया वा तादात्म्येन वा श्रुत्यन्तादि गममतीति तावत्स्थितम् | तथा च प्रान्यन्तरस्य मृगसारमेयादेरपि नादमाकर्ण्य भयरोषशोकादि प्रतिपद्यते तदयं नादाच्चित्तवृत्त्याद्यवगमोऽनुमानं तावत् | ये त्वेते वर्णविशेषास्ते तन्नादरूपसामान्यात्मकपदतन्नुग्रन्थिमया इव प्राच्यप्रयात्नातिरिक्तनिमित्तान्तरपिक्षाः तत एवान्यत्रानभिप्रेतेऽन्यथापि प्रयोक्तुं शक्याः अत एव दृष्टव्यभिचाराः | नादस्तु झटित्युद्भिन्नमुखरागपुलकस्थानीयो नान्यथासिद्धोऽन्यथासिद्धं शब्दार्थं वाधत एव वा | यथोक्तं भीरु न मे भयं इति ब्रुवन्नाशयते भयमित्यन्यप्रकारतां वा वाक्यार्थस्य विशेषार्पणेन विधत्ते | एतच्च वक्ष्यामोऽग्न इत्यास्तां तावत् | सर्वथा पाठ्ये काकुः प्रधानमिति स्थितम् | अत्र हास्यशृङ्गारयोरित्यादिना जात्यंशकवीयोगं भविष्यन्तमनुवदंस्तद् द्रुतस्थायिस्वरानुसारेण काकोः प्रयोग इति दर्शयति | अथैषां स्वराणामाश्रयान् दर्शयति त्रीणि स्थानानीति | ननु पाठावसरे वर्णा यत्र मूर्धन्यास्तत्र कथमुरः स्थानस्वरनिष्पत्तिः एवमन्यत्र वाच्यम् | उक्तं मन्द्रनादात्मिकाया वाचः स्वरसप्तकं रूपं सा चोरःस्थाननिष्पन्ना सती मूर्धानमभिघ्नन्ती मूर्धन्यं वर्णं तद्रूपं मन्द्रस्वरानुविद्धं दर्शयति | न च मूर्धस्थानत्वेऽपि तस्योच्चताकृतं तारत्वमापद्यते | अन्यदेव हि वर्णनिष्पत्तिस्थानं मूर्धान्तर्वर्त्यनुविवरमात्रं स्थानान्तरम् | स्वरनिष्पत्तिस्तु विततवितते मूर्ध- प्. ३८८) शारीर्यामथ वीणायां त्रिभ्यः स्थानेभ्य एव तु उरसः शिरसः कण्ठात्स्वरः काकुः प्रवर्तते || १०६ || काये निष्पद्यमाना तारत्वं संपदयन्ती एवं तारमन्द्रमध्यता सवर्णानां सर्व(स्वर?) स्थानभेदसंपाद्यमानवपुषामप्युपपद्यते | तत्र स्वरग्रहणादेवाक्षिप्ते स्थानभेदे पुनः स्थानोपादानं षट्षष्टिस्थानभेदनिवृत्त्यर्थम् | तथा पुरःस्थाने द्वाविंशाति स्यानानि यत्र श्रुतयः स्वराश्च | एवं कण्ठे मूर्ध्नि च | तावतां च स्पर्शे स्फुटं गानमेव स्यात् न पाठ्यमित्यवोचाम | अत एव गुणशब्दो न धर्मवचनः पाठ्यगुणानिति किं तु उपकरणवचनस्थानं च यदेवोपकरणं भवति | अपि च शारीर्यामथ वीणायामित्यादि केचिद् व्याचक्षते - इहार्थकाकुस्तावद्विधिनिषेधाद्यर्थावगमिका स्वरकाकुस्तृ चित्तवृत्तिसूचिका | एदद्व्यापारद्वयशून्यान्नेपथ्यपाठवैतालीयपाठादिविषया दूरस्थाभाषणादिविषया च शोभासंपादनदूरश्रवणादिप्रयोजना स्वरकाकुः सा तेन वक्ष्यत इति | एवं प्रष्टव्यस्तावत् - योऽयं स्वरकाकोर्विषय उक्तस्तत यद्यर्थरूपं किंचिदभिधेयं तत्रावश्यमर्थंकाकोर्वा पृथक्स्वरकाकुः | तथा हि नेपथ्यपाठेऽपि कञ्चुकी पठति वीरोऽयमङ्गदः पठति यौगन्धरायणः पठति इति एवंभूतवृत्तिचित्तवृत्त्यादिविशेषप्रतिपादकेनैव पाठेन भवितव्यम् | वैतालीयपाठेऽपि समुचितावसरावेदनप्रधानेऽवश्यमर्थ आदातव्य एव | उक्तं चैतत् - अर्थानपेक्षया किमभिनयनमन्यचिन्तया पुस्तकवाचकपाठो ह्यनुक्रियमाणोऽभिनयतामवलम्बते | अन्यथाभिनयरूपत्वाभावेतदुपकरणधर्म्यादितत्फलरसादिव्यतिरिक्तत्वे स्वरातोद्यगानादिवैलक्षण्ये च चिन्तयैव किं प्रयोजनमिति | न स्यात्काकुसामान्यलक्षणमेतेन किं घटत इत्यन्ये | एवमपि भवतीत्यसमर्थितं स्यात् तद्धि पूर्वप्रक्रान्तवस्तुसमर्थनेन प्रयुज्यत इति मुनेः शैली | तस्मात्पूर्वोक्तस्थानत्रयसमर्थनार्थोऽयं श्लोकः | तदयमर्थः - शारीर्यां वीणायां केवलमुरःशिरःकण्ठलक्षणेभ्यः त्रिभ्य एव स्थानेभ्यो न तु षट्षष्टिस्वरपरिव्यक्तरञ्जनात्मकगानोपयोगिव्यापारः काकुभूतः सूचकरूपः संप्रवर्तते | अथशब्दोऽवधारणे | बाह्यायां हि र्पतिबिम्बितायां वीणायां रञ्जनात्मकखरस्वरूपव्यतिरेकेण न काकुसंपत्तिः | वीणाग्रहणं शरीरगतविवृतमध्या- प्. ३८९) अभाषणं च दूरस्थे शिरसा संप्रयोजयेत् | नातिदूरे च कण्ठेन ह्युरसा चैव पार्श्वतः || १०७ || उरसोदाहृतं वाक्यं शिरसा दीपयेद्बुधः | कण्ठेन शमनं कुर्यात्पाठ्ययोगेषु सर्वदा || १०८ || काशदेशपरिग्रहार्थं न शरीरमात्रे स्वरनिष्पत्तिः अपि तु तत्रैव | येयं बाह्यवीणादण्डस्थानीया उत्तरोत्तरस्थानपरम्पराविशिष्टा सा स्थानसोपानपङ्क्तिः स्वरनिष्पत्तिस्थानम् अत एव काकुस्वरमपि लक्षितम् - कक लौल्ये लौल्यं च साकांक्षते यथा स्वरवैचित्र्यं लक्ष्यते ईषद्यतो वाच्यभूमिः संपद्यते सा काकुः ईषदर्थे कुशब्दस्य कादेशः | काकुर्वा जिह्वा तद्व्यापारसंपाद्यत्वा काकुः | एवं स्थानस्वरूपं विभज्य तस्य विषयभेदमादर्शयितुमाह आभाषणं च दूरस्थ इत्यादि | शिरसेति शिरोनिष्पन्नेन तारेण नादेनेत्यर्थः | नातिदूरे कण्ठेनेति मध्येन उरसा समीपे मन्द्रेणेति यावत् | एवं स्थानत्रयस्य पृथगुपयोगमभिधाय युगपद्दर्शयति उरसोदाहृतं वाक्यमित्यादिना | मन्द्रस्वरेण वा पाठमारभ्य क्रमेण तारं गत्वा मध्येन परिसमाप्नुयादिति श्लोकार्थः | यदा हि न दीप्तेन क्रोधादिना नापि मन्द्ररूपेण शोकादिनाविष्टहृदयो भवति तदा क्रमेण वक्तव्यवस्तुविषयोत्साहविस्फारणात् तारान्तं गच्छन्नुपसंहारे मध्य एव विश्राम्यतीत्यनवशिष्टस्यायं सामान्येन पाठधर्मः | अत एव शान्ते व्यभिचारिवलावेशशून्यतायामयमेव पाठधर्मः | वैतालीयपाठे चायमपि सामान्यधर्मोऽस्तु | न तद्विषये स्वरकाकुः | कस्तर्हि तस्या विषयः उच्यते - कदाचिदर्थस्य धर्मपुञ्जवाच्यस्य धर्मान्तराधानं काकुरुच्यते कदाचित्स्वरजनकचित्तवृत्त्यर्पणं करोति | यत्र रसस्वर- प्. ३९०) उदात्तश्चानुदात्तश्च स्वरितः कम्पितस्तथा | वर्णाश्चत्वार एव स्युः पाठ्ययोगे तपोधनाः || १०९ || तत्र हास्यशृङ्गारयोः स्वरितोदत्तैर्वर्णैः पाठ्यमुपपाद्यं वीररौद्राद्भुतेषूदात्तकम्पितैः करुणबीभत्स भयानकेष्व- काकुव्यवहारः कदाचिद्वा नादात्मनि स्वात्मसूत्रे सुगुम्भितस्य स्वग्रन्थ्यात्मनो वर्णराशेर्दूरश्रवणं किंचिच्छ्रवणमश्रवणं वेत्यस्मिन्नर्थे व्याप्रियते | तत्रापि स्वरकाकुरुच्यते | यत्रोक्तमाभाषणं दूरस्थमित्यादि तदेवं व्यतिरिक्ते स्वसेवा व्यापाराद् व्यतिरिक्तजडचिद्भेदेन भेदात् तदर्थरसस्वरभेदात् त्रिधैव काकुः | एवं स्थानभेदमुक्त्वा क्रमप्राप्तं वर्णस्वरूपमाह उदात्तश्चेति | उच्चता नीचता मध्यमता उच्चनीचोभयडोलावलम्बनमिति चत्वारः स्वरधर्माः | वर्णा गुणा यदि वा पाठक्रियाविस्तारका विवृण्वते प्रकटयन्ति स्वार्थविशेषमिति वा | पाठ्ययोगे काव्ये स्वरस्य रक्तिभागमपहाय वर्णा एव वक्तव्याः | रक्तिभागाभिन्वेशे तु गानयोगो न पाठ्ययोगः स्यादित्यवादिषुः | तत्रान्वयव्यतिरेकाभ्यां रक्तिभागेऽनुदात्तादिवर्णभागः कादिवर्णभागः | तस्य स्फुटतास्फुटत्वमित्याह यो धर्मस्तन्त्र्यामनुरणनप्रधानायामरक्तकण्ठे गातरि यथाकथंचिद्वक्तुं प्रवृत्ते हुडुक्कामुरजादौ च पृथग्लक्ष्यत एव | एवं प्रधानतया धर्मान्तराणि मग्नत्वेन तत्रापि सन्त्येव | अत एवाह तपोधनाः सूक्ष्मवेदिनो यूयमत्राधिकृता विचार इत्याशयः | एषां वर्णानां विषयमाह - हास्यशृङ्गारयोरित्यादि | मध्यमपञ्चमावित्यादौ प्रकरणे यथासंख्यं न विवक्षितमित्येवं हास्ये मध्यमायाः पञ्चम्या वा जातेः स्थायिस्वरत्वं गृहीत्वा तत्रैवोच्चमध्यमस्थानस्पर्शेन पठेत् | एवं शृङ्गारवीरादिषु त्रिषु षाड्ज्या आर्षभ्या वा स्वांशं गृहीत्वा तत्रैवोदात्तकम्पितैः पाठः करुणे निषादवत्या गान्धार्या वा स्थायिनमालम्ब्यानुदात्तेन पाठः वीभत्से धैवत्यंशस्वराश्रयेण स्वरितकृतः (पाठः) | भयानके तत्स्वरावलम्बनेनैव (धैवतांश) कम्पितप्रधानः (पाठः) - इत्येवं भविष्यत् (अ-२९) जातिविनियोगानुसारिस्वरानुवादेन वर्णेषूदात्ता- प्. ३९१) नुदात्तस्वरितकम्पितैरिति | द्विविधा काकुः साकांक्षा निराकांक्षा चेति वाक्यस्य साकांक्षनिराकांक्षत्वात् | अनियुक्तार्थकं वाक्यं साकांक्षमिति संज्ञितम् | नियुक्तार्थं तु यद्वाक्यं निराकांक्षं तदुच्यते || १११ || तत्र साकांक्षं नाम तारादिमन्द्रान्तमनियुक्तार्थमनिर्यातितवर्णालङ्कारं कण्ठोरःस्थानगतम् | निराकांक्षं दिषु तात्पर्यं न तु स्वरेषु | तेषां तु पृथगुद्देशप्रयोजनं षष्ठे दर्शितमन्तरालापपरिग्रहमिति | एवं काकोः स्वरूपोत्पत्तिं प्रतिपाद्य तस्या अर्थविषये व्यापारं दर्शयन्नुद्देशक्रममप्यनुसर्तुमाह - द्विविधा काकुरिति | वाक्यस्येति साकांक्षं यत्र वाक्यं तत्र काकुः तथा वक्तृगता वाकांक्षा वाक्य उपचर्यते | सा च प्रकरणादिबलान्निश्चीयते | विशिष्टविषयत्वं चाकांक्षायास्तत एवावगम्यते | तदाह - अनियुक्तार्थकं वाक्यमिति | यादृशो वाक्यात्सङ्केतबलेनार्थः प्रतीयते तादृश एव यत्र न्यूनाधिकः प्रमाणबलेन निर्णययोग्यस्तद्वाक्यं निराकांक्षं तद्विपरीतं साकाङ्क्षम् | एवं वाक्यस्य स्वरूपं प्रतिपाद्य तन्निष्ठां काकुमभिधातुमाह तत्र साकाङ्क्षमित्यादि | अनियुक्तार्थं यत्साकांक्षमुक्तं तन्मन्द्रोपक्रमं तारसमाप्तिकं पठनीयमिति | सर्वाणि क्रियाविशेषणानि कियन्ति तत्र तारतेत्याह कण्ठोरःस्थान(गत) मिति | तथा वर्णा उदात्तादयोऽलङ्काराश्चोच्चनीचदीप्तादयोऽपरिसमाप्ता अर्धस्पृष्टतयैव त्यक्ता यत्रेति क्रियाविशेषणम् | एवंभूतो यः क्रियाविशेषणत्वेन वाक्ये पठ्यमाने ध्वनिधर्मविशेषः सा काकुः | यदि वा सामानाधिकरण्येनैव व्याख्येयम् | धर्मो हि न स्वतन्त्रो भात्यपि तु धर्मिनिष्ठ एवेति | तत्राकांक्षार्थान्त एवातदर्थगत एव वा विशेषे तदर्थाभावे वा | तथा च - प्. ३९२) नाम नियुक्तार्थं निर्यातितवर्णालङ्कारं शिरःस्थानगतं मन्द्रादितारान्तमिति | अथ षडलङ्कारा नाम - उच्चो दीप्तश्च मन्द्रश्च नीचो द्रुतविलम्बितौ | पाठ्यस्यैते ह्यलङ्कारा लक्षणं च निबोधत || ११३ || उच्चो नाम शिरःस्थानगतस्तारस्वरः स च दूरस्थाभाषणविस्मयोत्तरोत्तरसंजल्पदूराह्वानत्रासनाबाधाद् येषु | दीप्तो नाम शिरःस्थानगतस्तारतरः स चाक्षेप- यद्रामेण कृतं तदेव कुरुते द्रोणात्मजः क्रोधनः || इति अत्र काकुः कृत इत्युदात्तकम्पितवर्णस्योच्चदीप्तालङ्कारस्य चासमाप्त्या अतोऽप्यधिकं कुरुत इति काकुप्रभावादर्थान्तरे गतिः | स एष दशकन्धर मिति श्लोके तदात्मज इहाङ्गद इत्यत्र साकांक्षा काकुः स्वगतान् वालिपुत्रोचितान्विशेषानर्पयति | स्वस्था भवन्ति मयि जीवति | इत्यत्र साकांक्षा काकुर्भावनाभावमाह वचनोच्चारणं त्वर्थे संभावनां विदधतावश्यनिषेधात्मनो विषयमर्पयति | तदियमर्थाभिप्रायसमर्पकाभिनयरूपार्थकाकुः साकांक्षा | एतद्विपरीता निराकांक्षा तस्याः शिरःस्थान एव मन्द्रः तारताप्रतिस्थानं ह्युत्तरोत्तरतारत्वमधराधरमन्द्रत्वं च वक्ष्यामः | अलं पर्याप्तं काकोः स्वरूपं येन संपाद्यते सोऽलङ्कारः | तत्स्वरूपं च स्थानत्रयस्य प्रत्येकमूर्ध्वाधोमध्य- प्. ३९३) कलहविवादामर्षक्रुष्टाधर्षणक्रोधशौर्यदर्पतीक्ष्णरूक्षाभि धाननिर्भर्त्सनाक्रन्दितादिषु | मन्द्रो नाम उरःस्थानगतो निर्वेदग्लानि चिन्तौत्सुक्यदैन्यव्याधि क्रीडागाढशस्त्रक्षतमूर्छामदगुह्यार्थवचनादिषु | नीचो नाम उरःस्थानस्थो मन्द्रतरः स च स्वभावाभाषण व्याधिशमश्रमार्तत्रस्तपतितमूर्छितादिषु | द्रुतो नाम कण्ठगतः स च त्वरितः लल्लनमन्मनभयशीतज्वर त्रासायस्तात्ययिककार्यावेदनादिषु | विलम्बितो नाम कण्ठस्थानगत- कल्पनया उदात्तानुदात्तस्वरितकम्पितनिर्वाहात् | तत्र मध्यो भामस्तावदनोवेशे सर्वत्र स्थित एव | इत्यावेशेनोर्ध्वमधरं वा स्थानत्रयस्य प्रत्येकमवलम्ब्यत इति षडलङ्कारा भवन्ति | तत्र शिरस्यधोभागे तार उच्यते दुरस्थाभाषणादौ स विषयोऽत्र स्वरकाकोरित्युक्तम् | विस्मयावगतौ तु सैव रसकाकुः परस्य त्रासनाभिप्रायेण तु सैव विभावकाकुः | स्वरकाकोरेव श्रुतिकाकुश्चेति भेदेन शिरस्येव ऊर्ध्वस्तारतम आक्षेपादौ तारशब्दः प्रकर्षोपल्क्षणम् | अत्र ह्याक्षेपादौ यथावस्थं श्रुतिविभावरसकाकुभेदत्रयं विभजनीयम् | उरस्यूर्ध्वभागे स मन्द्रः उरस्येव नीचभागे मन्द्रतमो नीचः | दैन्ये काकुर्द्विरूपतामेति - स्वचित्तवृत्त्यर्पणाद्रसकाकुः परस्य रूपोत्पादनाद्विभावकाकुः | उभय- प्. ३९४) स्तनुमन्द्रः स च शृङ्गारकरुणवितर्कितविचारामर्षासूयिताव्यक्तार्थप्रवादलज्जाचिन् तातर्जन विस्मयदोषानुकीर्तनदीर्घरोग निपीडनादिषु | अत्रानुवंश्या श्लोका भवन्ति || ११४ || उत्तरोत्तरसंजल्पपरुषाक्षेपणेषु च | तीक्ष्णरूक्षाभिनयने आवेगे क्रन्दिते तथा || ११५ || परोक्षस्य समाह्वाने तर्जने त्रासने तथा | दूरस्थाभाषणे चैव तथा निर्भर्त्सनेषु च || ११६ || भावेष्वेतेषु नित्यं हि नानारससमाश्रया | उच्चा दीप्ता द्रुत चैव काकुः कार्या प्रयोक्तृभिः || व्याधिते च ज्वरार्ते च भयार्ते शीतविप्लुते | नियमस्थे वितर्के च गाढशस्त्रक्षतेषु च || ११८ || स्यापि तत्र प्राधान्येनादरणात् अन्यत्र तूभयस्यानादरणात्प्रधानांशेनैव व्यपदेशः | स्वभावाभाषणं यत्र कश्चिदावृत्तकण्ठस्वर एव वक्ता भवति त्रासने पतितः त्रस्तपतितः त्रासावसरे तु दीप्तैव काकुर्भवति | कण्ठगत इति कण्ठस्थाने ऊर्ध्वभागे निष्पन्नः तेन स्थानभेद एवालङ्कारत्वे प्रयोजकः | अत एव त्वरित इत्यनेन पुनर्लयविधानम् | लल्लं सविलासं लडं विलासं लातीति क्विवन्ते कर्मल्युपपद लडयरैक्यमिति | मन्म * * * * * * *? मेव मत्तोमन्ता यत्रति अनेना- प्. ३९५) गुह्यार्थवचने चैव चिन्तायां तपसि स्थिते | मन्द्रा नीचा च कर्तव्या काकुर्नाट्यप्रयोक्तृभिः || लल्ले च मन्मने चैव भयार्ते शीतविप्लुते | मन्द्रा द्रुताच कर्तव्या काकुर्नाट्यप्रयोक्तृभिः || १२० || दृष्टनष्टानुसरणे इष्टानिष्टश्रुते तथा | इष्टार्थख्यापने चैव चिन्ताध्याने तथैव च || १२१ || उन्मादेऽसूयिते चैव उपालम्भे तथैव हि | अव्यक्तार्थप्रवादे च कथायोगे तथैव च || १२२ || उत्तरोत्तरसंजल्पे कार्येऽतिशयसंयुते | विकृते व्याधिते क्रोधे दुःखे शोके तथैव च || १२३ || विस्मयामर्षयोश्चैव प्रहर्षे परिदेविते | विलम्बिता च दीप्ता च काकुर्मन्द्रा च वै भवेत् || श्रूयमाणमनुनासिकोपलक्षितमित्यपरे | लल्लमन्मनौ नायिकागतौ बालविनोदनसान्त्वनादौ मुञ्चेत्येवं प्रायपराभियोगानङ्गीकरणादौ च इत्युपाध्यायाः | मन्द्रापि काकुश्चात्र भवतीति संग्रहश्लोके वक्ष्यते | आत्ययिकं शीघ्रसंपाद्यं यत्कार्यम् | आयस्तमावेगः | कण्ठस्थाने तु नीचभागे निष्पन्नो विलम्बितः | लल्लत्वमविवक्षितमेव | अव्यक्तार्थः प्रवादः - अन्तरङ्गत इति लोके प्रसिद्धो यत्र | परे बुध्यतां च न बुध्यतां चेति वक्तुरभिप्रायो भवति यन्न स्वगतं न परगतमत्रेति | अलङ्कारेषूच्चा दीप्ता द्रुता चेति यथायोगं स्थानत्रयमत्र स्वीकृतमित्यर्थः | प्. ३९६) लघ्वक्षरप्रायकृते गुर्वक्षरकृते तथा | उच्चा दीप्ता च कर्तव्या काकुस्तत्र प्रयोक्तृभिः || १२५ || यानि सौम्यार्थयुक्तानि सुखभावकृतानि च | मन्द्रा विलम्बिता चैव तत्र काकुर्विधीयते || १२६ || यानि स्युस्तीक्ष्णरूक्षाणि दीप्ता चोच्चा च तेष्वपि | एवं नानाश्रयोपेतं पाठ्यं योज्यं प्रयोक्तृभिः || १२७ || हास्यशृङ्गारकरुणेष्विष्टा काकुर्विलम्बिता | वीररौद्राद्भुतेषूच्चा दीप्ता वापि प्रशस्यते || १२८ || भयानके सबीभत्से द्रुता निचा च कीर्तिता | एवं भावरसोपेता काकुः कार्या प्रयोक्तृभिः || १२९ || अथाङ्गानि षट् - विच्छेदोऽर्पणं विसर्गोऽनुबन्धो दीपनं प्रसमनमिति | तत्र विच्छेदो नाम विरामकृतः | अथ सर्वसंग्रहार्थमाह यानि सौम्यार्थयुक्तानीति | सोम इव ह्लादकः सौम्यः शाखादित्वाद्यः | सुखस्य हेतवः कार्यश्चेति सुखभावकृतशब्देन समासभेदात्संगृहीतम् | नानाश्रयोपेतमिति नानास्थाननिविष्टं कृत्वेत्यर्थः स्थानभेदः काकुनां पर्याप्तताकारीत्युक्तम् | अतः काकोरेव प्राधान्यात्तामेवोपसंहरति अथाङ्गानीत्यादिना | प्रस्तावान्तरं दर्शयति तत्र वर्णोच्चारणे वर्णध्वनिशून्यो यः कालस्तदाश्रयोऽङ्गव्यवहार इति वृद्धाः स हि षोढा कालः ततश्च भूयान् पुनरादिमध्यौ भूयान् पुनरित्ययं हि विच्छेदः | आदौ मध्यः स्वल्पो मध्यान्ते चार्षणं प्. ३९७) अर्पणं नाम लीलायमानमधुरवल्गुना स्वरेण पूरयतेव रङ्ग यत्पठ्यते तदर्पणम् | विसर्गो नाम वाक्यन्यासः | अनुबन्धो नाम पदान्तरेष्वपि विच्छेदः अनुच्छ्वसनं वा | दीपनं नाम त्रिस्थानशोभि वर्धमानस्वरं चेति | प्रशमनं नाम तारगतानां स्वराणां प्रशाम्यतामवैस्वर्येणावताअणमिति | एषां च रसगतः वाक्ये पूर्व भूयान्मध्ये द्रुतश्च विपरीतको यः स विसर्गः | बहुषु द्रुतोऽथ मध्यो मनाग्द्रुतोऽन्तेऽनुबन्धः स्यात् | त्रिस्थाने द्रुतमध्यविलम्बितयुग् दीपनं सदारोहि विपरीतं प्रशमनं स्यात् लयत्रयं चैकरूपनिर्वाहादिति संग्रहकारः | एतन्मतेनैव लक्षणानि व्याचक्षते | एतच्चासत् | द्रुतमध्यादिलयैरेवास्यार्थस्य न तत्त्वान्न च लयव्यवहारसाम्ये कालस्येति नियमकारणमस्ति | किं च लयवैषम्यस्य वाक्यचैतन्यापेक्षया न भागत्रयकल्पनयैव भेदा उक्ताः भुजङ्गविजृम्भितादिवाक्येऽनन्तभागसंभावनात् | भागत्रये च द्रुतमध्यविलम्बितानां द्विभेदत्रिभेदत्वानन्त्ये षट्संख्यानियमविप्लवः | क्वाकार्यं इति हि श्लोकप्रथमखण्डेषु मध्यमलयो भूयोऽपि दृश्यते | सेत्यादिषु पाश्चात्यखण्डेषु तत्स्मरणजनितसुखविश्रान्तिदायिषु विलम्बित इति द्विलयभेदः प्रयोगः | भागत्रयकलनायामपि साम्येन वैषम्येण चानन्तप्रकारता भवतीति कथं स्यात् | कस्मादेतत्सर्वं लयाभिधानेनैव न संगृहीतम् | तस्मात्सूत्रस्थानीयपदरत्नानां पाठकाले त्वादावुक्ततद्धर्मषट्कमङ्गषट्कमुच्यते | तथा च मध्ये त्रुटितत्वमत्रुटितत्वं वा तावतो विच्छेदानुबन्धौ पीवरत्वमपीवरत्वं वा इमावर्पणविसर्गौ आरोहणमवरोहणं वा ते दीपनप्रशमने | एवं भावाभावतः उपचयापचयतः आरोहावरोहतश्च षड्भेदो नादः | वाक्य- प्. ३९८) प्रयोगः - तत्र हास्यशृङ्गारयोराकांक्षायामर्पणविच्छेददीपनप्रशमनयुक्त ं पाठ्यं कार्यम् | दीपनप्रशमनयुक्तं करुणे | विच्छेदप्रशमनदीपनानुबन्धबहुलं वीररौद्राद्भुतेषु विसर्गविच्छेदयुक्तं बीभत्सभयानकयोरिति | सर्वेषामप्येषां मन्द्रमध्य तारकृतः प्रयोगस्त्रिस्थानगतः | तत्र दूरस्थाभाषणे तारं शिरसा नातिदूरे मध्यं कण्ठेन पार्श्वतो मन्द्रमुरसा प्रयोजयेत्पाठ्यमिति | मन्द्रात्तारं न गच्छेत् ताराद्वा मन्द्रमिति | स्य न्यासं त्यजनमनादरणं तनादस्येति यावत् | वैस्वर्य स्वरत्वेन विहितेषु अन्तरालश्रुतिविशेषेषु ध्वनि (वि)संवादनाद्भवतीति सर्वत्राभ्यूह्यम् | हास्यादयः शब्दास्तद्व्यभिचारिणोऽपि स्वीकुर्वते | ततश्च तद्व्यभिचारिणोऽन्यरसान् रसान्तरेऽपि तदा व्यभिचार्याश्रये वा काकुरिति मन्तव्यम् | सर्वेषामित्यादिनाङ्गानां मूलभूतं स्थानभेदं स्मारयति | तत्र दूरस्थ इत्यादिना विनियोगवाक्यानां लक्ष्ये एकवाक्यतां सूचयति | तथा हि शृङ्गारे यदुदात्तस्वरितमुक्तमर्पणविच्छेदाद्यङ्गजातं विलम्बितं चालङ्कारः तद्दूरस्थाभाषणे कर्तव्ये शिरःस्थाने . स.जपञ्चमयोरन्यतरस्थायिस्वराश्रयेणांशस्वरविभागचतुश्चतुष्कसम् मिश्रं कर्तव्यमित्येवं तात्पर्येणेदं व्याख्येयम् | अन्यथाभाषणं दूरस्थे शिरसेत्यादिना पौनरुक्त्यं स्यात् | अथ दीपनप्रशमनयोर्वक्तव्यशेषमाह मन्द्रात्तारं न गच्छेदित्यादि | मन्द्रतरात्तारं तारतमान्मन्द्रं चेत्यर्थः | उद्देशग्रन्थ एव केचिल्लया विरामाश्चेत्यभिधीयन्ते | प्. ३९९) एषां च द्रुतमध्यविलम्बितास्त्रयो लया रसेषूपपाद्याः | तत्र हास्यशृङ्गारयोर्मध्यलयः करुणे विलम्बितो वीररौद्राद्भुतबीभत्सभयानकेषु द्रुत इति || १३१ || अथ विरामः अर्थसमाप्तौ कार्यवशान्न छन्दोवशात् | कस्मात् दृश्यन्ते ह्येकद्वित्रिचतुरक्षरा विरामाः | यथा - किं गच्छ मा विश सुदुर्जन वारितोऽसि कार्यं त्वया न मम सर्वजनोपभुक्तम् | सूचासु चाङ्कुरगते च तथोपचारे- ष्वल्पाक्षराणि हि पदानि भवन्ति काव्ये || १३२ || अन्ये त्वाहुः - कालस्य सर्वस्यापरिभाव्यत्वान्नोद्देशेन प्रयोजनं मतिमन्तस्तु मन्यन्ते | विच्छेदेनैव च लयमेतत्स्वीकृतम् | विच्छेदो विरामः स च कियन्तं कालमिति लयोऽपि तेनैव स्वीकृतः | तेन विच्छेदस्य परीक्षेयं कथितेति | तत्रेति विच्छेदे अर्थसमाप्तिनिमित्तं विरामो वास्य कार्यः | अर्थोऽवान्तरवाक्यार्थः | न च्छन्दोवशादित्यनेन कविना प्रयोगपरतन्त्रेण तदा स तदवसरोचितविरामवति वृत्ते ग्रहणप्रयत्नः कार्यः | प्रयोक्त्रापि कविपरतन्त्रेण न भाव्यमित्यत्नापि तेनार्थवशाद्विरामः कार्य इत्याख्यातम् | संख्यात्र नियमोपलक्षणं एकद्वित्रीति | किमित्येतावत्यवान्तरवाक्यार्थे विच्छेदः किं गच्छेति | नन्वेवमेकवाक्यत्वाभावो दूषणामित्याशंक्य प्रत्युत भूषणमेतदित्युपपादयन्नाह - सूचासु चाङ्कुरगते च तथोपचारेष्वल्पाक्षराणि हि पदानि भवन्ति काव्ये इति | बहुप्रकारैः सूचाभिनयैः अङ्कुरप्रकारैश्च युक्तमित्थं काव्यं भवति प्. ४००) एवं विरामे प्रयत्नोऽनुष्ठेयः | कस्मात् विरामो ह्यर्थानुदर्शकः | अत्र श्लोकः - विरामेषु प्रयत्नो हि नित्यं कार्यः प्रयोक्तृभिः | कस्मादभिनयो ह्यस्मिन्नर्थापेक्षी यतः स्मृतः || यत्र व्यग्रावुभौ हस्तौ तत्र दृष्टिसमन्वितः | वाचिकाभिनयः कार्यो विरामैरर्थदर्शकैः || १३४ || यदि स्वल्पाक्षराणि पदान्यसमस्तानि भवन्ति | बह्वक्षरपदे दरिद्राश्च किं यस्ते (?) इत्यादौ न मध्ये सूचाङ्कुरयोरुपपत्तिः | तस्यास्तन्मुखमस्ति सौम्यसुभगं किं पार्वणेनेन्दुना इत्यादौ तु नस्या इत्युक्त्वा मध्ये सूचया तदित्यसाधारणविशेषस्मरणं स्वात्मनि तच्चावलोकने तथाकर्णने च प्रच्छन्नस्थिताया नायिकाया निवृत्त्यङ्कुरे वैचित्र्यं पुनः परिचुम्बनाभिलाषसूचायोगपूर्वकं मुखमिति पाठस्तत्कृतो नायिकाया रणरणकादरदर्शको निवृत्त्यङ्कुर इत्यादिवैचित्र्ये उत्प्रेक्षनीयम् | अङ्कुरस्त्वनिर्वचन एवेति निवृत्त्यङ्कुर एवात्र मन्तव्यः | यत्राङ्कुरो भविष्यति तद्विषयमेतदिति त्वसत् पुष्पापचयनाटने यदोचितपरिक्रमणादौ पूर्वभाविना स्वल्पाक्षरेण पदयोगेन वैचित्र्याभावात् | अथास्य विच्छेदस्याङ्गस्य प्राधान्यं दर्शयति - एवं विराम इत्यादि | अस्मिन्निति विरामे सत्यभिनयस्थितो यथाविषयं प्रयोक्तुं शक्यः | स च विरामाद्गम्यते | विरामे सत्यर्थं दर्शयति अभिनयेऽन्यथा असमञ्जसत्वं स्यादिति तात्पर्यम् | यदि वाभिनयो विरामे स्थित इत्यभिनयकार्यं विराम एवोद्व*?तीति तात्पर्यम् | तदाह तत्र व्यग्राविति | पूर्वं दृष्टिप्राधान्यतात्पर्येणेत्य- प्. ४०१) प्रायो वीरे च रौद्रे च करौ प्रहरणाकुलौ | बीभत्से कुत्सितत्वाच्च भवतः कुञ्चितौ करौ || १३५ || हास्ये चोद्देशमात्रेण करुणे च प्रलम्बितौ | अद्भुते विस्मयात्स्तब्धौ भयाच्चैव भयानके || १३६ || एवमादिषु चान्येषु प्रविचारेऽथ हस्तयोः | अलङ्कारविरामाभ्यां साध्यते ह्यर्थनिश्चयः || १३७ || ये विरामाः स्मृता वृत्ते तेष्वलङ्कार इष्यते | समाप्तेऽर्थे पदे वापि तथा प्राणवशेन वा || १३८ || पदवर्णसमासे च द्रुते बह्वर्थसंकटे | कार्यो विरामः पादान्ते तथा प्राणवशेन वा || १३९ || शेषमर्थवशेनैव विरामं संप्रयोजयेत् | पौनरुक्त्यम् | व्यापकत्वमस्या दर्शयति प्रायो वीरे च रौद्रे चेति | कुञ्चिताविति संकोचवन्तावित्यर्थः | भयाच्चेति श्लथावेव | उच्चदीप्तादिरलङ्कारः | स च वृत्तविरामेषु यथा योऽयं शस्त्र विभर्ति इत्यत्रोच्चदीप्तकाकुः पदान्तेन वीररौद्रयोरपि स्रग्धरादिवृत्ते अर्धादौ विरामो न कार्यः अपि तु पादान्ते पठितस्तावत् प्राणसंवेदाभावात् | प्राणवशेन वेत्यगतिकागतिरिति वृद्धाः | तच्चासत् | शिक्षावशेनाहरणीयो हि तत्राविच्छेदः | तस्मादयमर्थः - पदान्ते विच्छेदः कार्यो यदि वा प्राणवशेन प्राणा रसभावाद्याः तदौचित्येन छेदः | पादादावपि तावदनेनानुबन्धोऽपि विच्छेद उपयोगीति दर्शितम् | शेषमिति न यत्र चित्रवृत्तेः प्. ४०२) अत्र च भावगतानि रसगतानि च कृष्याक्षराणि बोद्धव्यानि तद्यथा - आकारैकारसंयुक्तमैकारौकारसंयुतम् | व्यञ्जनं यद्भवेद्दीर्घं कृष्यं तत्तु विधीयते || १४० || विषादे च वितर्के च प्रश्नेऽथामर्ष एव च | कलाकालप्रमाणेन पाठ्यं कार्यं प्रयोक्तृभिः || १४१ || शेषाणामर्थयोगेन विरामे विरमेदिह | एकद्वित्रिचतुःपञ्चषट्कलं च विलम्बितम् || १४२ || विलम्बिते विरामे हि सदा गुर्वक्षरं भवेत् | षण्णां कलानां परतो विलम्बो न विधीयते || १४३ || अथवा कारनोपेतं प्रयोगं कार्यमेव च | प्राधान्यं अपि तु विभावादेः ततार्थवशेनैव विरामः | कृष्याक्षराणीति कृषतीति कृषो विलम्बितो लयः तत्र साधूनि कृष्याणि सन्ध्यक्षराणि यथा आ ई ऊ इति दीर्घाः | कलालक्षणो यः कालः तत्प्रमाणेन विलम्बितेन पाठ्यं कार्यमिति विच्छेदस्यैव प्रमाणं दर्शितम् | शेषाणामिति ह्रस्वानाम् | अर्थयोगेनेति यथा स्फुटा प्रतीतिर्भवति तथा विच्छेदः कार्यो न त्वति विलम्बितं पठेदित्यर्थः | ननु कियत्कलाप्रमाणमित्याह विलम्बितमिति | गुर्वक्षरमिति कृष्यं | वा शब्दादधिकमनुजानाति कारणोपेतमिति कारणं दीर्घकालं स्मरणमिति प्. ४०३) समीक्ष्य वृत्ते कर्तव्यो विरामो रसभावतः || ये विरामाः स्मृताः पाठ्ये वृत्तपादसमुद्भवाः | उत्क्रम्यापि क्रमं तज्ज्ञैः कार्यास्तेऽर्थवशानुगाः || १४५ || नापशब्दं पठेत्तज्ज्ञो भिन्नवृत्तं तथैव हि | विश्रमेन्नाविरामेषु दैन्ये काकुं न दीपयेत् || १४६ || चिन्तनादिभिः व्याध्यपस्मारादिभिर्वा कारणैरुपेतं स्पष्टास्पष्टादिभिरित्यन्ये | वृत्तविरामादर्थविरामः प्रथममिति दर्शयितुमाह ये विरामा इति | तज्ज्ञैस्तद्विरामात्मकं वृत्तगतं वस्तु उत्क्रम्यापीति विशेषोपक्रमोऽपीति सामान्योपसंहारः | तादृशा विरामेण न पठेत् येनावगतो विवक्षितः शब्दो भवति वरदं ध्यायति इत्यत्र वर(द)शब्देन यदा विच्छेदः क्रियते तदा मध्य इति शब्दान्तरप्रतिभया ध्यायति शब्दोऽवगच्छतीति | भिन्नवृत्तं च कृत्वा न पठेत् यथा विच्छेदं न कुर्याद्येनान्यवृत्तभ्रान्तिर्भवति | तथा हि - भव शङ्करभाजनं ये जगतीह भवन्ति केचन इत्यत्र ये इति शब्दस्य पूर्वपादेन सह पाठे औपवेदवृत्तभेदो यद्यपि भवति तथापि द्वितीयपादे वृत्तभङ्गः | तेन वृत्तं न पठेदिति विच्छेदस्यैव प्राधान्यज्ञापनार्थमेतद्युक्तमिति | शब्दच्युतभिन्नवृत्तदोषाभिधाने न पौनरुक्त्यम् | इह वस्तुतस्तदभावेऽपि विच्छेदवशेन तत्प्रतिभोदयात् | एतदेव तात्पर्येण - विश्रमेन्नाविरामेष्विति | एवं विच्छेदस्य भूयोविषयव्यापकत्वमभिधाय तन्न्यूनां दीप्तां दर्शयितुमाह दैन्ये काकुं न दीपयेदिति शोकादिकमग्नचित्तवृत्तिं विमुच्यान्यत्र दीपनं सर्वत्र शोभावहमिति भावः | एवं स्वराः क्रमो मर्यादा स्थानत्रयमाश्रयः उदात्तादयः स्वरूपं अलङ्काराः स्वरूपपरिपूरकाः इतिकर्तव्यतारूपाण्यङ्गानि | स्वरभेदाच्च काको- प्. ४०४) वर्जितं काव्यदोषैस्तु लक्षणाढ्यं गुणान्वितम् | स्वरालङ्कारसंयुक्तं पठेत्पाठ्यं यथाविधि || १४७ || अलङ्कारा विरमाश्च ये पाठ्ये संस्कृते स्मृताः | त एव सर्वे कर्तव्याः स्त्रीणां पाठ्ये त्वसंस्कृते || एवमेतत्स्वरकृतं कला काललयान्वितम् | दशरूपविधाने तु पाठ्यं योज्यं प्रयोक्तृभिः || उक्तं काकुविधानं तु यथावदनुपूर्वशः | अत ऊर्ध्वं प्रवक्ष्यामि दशरूपविकल्पनम् || १५० || र्विशेषः स्वरभेदो हितस्यामेव काकौ विवक्षिताया राभावादि धर्मान्तरोदयो न हि स्वराणां स्थानभेदोऽलङ्कारोऽङ्गादिकृतः | वर्जितं काव्यदोषैरित्यादिना प्राक्तनाध्यायार्थेन सह सङ्गतिमस्याध्यायस्य दर्शयति | एवं संस्कृते काकुविधानं प्राकृताध्यायप्रमेयभूते प्राकृतेऽप्यतिदिशति अलङ्कारा विरामाश्चेत्यादिना | अध्यायार्थमुपसंहरन् भाविनोऽध्यायस्यार्थमासूत्रयति दशरूपेति दशरूपविधाने यत्पाठ्यं तदनेन त्रिप्रकारेण योज्यमित्युपसंहारः | तुशब्दो व्युत्क्रमं सूचयति | प्रसङ्गादक्रमप्राप्तमपि काकुविधानमुक्तम् | अनुपूर्वश इत्यादि यत्तु क्रमपन्नं तदृशरूपं विकल्प्यमानं वक्ष्यामीति शिवम् || इति काकुविकल्पलक्षणेऽस्मि- न्नध्याये मुनिदिक्समर्थितेऽर्थम् | प्रकटीकुरुते स्म चन्द्रमौले- रभिनवगुप्तसमाख्य एकदेशम् || प्. ४०५) इति भारतीये नाट्यशास्त्रे वागभिनये काकुस्वरव्यञ्जनो नाम सप्तदशोऽध्यायः | इति श्रीमन्महामाहेश्वराभिनवगुप्ताचार्यविरचितायां नाट्यवेदविवृतावभिनवभारत्या काकुविधानं नाम सप्तदशोऽध्यायः || श्रीः नाट्यशास्त्रम् अष्टादशोऽध्यायः वर्तयिष्याम्यहं विप्रा दशरूपविकल्पनम् | नामतः कर्मतश्चैव तथा चैव प्रयोगतः || १ || रूपं यदेतद्बहुधा चकास्ति तद्येन भावी भविता न जातु | तच्चक्षुरकात्मकमीश्वरस्य वन्दे वपुस्तैजससारधाम्नः || दशरूपोपकारिकाकादियोजनमिति तत्स्वरूपं वक्तव्यमिति सङ्गतिरुक्तैव तद्वर्तयिष्यामीति किमनेनोच्यते तदस्य प्रयोजन प्रदर्श्यते | कश्चिद्वमाशङ्कते रसा भावा (अ-६.१०) इत्यादि सृवसारसङ्ग्रहे दशरूपशब्दस्य नामापि न श्रुत तत्कथमुक्तं दशरूपविधाने पाठ्यमिति तं प्रत्याह वर्तयिष्यामीति | रूप्यते प्रत्यक्षीक्रियते योऽर्थः तद्वाचकत्वात्काव्यानि रूपाणि दशानां रूपाणां विभागः कल्प्यते अस्मादिति दशरूपविकल्पनं सूत्रं तेनायं षष्ठीसमासः दशरूपमिति | तेन बहुव्रीहौ दशरूपं काव्यमिति भेदान्तरापाकरणं स्यादित्याशंक्य द्विगुः पात्रादिप्रक्षेपश्च यो व्याख्यातस्तत्प्रयासमात्रमेव | तदयमर्थः - यतः सूत्रादाङ्गिको वाचिकशब्दे प्रकृतिप्रत्ययार्थविभागः कल्प्यते तत्र वाग्भाग एवायं वितत्य वर्ण्यते तेन तदेव सूत्रं वर्णितम् विवरणेन प्रपञ्चितं भवतीति नानिर्दिष्टं निरूप्यते किञ्चिदिति | नामत इत्युद्देशेन कर्मत इति लक्ष- प्. ४०७) नाटकं सप्रकणमङ्को व्यायोग एव च | भाणः समवकारश्च वीथी प्रहसनं डिमः || २ || ईहामृगश्च विज्ञेयो दशमो नाट्यलक्षणे | एतेषां लक्षणमहं व्याख्यास्याम्यनुपूर्वशः || ३ || सर्वेषामेव काव्यानां मातृका वृत्तयः स्मृताः | णेन क्रियते तेन विजातीयाद्व्यावृत्तिः कर्मलक्षणं प्रकृष्टः उचितो योगः परस्परसंबन्धो यथा प्रकरणनाटकलक्षणयोगात् नाटिकेतिवृत्तिविभागस्तु लक्षण एवानुप्रविष्ट इति | नासौ प्रयोगः तथा चेति तेनैव प्रयोगप्रकारेणान्योऽपि परस्परसंबन्धवैचित्र्यकृतो भेदः उत्प्रेक्ष्य इत्यर्थः | प्रयोगाय प्रयोगत इति व्याख्याने प्रयोगत इति विफलमेव | उक्तव्याख्याने तु कोहलादिलक्षिततोटकसट्टकरासकादिसङ्ग्रहः फलं नाटिकायाः उदाहरणत्वादिति | तत्रोद्देशं तावदाह नाटकमित्यादि | सप्रकरणमिति सहशब्देनाङ्कप्रवेशकसन्ध्यादिसाम्यं नाटकेन प्रकरणस्याह | नाम्नामर्थो लक्षण एव व्याख्यास्यते | सत्यपि च पुराणादावुपदेशदायिनि कर्मफलसंबन्धप्रदर्शके तत्रोच्चावचमनियतकविकन्थाप्रायमिह तु किञ्चित्प्रयोज्यं किञ्चित् सूच्यं किञ्चिदूह्यं किञ्चिदुपेक्ष्यमित्येवं वैचित्र्ययोगः | सन्ध्यादिव्यवस्थेति दशरूपं सप्रोजनमिति - एतत्तु फल्गुप्रायं फलं तत्पूर्वमेवोक्तम् | प्रत्यक्षभावनोदितरसावेशजनितनिर्वृतिसारत्वादस्येतिहासादेर्विशेष इत्यूह्यम् | सूच्यादिविभागस्त्वितिहासादावप्यस्त्येवेति न च पाठफलं दशरूपकमपि तु प्रयोगपर्यन्तमेतदित्युक्तप्रायम् | तत्र महासामान्यरूपं काव्यलक्षणेऽध्याये कृतमित्यवान्तरसामान्यलक्षणमुद्देशानन्तरं वक्तव्यमिति दर्शयति | प्राक् च सामान्यलक्षणं ततो विशेषलक्षणानि उद्देशक्रमेणेति चानुपूर्व्यार्थः || तत्र सामान्यलक्षणमाह सर्वेषामेव काव्यानां मातृका इति | तत्र केचिदाहुः - वृत्तिप्रभवत्वं दशरूपकस्य सामान्यलक्षणं वृत्तीनां तदङ्गानां चाभिनयो न काव्येष्वसंभवात् | एतच्चासत् | आस्तां काव्यार्थः | सर्वो हि संसारो वृत्तिचतुष्केण व्याप्त इत्युक्तं प्रथम एवाध्यायेऽस्माभिः | प्. ४०८) आभ्यो विनिस्सृतं ह्येतद्दशरूपं प्रयोगतः || ४ || यदि चाभिनेयविषय एव वृत्तिव्यवहारस्तदा वृत्त्यध्याये यद्वृत्तीनां समुत्थाननिरूपणं यां यां वृत्तिषु संश्रिता (२०-१५) मित्यादितत्सर्वमसङ्गतं भगवतो हि नाभिनेतृता किन्तु स्वचेष्टावेशमात्रम् | सर्वशब्दे च प्रकृतनाटकादिविषये वर्ण्यमाने प्रथमश्लोकार्धं पुनरुक्तार्थमेव | यत्तु स्वनामधेयैर्भरतैः (२०-१५) इति बहुगीतनृत्तवाद्ये ति (२०-४७) वागङ्गाभिनयवतीति (२०-३९) च भरतव्यवहारो गीताभिनयाभियोगश्च नानाभिनेय इति तदप्यकिञ्चित्करम् | तावद्धि वृत्तीनां लक्षणं या वाक्प्रधाना (अ-२०) इत्येतावदेव भारत्या लक्षणम् | अन्यत्त प्रयोगप्रदर्शनमिति तत्रैव व्याख्यास्यामः | वृत्त्यङ्गान्यपि सर्वकाव्येषु सन्त्येव | नन्वेवं वृत्तिजत्वं कथं दशरूपकलक्षणम् उच्यते प्रयोगत इत्येतदर्थकमेव | तदयमर्थः - यद्यपि सर्वेषामभिनेयानभिनेयानां च काव्यानां वृत्तय इष्टा मातर इव ताभ्योऽपि वाच्यरूपत्वेन कविहृदये व्यवस्थिताभ्यः काव्यमुत्पद्यते | तथापि प्रयोगं प्रयुज्यमानत्वात्प्रयोगयोग्यत्वमभिसन्धाय वृत्तिभ्यो विनिस्सृतमभिनेयकाव्यं प्रत्यक्षभावनायोग्यवृत्तिचतुष्टयाभिधायकस्त्वं दशरूपसामान्यलक्षणमित्यर्थः | दशानां नाटकादीनां रूपमिति षष्ठीसमासः | अन्ये त्वाहुः | एकैकस्य रूपकस्य दश दश रूपाणि संभवन्ति | तथा च वीथ्यङ्गानां सर्वत्र संभवः | परगतवचनानुरूपभाषणरूपभाणयोगश्च किं ब्रवीषीत्याकाशभाषिते | एवमन्यदपि | तेन दश रूपाणि यस्य तादृशरूपं काव्यमित्यर्थः | अत एव न सकलः प्रबन्धो नाटकम् अपितु प्रबन्धस्य किञ्चिद्रूपं तल्लक्षणांशबाहुल्यात्तु तद्व्यपदेशयोगः | अत एव न दशसंख्याविभागार्थो येन सट्टकादीनां त्यागः स्यात् | तत्रापि हि दशरूपलक्षणयोगोऽस्त्येव | एतच्च स्वावसरेषु वितनिष्यामः | ननु प्रयोगयोग्यचेष्टाप्रतिपादकत्वं चेत् सामान्यलक्षणं तर्हि चेष्टातिरिक्तस्य कस्यचिदसंभाव्यत्वान्नास्त्येव विशेषलक्षणमेषामित्याशङ्काशमनं विशेष प्. ४०९) जातिभिः श्रुतिभिश्चैव स्वरा ग्रामत्वमागताः | यथा तथा वृत्तिभेदैः काव्यबन्धा भवन्ति हि || ५ || ग्रामौ पूर्णस्वरौ द्वौ तु यथा वै षड्जमध्यमौ | सर्ववृत्तिविनिष्पन्नौ काव्यबन्धौ तथा त्विमौ || ६ || लक्षणावकाशं दर्शयितुमाह जातिभिः श्रुतिभिश्चेत्यादि | दृष्टान्तेन प्रकृतं घटयन् व्युत्पादनीयमपि व्युत्पादयतीति समानतन्त्रसिद्धमेव दृष्टान्तमदीदृशत् | स्वरेषु ग्रहादिदशकविभागनियता जातिः | रक्तोऽरक्तो वा ध्वनिः ध्वनिः स्थानं तदन्तरालं च श्रुतिः कर्माधिकरणकरणव्युत्पत्त्याश्रयात् | स्त्रियाः खलनाविति हि नादृतं लक्ष्ये | तत्र षाड्जीप्रभृतयो जातयः सप्त पञ्चमस्य चतस्रः श्रुतयो धैवतस्य तिस्रः इति षड्जग्रामः | गान्धार्याद्या एकादश जातयः पञ्चमस्त्रिश्रुतिः धौवतस्तु चतुःश्रुतिरिति मध्यमग्रामः | वस्तुतस्तु षड्जादिस्वरसमुदायो ग्रामः | तत्र स्वरा इति श्रुतिपक्षे बहुवचनं लक्ष्यविदः समर्थयन्ति - मध्यमग्रामे पञ्चमपरित्यक्तां श्रुतिं धैवत एवोपभु *? इत्यत्र प्रमाणाभावात् सर्व एव द्वित्रिश्रुतिकाः(श्रुत्युत्कृष्टत)या समधिकश्रुतयः क्रियन्ते काकल्यन्तराभ्यां च चतुस्त्रिश्रुतयो न्यूनश्रुतय इति सर्वस्वराणां श्रुतिकृतं वैचित्र्यमस्तीति | एतच्च स्वावसरे वक्ष्याम इत्यास्ताम् | इह त्वनेन दृष्टान्तेनैतदुक्तं भवति - स्वरसमुदायरूपत्वाविशेषेऽपि स्वराणां पर्यायतः प्राथम्यप्राधान्याल्पत्वभूयस्त्वपूर्णत्वापूर्णत्वारोहान्त्यत्वमध्यत्व् आदि प्रविभागभेदैः यथान्यः षज्ग्रामोऽन्यो मध्यमग्रामः तथैव वृत्तीनां स्वरस्थानीयानां प्राथम्यप्राधान्यादिना दशकेन रूपकं रूपकान्तराद्भिद्यते | यथा चतुःश्रुतिः पञ्चमस्त्रिश्रुतिश्च भवन् ग्रामान्यत्वं करोति तथा सैव वृत्तिः श्रुतिस्थानीयैरङ्गैः क्वचित्संपूर्णा क्वचिन्न्यूनेत्येवमपि रूपकविभाग इत्येतज्जातिभिः श्रुतिभिरिति द्वयेन दर्शितम् | अथ वृत्तिविभागं संक्षेपतोऽभिधत्ते ग्रामौ पूर्णस्वराविति | जात्याश्रययोर्जातिद्वारेण षाडवौडुविकांशकयोगे न्यूनस्वरताप्यस्तीति षडजग्रामरागो प्. ४१०) ज्ञेयं प्रकरणं चैव तथा नाटकमेव च | सर्ववृत्तिविनिष्पन्नं नानाबन्धसमाश्रयम् || ७ || वीथी समवकारश्च तथेहामृग एव च | उत्सृष्टिकाङ्को व्यायोगो भाणः प्रहसनं डिमः || ८ || मध्यमग्रामरागश्चेह ग्रामशब्देन व्यपदिष्ट इति केचित् | तदसत् इह हि ग्रामशब्देन जातिसमुदायोऽभिधीयते | तत्र यद्यप्यंशके न्यूनस्वरतापि भवति तथापि समुदायस्य पूर्णतायाः का हानिः | तस्मादयमत्रार्थः - यथा विचित्रसन्निवेशतालम्बनसुन्दरतमसंपूर्णस्वरसमुदायरूपान् ग्रामद्वयाद्रिभागकल्पनया जात्यंशकानां पूर्णापूर्णादिस्वरभेदभाजां प्रसवः एवं नाटकप्रकरणाभ्यां पूर्णवृत्तिवृत्त्यङ्गाभ्यां वृत्तिन्यूनानां च रूपकभेदानां परिकल्पनम् | तत वृत्तिन्यूनानि रूपकाण्याह वीथीत्यादि | शेषाणि रूपानीति वक्तव्ये प्रतिपदं नामग्रहणं ज्ञापयति | एतदनुक्तान्यपि रूपकाणि संभवन्ति अत एव रूपकविशेषगणनमाभ्यो विनिस्सृतमिति लक्षणस्योदाहरणमातम् | तेन वृत्तीना विनियोगविकल्पसमुच्चयैः वृत्त्यङ्गानां च बहवो रूपकभेदा भवन्ति | तेषां परं कोहलादिभिर्नाममात्रं प्रणीतम् | लक्षणेन त्विह सङ्ग्रहीता एव ते | तत नाटकप्रकरणे एव सर्ववृत्तिपूर्ण इति नियमः न तु विपर्ययः | मुद्राराक्षसस्य कैशिकीहीनस्य कृत्यारावणस्य च नाटकस्य दर्शनात् वेणीसंहारे च सात्त्वत्याम्भटीमात्रं दृश्यत इति केचित् | अन्ये तु तत्राप्यवश्यं वृत्त्यन्तरानुप्रवेशोऽस्ति | यदि परिमितवृत्तिव्यापकत्वात् लक्ष्यते अपूर्णवृत्तित्वेऽपि विरूपकतैव स्यात् | सकलाङ्गप्रक्रियापरिपूर्णत्वादेव नाटकात्प्रकरणं च प्रधानम् | तथा हि कैश्चिद्विनेयः प्रसिद्धिमनुरुध्यमानो दृष्ट इति सप्रसिद्धेतिवृत्ते नाटके विनेयः | कश्चित्तु किमेतदपूर्वमिति प्रसिद्धे वस्तुनि रूपकान्तरमेव तु तदाभासं तत्सर्व विनेयोऽभिनववस्तुवृत्तकौतुकपरतन्त्र इति समुत्पाद्यवस्तुना प्रकरणेन विनीयते | विनयश्चास्य धर्माथकामेषु सर्वपुरुषार्थेष्वपवर्गेऽपि च तथा भवति यदि सकलं तदुपयोगिव्यापा- प्. ४११) कैशिकीवृतीहीनानि रूपाण्येतानि कारयेत् | अत ऊर्ध्वं प्रवक्ष्यामि काव्यबन्धविकल्पनम् || ९ || प्रख्यातवस्तुविषयं प्रख्यातोदात्तनायकं चैव | राश्रयणं सर्वव्यापाराक्षिप्तं पूर्णवृत्तिकत्वमिति | द्विवृत्तित्रिवृत्त्यादिकं न नाटकं भवति | रूपान्तरमेव तु तदाभासं तत्कैशिकीविहीनत्वऽपि यथा शृङ्गारयोगस्तथा समवकारे तथा तल्लक्षणं वर्णयिष्यामः | ननु पूर्णवृत्तिकत्वाविशेषे नाटकप्रकरणयोः को भेदः कैशिकीहीनत्वे चाविशिष्टे वीथ्यादेः मिथः को विशेष इत्याशङ्कां वारयन् कर्म(श्लो १)शब्दाक्षिप्तविशेषलक्षणार्थ दर्शयति अत ऊर्ध्वमित्यादिना काव्यस्य बन्धनं परस्पराश्रयसंबन्धेनैव एकवाक्यतारकरणसंबन्धः स विकल्प्यते येन तद्विशेषलक्षणं वक्ष्यामीति | नाटकं प्रकरणादपि प्रधानं प्रसिद्ध्युपजीविनी हि कल्पनावस्तुसंभावना अनुभवमूलत्वात् तस्या उत्प्रेक्षा अपि हि प्रमाणागतेष्वेव वस्तुषु स्वातन्त्र्येण योजनामात्रेण व्याप्रियन्ते षड्दन्तो हस्ती खे धावतीति | तेनेतिहासादिप्रमाणवस्तुसिद्धप्रदर्शकं नाटकं तावल्लक्षयितुमाह प्रख्यातवस्तुविषयमित्यादि | प्रख्याते भारतादौ यद्वस्तु तद्विषयोऽस्य तत्रापि किञ्चिदप्रसिद्धं भवति तन्निराकरणाय प्रख्यातोदात्तेति श्रीशङ्कुकः | एतत्तु प्रख्यातवस्तु विषयोऽस्येति इयता गतार्थमित्युपाध्याया इत्थमाहुः इह त्रिविधया र्पसिद्ध्या प्रसिद्धत्वं भवति अमुक एवंकारी अमुत्रदेश इति | तत्र प्रकर्षेण ख्यातं वस्तु तथा विषयो मालवपाञ्चालादिदेशो यस्मिन् चक्रवर्तिनोऽपि हि वत्सराजस्य कौशाम्बीव्यतिरिक्ते विषये कार्यान्तरोपक्षेपेण विना यन्निरन्तरं निर्वर्णनं तद्वैरस्याय भवति तत्र प्रसिद्धिखण्डनेन प्रतीतिविघातात् का कथा रसचर्वणायाः | एवं तावद् द्वे प्रसिद्धी उक्तेः प्रख्यातोदात्तेत्यनेन तृतीया प्रसिद्धिरुक्ता | उदात्त इति वीररसयोग्य उक्तः | तेन धीरललितधीरप्रशान्तधीरोद्धतधीरोदात्ताः चत्वा- प्. ४१२) राजर्षिवंश्यचरितं तथैव दिव्याश्रयोपेतम् || १० || नाना विभूतिभिर्युतमृद्धिविलासादिभिर्गुणैश्चैव | अङ्कप्रवेशकाढ्यं भवति हि तन्नाटकं नाम || ११ || रोऽपि गृह्यन्ते | राजर्षिवश्येत्यनेन प्रख्यातमपि यद्वस्तु ऋषितुल्यानां राज्ञां वंशेन साधुनोचितं तथा प्रख्यातत्वेऽपि देवचरितं वरप्रभावादिबहुलतयोपायोपदेशायायोग्यमिति नैतदुभयं निब्नधनीयमिती फलतः प्रतिषेधो दर्शितः | राजानः ऋषय इवेत्युपमितसमासः तद्वंशे साधु चरित यस्मिन्निति बहुव्रीहि | न च सर्वथा देवचरितं तथाऽवर्णनीयम् | किन्तु दिव्यानामाश्रयत्वेन प्रकटीपताकानायकादिरूपेण उपेतमुपगमोऽङ्गीकरणं यत् | तथा द्वि नागानन्दे भगवत्याः पूर्णकरुणानिर्भरायाः साक्षात्करणे व्युत्पत्तिर्जायते | निरन्तरभक्तिभावितानामेवन्नाम देवताः प्रसीदन्ति तस्मादेवताराधनपुरस्सरमुपायानुष्ठानं कार्यमिति | यदि तु मुख्यत्वेनेव देवचरितं वर्ण्यते तत्तावद्विप्रलम्भकरुणाद्भुतभयानकरसोचित चेन्निबध्यते तन्मानुषचरितमेव संपद्यते प्रत्युत देवानामधियाधानं प्रसिद्धिविघातकम् | तत्र चोक्तो दोषः विप्रलंभाद्यभावे तु का तत् विचित्रता रञ्जनाया एतत्प्रमानत्वात् | अत एव हृदयसंवादोऽपि देवचरिते दुर्लभः नच तेषांदुःखमस्ति | यत्प्रतीकारोपायं व्युत्पादनं स्यात् | नायिका तु दिव्याप्यविरोधिनी यथोर्वशीनायकचरितेनैव तद्वृत्तस्याक्षेपात् | डिमादौ तु दिव्यानां नायकत्वेऽभिप्रायमावेदयिष्याम इति प्रसिद्धित्रययुक्तमपि वस्तु न निष्फलं व्युत्पत्तये भवतीत्यत आह नानाविभूतिभिर्युतं धर्मार्थकाममोक्षविभवैः फलभूतैर्विचित्ररूपैर्युक्तम् | तत्राप्यर्थकामौ सर्वजनाभिलषणीयाविति तद्बाहुल्यं दर्शनीयमिति कथयति ऋद्धिविलासादिभिरिति ऋद्धिरर्थस्य राज्यादिसमृद्धिः विलासेन कामो लक्ष्यते आदिशब्दः प्रधानवाची तत्प्रधानाभिः फलसंपत्तिभिः युक्तमित्यर्थः | तेन राज्ञा सर्वं राज्यं ब्राह्मणेभ्यो दत्त्वा वानप्रस्थं गृहीतव्यमित्येवंप्रायं फलं नोपनिबन्धनीयम् | तत्फलमपि दृष्टसुस्वार्थी हि लोको बाहुल्येनेति तत्रास्य प्रतीतिर्विरसीभवेत् | गुणेरित्यप्रधानभूतानि चेष्टितानि हेयानि प्रतिनायकगतानि अपाय- प्. ४१३) नृपतीनां यच्चरितं नाना रसभावचेष्टितं बहुधा | सुखदुःखोत्पत्तिकृतं भवति हि तन्नाटकं नाम || १२ || प्रधानानि तैर्युक्तम् | तेषां पूर्वपक्षस्थानीयानं प्रतिक्षेपेण सिद्धन्तकल्पस्य नायकचरितस्य निर्वाहाज्जनपदकोशादिसंपत्तिसमृद्धिः | कौमुदीमहोत्सवादयो विलासाः सन्धिविग्रहादयो गुणा इति व्याख्यानं चाणक्य(शास्त्र)परिचयवेदनमात्रफलं वस्तुशब्देन राजर्षिवंश्यचरितशब्देन च सर्वस्यार्थराशेः संग्रहात् | अवान्तरवस्तुसमाप्तौ विश्रान्तये ये विच्छेदा अङ्काः ये च निमित्तबलात् अप्रत्यक्षदृष्टानां चेष्टितानामावेदकाः प्रवेशकाः तैराढ्यं नाटकं नाम रूपकम् | तस्मादस्य तन्नामेत्याह नृपतीनां यच्चरितमिति यद्यस्मान्नृपतीनां संबन्धि व्युत्पाद्यानां सामर्थ्यात् नृपतीनामेव नाटकन्नाम तच्चेष्टितं प्रह्वीभावदायकं भवति तथा हृदयानुप्रवेशरज्जनोल्लासनया हृदयं शरीर चोपायव्युत्पत्तिपरिघट्टितया चेष्टया नर्तयति नटनृत्तौ नृत्ते इत्युभयथा हि स्मरन्ति | तदिति तस्माद्धेतोः नामास्य नाटकमिति | ननु पुराणाद्युपनिबद्धोऽपि तदर्थः कस्मान्नटानेवेदं भावयतीत्याह नानेति | बहुप्रकारा अत्र संभावयन्ति संपादयन्ति यानि चेष्टितानि नटव्यापारात्मानोऽभिनयाः तैरेतत्प्रह्वीभावदायकं हृद्यतमरसास्वादसूचीद्वारप्रवेशितं तत्कर्तव्यसूत्रं हृदयरोहणरूढशौर्यादिधर्मरत्नग्रथनकारि भवतीति ह्युक्तमसकृत् | ननु नृपतिचरित एव किमित्ययमास्वादो न देवचरित इत्याह बहुधेति | बहुप्रकाराः उपायवैचित्र्याद्याः सुखदुःखोत्पत्तयस्तासा कृतं संपादनं यत्र देवचरिते तु तन्नास्तीत्युक्तम् | अत एव प्रतीतिविघातस्य वैरस्यदायिनः संभवो यत्र यत्र तन्नाटके नोपनिबद्धव्यम् | तेन वर्तमानराजचरितं चावर्णनीयमेव तत्र विपरीतप्रसिद्धिवाधयाध्यारोपस्याकिञ्चित्करत्वात् योगानन्दरावणादिविषयचरिताध्यारोपवत् | एतदर्थमेव प्रख्यातग्रहणं प्रकर्षद्योतकं पुनः पुनरुपात्तम् | अत एव वेदशास्त्रं न नाटकं नियोगेन हि तत्र पुमान्प्रवर्त्यते न फलोत्पत्त्या | फलप्राधान्यपक्षेऽपि तत्र सन्देहः | एवं पुराणादावपि | इह तु बाधोदयसहिष्णुप्रत्यक्षायमाणा चिरविलम्बितप्रतीतिसिद्धा सुखदुःखो- प्. ४१४) अस्यावस्थोपेतं कार्यं प्रसमीक्ष्य बिन्दुविस्तारात् | तत्पत्तिरिति | अनेन वाक्येनैतदुक्तं भवति - यद्यपि सर्वरूपकाणामर्थो हृदये प्रविष्टो विनेयांश्च विनीतान् करोति | तत एव नाटकशब्दः सामान्यवचन इति कार्योत्पन्नानि नाटके इत्यादिषु स्थानेषु दर्शितः | तथापि द्यवश्यव्युत्पाद्या राजानो यद्व्युत्पत्तिद्वारेण विश्वं व्युत्पन्नं तेन तदीयहृदयसंवादयोग्यनृपतिचरितप्रदर्शनेन प्रधानतया प्रधानेऽर्थे व्युत्पाद्यन्ते अमात्यादयः तदङ्गत्वेनैव प्रयोगस्य च यथोचितं समृद्गकस्थगगनपद्युत्पादकव्युत्पाद्यभावात्तेन प्रधानपुरुषार्थे प्रधानविनेयानायमन्यतान्येषां वेदयतोऽवनति व्युत्पत्ति ददाति तत एव नाटकमुच्यते | श्रीशङ्कुकस्तु व्याचष्टे विजिगीषुररिर्मध्यमोदासीनौ मित्रं मित्रमित्रमिति | एषां चरितमिति बहुवचनेन लभ्यते | अन्ये त्वाहुः - पूर्वं राजर्षिवंशप्रभवा नायका उक्ता अनया त्वार्यया चन्द्रगुप्तबिन्दुसारादयोऽपि संगृह्यन्त इति | व्याख्यातमर्थद्वयमेतत्पूर्वयार्ययैवं सङ्गृहीतमिति प्रथमव्याख्यात एव युक्तोऽर्थः | यत्तु कैश्चिदभिधीवते - देवा धीरोद्धता ज्ञेयाः स्युर्धीरललिता नृपाः | सेनापतिरमात्यश्च धीरोदात्तौ प्रकीर्तितौ | धीरप्रशान्ता विज्ञेयाः ब्राह्मणा वणिजस्तथा || इति वचने पर्यालोच्यमाने देवादीनां नाटकनायकत्वानुपपत्तेः धीरललित एक एव नायक इति | तदसत् न हि जनकप्रभृतीनां रामादीनामपि वा धीरललितत्वम् यदाह - धीरोदात्तं जयति चरितं रामनाम्नश्च विष्णोः इति | यत्तु पठित तत्र धीरललितत्वं राज्ञ एव वर्णनीयं नान्यस्य सेनापत्यमात्ययोर्धीरोदात्तत्वमेव देवानां धीरोद्धतत्वमेव द्विजातीनां धीरप्रशान्तत्वमेवेति एवं परं द्रष्टव्यं - अत एव प्रख्यातोदात्तेत्यत्र चत्वरोऽपि नायकाः स्वीकृता इति व्याख्येयम् | एवं निर्वचनमनयार्यया दर्शितं प्रख्यातवस्तुप्रभृतिरर्थोऽन्यत्र सुप्रसिद्धः अङ्कप्रवेशकौ त्वप्रसिद्धौ इत्यङ्कस्वरूपं तावद्वितत्य कथयति अस्यावस्थोपेतमिति | प्. ४१५) कतव्योऽङ्कः सोऽपि तु गणान्वितं नाट्यतत्वज्ञैः || १३ || अङ्क इति रूढिशब्दो भावैश्च रसैश्च रोहयत्यर्थान् | अस्य नाटकस्य यत्कार्यं बिन्दुकृतया विस्तारणया विततीकरणरूपया अननुसन्धानजननबलादेकावस्थानुरूपमाधिकारिकमितिवृत्तं सम्पाद्यम् तदवस्थया प्रारम्भादिकयोपेतं परिपूर्णं संबन्धं प्रेक्ष्य अङ्कः कर्तव्यः | एतदुक्तं - इतिवृत्तस्य बिन्दुसूत्रस्यूतस्य प्रारम्भाद्यवस्थापञ्चकचारिणो यदा प्रारम्भावस्था पूर्णत्वमेति तदाङ्कच्छेदो विन्दुद्वारानुसन्धीयमानद्वितीयाङ्काभिधेयरूपो विधेयः | एवं प्रयत्नाद्यवस्थाचतुष्टयेऽपि वाच्यमिति पञ्च तावदङ्का इति मुख्यः कल्पः | नन्वेवं न्यूनत्वे आधिक्ये वाङ्कानां कथं निर्बन्ध इत्याह नाट्यतत्त्वज्ञैरनयैव दिशा सोऽङ्कः अपिशब्दादन्यथा कर्तव्यः | तुरिविशेषं द्योतयति | यदा प्रारम्भावधिप्रधानं भवतीति तदा तस्या एवोपक्रमोपसंहारावस्थाद्वयापेक्षया द्वावङ्कौ अन्यासामेकैकाङ्कतेति यावत् सर्वासामवस्थाद्वययोगेन संपादनमिति षडङ्कत्वात् प्रभृति सप्तजातप्राप्तौ(?)दशाङ्कत्वम् | काञ्चिदवस्थां प्रधानीकृत्य यदा अवस्थान्तरेण मिश्रीकृत्य वघ्नाति तदा नाटिकाया न्यूनाङ्कत्वमिति | एतत्तुशब्देन तत्त्वज्ञशब्देन च दर्शितम् | तत्रावस्थाः प्रारंभश्च प्रयत्नश्चेत्यादिना वक्षन्ते (१-१९) प्रयोजनानां विच्छेदे यदविच्छेदकारणमिति बिन्दुः वक्ष्यते यदाधिकारिकं वस्तु सम्यगिति (अ १९) कार्यम् | अथ कस्मादङ्क इत्याह अङ्क इति रूढिशब्द इति | भावैः रसैश्च गूढश्छन्नः व्याप्तोऽर्थोऽङ्कशब्देन यादृच्छिकेनोच्यत इति भट्टलोल्लटाद्याः गूढ इति पाठं व्याचक्षिरे | अन्ये रोहयत्यर्थानिति पठन्ति व्याचक्षते च रूढी रोहणं तेनोत्सङ्ग उच्यते यो नाटकांशः शृङ्गारादिरसैर्विभावानुभावव्यभिचारिणोऽर्थाः तथा भावैर्विभावाद्यैः यथास्वं भावादीनर्थान् हृदयमारोपयति अर्थान् वहति नानाप्रकारैश्च वक्ष्यमाणैः ये नायका निगदिता इत्यादिभिः विधानैरुपेतः तस्मादुत्सङ्गवदारोहण संबन्धादङ्क इत्युच्यते | एतत्पुष्कलमिव अजावि(जि?)ना रूढैरत्रार्थैर्वृत्त्यदर्शनात् | तस्मादयमत्रार्थः - अङ्क इत्ययं लक्षणे रूढः शब्दः अन्यतो व्यवच्छेदकं लक्षणम् | एतदपि च नाट्यरूपकस्य नानात्वमन्यतोभेदं विधत्ते अनभिनेयात् अभिनेये हि य एकदेशः स रसभावैरुपलक्षितानप्यर्थान् रोहयति प्. ४१६) नानाविधानयुक्तो यस्मात्तस्माद्भवेदङ्कः || १४ || अङ्कसमाप्तिः कार्या काव्यच्छेदेन बीजसंहारः | वस्तुव्यापी बिन्दुः काव्यसमुत्थोऽत्र नित्यं स्यात्) || हृदयसंवादससाधारणताकरणेन प्रत्यक्षीभावनया रसाध्यायोक्तयाभिरोहणं बीजस्येवाङ्कुराकारतया रसाकारोदयप्ररोहो भवति | स चानभिनेयरूपकांशैरेव संपाद्यत इत्यनभिनेयात् भेदमादधानोऽभिनेयस्य रूपकस्य लक्षणं भवत्येव | एवमङ्कशब्दस्यान्वर्थो व्याख्यातः | स्वरूपन्तु वक्तव्यं नदर्शयति - यत्रार्थस्य समाप्तिरिति | प्रारम्भाद्यवस्थालक्षणोऽर्थो यत्र समाप्यते सोऽत्रः | अङ्कसमाप्तायामपि वा अवस्थायां यदा बीजस्य संहरणं यथास्वं सन्धिभेदेनोचितं भवति तदाप्यङ्कच्छेदः | ततोत्पत्तिरुद्घाटनमुद्भेदो गर्भनिर्भेदः फलसमानयनमिति मुखादिषु यथाक्रमं बीजस्य दशाविशेषाः संहारशब्दवाच्याः | अङ्कविच्छेदे चार्थविछेदो माभूदित्यबलग्नः संबन्धो बिन्दुयत्र तादृगङ्कः कर्तव्यः | यथा तापसवत्सराजे तृतीयाङ्कसमाप्तौ - आदौ मानपरिग्रहेण गुरुणा दूरं समारोपितां पश्चात्तापभरेण तानवकृता नीतां परं लाघवम् | उत्सङ्गान्तरवर्तिनीमनुगमात्संपिण्डिनाङ्गीमिमां सर्वाङ्गप्रणयप्रियामिव तरुश्छायां समालम्बते || (३-१७) इति राज्ञ उक्त्या पद्मावत्याः परिणयाभ्युपगममनुसन्दधन्या प्राप्तिसंभवाख्यतृतीयावस्थाप्रदर्शिनी भाविनि चतुर्थेऽङ्के बिन्दुर्योजिनः | एवमङ्कस्वरूपमनेन निरूपितमिति चिरन्तनाः | तच्चैतत्पुनरुक्तं अस्यावस्थोपेतं कार्य प्रसमीक्ष्येत्येतेन हि क्यन्नोक्तं यदनेन लक्षणेनाभिधीयते | तस्मादिदमत्रार्थतत्त्वं - अङ्कस्वरूपं तावदस्यावस्थोपेतमित्यनेनैवोक्तं नामनिर्वचनं च अङ्क इति रूढिशब्द इन्यनेन दर्शितम् | अनया त्वार्यया अङ्कस्य त्रैविध्यमुच्यते | तथा चोक्तं कोहलादौ (कोहलेन?) - प्. ४१७) यत्रार्थस्य समाप्तिर्यत्र च बीजस्य भवति संहारः | किञ्चिदवलग्नबिन्दुः सोऽङ्क इति सदावगन्तव्यः || ये नायका निगदितास्तेषां प्रत्यक्षचरितसम्भोगः | नानावस्थोपेतः कार्यस्त्वङ्कोऽविकृष्टस्तु || १७ || त्रिधाङ्कोऽङ्कावतारेण चूदयाङ्कमुखेन वा | अर्थोपक्षेपणं चूडा वह्वर्थैः सूतवन्दिभिः || अङ्कस्याङ्कान्तरे योगस्त्ववतारः प्रकीर्तितः | विश्लिष्टमुखमङ्कस्य स्त्रिया वा पुरुषेण वा || यदुपक्षिप्यते पूर्वं तदङ्कमुखमिष्यते || अत्रार्थस्य कस्यचित् सम्यगन्यत एवानभिसन्धानपूर्विकाप्तिः प्राप्तिरिति चूडा दर्शिता | तद्यथा रत्नावल्यां वैतालिकपाठाद् दृशामुदयनस्य इत्यतः उपयोगी सम्यगर्थः प्राप्तः तत्प्रत्यभिज्ञामूलत्वात् सागरिकानुरागस्य तथाचाह अ अं सो रा आ उद अणो (अयं स राजा उदयनः) (१-२३) इत्यादि | तदर्थमेव च वसन्तक्रीडादिसर्वमुपक्षिप्तम् | तदेव च राजानुरागस्य शययाफलकादिकृतस्य मूलमिति चूलिकेत्युक्तम् | तेन प्रथमः चूलिकाङ्कः यत्र त्वङ्के सर्वेषामङ्कानां योऽर्थो बीजलक्षणस्तस्य संहारः संमिलितत्वेन प्राप्तिर्भवति सोऽवताराङ्कः | यथा रत्नावल्यां द्वितीयोऽङ्कः | तत्र हि ईरिसस्स कण्ण आजणस्स ईरिस एव्व वरे अहिलासेण होदव्वम् || (ईदृशस्य कन्यकाजनस्येदृश एव वरे अभिलाषेण भवितव्यम्) इत्यादिप्रकृतमेव सर्वं वर्ण्यते | यत्र त्वनुसन्धानमात्रप्राणत्वेन तदुपयोगितया वृत्तान्तमुच्यते तदुपश्लिष्टमङ्कमुखम् |स एवेह किञ्जिदवलग्नबिन्दुरित्यनेन तृतीयो भेद उक्तः | यथा रत्नावल्यां तृतीयेऽङ्के ऐन्द्रजालवृत्तान्तनिरूपणं चूलिका तस्याश्चभेदः चूलिकाङ्कस्यापि तदभिसन्धानाभावात् | इह त्वभिसन्धानं यौगन्धरायणादीनामस्त्येव | तेनायं संक्षेपः - अङ्के यद्वर्णनीयं वस्तु- प्. ४१८) नायकदेवीगुरुजन पुरोहितामात्यसार्थवाहानाम् | नैकरसान्तरविहितो ह्यङ्क इति स वेदितव्यस्तु || १८ || (पञ्चापरा दशपरा ह्यङ्काः स्युर्नाटके प्रकरणे च | निष्क्रामः सर्वेषां यरिमन्नङ्कः स विज्ञेयह् ||) १९ || तत्तावत् द्विधा प्रधानं तदुपयोगि च तदुपयोग्यपि किञ्चिदैववशादुपयोगं याति किञ्चिदभिसन्धिबलादिति विविधोऽङ्कार्थः | स कदाचिदेकस्मिन्नङ्के मिश्रभावेनापि निबध्यत इति चूलिकाङ्कमुखयोरङ्कभेदयोः प्रधानार्थस्पर्शो नैवास्तीति || तथा प्रवेशकद्वारेण मुख्यचरितमपि शङ्कां वारयितुमाह ये नायका इति | धीरोदात्तादयो विजिगीषुतन्मित्रप्रभृतयो वा ये नायकाः प्रतिनायकाश्च तेषां चरितं तदुपायानुष्ठानं तथा संभोगः प्रत्यक्षः सन्निहितः साक्षाद् दृश्यमानो न तु सूच्यमानो यत्र तादृगङ्कह् | नयति प्राप्नोतीतिवृत्तं फलं वेति नायकचरितप्रत्यक्षतया व्युत्पत्तिः प्रेक्षकाणां संभोगाप्रत्यक्षत्वे च तद्गतकेवलक्लेशदर्शनात् वैरस्यं सामाजिकस्य स्यात् | किमनेन महता कष्टेनेति तत एवोक्तं न निस्सुखः स्यादिति | नानापकारावस्थौ प्रतिनायकगतौ चरितसंभोगावनुपादेयावविषये चेति हेयावस्थौ नायकगतौ तु तद्वपरीत्यादुपादेयावस्थाविति तुशब्दस्यार्थः | अविप्रकृष्ट इत्यदीर्घः | दीर्घो हि प्रयोक्तृप्रेक्षकाणां खेदाय स्यात् || एवं प्रधानवर्णनीयस्य वृत्तमुक्त्वा तदुपयोगि वृत्तस्य दिशं दर्शयितुमाह - नायकदेवीत्यादि | नायका मुख्याः नायिकाः देव्यो महादेवीभोगिनीप्रभृतयः | गुरुजनो मातृपितृभ्रात्राचार्यादि | सार्थवाहोऽत्र सेनापतिः | इतिवृत्तवशाद्वणिगेव वा एषां संबन्धी अङ्क एतदर्थाभिधायक इति यावत् | अत एव नैकेन विचित्रेण रसविशेषेण युक्तस्तथा हि देवीयोगे शृङ्गारः नायके वीर इत्येवमन्यदुत्प्रेक्ष्यम् | नायकानां देव्यादय इत्यन्ये | अङ्क इति | अनेकरसाङ्कितत्वादपि अङ्क इति नामेत्यर्थः | न केवलं चरितसंभोगावेव प्रत्यक्षौ प्. ४१९) क्रोधप्रसादशोकाः शापोत्सर्गोऽथ विद्रवोद्वाहौ | अद्भुतसंभवदर्शनमङ्के प्रत्यक्षजानि स्युः || २० || एकदिवसं प्रवृत्तं कार्यस्त्वङ्कोऽर्थबीजमधिकृत्य | आवश्यककार्याणामविरोधेन प्रयोगेषु || २१ || एकाङ्केन कदाचिद्बहूनि कार्याणि योजयेद्धीमान् | आवश्यकाविरोधेन तत्र कार्याणि कार्याणि || २२ || किन्त्वन्यदपि यत्र रञ्जनातिशयोऽस्तीति दर्शयन्नाह क्रोधप्रसादशोका इति | शापोत्सर्गह् शापकृतस्यानर्थस्य नाशः यथोक्तस्यानर्थकाभावस्य शङ्काभयत्रासकृतो विद्रव इति गर्भसन्धौ वक्ष्यते | उद्वाहो विवाहः | अद्भुतस्य संभवोऽभ्युपगमः उपक्रमो दर्शनम् च निर्वाह इत्येतच्चान्यस्यापि रञ्जकवर्गस्योपलक्षणम् | अक्षजं ज्ञानं प्रति गतानीति प्रत्यक्षजानि | प्रत्यक्षशब्देन तदेकदेश उच्यते तत्र जातानीत्यन्येन्द्रियवर्गस्य प्रत्यक्षता तावद्भवति कदाचित्तत्त्वप्रत्यक्षमपि | अथाङ्कुस्य प्रयोगकालपरिमाणमियदिति दर्शयति एकदिवसप्रवृत्तमिति | तादृशमवान्तरेणार्थेन प्रयोजनेन युक्तं बीजमुपायानुष्ठानं वर्णनीयताया अधिकृत्याङ्कः कर्तव्यो यस्य प्रकृष्टं च यद्वर्तनं प्रयोगरूपं तदेकदिवसेनेति मुहूर्तपञ्चदशकेनैव यतस्तावन्तं कालमावश्यकानि भोजनादीति अशक्यनिरोधनानि ततः परन्तु प्रयोगकालश्चेत् तत्प्रेक्षकप्रयोक्तॄणां तदाप्यावश्यकस्य सन्ध्यावन्दनभोजनादेरविरोधेनेत्येवं कार्यानेकत्वमेकत्राङ्के निषिद्धम् | क्वचित्त्वभ्युपगतमपि | अन्ये तु सर्वामेवार्यां निषेधपरत्वेनाहुः | अन्ये त्वेकाङ्केनेति तृतीयां मन्यमानाः सर्वेयमार्या विधिपरेत्याहुः | यान्यवश्यंभावेन कार्या.इ भोजनादीनि तानि प्. ४२०) रङ्गं तु ये प्रविष्टाः सर्वेषां भवति तत्र निष्क्रामः | बीजार्थयुक्तियुक्तं कृत्वा कार्यं यथार्थरसम् || २३ || न बहूनीह कार्याणि त्वेकाङ्के विनियोजयेत् | आवश्यकानां कार्याणां विरोधो हि तथा भवेत् ||) २४ || ज्ञात्वा दिवसावस्थांक्षयाममुहूर्तलक्षणोपेताम् | विभजेत्सर्वमशेषं पृथक्पृथक्कार्यमङ्केषु || २५ || दिवसावसानकार्यं यद्यङ्के नोपपद्येत सर्वम् | किं प्रत्यक्षेणैव दर्शनीयानीति यः शङ्कते तं प्रत्याह रङ्गन्त्विति | तत्रेत्यावश्यके कर्तव्ये न चासमाप्तावुपक्षिप्तावान्तरकार्ये पात्रनिष्क्रमणमिति दर्शयति | बीजार्थेति उपक्षेपात्मनो बीजस्य यत्प्रयोजनं तेन या युक्तिः संबन्धस्तत्र युक्तमुपायभूत. कार्यं प्रयोजनानुसारि विशिष्टरससम्पदोपेतं विधाय तत्परिसमाप्तौ यवनिकया तिरोधानरूपं निष्क्रमणं दर्शनीयम् | बीजार्थयुक्तिरुत्पत्ययुद्घाटनोद्भेदगर्भनिर्भेदफलसमानयनात्मेत्यन्ये | एवमितिवृत्तनियममङ्के प्रदर्श्य तदितिवृत्तकालनियमं दर्शयति क्षणयाम मुहूर्तानां यानि लक्षणानि कर्तव्यान्यस्मिन् क्षणे सन्ध्यानुष्ठेयेत्यादीनि तैरुपेतां दिवसस्यावस्थां ज्ञात्वा सर्वं कार्यं प्रत्येकं सर्वात्मना परिपूर्णरूपमत एवाशेषं विभजेत् विभागेन दर्शयेत् | नाडिकाभिरष्टधा दिनं रात्रिं विभज्य छायाप्रमाणेन वेति तेन एकदिवससंपादितमुपयोगि चेष्टितमङ्के बध्नीयादिति तात्पर्यम् | ननु तन्मध्ये तत्कार्यं मध्याह्नस्नानभोजनादि तद्दिवसमध्य एव वा यद्वृत्तं दूरस्थं दशरथमरणादि तत्कथं वाच्यमित्याह - दिवसावसानकार्यमिति | दिव- प्. ४२१) अङ्कच्छेदं कृत्वा प्रवेशकैस्तद्विघातव्यम् || २६ || (विप्रकृष्टं तु यो देशं गच्छेत्कार्यवशानुगः | अङ्कच्छेदेऽथ संक्षेपान्निर्दिशेत्तं प्रवेशकैः ||) २७ || सन्निहितनायकोऽङ्कः कर्तव्यो नाटके प्रकरणे वा | परिजनकथानुबन्धः प्रवेशको नाम विज्ञेयः || २८ || प्रकरणनाटकविषये पञ्चाद्या दशपरा भवन्त्यङ्काः | सेऽवसानं समाप्तिर्यस्य तत् सर्वं कार्यं यद्यङ्के प्रत्यक्षेण प्रदर्शयितुं न युज्यते तदाङ्कच्छेदं कृत्वा प्रवेशकैः चूलिकाङ्कावताराङ्कमुखप्रवेशकविष्कंभका इहाभिप्रेताः | तथा च कोहलोऽर्थोपक्षेपपञ्चकमुक्तवान् | एवमङ्कलक्षणं वितत्याभिहितमर्धेनोपसंहरन्नर्धान्तरेणाङ्कसन्धानरूपस्य प्रवेशकस्य सामान्यलक्षणं दर्शयन्नार्यां पठति सन्निहितनायक इत्यादि | नायकशब्देन तच्चरितसंभोगौ तौ सन्निहितौ प्रत्यक्षौ यत्रैकाङ्केऽपि रूपकेऽङ्को नायकचरितप्रत्यक्षताशून्यः कार्यः किपुनरन्यत्रेति प्रकरणे नाटके वेत्युक्तम् | अन्ये त्वेतदुत्तरार्धेन संबन्धयन्तो रूपकान्तराणि प्रवेशकशून्यानि भवन्तीत्याचक्षते | परजनकथानुबन्ध इति चतुर्णां लक्षणं सूतमागधादेश्चूलिकाङ्कस्य स्त्रीपुरुषादेर्वाङ्कमुखोपकरणस्य चेटीकञ्चुकादेर्वा प्रवेशकविष्कम्भोपयोगिनः परिजनस्याकथयैव परस्परश्लिष्टयानुबद्धोऽङ्कावतारः | यथोक्तम् | अङ्कान्तर एवाङ्को निपतति यस्मिन्प्रयोगमासाद्य | नाट्यार्थकथायोगाद् विज्ञेयोऽङ्कावतरोऽसौ || इति | तत्रायं प्रवेशकोऽङ्कार्थसन्धानाय भवतीति पूर्वोपक्षिप्तमङ्कं संख्यानुवादद्वारेण दर्शयति प्रकरणनाटकविषय इति | सन्ध्यवस्थानपरिपूर्णोपनिबद्धा एवाङ्का उप- प्. ४२२) अङ्कान्तरसन्धिषु च प्रवेशकास्तेषु तावन्तः || २९ || (अनयोरन्तरविहितः प्रवेशकोऽर्थक्रियां समभिवीक्ष्य संक्षेपार्थः सन्धिष्वर्थानां संविधातव्यः ||) ३० || अङ्कच्छेदं कृत्वा मासकृतं वर्षसंचितं वापि | तत्सर्वं कर्तव्यं वर्षादूर्ध्वं न तु कदाचित् || ३१ || क्रमोपसंहारवैतत्ये दश कस्यचित्संक्षेपेण षडित्येवम् अन्यतो न्यूनाधिकत्वमनुचितमित्यर्थः | अङ्कमध्येषु तु सन्धानानि षट् चित्राणि संपादयितुं पञ्चविधः प्रवेशकः कार्यः | अङ्कान्तरसन्धिष्विति निमित्तात् कर्मसंयोगे सप्तमी | अपिशब्देन प्रवेशक शब्दस्यावृत्तिः सूच्यते | चो हेतौ | प्रवेशकशब्दश्च महासामान्यवचनः पञ्चसु वृत्तः इह तु मध्यमसमान्ये प्रवेशकविष्कम्भकद्वये वर्तते | तदयमर्थः - यस्मान्मासकृतं वर्षसञ्चितं वा यच्च तत्कार्य सामाजिकानां हृदयगतं तस्मात् प्रवेशकविष्कम्भकौ कर्तव्यौ | परिमितन्तु यदनुसन्धेयं तत्राङ्कमुखमल्पानुसन्धेये चूलिका अल्पतमे अङ्कावतारः | तत् केचित् वनवासादयोद्ध्याप्रवेशानन्तरं रामानुसन्धानमनुसन्धनीय माभूदित्याशयेन व्याचक्षते मासेन मासाभ्यां मासैर्वर्षेण वर्षाभ्यां वर्षैः इति | कदाचित्तु वर्षादूर्ध्वन्तु ये महाप्रभावाश्चिरातीतमप्यनुसन्दधते रामादेस्तेषां बहुतरो हि कालः प्रवेशकैर्वर्णनीयः | ये तु पुरुषप्रायास्तेषां वर्षादूर्ध्वमनुसन्धानं नैवास्ति तथा च मार्गशीर्षं तैषीं चान्तरेण दीर्घकालयत्रा आवर्षारात्रान्मासाष्टकमुक्तेति संगिरन्ते | एतच्चासत् मासवर्षादीनां स्वीकृतनियतपरिमाणानां द्विवचनबहुवचनान्तत्वे वृत्त्ययोगस्य दर्शितत्वात् | सौर्यके मासजाते च परिमाणं स्वभावतः | उपाधिभूतमाश्रित्य संख्याभेदेन वर्तते || वयस्त्विति परिच्छेदः क्रियतेऽपि न गम्यते | इष्ठो भेदादृते तत्र परिमाणमनर्थकम् || प्. ४२३) यः कश्चित्कार्यवशाद्गच्छति पुरुषः प्रकृष्टमध्वानम् | तत्राप्यङ्कच्छेदः कर्तव्यः पूर्ववत्तज्ज्ञैः || ३२ || इत्यादिबहु च वर्षादूर्ध्वमिति च निषेधः फल्गुफल एव स्यात् | तस्मादेकवचनान्तेनैव समासः न च रामायणभारतादिचरितत्यागप्रसङ्गः | कार्यग्रहणं ह्येतदर्थं मुनिना कृतं यत्र हि यत्रनिष्पाद्यं सञ्चितं तदेव वर्षं गण्यते वर्षान्तराणि तु तत्र विद्यमानान्यपि अविद्यमानकल्पानि | रामचरिते हि चतुर्दशवर्षाण्यरण्यनिवासो यद्यपि कार्यः वर्षाणि त्रिचतुराणि भवन्ति यत्र मारीचवधसुग्रीवराज्यदानाद्यवान्तरकार्यंसंभवति | तस्माद्वर्षादूर्ध्वमित्यनेन कार्यं वर्षद्वयदि निषिध्यत इत्येवं वर्षसहस्रायुषोऽपि वर्षशतान्तरालवृत्तचरितव्याख्यानेऽपि न किञ्चिद्दुष्यति | तेन पञ्चाङ्के नाटके पञ्च कार्यदिनानीति संक्षेपः दशाङ्के तु दशेति विस्तरः | अङ्कच्छेदे निमित्तान्तरमप्याह - यः कश्चित्कार्यवशादिति | कार्यवशात्कार्यस्य तत्रायतत्वात् यः पुरुषो नायकः सोऽनेकयोजनव्यवहितमध्वानं यदा प्रतिदिनं गमनं विश्रान्तिः शययेत्येवमादि कथं रङ्गे प्रदर्श्य तदन्तेनाङ्कच्छेदः कार्यः | डिमादिनायकस्य तु दिव्यस्याकाशयानकादिना सर्वं युज्यते | अनायक पुरुषस्त्वविच्छिन्न एवाङ्के निष्क्रामति | ननु दिवसावसानकार्यं केनोपपद्यत इति आवश्यकाविरोधेनेत्यादिना यदुक्तं ततस्तिलमात्रेणाप्यधिकं वाच्यमस्य न लभ्यते वाक्यस्य | अत एवैतत् भट्टलोल्लाटाद्यैर्न पठितमेव || उपाध्यायास्त्वाहुः - नेदं निमित्तान्तरं अपि तु पूर्वं तावत्कथितं यद्यङ्के नोपपद्यत इति तस्यैवोदाहरणमनयैवार्यया दर्शितम् | यथा नायकस्य प्रकृष्टाध्वगमनमिति पूर्ववदिति तदर्हमिति भवति पूर्वलक्षणार्होऽङ्कच्छेदोऽयमिति यावत् | अपिशब्द उदाहरणान्तरमपि सूचयति | अङ्कार्थसन्धानप्रयोजनस्य प्रवेशकस्य स्थानं वाच्यम् | विषयं चाह अङ्कान्तरानुसारीति अङ्कमध्ये भवतीति यावत् | अङ्कान्तरं पूर्वाङ्कान्तरमनुसरति तस्य पश्चाद्भवतीत्यर्थः | प्रत्यङ्कान्तं यो बिन्दुः अनुसन्धानाभिधायिवाक्यं यत्संक्षिप्तं प्रयोजनं तदधिकताकरणं विस्तारमुद्दिश्येति वाच्यमुक्तं प्रकरणे नाटके चावश्यं प्रवेशकस्तस्यावश्यमुत्तमप्रकृतिविषये उपदेशाय प्रवृत्तोऽपरिमितेनोपायेन भूयस्तरावान्तरकार्ये प्रत्युत्पत्तिबहुनां प्. ४२४) अङ्कान्तरानुसारी संक्षेपार्थमधिकृत्य बिन्दूनाम् | प्रकरणनाटकविषये प्रवेशकः संविधातव्यः || ३३ || नोत्तममध्यमपुरुषैराचरितो नाप्युदात्तवचनकृतः | प्राकृतभाषाचारः प्रयोगमाश्रित्य कर्तव्यः || ३४ || कालोत्थानगतिरसौ व्याख्यासंरम्भकार्यविषयाणाम् | अर्थाभिधानयुक्तः प्रवेशकः स्यादनेकार्थः || ३५ || चामात्यादीनामपि स्वकार्यनिरूपणाय प्रवेशकः अन्यत्र रूपके परिमितकार्योपदेशात् न तथा प्रवेशकोपयोग इति वितनिष्यामः | अथ विष्कम्भकाद्भेदमस्य दर्शयन् प्रवेशकशब्दोऽतिविशेषशब्दवाच्यपि भवतीति दर्शयति नोत्तममध्यमपुरुषैरिति | उत्तमादयोऽपि भवन्ति परिजनास्तन्निवृत्त्यर्थमेतत् | उदातं संस्कृतवचनं तस्य निषेधः | अन्ये त्वाहुः - उदात्तं स्वात्म कार्यविश्रान्तं वचनं निषिष्यते आणत्तंमि भट्टिदारि आ ए इत्यादिना हि स्वकृत्यं प्रधानोपयोग्येव दृश्यते न स्वतन्त्रं | तत्र प्राकृती भाषा आचारश्च व्यवहारः प्राकृत एव | प्रयोगमाश्रित्येति क्वचित्तु प्रयोगवशात्संस्कृतभाषाचारो विष्कम्भकेऽपि कर्तव्य इति दर्शयति | संक्षेपार्थमधिकृत्येति यदुक्तं तदेव विभजति कालोत्थानगतिरसाविति | कालोदयस्य गतिरवगमो यतः कालोदयसूचकः कश्चित् प्रवेशकः | यथा - अज्ज वसन्दमहूसवे सबहुमाणमाहूय इत्यादि (रत्नाः १) | अर्थाभिधानेति प्रत्येकं संबध्यते तेन व्याख्यादीनां विषयान्तानां चतुर्णां योऽर्थस्तदभिधाने युक्तस्तदुद्देशेनप्रवृत्त इतिपञ्चप्रकारः प्रवेशक इतियावत् | व्याख्यायत इति व्याख्या | तथाहि - केनचित्प्रवेशकेन गूढो व्याख्यायत इत्यर्थः | यथा तापसवत्सराजे अमात्यप्रणिधिः मामिज्ज-ई प्. ४२५) वह्वाश्रयमपि कार्यं प्रवेशकैः संक्षिपेच्च सन्धिषु वा | बहुचूर्णपदैर्युक्तं जनयति खेदं प्रयोगस्य || ३६ || असवास-एहि हालाहलस्स पमादसंकिदा (भ्राम्यते पार्श्वकैः प्रमादशङ्कितैः |) तापस-अ-४ (इत्यादि) अनेन हि नातिव्यवधानोक्तं पद्मावतीगृहे च यद्वासवदत्तास्थापनं तस्य गूढं प्रयोजनं व्याख्यातम् | संरम्भः कार्यविशेष विषयः अभिप्रायस्तस्यार्थ उपायान्वेषणादि तदभिधानयुक्तः प्रवेशको यथा नृत्तपा (वा) रे गति.......उपस्थितमिदं तत्प्रयोजन मित्यादि | अनेन वासवदत्तामपहृत्योज्जीयनीं निनीषोर्वत्सराजस्य प्रयोजकत्वं प्राप्तानाममात्यानां संरम्भः शालङ्कायनेनोक्तः | कार्यं तु यदाधिकारिकमित्यादि (१९-३) तस्यार्थः पञ्चाङ्गस्यानुष्ठानम् | तद्यथा - कर्मणामारम्भोपायः पुरुषद्रव्यसंपद् देशकालविभागः विनिपातप्रतीकारः कार्यसिद्धिरिति | तथाभूताभिधानयुक्तश्च प्रवेशको बाहुल्येन तापसवत्सराजप्रतिभाचाणक्यमुद्राराक्षसादिषु | विषयस्तु भाविनोऽङ्कावतारस्येतिवृत्तं तस्यार्थो विशेषरूपः तदभिधानेन युक्तः प्रवेशको यथा नागानन्दे द्वितीयेऽङ्के चेटिकाद्वयेन मदनावस्थेतिवृत्तस्य विशेषवर्णनं चन्दनलतागृहादि दर्शितम् | अन्यान्यपि प्रवेशकस्य प्रयोजनानि सन्ति | न त्वेतत्परिगणनमित्याह - अनेकार्थ इति | नन्वेवंभूतोऽर्थो यः प्रवेशके प्रदर्श्यते समसेन विस्तरेण वेत्याशंक्याह वह्वाश्रयमपीति | सन्धिं चिकिर्षव इति अङ्कार्थसन्निवेशनिमित्तं ये प्रवेशकाः पञ्चप्युक्ताः चूलिकादयस्तैर्वाङ्काश्रयं बहुवक्तव्यं विततमपि कार्यं संक्षिपेत् यावत्सन्धानोपयोगि तावत्तत्र ब्रूयत् | यतो बहुभिर्गद्यगतैरसमस्तैः पदैरसंस्कृतप्रायैः खेदो भवति | अनेन प्रवेशकादौ उत्कलिकाप्रायं बहुतरसमाससङ्कीर्णमभिनयशाखाङ्गत्रोटनकारित्वात् समाससंशयेनार्थानिश्चायकत्वाच्च न कर्तव्यमित्यपि दर्शयति | दिवसावसानकार्यं यद्यङ्के नोपपद्यते सर्वम् | अङ्कच्छेदं कृत्वा प्रवेशकैस्तद्विधातव्यम् || प्. ४२६) यत्रार्थस्य समाप्तिर्न भवत्यङ्के प्रयोगबाहुल्यात् | वृत्तान्तस्वल्पकथैः प्रवेशकैः सोऽभिधातव्यः || ३७ || युद्धं राज्यभ्रंशो मरणं नगरोपरोधनं चैव | प्रत्यक्षाणि तु नाङ्गे प्रएशकैः संविधेयानि || ३८ || इति यदुक्तं तत्रानुपपत्तिर्बहुप्रकारा भवतीति दर्शयितुमाह यवार्थस्य समाप्तिरिति | यत्प्रत्यक्षप्रयोज्यमपि प्रयोगवशादङ्केऽसमाप्तं भवति तत्प्रवेशकेन कर्तव्यम् बहुतरत्वं प्रयोगस्य बहुमानास्पदत्वम् | तदयमत्रार्थः - यत दिवसकार्याण्यनेकानि तत्र तन्मध्ये यत्सुन्दरप्रयोगौपदेशोपयोगि च तत्प्रत्यक्षेण दर्शनीयम् | अन्यत्सर्वं प्रवेशकेन वृत्तान्तार्था तदवशिष्टेनेतिवृत्तनिर्वाहफला अल्पा संक्षिप्ता कथा यस्य प्रवेशकस्य | एवं प्रत्यक्षप्रयोज्यप्रवेशकोपयोगो दर्शितः अन्यत्रात्पि तं दर्शयति युद्धं राज्यभ्रंश इत्यादि | युद्धे शस्त्रसंपातस्य बाहुल्यं राज्यभ्रंशेऽपि पतनमरणादेः नगरोपरोधे बलस्य यन्त्रसुरङ्गादिदानस्य | इह केचिदाहुः मरणं द्विविधम् | किञ्चिदन्यसंबन्धिन्या क्रियया संपाद्यं यथा चक्रेण दैत्यस्य शिरश्छेदं किञ्चिदन्यसंबन्धिक्रियानैरपेक्ष्येणैव व्याध्यभिघातादिप्रभवम् | तत्राद्यस्यैव निषेधः क्रियते | एतदर्थमेव कृतग्रहणं तद्ध्यन्यक्रियावाचकम् | न च तद्युद्धेन संगृहीतम् | अयुद्धे पूर्वस्याप्यशङ्कितशिरश्छेदस्य दर्शितत्वादिति | त एवं प्रष्टव्याः - इदं मरणं प्रयोज्यमिदमप्रयोज्यमिति न तावदत्र विषयविभागे निदानमुत्पश्यामः | मृतस्य कथं निष्क्रमणं कथं वावस्थानं ततो नाट्योपयोगिसमस्तध्रुवागानादिप्रक्रियाविलोपः सामाजिकानां विरसताप्रतिपत्तिरिति तु सर्वत्र मरणं समानं तस्माद्रङ्गे मरणमप्रयोज्यमेव | ननु मरणानुभाववर्णनेनेदानीं किं कृत्यं युद्धवीररौद्रादावप्येतदनुभाववर्णने किं प्रयोजनं तदनुभावापरिज्ञाने प्रवेशकैरपि कथं वर्णनं स्यादिति चेन्मरणेऽपि समः समाधिः | प्. ४२७) अङ्के प्रवेशके च प्रकरणमाश्रित्य नाटके वापि | न वधः कर्तव्यः स्याद्योऽभ्युदयी नायकः ख्यातः || अपसरणमेव कार्यं ग्रहणं वा सन्धिरेव वा योज्यः | किञ्च यत्र प्रत्यापत्तिशून्यं मरणं तत्प्रक्रियाविलोपकत्वान्न प्रयोज्यम् | यत्तु क्वचित्तत्प्रत्यापत्तिः यथा जीमुतवाहनस्य तदेव क्षणमात्रानिश्चितचेष्टात्मकं प्रयोज्यमेवेति सोऽपि मरणानुभावसाक्षात्करणस्य विषयः | यद्वाहिनीनामपि साटोपपरिक्रमणं शस्त्रवर्णनादिप्रारम्भरूपमदः प्रयोज्यमपि तु तन्निर्वाहो न प्रदर्शनीयः | एतदेव कारणे स्फुटीकृतं युद्धमेव यन्निर्वाहपर्यन्तं यावन्मरणमेव यदचिरप्रत्यापत्तिर्न भवति तन्न प्रत्यक्षेण प्रयोज्यं प्रवेशकैरिति उपक्षेपपञ्चकमध्यादन्यतमेनोपक्षेपेणेत्यर्थः | अन्ये त्वाहुः - व्याधिजमभिघातजं च मरणं रङ्गे प्रयोज्यं अपुनर्जनिनिष्क्रान्तिरहितप्रकृतिर्विधेयेति | अथ सर्वथा यद्विषयं मरणं नाख्येयं तद्दर्शयति अङ्के प्रवेशके चेति | प्रकरणे नाटके वा नायकस्य प्रत्यक्षेण वा वर्णनया वा न मरणं वर्णनीयम् | अङ्क इति प्रत्यक्षेण प्रवेशक इति वर्णनया | ननु प्रत्यक्षेण ये न कस्यचिन्मरणं प्रयोज्यमिच्छन्ति तन्मते अङ्कग्रहणं किमर्थं तत्राहुः वधशब्देन (न) मरणमुच्यते अपि तु परकृतघातदानादि तत्रान्यघातदानाद्यपि प्रत्यक्षेण रङ्गे प्रदर्श्यते | अचिरप्रत्यापत्तौ समाश्वासे यस्तु नायकस्तस्य ख्यातस्य न घातदानादि प्रदर्शनीयम् | अन्ये तु ख्यातं नायकं पताकानायकादिकमिच्छन्ति | अपसरणमिति पलायनम् यथोक्तं - अशक्ये सर्वमुत्सृज्यापगच्छेत् दृष्टा (अर्थ ९-७) हि जीवतः पुनरावृत्तिः इति | ग्रहणं वा कार्यं सनिबन्धनबन्धनमिति | यथा वासवदत्तनृत्तधारे (पारे?) वत्सराजस्य | सन्धिरेवेति सन्धानं यदुक्तम् - प्. ४२८) काव्यश्लेषैर्बहुभिर्यथारसं नाट्यतत्त्वज्ञैः || ४० || न महाजनपरिवारं कर्तव्यं नाटकं प्रकरणं वा | ये तत्र कार्यपुरुषाश्चत्वारः पञ्च वा ते स्युः || ४१ || काव्यं गोपुच्छाग्रं कर्तव्यं कार्यबन्धमासाद्य | प्रवृत्तचक्रेणाक्रान्तो राज्ञा बलवताऽबलः | सन्धिनोपनमेत् .............. | (अर्थशास्त्रे ७-३ अध्या) अपसरणबन्धनसन्धीनां विषयविभागसूचनायाह | प्रधानरसानुसारेण यत्काव्यं यत्काव्यार्थस्तस्य श्लेषा बन्धनाद्युपपत्तयः तैरुपलक्षितमपसरणादिकार्यमिति यावत् | कार्यविशेषैरिति केषांचित्पाठः | अथ यद्यदप्रयोज्यं प्रत्यक्षेण तस्य सामान्यद्वारकं संग्रहं दर्शयितुमाह - न महाजनपरिवारमिति | महाजनः संख्यया तेन परिवारः परिवारणं यत्र यत्र वस्तुनि तन्नाटकमिति तद्युक्तं तत् प्रकरणम् | वाग्रहणादन्यदपि न कार्यम् | एतदुक्तं भवति - बहुतरपुरुषसाध्यं यत्किञ्चित्तद्यथा समुद्रे सेतुबन्धनमित्यादि तत्सर्वं प्रत्यक्षेण न प्रदर्शनीयम् तथा महतो जनस्य पितापुत्रश्वश्रूस्नुषागुरुशिष्यादेः परितो वरणं व्रीडातङ्कादियोगेन यत्र जायते वैरस्यं वा महाजनस्य सभ्यस्य च यत्र परिवरणं चित्तसंकोचः तत्सर्वं परिचुम्बनद्यपि न प्रत्यक्षं प्रयोज्यम् | यदि च प्रत्यक्षप्रयोज्यं तत्र पञ्च कार्यपुरुषाः यदि चत्वारः प्रकरीपतकादिरूपा तेषां च परिवारस्वभावास्तावन्त एवेति | यदि प्रकर्षस्तदा दशाष्टौ वा रङ्गे प्रविष्टा भवन्ति | ततोऽधिकेषु त्वभिनय चतुष्टयं सम्यगविभावनीयं स्यात् देवयात्रापरिदृश्यमानजनसमाजवत् | ऐवमङ्के प्रवेशकस्वरूपं वितत्याभिहितम् अधुना तत्समुदायस्य नाटकस्य यादृग्रूपं तद्दर्शयति काव्यं गोपुच्छाग्रमिति | क्रमसूक्ष्माङ्गमिति केचित् | अन्ये तु यथा गोपुच्छे केचिद्वालाः ह्रस्वाः केचिद्दीर्घाः एवं कानिचित्कार्याणि प्. ४२९) ये चोदात्ता भावास्ते सर्वे पृष्ठतः कार्याः || ४२ || सर्वेषां काव्यानां नानारसभावयुक्तियुक्तानाम् | निर्वहणे कर्तव्यो नित्यं हि रसोऽद्भुतस्तज्ज्ञैः || ४३ || नाटकलक्षणमेतन्मया समासेन कीर्तितं विधिवत् | प्रकरणमतःपरमहं लक्षणयुक्त्या प्रवक्ष्यामि || ४४ || यत्र कविरात्मशक्त्या वस्तु शरीरं च नायकं चैव | मुखसन्धौ परिसमाप्तानि कानिचित् प्रतिमुखपर्यन्तानि कानिचिदवमर्शावसानानि पराणि निर्वहणपर्यवसायीनि तद्यथा रत्नावल्यां प्रमोदोत्सवो मुखसन्धावेव निष्ठित इत्यादि यावत् बाभ्रव्यवृत्तान्ती मुखोपक्षिप्तो निर्वहणनिष्ठां प्राप्तः | साररूपाश्च पदार्थाः पर्यन्ते कर्तव्याः | अत्र हेतुमाह सर्वेषाम् काव्यानामिति | नाटकादीनां निर्वहणोऽद्भुतरसः कर्तव्यः | एवं हि तानि काव्यानि रसभावानां युक्त्या परस्परसंबद्धानि युक्तानि भवन्ति नान्यथा एकवाक्यतां च विना कः प्रबन्धार्थ | तथा च शृङ्गारवीररौद्रैः स्त्रीरत्नपृथिवीलाभशत्रुक्षयाः करुणादिभिस्तन्निवृत्तिरितीयता क्रमेण लोकोत्तरासंभाव्यमनोरथप्राप्तौ भवितव्यमद्भुतेन | असाधारणलाभो हि यदि फलत्वेन कल्प्यतेऽवश्यं क्रियायाः किञ्चिदस्त्येव फलमात्रामिति किं तत्रोपायव्युत्पादनायत्तेनेत्यद्भुतावसानत्वमकार्यम् केन व्युत्पद्यजनस्यैवं बुद्धिर्जायते - अहो दुष्करमप्युपायक्रमेण सिध्यति इति उपायेन वर्तितव्यं इति | पूर्वोक्तमुपसंहरति वक्तव्यान्तरं चाक्षिपति नाटकलक्षणमेतदित्यादि | क्वचिल्लक्ष्यं प्रसिद्धम् इह तु लक्षणबलेन तस्यैव यत्नप्रसाध्यत्वमिति दर्शयति | लक्षणयुक्त्य लक्षणद्वारेण युक्तिः हृदयानुप्रवेशनया हेतुभूतया संपाद्ययेत्यर्थः | तत्र प्रकरणस्य सभेदस्य सलक्षणं नामनिर्वचनं चाह यत्र कविरात्मशक्त्येति | वस्त्विति साध्यं फलं शरीरमिति तदुपायं वस्त्वादिकं काव्याभिधेयमात्मशक्त्या प्रकुरुते यत्काव्येन तत्प्रकरणमिति बुधैर्ज्ञेयमिति संबन्धः | यत्र प्. ४३०) औत्पत्तिकं प्रकुरुते प्रकरणमिति तद्बुधैर्ज्ञेयम् || ४५ || यदनार्षमथाहार्यं काव्यं प्रकरोत्यभूतगुणयुक्तम् | उत्पन्नबीजवस्तु प्रकरणमिति तदपि विज्ञेयम् || ४६ || यन्नाटके मयोक्तं वस्तु शरीरं च वृत्तिभेदाश्च | तत्प्रकरणेऽपि योज्यं सलक्षणं सर्वसन्धिषु तु || ४७ || समुत्पाद्यं न भवति तत्र योऽनुत्पाद्योंऽशः न कुतस्थो ग्राह्य इति दर्शयितुमाह यदनार्पमित्यादि | अनार्षमिति पुराणादिव्यतिरिक्तबृहत्कथाद्युपनिबद्धं मूलदेवचरितादि | आहार्यमिति पूर्वकविकाव्याद्वाहरणीयं समुद्रदत्तचेष्टितादि | ननु च तत्रांशे कविकृतत्वाभावात्कथं प्रकरणवाचोयुक्तिरित्याह उत्पन्ने पूर्वसिद्धे बीजं वस्तु च यत्र तादृशमपि तत् यदिति वस्तुभूतैः बृहत्कथादौ काव्यान्तरे वा र्पसिद्धैर्गुणैर्युक्तं प्रकरोति तदिति तस्माद्धेतोरेतदपि प्रकरणम् | तेन बृहतत्कथादिसिद्धस्य मूलदेवादेरधिकावापं कविशक्तिर्यदा विधत्ते तदा प्रकरणम् | एवं पूर्वकविसमुत्प्रेक्षितसमुद्रदत्तचेष्टादिवर्णनेऽपि अधिकावापं विदधत्कविः प्रकरणं कुर्यादिति तात्पर्यम् | नन्वस्येति वृत्तस्य कथं योजनेत्याशंक्य पूर्वोक्तमेवातिदेशद्वारेण स्मारयितुमाह यन्नाटके मयोक्तमिति | नानाविभूतियुक्तमृद्धिविलासादिभिरित्यादिनायकफलवत्वमुक्तं तत् वस्तुशरीरमिति अङ्कप्रवेशकाढ्यं वृत्तिभेदाश्चेति नानारसभावचेष्टितैर्बहुधा | सुखदुखोत्पत्तिकृतमिति सलक्षणमित्यङ्कप्रवेशकयोर्लक्षणयुक्तमिति | केचित्तु शरीरग्रहणेन गतार्थं तस्माल्लक्षणमित्यङ्कपरिमाणमङ्कान्तरसन्धानहेतुषु च प्रवेशकेषु यत्प्रयोज्यमुक्तं दिवसावसानकार्यं यद्यङ्केनोपपद्यत इत्यादि प्. ४३१) विप्रवणिक्सचिवानां पुरोहितामात्यसार्थवाहानाम् | चरितं यन्नैकविधं ज्ञेयं तत्प्रकरणं नाम || ४८ || नोदात्तनायककृतं न दिव्यचरितं न राजसम्भोगम् | बाह्यजनसंप्रयुक्तं तज्ज्ञेयं प्रकरणं तज्ज्ञैः || ४९ || दासविटश्रेष्ठियुतं वेशस्त्र्युपचारकारणोपेतम् | मन्दकुलस्त्रीचरितं काव्यं कार्यं प्रकरणे तु || ५० || इत्यादि तत्सर्व प्रकरणेऽपि योज्यम् इति | अतिदेशायातमतिप्रसङ्गं वारयत्यार्याद्वयेन विप्रवणिमित्यादिना | सचिवो मन्त्री अमात्योऽधिकृतः सार्थवाहस्तावत्पण्यानामाहर्ता तद्देशक्रयविक्रयकृतो वणिजोऽन्य एव | नैकविधमित्यनेकरमयुक्तमित्यर्थः | नैकरसान्तरविहित इति तदतिदेशमात्रमिति सूचितम् | प्रख्यातोदात्तेति प्रसक्तं निषेधति नोदात्तेति | तन्निषेधे चार्थान्नाटके वैपरीत्यमायातम् | नाटके च देवो नायकत्वेन निषिद्ध इति प्रकरणे कर्तव्यत्वेनापाद्यत इत्याह न दिव्यचरितमिति | तथा न दिव्याश्रयमिति यदनादेशाद् देवानां प्रयोज्यत्वं प्रसक्तं तदप्यनेन निषिद्धम् | नाटके देवानामिवेहापि राज्ञः प्रवेशे शङ्कमाने निराकरोति न राजसंभोगमिति | यदि वा औत्पत्तिकत्वेऽपि न राजोचितसंभोगोत्प्रेक्षा विप्रादिषु करणीयेत्यनेन शिक्षयति अत एव राजनियमः | उचितोऽन्तःपुरजनः कञ्चुकिप्रभृतिः तद्व्यतिरिक्तो बाह्यजनोऽत्र चेटदासादिः प्रवेशकादौ कार्य इत्यर्थः | एतदेव दर्शयति दासविटश्रेष्टियुतमिति कञ्चुकिस्थाने दासः विदूषकस्थाने विटः अमात्यस्थाने श्रेष्ठीत्यर्थः | वेश्यावाटो वेशः तत्र या स्त्री तस्याः य उपचारो वैशिके (अ-२३) वक्ष्यते स कारणं यस्य शृङ्गारस्य तेनोपेतं कुलस्त्रीविषयं चेष्टितं मन्दं यत्रेति | उपाध्यायास्तु मन्दकुलानां स्त्रीणां चरितं प्. ४३२) सचिवश्रेष्ठिब्राह्मणपुरोहितामात्यसार्थवाहानाम् | गृहवार्ता यत्र भवेन्न तत्र वेश्याङ्गना कार्या || ५१ || यदि वेशयुवतियुक्तं न कुलस्त्रीसङ्गमोऽपि स्यात् | अथ कुलजनप्रयुक्तं न वेशयुवतिर्भवेत्तत्र || ५२ || यत्रेत्याहुः तेन कुलाङ्गनापि तत्र मन्दकुलैवेति दर्शितं भवति | एतदेवाभिमन्यमानेन पुष्पदूषितकेऽशोकदत्तादिशब्दाकर्णनेन समुद्रदत्तस्य शङ्का योपनियद्धा सा न दोषाय निर्वहणान्तोपयोगिनी हि नन्दयन्तीनिर्वासनं तस्याश्च गृहान्तरावस्था | इदमेव मुखसन्धौ मूलं परपुरुषसंभावनामूलत्वात् | एवमनभ्युपगमे तु श्वशुरेण बध्वा असन्निहिते पुते निर्वासनं शबरसेनापतिगृहेऽवस्थानमित्युत्तमप्रकृतीनामनुपपन्नमेव | तस्मात् स्ववर्गापेक्षयेदमुत्तमत्वमद्यतने राजोचितानामुत्तमप्रकृतीनां वणिद्मावे समारोप्य तद्रुषणं यत्कृतं न तेन ब्रह्मयशःस्वामियशः खण्डितं अपि तु स्वयश एव | ये हि मिथ्यायशो मिथय कलङ्कयितुमुद्यतास्तेषां खयश एवेति यशोमात्रवशेषता न हि नायकशब्दमात्रादेव दुर्योधनवदेव शङ्काद्यनुचितम् | प्रकरणे हि तादृश एव नायकः केवलमन्यवणिगपेक्षया स उत्तमोऽस्तु व्युत्पाद्यश्च तत्रैवंविध एवेत्यलमवान्तरेण | अथास्य सप्तविधस्यापि प्रकरणस्य प्रत्येकं भेदत्रयं दर्शयितुमार्यात्रयं पठति सचिवेत्यादि | सचिवादीनां संबन्धिनी यत्र गार्हस्थ्योचिता वार्ता पुरुषार्थसाधकमितिवृत्तं न तत्र वेश्याङ्गना नायिकात्वेन निबन्धनीया विटादीनां तु नायकत्वेन कृतानां गार्हस्थ्यचिन्तायां सापि निबन्धनीयेत्युक्तं भवति | यदि गृहस्थचिन्तावर्णनं न भवति श्रेष्ठिसार्थवाहादीनां च विप्रादिवदविरुद्धो वेश्यायोग इति सापि प्रदर्शनीयेति लब्धमर्थात् | तत्र न तु कुलस्त्रीसंगमः कर्तव्यः | तदाह यदि वेशयुवतीति | अथ कुलजनप्रयुक्तमिति | एवं श्रेष्ठिसचिवादिविषयं शुद्धं भेदद्वयमुक्तं विठादिविषयस्तु संकीर्ण एव वेश्याकुलजाभ्यां भवति | प्. ४३३) यदि वा कारणयुक्त्या वेशकुलस्त्रीकृतोपचारः स्यात् | अविकृतभाषाचारं तत्र तु पाठ्यं प्रयोक्तव्यम् || ५३ || मध्यम पुरुषैर्नित्यं योज्यो विष्कम्भकोऽत्र तत्त्वज्ञैः | संस्कृतवचनानुगतः संक्षेपार्थः प्रवेशकवत् || ५४ || शुद्धः संकीर्णो वा द्विविधो विष्कम्भकोऽपि कर्तव्यः | मध्यमपात्रः शुद्धः संकीर्णो नीचमध्यकृतः || ५५ || तदाह यदि वा कारणयुक्त्येति | विटे वेशस्त्री प्रधानत्वात् पूर्वमुक्ता कुलस्त्री तु तत्रापि पितृपितामहाद्यनुरोधादिति कारणशब्देनोक्तम् | अविकृता भाषा कुलस्त्रियाः शौरसेनी वेश्यायाः संस्कृता आचारः कुलस्त्रियां विनयप्रधानः अन्यस्यां तद्विपरीतः | तथा च देवीचन्द्रगुप्ते वसन्तसेनामुद्दिश्य माधवस्योक्तिः (माधवसेनामुद्दिश्य चन्द्रगुप्तस्योक्तिः ?) - आनन्दाश्रु सितेतरोत्पलरुचोरावध्नता नेत्रयोः प्रत्यङ्गेषु वरानने पुलकिषु स्वेदं समातन्वता | कुर्वाणेन नितम्बयोरुपचयं संपूर्णयोरप्यसौ केनाप्यस्पृशताप्यधोनिवसनग्रन्थिस्तवोच्छ्वासितः || इति | अत्र हि व्युत्पाद्यस्तथाविध एव तादृश्येव च वृत्तङ्के एवमेतत् | एकविंशतिः प्रकरणे भेदाः | प्रकरणे नायकापेक्षया प्रायशः उपयोगिनोऽपि मध्यमा एव संभवन्तीति तत्र विष्कम्भकस्य बाहुल्येन सभावनमित्याशयेन प्रकरणे विष्कम्भकं लक्षयति मध्यमपुरुषैरिति | विष्कम्भयत्युपस्तम्भयतीति विष्कम्भकः | संस्कृतेन वचनेनानुगतं च सङ्कीर्णोऽप्यस्त्येवेति प्रवेशकेन वार्थक्रियाकर्तव्यतामेव कर्तव्यत्वेनाभिसन्धाय विष्कम्भकः कार्यः | तामेवार्थक्रियां स्पष्टयति प्. ४३४) अङ्कान्तरालविहितः प्रवेशकोऽर्थक्रियां समभिवीक्ष्य संक्षेपात्सन्धीनामर्थानां चैव कर्तव्यः || ५६ || अनयोश्च बन्धयोगादन्यो भेदः प्रयोक्तृभिः कार्यः | प्रख्यातस्त्वितरो वा नाटकयोगे प्रकरणे वा || ५७ || संक्षेपात्सन्धीनामर्थानां चेति | सन्धीनां यः संक्षेपो युद्धराज्यभ्रंशादीनां चार्थानां यः संक्षेपस्तमभिसन्धाय अङ्कस्याङ्कयोर्वान्तराले मध्ये विष्कम्भको योज्यः | ननु कोहलेन मुखाङ्कस्य चायमन्तरान्तरे विहितः मध्यमपुरुषनियोज्यो नाटकमुखसन्धिमावसञ्चारः | विष्कंभको हि कार्यो नाटकयोगे प्रवेशकवत् | इति | तत्कथमुक्तमङ्कान्तरानुसारीति उपलक्षणार्थमेतदित्यदोषः | तथाहि बीजं बिन्दुश्च प्रथममुपक्षिप्येते तत्र च पृथग्जनस्यालब्धनिवेशत्वात् सचिवादिगोचरत्वाच्च तदुपक्षेपे विष्कम्भकस्यैवावसर इति यदुच्यते तदङ्कान्तरेष्वपि मन्त्रगुप्ततायां तुल्यमिति तत्राप्यनिवारितो विष्कम्भकप्रवेशः | पृथग्जनोऽपि वा यत्र मन्त्रचिन्तायामनुप्रवेश्यते तत्र प्रवेशकोऽपि प्रथओपक्षेपे न योग्य इति युक्तम् | सामान्येनाङ्कान्तरानुसारीति अङ्कस्य मध्य इत्यनेन प्रस्तावनाङ्कमध्यवर्तिताप्युक्तैव | प्रवेशकविष्कम्भकविषये लिङ्गवचनयोरतन्त्रत्वात् स्त्रीणामप्यनुप्रवेशः संख्याधिक्यस्य च | एवं सकलपुरुषार्थविषया व्युत्पत्तिः नाटकेन प्रधानस्य राजप्रायस्य क्रियते प्रकरणेन च मध्यमप्रायस्य अपूर्वकुतूहलवतस्तत्रापि चैकविशकस्याभिधानात् चित्रव्युत्पत्तिः | तत्र रूपकलक्षणस्य संकीर्णतया बहवो भेदाः सन्तीत्युक्तं सामान्यलक्षणे | तत्र प्रधानभूतयोः सर्वरूपकप्रसरणकारिणोः नाटकप्रकरणयोर्लक्षणसाङ्कर्ये दर्शिते सर्वरूपकाणां दर्शनं तद्भवतीत्यभिप्रायेण तदेव प्. ४३५) प्रकरणनाटकभेदादुत्पाद्यं वस्तु नायकं नृपतिम् | अन्तःपुरसङ्गीतककन्यामधिकृत्य कर्तव्या || ५८ || स्त्रीप्राया चतुरङ्का ललिताभिनयात्मिका सुविहिताङ्गी | बहुनृत्तगीतपाठ्या रतिसम्भोगात्मिका चैव || ५९ || राजोपचारयुक्ता प्रसादनक्रोधदम्भसंयुक्ता | नायकदेवीदूती सपरिजना नाटिका ज्ञेया || ६० || दर्शनीयम् | उद्देशक्रमानुसारेण तु तल्लक्षनविस्तरणं पुनस्तल्लक्षणपरामर्शे च गौरवमित्यभिप्रायेणार्यात्रयं पठति प्रकरणनाटकभेदादित्यादि | प्रकरणनाटकाभ्यां भेदात् लक्षणान्यत्वान्नाटिका ज्ञेयेति दूरेण संबन्धः | उत्पाद्यं वस्तु चरितं च नायकं च नृपतिमन्तःपुरकन्यां सङ्गीतशालाकन्यां बाधिकृत्य प्राप्यत्वेन अभिसन्धाय कर्तव्या | स्त्रियः प्रायेण बाहुल्येन यत्र | चत्वारोऽङ्काः यस्याः कस्याश्चिदवस्थायाः सरसोऽवस्थासमावापः कार्य इति यावत् | ललिताभिनयात्मिकेति कैशिकीयं बद्धेत्यर्थः | सुष्ठु पूर्णतया विहितानि चत्वार्यपि कैशिक्यङ्गानि यत्र | अङ्गगात्रकण्ठेभ्य इत्यत्र स्वाङ्गविशेषणाभावात् ङीष् प्रयोगः | एतदपि न मुनित्रयमतमित्यनादृत्यमिति त्वन्ये | रतिपुरस्सरः संभोगो राज्यप्राप्त्यादिलक्षण आत्मा प्रधानभूतं फलं यस्याम् | अत एवाह राजगतेरुपचारैः व्यवहारैर्युक्ता अन्यां चेदुद्दिश्य तत्र व्यवहारः तत्पूर्वनायिकागतैः क्रोधप्रसादवञ्चनिरवश्यं भाव्यमिति दर्शयति प्रसादनेति आर्यानुरोधात्क्रोधस्य पश्चात्पाठः | ननु यस्याः क्रोधो भवति सा न काचिदुक्तेत्याशंक्याह नायकेति | नायकस्य येयं देव्याद्या नायिका तथाभिलषितनायिकान्तरविषये दूतीकृतं सपरिजनं परिजनसमृद्धिर्यस्यां | एतदुभयप्रधानं सर्वं तत्रेत्यर्थः | अन्यत्स- प्. ४३६) अन्तर्भावगता ह्येषा भावयोरुभयोयर्तः | अत एव दशैतानि रूपाणीत्युदितानि वै ||) ६१ || प्रकरणनाटकलक्षणमुक्तं विप्रा मया समासेन | वक्ष्याम्यतः परमहं लक्षणयुक्त्या समवकारम् || ६२ || न्ध्यङ्गादि सर्वं पूर्ववदेव | तत्रैका नायिका तावद् व्याख्याता भवति | षट्पदेयं नाटिकेति संग्रहानुसारिणो भट्टलोल्लटाद्याः | श्रीशङ्कुकस्त्वयुक्तमेतदित्यभिधायाष्टधेति व्याचष्टे तथा हि देवी कन्या च ख्याताख्यातभेदेन चतुर्धा कन्यास्त्वन्तः पुरसङ्गीतकभेदेन द्विधेति | घण्टकादयस्वाहुः - नायको नृपतिरित्येतावन्मात्रं नाटकादावुपजीवितः न तु प्रख्यातत्वमपि तद्भेदद्वयादन्येऽष्टाविति षोडशभेदा इति | नायको नृपतिरिति ये प्रथमां पठन्ति तैर्यत्रेत्यध्याहृत्यैकवाक्यतायां तूभयस्य कार्यम् | अन्ये प्रथममार्यार्धं पृथगेव च वाक्यं योजयन्ति | प्रकरणभेदात्प्रकरणलक्षणांशात् उत्पाद्यं वस्तु नाटकलक्षणांशाच्च नृपतिर्नायकः स्थिते यत्रेत्यभिप्राये नाटिकैवंभूतेति | अन्ये तु प्रकरणनाटकभेदात् नाटिका भिद्यते नाटकशब्देनाभिनेयं रूपकमात्रं तस्यां सौकुमार्यप्रदर्शनाय स्त्रीत्वेन निर्देश इति प्रकरणिकापि सार्थवाहादि नायकयोगेन कैशिकीप्रधाना लभ्यत इत्याहुः | यद्यपि च नाटिकैवमुक्तः तथापि प्रकरणनाटक लक्षणे एव तथा स्थिते तत्रेत्यभिप्रायेण उपसंहर्ति प्रकरणनाटकलक्षणमिति अन्यदासूत्रयति वक्ष्याम्यतः परमिति | ननूद्देशक्रमत्यागे किं फलं उद्देशस्तावदत्र न परिगणनार्थ इत्युक्तं तेनास्य प्राधान्यान्नाटिककया च विच्छिन्नोऽसावुद्देशक्रमः | यथा च नाटकप्रकरणयो व्युर्त्पाद्यभूयस्त्वं तथा समवकारेऽपि तत्र त्रिवर्गोपायप्रदर्शनात् | केवलं तत्तद्देवताभक्तानां तच्चरितपुरस्मरतया तस्य तस्योपायस्यादरणीयत्वं भवतीत्यनेनाभिप्रायेण दिव्योऽत्र नायकत्वेन निषिध्यते | तदीयं च भूयस्तरं न भूयस्तरं विततवृत्तमनुक्रियया प्रदर्शयते तेन तन्मध्यपतितानां भवति निर्वेदादीनामभावे प्रयोगस्यारञ्जकत्वं नाटकगताङ्कैकदेशवत् नाटकादौ तु भूयस्तरं प्. ४३७) देवासुरबीजकृतः प्रख्यातोदात्तनायकश्चविअ | त्र्यङ्कस्तथा त्रिकपटस्त्रिविद्रवः स्यात्त्रिशृङ्गारः || ६३ || द्वादशनायकबहुलो ह्यष्टादशनाडिकाप्रमाणश्च | वक्ष्याम्यस्याङ्कविधिं यावत्यो नाडिका यत्र || ६४ || अङ्कस्तु सप्रहसनः सविद्रवः सकपटः सवीथीकः | द्वादशनाडीविहितः प्रथमः कार्यः क्रियोपेतः || ६५ || चरितमनेकाङ्गरञ्जक्कवर्गेण विना न रञ्जकमेवेति नाटकादौ दिव्यनायकनिषेध उक्तः | (नोक्त?) तत्र हि राजप्रभृतयो बहुतरफलानुबन्धिनि महति फले संप्रयाससाध्ये व्युत्पाद्यन्ते न तथेह किन्तु त्रिवर्गोपायमात्रे | अन्यरूपकाणांतु त्रिवर्गोपायत्वं नास्ति एकाङ्कत्वात् डिमस्तु चतुर्ङ्कोऽपि पश्चान्निर्दिष्ट इत्यत्र तल्लक्सणे कारणं वक्ष्यामः | तस्मात् त्रिवर्गव्युत्पादकत्वादनेकाङ्कत्वाच्च तादृशरूपकानन्तरमेवाभिधानं युक्तमित्यलं बहुना | देवासुरस्य यद्बीजं फलसंपादनोपायस्तेन कृतो विरचितः | देवासुरा अपि चाप्रख्याता बृहत्कथादौ श्रूयन्ते स्वयं वा केनचिदूह्यन्त इति तन्निरासार्थं प्रख्यातपदम् | यद्यपि देवाः पुरुषापेक्षयोद्धतास्तथापि स्वापेक्षया गाम्भीर्यप्रधानतयोदात्ता उच्यन्ते भगवत्रिपुररिपुप्रभृतयः | प्रशान्ताः ब्रह्मादयः उद्धताः नृसिंहादयः | अत्र यत्र तावत्येव समापन्नं त्र्यङ्क इत्युक्तम् | अर्थत्रयं च कपटविद्रवशृङ्गाराः प्रत्येकं त्रिविधास्तत्र प्रत्यङ्कं विद्रवादयस्त्रयस्तथाहि कपट उपायांशे विद्रवो व्यापत्तिसंभावनांशे शृङ्गार फलांशे एवं द्वितीयेऽङ्के तृतीये च | द्वादशनायकबहुल इति प्रत्यङ्कमिति केचित् | अन्ये तु प्रत्यङ्कं नायकप्रतिनायकौ तत्सहायौ चेति चतुराहः समुदायापेक्सया हि द्वादशेति | सप्रहसन इति वचनात् प्रथमेऽङ्के कामशृङ्गारः प्रयोज्य इत्याह तत्रैव हास्यस्यागमनात् | स्त्रि(क्रि?)योपेत इति कामशृङ्गारात्मकं द्वादशघटिकामध्यसंपाद्यैः कपटविद्रवप्रह प्. ४३८) कार्यस्तथा द्वितीयः समाश्रितो नाडिकाश्चतस्रस्तु | वस्तुसमापनविहितो द्विनाडिकः स्यात्तृतीयस्तु || ६६ || नाडीसंज्ञा ज्ञेया मानं कालस्य यन्मुहूर्तार्धम् | तन्नाडिकाप्रमाणं यथोक्तमङ्केषु संयोज्यम् || ६७ || या नाडिकेति संज्ञा कालविभागे क्रियाभिसंपन्ना | कार्या च सा प्रयत्नाद्यथाक्रमेणैव शास्त्रोक्ता || ६८ || अङ्कोऽङ्कस्त्वन्यार्थः कर्तव्यः काव्यबन्धमासाद्य | अर्थं हि समवकारे ह्यप्रतिसंबन्धमिच्छन्ति || ६९ || सनलक्षणैरुपायैः प्राप्ते प्रथमाङ्के निबध्नीयादिति तात्पर्यम् | द्वितीये त्यङ्के घटिकाचतुष्टयगामिभिः कपटादिभिरुपायेः तृतीये त्वङ्के सर्वं वस्तुसमाप्यते द्विघटिकान्तरसंपाद्यैरुपायैः यद्यपि प्रत्यङ्कम् वस्तुपरिसमाप्तिरस्ति तथापि तृतीये वस्तुसमाप्तिग्रहणेनेदमाह बीजे तावदङ्कत्रयार्थ उपक्षेप्तव्यः तदनन्तरमङ्कद्वयेऽवान्तरवाक्यार्थसाअप्तिरन्योन्यविशिष्टैव विधेया | तृतीये त्वङ्केऽवान्तरवाक्यार्थः | तृतीयस्ताभ्यां प्रतिसंबद्धः | एवं महावाक्यार्थनिर्वाहहेतुसंबद्धतैव सर्वस्य जायते | एवं हि सानुसन्धाना विततदृशोऽपि त्रिवर्गसिद्ध्युपायव्युत्पत्त्यनुगृहीता भवति निरनुसन्धानापि तावत्तावत् परिसमाप्त्या तावत्युपाये निजहृदयसंवादबलादिति | अत एवंबद्धोऽवकीर्णश्च यत्रार्थः समवकारस्तदाह अङ्कोऽङ्क इति तुर्व्यतिरेके अङ्कत्रयसंबन्धो भवति न त्वङ्कोऽङ्कः परस्परमित्यर्थः | काव्यबन्धमिति | सर्वं वस्तु काव्यबन्धोऽपश्लिष्टमित्यर्थः अन्यथा हि समवकार एकं कार्यमिति केयं फणितिः | एतदेव निर्वचनेनाह अर्थं हि समवकार इति | समवकार इत्यस्मिन् शब्देऽर्थं वाच्यमप्रतिसंबन्धमिति नातिसंबद्धं किञ्चित्संबद्धं वस्त्विच्छन्ति प्. ४३९) युद्धजलसम्भवो वा वायवग्निगजेन्द्रसंभ्रमकृतो वा | नगरोपरोधजो वा विज्ञेयो विद्रवस्त्रिविधः || ७० || वस्तुगतक्रमविहितो दैववशाद्वा परप्रयुक्तो वा | सुखदुःखोत्पत्तिकृतस्त्रिविधः कपटोऽत्र विज्ञेयः || ७१ || त्रिविधश्चात्र विधिज्ञैः पृथक्पृथक्कार्ययोगविहितार्थः | शृङ्गारः कर्तव्यो धर्मे चार्थे च कामे च || ७२ || संशब्दबलादवशब्दबलाच्च | प्रतिशब्देनातिशय उक्तः स निषिद्धः | त्रिविद्रव इत्युक्तं तत्र्यं वक्तव्यमचेतनकृतमन्यकृतमुभ्यकृतं वा यदनर्थात्मकं वस्तु यतो विद्रवन्ति जनाः स विद्रव इति त्रिविधः | तत्राचेतनकृतमुदाहर्तुं जलवायवादिग्रहणम् | चेतनकृते गजेन्द्र उदाहरणम् | द्वयकृते नगरोपरोधस्तस्य युद्धाग्निदानादिसंपाद्यत्वात् | कपटो वञ्चना तस्याश्रयणमङ्गीकरणम् | त्रिधा तत्र वञ्चना बुद्ध्यैव कदाचित्केवलया कपटो भवति स हि वस्तुगतक्रमविहितः वस्तु फलं तत्प्राप्तौ वस्तुगतः फलसाधकः कर्त तस्य यः क्रम उपायचिन्तनादिः तेन विहितः यत्रानपराद्ध एव वञ्चकेन वञ्च्यते स एवमुक्तः | यत्र तु वञ्चनीयोऽपि सापराधः स परप्रयुक्तः कपटः तदपराधे तु वञ्चकस्य वञ्चनेच्छा नास्तीति नायं भेदः संभवति वञ्चनेच्छाभावे वञ्चनायाः संपत्त्ययोगात् | यत्र तु द्वयोरपि न कश्चिदभिसन्धिदोषः काकतालीयेन तुल्यफलाभिसन्धानवतोरप्येक उपचयेनापरस्त्वपचयेन युज्यते तत्र वञ्चना सा दैवकृता | न च कस्यचित्सुखमन्यस्य दुःखमुत्पादयतीति | धर्मेऽस्र्थे काम इति सप्तम्या कार्यत्वं कारणत्वं चोच्यते | तेन धर्मो यत्र हेतुर्वा साधो वा नायिकालाभे स धर्मशृङ्गारः | एवमर्थकामयोर्वाच्यम् | यत्र शृङ्गार इति तद्विषयः प्रमदा व्यपदिश्यते व्रतादियुक्त्या प्राप्यो यत्र प्. ४४०) यस्मिन् धर्मप्रापकमात्महितं भवति साधनं बहुधा | व्रतनियमतपोयुक्तो ज्ञेयोऽसौ धर्मशृङ्गारः || ७३ || अर्थस्येच्छायोगाद्बहुधा चैवार्थतोऽर्थशृङ्गारः | स्त्रीसंप्रयोगविषयेष्वर्थार्था वा रतिर्यत्र || ७४ || कन्याविलोमनकृतं प्राप्तौ स्त्रीपुंसयोस्तु रम्यं वा | निभृतं सावेगं वा यस्य भवेत्कामशृङ्गारः || ७५ || च प्राप्ते धर्मप्रार्थनारूपमात्महितं यज्ञादि पत्नीसंयोगकृतं सिध्यतीति संबन्धः अनेकधेति राज्यभूमिगोसुवर्णादिभेदेनेत्यर्थः | रतिवहुमानोऽर्थार्थमिति योषितां पुरुषाणां च | ननु च देवेसु कथमर्थार्थित्वं गन्धर्वयक्षादिषु संभवत्येवेति केचित् | यदर्थनीयं तदर्थो देवेष्वपि चैतत्संभवतीत्यन्ये | उपाध्यायास्त्वाहुः - तत्र नायकयोरनुप्राप्तिरप्यन्यगतैव | यथा भगवतो भवानीपतेः गिरिराजपुत्रीसङ्गमनमिद्रादीनां तारकाक्रान्तनिजराज्यसमुन्मोचनाय भवतीति | कन्यायां विलोभो नायकस्य तस्याश्च तस्मिन्निति परस्परानुरागकृत इत्यर्थः | स्त्रीपुंसयोरुद्यानस्थानादि प्राप्तौ निभृत इति प्रच्छादनपूर्वकं यदि चासावेवास्मीति प्रकटं कृत्वा यः शृङ्गारः स कामप्रयुक्त एव | स्त्री पुनरत्र परस्त्री विवक्षिता यथा शक्रस्याहल्या | नन्वेवं शृङ्गारयोगे काव्ये कैशिकीहीनता | कैशिक्यां वृत्तौ हानानीति तत्र समासः तेन नर्माद्यङ्गचतुष्कतदुपरञ्जकगीतनृत्यवाद्याद्यभावात् कैशिक्या प्. ४४१) उष्णिग्गायत्र्याद्यान्यन्यानि च यानि बन्धकुटिलानि | वृत्तानि समवकारे कविभिस्तानि प्रयोज्यानि || ७६ || एवं कार्यस्तज्ज्ञैर्नानारससंश्रयः समवकारः | वक्ष्याम्यतः परमहं लक्षणमीहामृगस्यापि || ७७ || दिव्यपुरुषाश्रयकृतो दिव्यस्त्रीकारणोपगतयुद्धः | सुविहितवस्तुनिबद्धो विप्रत्ययकारकश्चैव || ७८ || उद्धतपुरुषप्रायः स्त्रीरोषग्रथितकाव्यबन्धश्च | हीनात्र भवति | उपाध्यायास्त्वाहुः न कामसद्भावमात्रादेव कैशिकीसंभवः रौद्रप्रकृतीनां तदभावात् | विलासप्रधानं यद्रूपं सा कैशिकी न च चरितम् तद्रूपानुप्रवेशेऽपि तद्व्यवहारः प्राधान्यकृतो ह्यसावित्युक्तम् | तेन तत्र विषये भारत्यादिवृत्त्यन्तराभिधानमेव युक्तमिति | उष्णिक्सप्तभिः गायत्री षड्भिः | बन्धकुटिलानि विषमार्धसमानि तान्यत्र समवकारे सम्यग्योज्यानीति | नैव प्रयोज्यानीत्युद्भटः पठति स्रग्धरादीन्येव प्रयोज्यानि नाल्पाक्षराणीति स व्याचष्टे | एवं श्रद्धालवो देवताभक्ताः तद्देवयात्रादावनेन प्रयोगेणानुगृह्यन्ते निरनुसन्धानहृदयाः स्त्रीबालमूर्खाश्च विद्रवादिनाहृतहृदयाः क्रियन्ते इत्युक्तः समवकारः | अथेहामृगमाह दिव्येति दिव्यानां पुरुषाणां आश्रयणं नायकतया तेन कृतः दिव्यस्त्रीनिमित्तमुपगतं युद्धं यत्र | दिव्यानुप्रवेशात्समवकारवत् असंबद्धार्थता मा प्रसांक्षीदित्याह सुविहितेन संश्लिष्टेन वस्तुना निबद्धः विगतानि प्रत्ययकारणानि विश्वासहेतवो यत्र | मध्ये च तत्र दिव्यानामपि प्रवेशो भवतीति दर्शयति उद्धतपुरुषेति स्त्रीनिमित्तको रोषः संक्षोभ आवेगः स्त्रीनिमित्तं प्. ४४२) संक्षोभविद्रवकृतः संफेटकृतस्तथा चैव || ७९ || स्त्रीभेदनापहरणावमर्दनप्राप्तवस्तुशृङ्गारः | ईहामृगस्तु कार्यः सुसमाहितकाव्यबन्धश्च || ८० || यद्व्यायोगे कार्यं ये पुरुषा वृत्तयो रसाश्चैव | ईहामृगेऽपि ते स्युः केवलममरस्त्रिया योगः || ८१ || यत्र तु वधेप्सितानां वधो ह्युदग्रो भवेद्धि पुरुषाणाम् | किञ्चिद्व्याजं कृत्वा तेषां युद्धं शमयितव्यम् || ८२ || ईहामृगस्य लक्षणमुक्तं विप्राः समासयोगेन | यानि भेदनाप्र(प)हरणावमर्दनानि यथायोगं स्त्रीविषयाणि अन्यविषयाणि तैः प्राप्तं वस्त्वधिष्ठानं प्रमदालक्षणं यस्य तादृशः शृङ्गारो यस्मिन् | अवमर्दनं दण्डः | सुसमाहितः काव्यबन्ध इत्यनेन वीथ्यङ्गान्यत्र योज्यानीति दर्शयति | अङ्कपरिमाणं नायकसंख्यां वृत्तिरसविभागं च व्यायोगातिदेशेनाह यद्व्यायोग इति | कार्यशब्देनाङ्क उच्यते | तेनैक एवाङ्कः नायकास्तु द्वादश समवकारातिदेशेन व्यायोगे तल्लाभात् | अत्र तु समवकारातिदेशेन सर्वसंपत्तेर्गौरवं स्यात् | ननु युद्धमवमर्दनं चेत्युक्तं तत्रास्य प्रत्यक्षप्रयोज्यता माभूदिति दर्शयति यत्र त्विति | वधेप्सितानां वध्यानां भवेदिति संभाव्यत इत्यर्थः | तत्रेति येषामिति चार्धमाहार्यं | व्याजमिति पलायनादि | ईहा चेष्टा मृगस्येव स्त्रीमात्रार्था यत्र स ईहामृगः | प्. ४४३) डिमलक्षणं तु भूयोलक्षणयुक्त्या प्रवक्ष्यामि || ८३ || प्रख्यातवस्तुविषयः प्रख्यातोदात्तनायकश्चैव | षड्रसलक्ऽणयुक्तश्चतुरङ्को वै डिमः कार्यः || ८४ || शृङ्गारहास्यवर्जः शेषैः सर्वै रसैः समायुक्तः | दीप्तरसकाव्ययोनिर्नानाभावोपसम्पन्नः || ८५ || निर्घातोल्कापातैरुपरागेणेन्दुसूर्ययोर्युक्तः | युद्धनियुध्दाधर्षणसंफेट कृतश्च कर्तव्यः || ८६ || मायेन्द्रजालबहुलो बहुपुस्तोत्थानयोगयुक्तश्च | देवभुजगेन्द्रराक्षसयक्षपिशाचावकीर्णश्च || ८७ || षोडशनायकबहुलः सात्त्वत्यारभटिवृत्तिसम्पन्नः | अथ डिममाह प्रख्यातवस्तुविषय इति | नाटकतुल्यं सर्वमन्यत्केवलं सन्धीनां रसानां चासमग्रता च शृङ्गारहास्यवर्जं षड्रसत्वे पर्यायेण शान्तस्य प्रयोगः स्यादित्याह दीप्तरसेति | काव्ययोनिः काव्यवस्तु | देवादयो बाहुल्येनात्र सात्वत्यारभटीति | जातिरप्राणिनाम् इति केचित् | सात्त्वत्यारभटीवृत्तिसंपन्नं वृत्तिद्वयं यत्र वृत्तिसमूहे वा वृत्तिशब्दः सात्वत्यारभटीलक्षणव्यावृत्त्या संपन्नः | डिमो डिम्बो विद्रव इति पर्यायाः तद्योगादयं डिमः | अन्ये तु डयन्त प्. ४४४) कार्यो डिमः प्रयत्नान्नानाश्रयभावसम्पन्नः || ८८ || (डिमलक्षणमित्युक्तं मया समासेन लक्षणानुगतम् | व्यायोगस्य तु लक्षणमतः परं संप्रवक्ष्यामि ||) ८९ || व्यायोगस्तु विधिज्ञैः कार्यः प्रख्यातनायकशरीरः | अल्पस्त्रीजनयुक्तस्त्वेकाहकृतस्तथा चैव || ९० || इति डियः उद्धतनायकास्तेषामात्मनां वृत्तिर्यत्रेति | इको ह्रस्वोऽङ्यो गालवस्य इति ह्रस्वः | नानाश्रयभावसंपन्न इत्यनेन सर्वभावयुक्तत्वादितिवृत्तवैचित्र्यमाह | नाटकादनन्तरं डिमलक्षणं यद्यप्युचितं तथापि तद्गतप्रवेशकादिसंभवनिराकरणार्थं तत्प्रकरणादपकृष्यास्याभिधानं तेन दिनचतुष्टयवृत्तमेवात्र प्रयोज्यम् | अङ्कावतार एव चात्र भवति | चूलिकाङ्कमुखयोस्त्वत्रापि युद्धादिवर्णने समुपयोगोऽस्त्येव | ततश्च वस्तुतः प्रवेशकाद्यनिषिद्धमेव प्रवेशकस्य ह्यसंभव एव | सरसेतिवृत्तवशाद्वा यथाङ्केष्वन्यन्यासंबन्धात् यथा समवकारे बह्वङ्केऽपि तस्मात्प्रकरणोत्कर्षोऽस्य तस्यावसरभावात् | तत्र हि नाटकान्तरमस्याभिधाने प्रकरणस्य न तत्स्पर्धित्वमुक्तं भवेत् | तदनन्तराभिधाने नाटिकादिभेदः कथं ख्याप्यः | नाटिकायां च स्त्रीप्रधानत्वात् त्रिशृङ्गारसमवकाराभिधानमेव ततः परं न्याययम् | तत्प्रसङ्गेन च दिव्यपुरुषसंबन्धादीहामृग उक्तः तदनन्तरं च दिव्यपुरुषाधिकारेण रूपकाणीति पूर्वमनेकरसयुक्तत्वेन विततेतिवृत्तत्वादयमभिधातुं युक्तमित्यलं बहुना | व्यायोगस्तु डिमस्यैव शेषभूतो दिव्यनायकाभावात् केवलमत्रोदात्तस्य राजादेः नायकता अपि त्वमात्यसेनापतिप्रभृतेर्दीप्तरसस्य अत एवाह प्रख्यातनायकेति उदात्तग्रहणमपाकर्तव्यमित्यर्थः | यथा समवकार इति द्वादशेत्यर्थः | तावदङ्कपरिमाणशङ्कामतिदेशात् प्रत्यासत्त्या प्रसक्तां वारयितुमाह एकाङ्क एवेति | एवकारेणैकाहचरितविषयत्वान्न्यायप्राप्तमेवात्रैकाङ्कत्वमित्याह | प्. ४४५) बहवश्च तत्र पुरुषा व्यायच्छन्ते यथा समवकारे | न च तत्प्रमाणयुक्तः कार्यस्त्वेकाङ्क एवायम् || ९१ || न च दिव्यनायककृतः कार्यो राजर्षिनायकनिबद्धः | युद्धनियुद्धाधर्षण संघर्षकृतश्च कर्तव्यः || ९२ || एवंविधस्तु कार्यो व्यायोगो दीप्त काव्यरसयोनिः | वक्ष्याम्यतः परमहं लक्षणमुत्सृष्टिकाङ्कस्य || ९३ || प्रख्यातवस्तुविषयस्त्वप्रख्यातः कदाचिदेव स्यात् | दिव्यपुरुषैर्वियुक्तः शेषैर्युक्तो भवेत्पुंभिः || ९४ || करुणरसप्रायकृतो निवृत्तयुद्धोद्धतप्रहारश्च | ननु प्रख्यातनायकशब्देन किमत्र गृहीतमित्यतिप्रसङ्गं शमयति न चेति | चो भिन्नक्रमः | दिव्यैर्देवैः नृपैः ऋषिभिश्च नायकैः न निबद्धोऽयं भवतीत्यर्थः | ननु कस्मादयं व्यायोग इत्याह युद्धनियुद्धेति व्यायामे युद्धप्राये नियुध्यन्ते पुरुषा यत्रेति व्यायोग इत्यर्थः | नियुद्धं वाहुयुद्धं संघर्षः सौर्यविद्याकुलरूपादिकृता स्पर्धा | दीप्तं काव्यगोजोगुणयुक्तं दीप्तरसाद्या वीररौद्राद्याः तदुभयं योनिः कारणमस्य | रौद्राद्यनन्तरं रौद्रस्य चैव यत्कर्म स ज्ञेयः करुणः (६-४५) इत्युक्तत्वात्तत्प्रधानमुत्सृष्टिकाङ्कमेतदनन्तरमाह | प्रख्यातवस्तुविषय इति | प्रख्यातं भारतादियुद्धे विषये निमित्ते सति यत्तत्करुणबहुलं चेष्टितं वर्ण्यते तत्ख्यात्ऽम् स्त्रीपर्ववृत्तान्तवत् माभूदित्यप्रख्यातग्रहणेनोक्तम् | तेनोभयोपादानस्य परस्परविरुद्धार्थत्वादकिञ्चित्करत्वं नाशङ्कनीयम् | निवृत्तयुद्धा उद्धतप्रहाराः प्. ४४६) स्त्री परिदेवितबहुलो निर्वेदितभाषितश्चैव || ९५ || नानाव्याकुलचेष्टः सात्त्वत्यारभटिकैशिकीहीनः | कार्यः काव्यविधिज्ञैः सततं ह्युत्सृष्टिकाङ्कस्तु || ९६ || यद्दिव्यनायककृतं काव्यं संग्रामबन्धवधयुक्तम् | तद्भारते तु वर्षे कर्तव्यं काव्यबन्धेषु || ९७ || कस्माद्भारतमिष्टं वर्षेष्वन्येषु देवविहितेषु | हृद्या सर्वा भूमिः शुभगन्धा काञ्चनी यस्मात् || ९८ || पुरुषा यस्मिन् | परिदेवितं दैवोपालम्भात्मनिन्दारूपमनुशोचनं यत्र | निर्वेदितानि येषु श्रुतेषु निर्वेदो जायतेतादॄंशि भाषितानि यत्र | व्याकुला चेष्टा भूमिनिपातविवर्तिताद्यः | सात्त्वत्यारभटिकैशिकीहीन इति समाहारद्वन्द्वगर्भद्वन्द्वान्तरगर्भस्तृतीयासमासः | उत्क्रमणीया सृष्टिर्जीवितं प्राणायासां ता उत्सृष्टिकाः शोचन्त्यः स्त्रियस्ताभिरङ्कित इति तथोक्तः | वृत्तिभिरुत्सृष्ट्वा(दित्य)न्ये तदा द्वित्वं चत्रित्वमुद्देशस्यैकदेशेन | अयमङ्क इति निर्दिष्टो वृत्तानुरोधात् | इह च करुणरसबाहुल्याद् देवदेवैर्वियोगः रौद्रबीभत्सभयानकसंबन्धो दिव्ययोगे भवत्यपि न तु करुणयोगः | नन्वेवं देवानां युद्धान्यप्यनुचितमित्याशंक्य प्रसङ्गात्समवकारादौ देशविषोपयोगं दर्शयति दिव्यनायककृतमिति | तेषां भारतवर्षा वतीर्णानां युद्धादिकं प्रदर्शयेदित्यर्थः | अत्र राज्ञः पृच्छति कस्याद्भारत मिष्टमिति | अत्र प्रयोगे प्रतिवक्ति वर्षेष्वन्येष्विति देशत्वेन भोगभूमित्वेन विहितेष्वपीत्यर्थः | उपवनं गत्वा क्रीडा जलक्रीडादिकाः विहरणमुपवन एव सञ्चरणं नार्या सह रतिः संभोगः प्रमोदो दिव्यपानादिकृतम् | नन्वेवमिलावृतकुरुप्रभृतिषु वर्षेषु मा तेषां देवानां वृत्तं व्याख्यायि तथापि स्वनि- प्. ४४७) उपवनगमनक्रीडाविहारनारीरतिप्रमोदाः स्युः | तेषु हि वर्षेषु सदा न तत्र दुःखं न वा शोकः || ९९ || ये तेषामधिवासाः पुराणवादेषु पर्वताः प्रोक्ताः | सम्भोगस्तेषु भवेत्कर्मारम्भो भवेदस्मिन् || १०० || प्रहसनमपि विज्ञेयं द्विविधं शुद्धं तथा च सङ्कीर्णम् | (अङ्कस्य लक्षणमिदं व्याखयतमशेषयोगमात्रगतम् || प्रहसनमतःपरमहम् सलक्षणं संप्रवक्ष्यामि |) वक्ष्यामि तयोर्युक्त्या पृथक्पृथग्लक्षणविशेषम् || वासेषु व्यावर्ण्यतामित्यत आह ये तेषामधिवासा इति वसन्ति तेष्विति वासाः | पर्वता इति कैलासादयः संभोग इति सा हि तेषां भूमिः भोगस्थानं तस्मिन्निति भारतवर्षे कर्मारम्भः आरम्भग्रहणेनेदमाह न तेषां दुःखं पूर्णं कदाचिद्भवति | दुःखपूर्णतायां देवत्वस्यैव विघातानवस्थानप्ताप्त्या स्वरूपलोप इति युक्तमुक्तम् | करुणरसबाहुल्यादुत्सृष्टिकाङ्कैः दिव्यैर्वियोग एव तेषां सुखबाहुल्यात्तत्सन्निधाने अन्यस्यापि शोकावसरपराकृतेरिति गाढदुःखाभिभूता एवंभूतप्रयोगदर्शने सति दुःखी दुःखाधिकान् पश्येदिति नीत्या प्रतनूभूतदुःखभाराः सुखेन विनेया भवन्ति यथोक्तं प्राक् स्यैर्यं दुःखार्दितस्य च (१-१११) इत्युत्सृष्टिकाङ्कप्रयोगः | एवं रञ्जनप्रधानेन करुणेन युक्तं रुपकमभिधाय रञ्जनाप्रधानं हास्यप्रायं प्रहसनं लक्षयति विभागमुखेन प्रहसनमपि विज्ञेयमिति द्विविधमिति | विभागः शुद्धं सङ्कीर्णं चापीति | अपिशब्दोऽतिक्रमः तथेति सामन्यलक्षणम् | तदयमर्थः द्विविधमपि तथा प्रहसनरूपं हास्यरसप्रधानमित्यर्थः | लक्षणविशेषं विशेषलक्षणम् | भगवत्तापसविप्राः यतिवानप्रस्थ- प्. ४४८) भगवत्तापसविप्रैरन्यैरपि हास्यवादसंबद्धम् | कापुरुषसंप्रयुक्तं परिहासाभाषणप्रायम् || १०३ || अधिकृतभाषाचारं विशेषभावोपपन्नचरितपदम् | नियतगतिवस्तुविषयं शुद्धं ज्ञेयं प्रहसनं तु || १०४ || वेश्या चेटनपुंसकविटधूर्ता बन्धकी च यत्र स्युः | अनिभृतवेषपरिच्छदचेष्टितकरणैस्तु संकीर्णम् || गृहस्थाः अन्ये शाक्यादयस्तैरुपलक्षितम् | हास्यप्रधानवचनसंबन्धशीलनादिना कुत्सितैः पुरुषैरत एव प्रहस्यमानैः सामर्थ्यात्तैरेव भगवदादिभिर्युक्तम् | तथापि च भाषाचारौ यत्र न विकुतावसत्याश्लीलरूपौ तथा विशेषेण भावैः व्यभिचारिभिरुपपन्नानि पदानि कथाखण्डानि यस्मिन् | नियतगतिः एकप्रचारं यद्वस्तु तद्विषयः प्रहसनीयलक्षणो यत्र तच्छुद्धं प्रहसनम् | अत्र निर्विचनं यतः परिहासप्रधानान्याभाषणान्यत्र बाहुल्येन भवन्ति तेन यत्रैकस्यैव कस्यचित् चरितं दुष्टत्वात्प्राधान्येन प्रहस्यते तच्छुद्धमित्यर्थः | यत्र तु वेश्यादिभिर्योगोऽत्युल्वणं चाकल्पादि तदेकद्वारेणानेकवेश्यादिचरितेन हसनीयेन सङ्कीर्णत्वात् सङ्कीर्णम् | अन्ये त्वाहुः - येषां स्वभावत एव चरितं शिष्टमध्ये सभ्येतरतमत्वेन प्रहसनार्हं तदविशुद्धत्वात्सङ्कीर्णम् तद्योगाच्च रूपकम् | ये तु स्वभावतो न गर्हिता भगवत्तापसादिचेष्टाविशेषास्तेषां प्राकृतपुरुषसंक्रान्तिदौरात्म्योदितामन्यसंबन्धदूष्यमाणतया प्रहसनीयतां यातास्ते स्वभावशुद्धाः प्. ४४९) लोकोपचारयुक्ता या वार्ता यश्च दम्भसंयोगः | स प्रहसने प्रयोज्यो धूर्तप्रविवादसम्पन्नः || १०६ || वीथ्यङ्गैः संयुक्तं कर्तव्यं प्रहसनं यथायोगम् | भाणस्यापि तु लक्षणमतःपरं संप्रवक्ष्यामि || १०७ || आत्माउभूतशंसी परसंश्रयवर्णनाविशेषस्तु | तद्योगाद्रूपकं शुद्धमिति | उभयसाधारणीमपि कवेः शिक्षामाह लोकोपचारेति | वार्ता प्रसिद्धिर्यदि सा लोकव्यवहारसिद्धा भवति यथा शाक्यानां स्त्रीसंपर्कः प्रहसनीयो भवति न चौर्यम् | एवंभाविप्रसिद्ध एवोपहसनीयः | अत्राधिकरणं स्वयमेवाह धूर्तप्रविवादेति | धूर्ताः कृत्रिमतापसादयः विटादयश्च | तद्विषये यः प्रकृष्टो विवादः विरुद्धतयावभासस्तेन फलभूतेन संपाद्यतया यदुक्तं र्पहस्यमानं तथाभूतचरितावलोकनेन हि संस्कृतमिति व्युत्पाद्यो न भूयस्तान्वञ्चकानुपसर्षतीति | वीथ्यङ्गैरिति वक्ष्यमाणैः यथायोगमिति तेषां संप्रयोगे संख्यायाः क्रमस्य तु न कश्चिन्नियम इति दर्शयति | प्रहसनस्याङ्कनियमानभिधानात् शुद्धमेकाङ्कं सङ्कीर्णं त्वनेकाङ्कं वेश्यादिचरितसंख्यावलादिति केचित् | अन्ये त्वेकाङ्कप्रकरणमध्यपातित्वादेकाङ्कमिति मन्यन्ते प्रथमसंख्ययतिक्रमे भेदाभावपरित्यागे च प्रमाणाभावात् | अथ हास्यरसोचितविटधूर्ताद्यनुप्रवेशेन समानयोगक्षेमं भाणं लक्षयितुमाह आत्मानुभूतशंसीति | एकेन पात्रेण हरणीयः समाजिकहृदयं प्रापयितव्योऽर्थो यत्र स भाणः | एकमुखेनैव भाण्यन्ते उक्तिमन्तःक्रियन्ते अप्रविष्टा अपि पात्रविशेषा यत्रेति भाणः | तत्र स प्रविष्टः पात्रविशेषः प्. ४५०) विविधाश्रयो हि भाणो विज्ञेयस्त्वेकहार्यश्च || १०८ || परवचनमात्मसंस्थं प्रतिवचनैरुत्तरोत्तरग्रथितैः | आकाशपुरुषकथितैरङ्गविकारैरभिनयैश्चैव || १०९ || धूर्तविटसंप्रयोज्यो नानावस्थान्तरात्मकश्चैव | एकाङ्को बहुचेष्टः सततं कार्यो बुधैर्माणः || ११० || (भाणस्यापि हि निखिलं लक्षणमुक्तं तथागमानुगतम् | वीथ्याः संप्रति निखिलं कथयामि यथाक्रमं विप्राः) || आत्मानुभूतं वा शंसति परगतं वा वर्णयति | तत्र च प्रयोगप्रयुक्तिमाह परवचनमिति | परसन्धिवचनं स्वयमङ्गविकारैरभिनयेत् | ननु तत्परवचनमयुक्तं कथमभिनयेत् आह आकाशे शून्ये यानि पुरुषकथितानि दृष्टानि यत्र शून्ये तेन वर्ण्यन्ते वा कश्चित्पश्यत्याकर्णयति च तत्र च तद्वचनं स एवानुवदन् सामाजिकान् बोधयति | यथा भो वाडव अले किं ब्रवीषि इत्यादौ न केवलं परवचनमभिनयेत् किन्तु प्रतिवचनैः स्वोक्तैः सह अत एवोत्तरोत्तरग्नथितैः योजनाभिरुपलक्षितैः | ननु योऽसावेकोऽत्र प्रविशति स क इत्याह धूर्तविटेति | नानाप्रकारावस्थाविशेषात् लोकोपयोगिव्यवहारात्मकात्मा वाच्यं यस्य अत एव बहुचेष्टः सततं कार्य इति सकलसामान्यपृथग्गतोपयोग्यस्तु लोकव्यवहारो वेश्याविटादिवृत्तान्तात्मा निरूप्यत इति बाहुल्येन पृथग्जनव्युत्पत्तियोनिरूपकमिदं राजपुत्रादीनामपि शंभलीवृत्तान्तो ज्ञेय एवावञ्चनार्थमिति संप्रयोज्य इत्यर्थः | इदमिह मीमांस्यं - य एते उत्सृष्टिकादयो रूपकभेदाः ते तावदेकरसा एव यद्यपि नाटकादयोऽप्येवमेव | तथाहि सर्वरसयोग्यतायामपि नाटके प्रकरणे प्. ४५१) रणे च धर्मार्थादिवीरे एव प्रधानं परमार्थतः सर्वेषु नायकभेदेषु वीरत्वानुगमदर्शनात् | समवकारे तु यद्यपि हि शृङ्गारादित्वमुक्तं तथापि वीर एव प्रधानं रौद्रो वा डिमव्यायोगयोरप्येवम् | ईहामृगेऽपि रौद्रप्राधान्यमेव नाटिकायां तु शृङ्गार एव प्रधानम् | एवं तावद् वीररौद्रशृङ्गारा यथास्वं (किं)पुमर्थत्रयप्राणभूतत्वेन वर्तमाना एतेषु प्रयोगेषु शान्तवीभत्सरसौ तु चरमपुमर्थयोगात्तत्र च सर्वस्य नाधिकारोऽपि कस्यचिदपश्चिमजन्मनोऽधिकारान्नाटके यद्यपि तत्फलप्रधानतया प्राधान्यमवलम्बेयातां तथापि नासौ प्रचुरप्रयोग इति तयोः पुरुषार्थप्रवरप्राणितयोरपि वीरादिरसान्तराध्यावापेनावस्थापनम् | एवं तावत्पुमर्थविषयो रूपकरसविषय एव परमार्थतः तथापि त्वीवृत्तवैत्याद्रसान्तरप्रयोगोऽपि तदङ्गतया तत्र भवति | एवं तत्प्रधानचेष्टायोगाद्वृत्तिवैचित्र्यमत्रोचितमेव | उत्सृष्टिकाङ्कप्रहसनमाणास्तु करुणहास्यविस्मयप्रधानत्वाद् रञ्जकरसप्रधानाः तत एवात्र स्त्रीवालमूर्खादिरधिकारी | न च विततमत्रेतिवृत्तम् इतिवृत्तवैचित्र्यमपि तत्र नास्ति | तथाहि - उत्सृष्टिकाङ्के तु वृत्तित्रयं तावद्वचसा निषिद्धं भारती चात्र कथं वृत्तिः चेष्टा हि करुणेऽप्रधानं तदुपकरणं तु परिदेवितात्मिका भारती तस्मात् फलसंवित्त्याख्या वृत्तिः वाक्चेष्टयोः फलानुभव इति यस्या लक्षणं साभ्युपगन्तव्या | अवश्यं चैतत् अन्यथा मूर्छामरणादौ वाक्चेष्टयोरभावे निर्वृत्तिकतैव स्यात् | किञ्च यदि तावत्पुमर्थकामोद्देशेन कैशिक्यभिधीयते धर्ममर्थं चोद्दिश्य वृत्तिद्वयं वक्तव्यम् | तस्माच्चेष्टात्मिका न्यायवृत्तिरन्यायवृत्तिर्वाग्रूपा तत्फलभूता फलसंवित्तिरिति वृत्तित्रयमेव युक्तमिति भट्टोद्भटो मन्यते | यदाह - आद्ये वाक्चेष्टाभ्यां पुरुषार्थचतुषयेन चाष्टविधे | षोडशधा फलवृत्तिस्तद्द्वयतोऽनेकधा तु रसभेदात् || इति | तदत्र केचिदाहुः - सात्त्वत्यां यद्यपि कैशिकी शक्यान्तर्भावा तथापि रञ्जकत्वातिशयात् पृथगुपात्ता(त्)स्वरवन्मुखजाभिनयतश्च न चान्यायवृत्तौ (वृत्तित्वं) पुमर्थचतुष्कयोगोपपत्तिविप्रतिषेधात् फलवृत्तौ च वृत्तिसामान्यलक्षणं व्यापाररूपत्वं यदि नास्ति तत्कथं वृत्तित्वम् | अस्तिचेद्वाक्चेष्टातिरिक्तो मानसो व्यापारो न कश्चित् लोकसिद्ध इति सूक्ष्मो वाक्चेष्टागत एवोपेत्यः | ततश्च मरणमूर्छादावपि प्राणात्मकायीयव्यापारसंभव एव यदनुस्मरणे लयतालगानानि प्रवर्तन्ते संवेदनमपि च मूर्छादौ नास्तीति शक्यं वक्तुमिति फलवृत्ति- प्. ४५२) सर्वरसलक्षणाढ्या युक्ता ह्यङ्गैस्त्रयोदशभिः | रपि तत्र कथं | तस्मात्तत्र सात्त्वत्येव वृत्तिः | यदि बाहुल्यापेक्षया वृत्तिमयं काव्यमिति व्यवहारो रूपकसमुदायापेक्षया खण्डस्यावृत्तिकत्वेऽपि समुदितस्य रूपकस्य वृत्तिमयत्वात् | यच्छकलीबर्घमतानुसारिणो मूर्छादावात्मसंवित्तिलक्षणां पञ्चमीं वृत्तिं सकलकार्यनिवृत्त्यनुमेयां मूर्छाकर्मानुभावेन च फलेनावच्छिन्नामात्मव्यापाररूपां मन्यन्ते न च परिस्पन्द एवैको व्यापार इति मनसिकृत्य तन्मतं भावानां वाह्यग्रहणस्वभावत्वमुपपादयद्भिः भट्टलोल्लटप्रभृतिभिः पराकृतमिति न फलवृत्तिर्वा काचिदिति चतस्र एव वृत्तयः (इति) | वयन्तु ब्रूमः | कोऽयमस्थानसन्त्रासः | यत्किञ्चिदिह नाट्ये समस्ति तच्चेद्वृत्तिष्वन्तर्भाव्यं तदाभवैदेतत् - न चैवम् | रङ्गो हि नाम का वृत्तिः मृदङ्गपणववंशाद्या का वृत्तिरपि हि भवेत् | तस्माद्व्यापारः पुमर्थसाधको वृत्तिः स च सर्वत्रैव वर्ण्यत इत्यतो वृत्तयः काव्यस्य मातृका इति न हि किञ्चिद्व्यापारशून्यं वर्णनीयमस्ति | मदमूर्छादिवर्णानायामपि मनोव्यापारस्य सात्त्वत्याख्यस्य संभवात् करुणदावपि च मनोदेहव्यापारसंभवेऽपि बाहुल्येन वाग्व्यापारसंभवाद् भारतीवृत्तिरुच्यते | वृत्त्यन्तरनिषेधस्तु तदङ्गानामपरिपूर्णत्वात् | न च कायवाङ्मनसव्यापारं तद्वैचित्र्यं वान्तरेणान्यः कश्चिद्व्यापारः संभवतीत्यसकृदुक्तम् | तस्मात्करुणप्रधाने भारती वृत्तिः परिदेवितबाहुल्यात् | यत्तु शृङ्गारहास्यकरुणैरिह कैशिकी स्यात् इति कोहलेनोक्तं तन्मुनिमतविरोधादुपेक्ष्यमेव तस्य तु यत्र यत्रानुल्बणा चित्तवृत्तिः सा सा कैशिकीत्याशयः | एवं प्रहसनभाणयोरपि वाग्व्यापारप्राधान्यादेव भारतीवृत्तिः मूर्छादौ तु व्यापाराभावे वृत्त्यभाव एव | न हि सर्वं नाट्यं वृत्तिब्रह्मतया समर्थनीयमित्यलमतिप्रसक्त्या | अथ सर्वान्ते सर्वरसमयत्वादवितस्वभावत्वाच्च संक्षेपेण शक्यव्युत्पत्तिदायिनीत्वेन प्रधानभूतत्वात्तदङ्गानां च नाटिकादिभाणान्तस- प्. ४५३) वीथी स्यादेकाङ्का तथैकहार्या द्विहार्या वा || ११२ || अधमोत्तममध्याभिर्युक्ता स्यात्प्रकृतिभिस्त्रिसृभिः | उद्घात्यकावलगितावस्पन्दितनाल्यसत्प्रलापाश्च || वाक्केल्यथ प्रपञ्चो मृदवाधिबले छलं त्रिगतम् | व्याहारो गण्डश्च त्रयोदशाङ्गान्युदाहृतान्यस्याः || अथ वीथी संप्रोक्ता लक्षणमेषां प्रवक्ष्यामि | पदानि त्वगतार्थानि ये नराः पुनरादरात् || ११५ || योजयन्ति पदैरन्यैस्तदुद्धात्यकमुच्यते | मस्तरूपकोपजीव्यत्वाद् वीथीं लक्षयति | एकहार्यैरित्याकाशपुरुषभाषितैरित्यर्थः | द्विहार्येति उक्तिप्रत्युक्तिविचित्र्येणेत्यर्थः | अङ्गान्युद्दिशति - उद्घात्यकावलगितावस्पन्दितनाल्यसत्प्रलापाश्च | वाक्केल्यथ प्रपञ्चो मृदवाधिवले छलं त्रिगतम् | व्याहारो गण्डश्च त्रयोदशाङ्गान्युदाहृतानीति | इत्युदाहरणमात्रमेतदिति यावत् | एतानि क्रमेण लक्षयति पदानि त्वगतार्थानीति | प्. ४५४) यत्रान्यस्मिन् समावेश्य कार्यमन्यत्प्रसाध्यते || ११६ || तच्चावलगितं नाम विज्ञेयं नाट्ययोक्तृभिः | नन्वेषामुक्तिवैचित्र्यरूपत्वं चेल्लक्षणालङ्कारादिभ्यः को भेद इतिवृत्तोपकरणरूपत्वे तु सन्ध्यङ्गेभ्यः कथमन्यतो रसोपकरणतायां वृत्त्यङ्गेष्वन्तर्भावः | न चैतद्व्यतिरिक्तम् एषां सामान्यलक्षणमस्ति | तत्र केचिदुक्तलक्षणादिविशेषरूपत्वमेवैषां प्रतिपन्नाः विवेचकास्तु तद्व्यतिर्क्तान्येवैतानीत्याहुः | तथाहि प्रश्नप्रतिवचनयारेन्याभिप्रायरूपेण योगेन यद्वैचित्र्यं तद्वीथ्यङ्गम् अत एवोदाहृतानीत्येषां सामान्यालक्षणम् | उदाहृतानि प्रतिवचनानीत्यर्थः | तानि च सर्वाणि प्रतिवचनशून्यस्य काव्यस्याभावात् तेन विचित्राणीति लभ्यन्ते | अत एव वीथी पङ्क्तिरन्योत्तरासहिष्णुत्वात् विचित्रोक्तिप्रत्युक्तिगर्भत्वाल्लक्षणालङ्कारादीनां तु नोक्तिनियतं रूपमिति विशेषः | तत्र यदा विवक्षितमुत्तरं दातुं शक्तो.यं स्यादिति यन्मम मनसि वर्तते तदेव वक्ति नवेत्येवमादिना निमित्तेन यदा प्रष्टैव प्रतिवचनं वैचित्र्यमभिसन्धाय पृच्छति प्रतिपक्तोचितमभिधत्ते तदा तदुत्तरमुद्घात्यकम् | प्रश्नात्मके उद्घाते साध्विति यत् तत्राज्ञातार्थे कन् | पदान्यर्थगतानि प्रश्नरूपाण्यादरात्कृतानि पर्यायैः पदान्तरैरुत्तररूपैः नराः सुधियो योजयन्ति | तदुत्तरपदसमूहात्मकमुद्घात्यकम् | यथा पाण्डवानन्दे - का भूषा बलिनां क्षमा परिभवः कोऽयं सकुल्यैः कृतः किं दुःखं परसंश्रयो जगति कः श्लाघ्यो य आश्रीयते | को मृत्युर्व्यसनं शुचं जहति के यैर्निर्जिताः शत्रवः कैर्विज्ञातमिदं विराटनगरे च्छन्नस्थितैः पाण्डवैः || यत्रान्यस्मिन्निति | यत्रोत्तरे दीयमाने अन्यानुसन्धानपूर्वकेऽप्यन्यत्कार्यं सिध्यति तदान्यकार्यावलगनादवलगितम् | यथा अवि सुहा-अदि दे लो-अणाणामिति विदूषकेण पृष्टे (राज्ञः) सुखयतीति किमुच्यते इति कृच्छ्रेणोरुयुग मित्याद्युत्तरं वसन्तकप्रत्यायनोद्देशेन प्रवृत्तमपि सागरिकागतमास्थाव- प्. ४५५) आक्षिप्तेऽर्थे तु कस्मिन्श्चिच्छुभाशुभसमुत्थिते || कौशलादुच्यतेऽन्योऽर्थस्तदवस्पन्दितं भवेत् | हास्येनोपगतार्थप्रहेलिका नालिकेति विज्ञेया || ११८ || मूर्खजनसन्निकर्षे हितमपि यत्र प्रभाषते विद्वान् | न्धजीवितं मुख्यं शृङ्गाराख्यं कार्यं साधयतीति | आक्षिप्ते त्विति | शुभाशुभं दैवं तेनाबुद्धिपूर्वकं कुत्रचिचर्थे आक्षिप्तेऽपि कौशलात्तत्तत्प्रच्छादनेच्छया यत्रोत्तरोऽन्योऽर्थ उच्यते तदवस्पन्दितं चक्षुःस्पन्दनादिवदन्तर्गतसूचनीयसंभवात् | यथा - सत्पक्षा मधुरगिरः प्रसाधिताशा मदोद्धतारम्भाः | निपतन्ति धार्तराष्ट्राः कालवशान्मेदिनीपृष्ठे || अत्र दिअववशादयमर्थ आयातः सत्पक्षे अमधुरागीर्येषान्ते तथा प्रकर्षेण साधिताः आधिसहिताः यैर्दिशः कृताः धृतराष्ट्रात्मजाः पतन्तीति | तत्रोत्तरं प्रतिहतममङ्गलम् | पुनः सूत्रधारः ननु शरत्समयवर्णनया हंसा नभस्तलं धार्तराष्ट्रा इति व्यपदिशामीत्यादि अवस्पन्दितत्वमेव सूचयति न खलु न जाने किन्त्वमङ्गलत्वात् शङ्कितमेव मे हृदयमिति | हास्येनोपगतार्थेति प्रहेलिका परवितारणकारि यदुत्तरं अत एव हास्ययुक्ता सा नालिका प्रणालिका व्याजेत्यर्थः | प्रकर्षेण हेलिका नर्मादिक्रीडारूपं यस्याः सा प्रहेलिका | यथा - सुसंगता जस्य किदे तुमं आ अदा सो एत्थ एव्व चिट्ठदि | सागरिका सहि कस्स किदे | सुसङ्गता (सहासम्) अ इ अप्पसङ्कीदेणं चित्तफल अस्स | अनया भङ्ग्या आच्छादितं च गर्भगतं चास्य वस्त्विति | मूर्खजनसन्निकर्ष इति यदुत्तरं मूर्खं प्रति वस्तुतो हितमपि शब्दच्छलाद्यथा प्रियं तादृशं च मूर्खैः प्रियांशेन न तु हितांशेन | तथाभूतभङ्गीभूत- प्. ४५६) न च गृह्यतेऽस्य वचनं विज्ञेयोऽसत्प्रलापोऽसौ || एकद्विप्रतिवचना वाक्केली स्यात्प्रयोगेऽस्मिन् | यदसद्भूतं वचनं संस्तवयुक्तं द्वयोः परस्परं यत्तु || एकस्य चार्थहेतोः स हास्यजननः प्रपञ्चः स्यात् | द्वयाश्रयणं च सिद्धत्त्वात्करोति | एवं हि तात्कालिकः कोपोऽपि रक्षितो भवति प्रियाभिधायित्वात् कालान्तरसंभाव्यश्च यथार्थाभिधायित्वात् यथाव्यसनिना राजपुत्रेण किंसुखमिति पृष्ठे तेनोत्तरं दीयते - सर्वथा योऽक्षविजयी सुरासेवनतत्परः | तस्यार्थानां सुखानां च समृद्धिः करगामिनी || असतोऽसाधुभूतस्य वस्तुनः प्रलपनमस्मिन्नित्यसत्प्रलाप इति | एकद्विप्रतिवचनेति | एकं द्वयोः प्रतिवचनमस्याम् | द्विग्रहणमनेकोपलक्षणम् | तदमुना सर्वप्रश्नोत्तरवर्गः स्वीकृतः | यथा - नदीनां मेघविगमे का शोभा प्रतिभासते | बाह्यान्तरा विजेतव्याः के नाम कृतिनोऽरयः || यदसद्भूतमिति यथा रत्नावल्याम् सुसङ्गते कथमहमिहस्थो भवत्या ज्ञात इति राजन्युक्तवति सुसङ्गतयोच्यते ण केवलं भट्टा चित्तपलहेण ता देवी ए णिवेद इस्सं इत्यादौ आभरणदानपर्यन्ते प्रपञ्चः | तथाहि - द्वयोः सागरिकासुसङ्गतयोः राजविदूषकयोः परस्परसंबन्धमाश्रित्यासद्भुतुअमसत्यं देव्यै निवेदयामीत्युक्तम् | संस्तवश्च तत्रास्ति भट्टिणो पसादेण किमिदं म ए इति हास्यमपि परिहासरूपं विद्यते | एकस्य च राज्ञोऽर्थे प्रयोजने सागरिकासङ्गमे हेतुर्भवत्येवेति अन्यथाभिधानात्प्रपञ्चः | प्. ४५७) यत्कारणाद्गुणानां दोषीकरणं भवेद्विवादकृतम् || दोषगुणीकरणं वा तन्मृदवं नाम विज्ञेयम् | परवचनमात्मनश्चोत्तरोत्तरसमुद्भवं द्वयोर्यत्तु || अन्योन्यार्थविशेषकमधिबलमिति तद्बुधैर्ज्ञेयम् | अन्यार्थमेव वाक्यं छलमभिसन्धानहास्यरोषकरम् | यत्कारणादिति गुणानां दोषत्वं दोषाणां वा गुणत्वं यत्र क्रियते तन्मृदवम् | विवादकृतमित्यनेन लक्षणाद्विशेषमाह इदं वृत्त्यन्तरं स्वभावमित्यर्थः यथा शिरः श्वा काको वा द्रुपदतनयो वा परिमृशेत् (वेणी ३) इत्यत्र दोषस्य गुणीकरणं विवादाकर्णनेन सह यदि शस्त्रमुज्ज्ञितमशस्त्रपाणयः (वेणी-३) इत्यत्र कर्णवचनेन प्रतिज्ञातपरिपालनस्य गुणस्यापि दोषीकरणं विवादकृतमेव | मृदवमिति मर्दनं मृत्परपक्षमर्दनेन स्वपक्षमवति रक्षतीति | परवचनमात्मनश्चेति परस्य वचनमात्मनश्च वचनं परस्परमर्थविशेषलाभो यत्र भवतीत्युत्तरोत्तरस्याधिकाधिकस्यार्थस्य समुद्भवो यत्र तदधिबलम् | एतदुक्तं भवति - यत्रोक्तिप्रत्युक्तिक्रमे क्रियमाणे परस्परप्रज्ञानोपजीवनबलात्स्वपक्षसुघटितादधिबलसंबन्धादधिबल म् | यथा नागानन्दे रागस्यास्पदमित्यवै मीत्यादित आरभ्य विदूषकेण सहोक्तिक्रमेण स्वपक्षो द्रढिमानमानीतो यावदाह ननु शरीरतः प्रभृतिसर्वमेव मया परार्थं प्रतिपाल्यते (अ-१) इति अन्यार्थमेव वाक्यमिति यद्वाक्यं प्रयोजनान्तरमुद्दिश्य वचनमुच्यमानं कस्यचिद्वचनमन्यस्य हास्यमपरस्य रोषं जनयति तच्छलम् | यथा- कस्स व ण हो-इ रोसो दट्ठूण पि आ ए सव्वणं अहरम् | सब्भमरपदुमघा इरि वारि अवामे सहसु एह्णिम् || प्. ४५८) श्रुतिसारूप्याद्यस्मिन् बहवोऽर्था युक्तिभिर्नियुज्यन्ते | यद्धास्यमहास्यं वा तत्त्रिगतं नाम विज्ञेयम् || प्रत्यक्षवृत्तिरुक्तो व्याहारो हास्यलेशार्थः | संरम्भसंभ्रमयुतं विवादयुक्तं तथापवादकृतम् || बहुवचनाक्षेपकृतं गण्डं प्रवदन्ति तत्त्वज्ञाः | एतद्वचनं सखीसंबन्धि भर्तृप्रत्यायनं प्रयोजनमुद्दिश्य प्रयुक्तं तस्य पत्न्या अपि संबन्धिनां छलं विदग्धजनस्य हास्यं सपत्न्या वचनं रोषं जनयति | श्रुतिसारूप्यादिति शब्दसारूप्याद् बहव इति प्रश्नप्रतिवचनस्य स्वभावा यत्र नियुज्यन्ते युक्तिभिरिति काक्कादीनां तथैवोपपत्तिभिः | त्रिशब्दोऽनेकोपलक्षणम् अनेकमर्थं गतमिति त्रिगतं वाक्ये मुख्यमुत्तरमनेकप्रश्नसाधारणम् | इह तु य एव प्रश्नस्तदेव प्रतिवचनमिति विशेषः | यथा - सर्वक्षितिभृतां नाथ दृष्टा सर्वाङ्गसुन्दरी | रामा रम्ये वनान्तेऽस्मिन् त्वया विरहिता मया || (विक्रमो) अत्रैतदेवोत्तरं साकांक्षाकाकुप्रयोगेऽपि प्रतिबिम्बे वामदक्षिणवैपरीत्यवन्निराकांक्षा काकुः संवृत्ता यत एतद्धास्यम् | एवमहास्य उदाहार्यम् | प्रत्यक्षवृत्तिरिति प्रत्यक्षशब्देन भावी प्रत्यक्ष उच्यते | तदयमर्थः - भाविनि प्रत्यक्षेऽर्थे दैववशाद् वृत्तिर्यस्य स व्याहारः विविधोऽर्थोऽभिनीयते येन | यथा उद्दामोत्कलिकां (रत्ना-२) इत्यादि | संरम्भसंभ्रमयुतमिति संरम्भेणाकृतिविशेषेण यः संभ्रम आवेगः तद्युक्तं यद्विरुद्धवस्तु यदनेन कृतं पूर्वोक्तवस्त्वपवदनमेव च तद्वचनं दृष्टार्थगर्भत्वात् गण्ड इव गण्डः ईषदसमाप्तं वचनं बहुवचनं तत्कृतेनाक्षेपेण कृतं स्वयं प्रतिवचनतां पूर्ववचनस्य गतमित्यर्थः | तथा च कोहलः - प्. ४५९) इति दशरूपविधानं सर्वं प्रोक्तं मया हि लक्षणतः || २२६ || पुनरस्य शरीरगतं सन्धिविधौ लक्षणं वक्ष्ये || वचसां संबद्धानामन्ते यत्स्यात्पदे त्वसम्बन्धः | संबद्धमिवाभाति हि तद्गण्डो नाम वीथ्यङ्गम् || अनेनेषदसमाप्तिरेव दर्शिता | यथा दुर्योधनेन भानुमती प्रत्युच्यते - अध्यासितुं तव चिराज्जघनस्थलस्य पर्याप्तमेव करभोरु ममोरुयुग्मम् || (वेणी) इति | तत्र प्रविश्य कञ्चुकी भग्नं भीमेन मरुता भवतो रथकेतनम् || इति | तत्रोरुयुग्ममिति पूर्वविश्रान्तमपि भग्नमित्यत्र संबन्धयोग्यं जातम् | एतैः त्रयोदशभिरङ्गैर्युक्ता वीथी तस्याश्च सर्वरसत्वस्याभिधानात् पर्यायेण रसाना प्राधान्यादुत्तमो मध्यमोऽधमो वा नायको भवत्येव | तथा च कोहलः - उत्तमाधममध्याभिर्युक्ता प्रकृतिभिस्तथा | एकहार्या द्विहार्या वा सा वीथीत्यभिसंज्ञिता || इति | अधमप्रकृतेस्तु न नायकत्वमिति ध्रुवं प्रहसनकभाणकादौ किं ब्रूयत् हास्यादिरसप्रधानत्वे ह्यधम एव नायकः | कथाशरीरफलेन प्रधानतया संबध्यमानो नायक उच्यते | अनायकत्वेऽपि चास्याधमत्वं नानुपादेयं स्यात् | परिवारतया तस्यानुप्रवेशो ह्यनिवारित एव सर्वत्र | अध्यायार्थमुपसंहरन् भाविनमर्थमनुसन्धत्ते इति दशरूपविधानमिति | लक्षणत इत्यनेनेदमाह दशैव तानि लक्षणानि उदाहरणानां तु का गणना | एतच्च पूर्वमेव दर्शितम् | तत्रैषां पुमर्थोपयोगो निजनिजलक्षणावसरे दर्शित एवेति औनरुक्त्यं नाश्रीयत इति शिवम् | प्. ४६०) इति भारतीये नाट्यशास्त्रे दशरूपनिरूपणं नामाध्यायोऽष्टादशः समाप्तः इति विमलशिशिरदीधितिकलितशिरोमण्डनाङ्घ्रिदास्यचणः | अभिवनगुप्तो गुप्तं दशस्वरूपं सतत्त्वकं व्यवृणोत् || इति श्रीमन्महामाहेश्वराभिनवगुप्ताचार्यविरचितायां नाट्यवेदविवृतावभिनवभारत्यां दशरूपकविधानं नामाष्टादशोऽध्यायः ########### END OF FILE #######